महायानसूत्रालंकार · अध्याय 10
निरूपमसुक्लधर्मयोगात् स्वार्थसंपत्तितः । हितसुखहेतुत्वाच्च बुद्धत्वस्य परार्थसंपत्तिः । अनवद्योत्कृष्टाक्षयसुखाकरत्वाच्च सुखविहारो विशेषतः । बुद्धिमानहीनबोधिचित्तमादातुं तत्प्रणिधानपरिग्रहात् ।
॥ महायानसूत्रालंकारे बोध्यधिकारो नवमः ॥
दशमोधिकारः
उद्दानम् ।
आदिः सिद्धिः शरणं गोत्रं चित्ते तथैव चोत्पादः ।
स्वपरार्थस्तत्वार्थः प्रभावपरिपाकबोधिश्च
एष च बोध्यधिकार आदिमारभ्य यावत् बोधिपटलानुसारेणानुगन्तव्यः ।
अधिमुक्तिप्रभेदलक्षणविभागे श्लोकौ ।
जाता-जाता ग्राहिका ग्राह्यभूता मित्रादात्ता स्वात्मतो भ्रान्तिका च ।
अभ्रान्तान्या आमुखा नैव चान्या घोषाचारा चैषिका चेक्षिका च
जाता अतीतप्रत्युत्पन्ना । अजाता अनागता । ग्राहिका आध्यात्मिका[की] ययालम्बनमधिमुच्यते । ग्राह्यभूता बाह्या याना[मा] लम्बनत्वेनाधिमुच्यते । मित्रादात्ता औदारिकी । स्वात्मतः सूक्ष्मा । भ्रान्तिका हीना विपरीताधिमोक्षात् । अभ्रान्तिका प्रशान्ता [प्रणीता] । आमुखा अन्तिके समवहितप्रत्ययत्वात् । अनामुखा दूरे विपर्ययात् । घोषाचारा श्रुतमयी । एषिका चिन्तामयी । ईक्षिका भावनामयी प्रत्यवेक्षणात् ।
हार्या कीर्णाव्यावकीर्णा विपक्षैर्हीनोदारा आवृतानावृता च ।
युक्तायुक्ता संभृतासंभृता च गाढं विष्टा दूरगा चाधिमुक्तिः
हार्या मृद्वी । व्यवकीर्णा मध्या । अव्यवकीर्णा विपक्षैरधिमात्रा । हिनान्ययाने । उदारामहायाने । आवृता सावरणा विशेषगमनाय । अनावृता निरावरणा । युक्ता सातत्यसत्कृत्यप्रयोगात् । अयुक्ता तद्विरहिता । संभृताधिगमयोग्या । असंभृता विपर्ययात् । गाढं विष्टा भूमिप्रविष्टा । दूरगा परिशिष्टासु भूमिषु ।
अधिमुक्तिपरिपन्थे त्रयः श्लोकाः ।
अमनस्कारबाहुल्यं कौशीद्यं योगविभ्रमः ।
कुमित्रं शुभदौर्बल्यमयोनिशोमनस्क्रिया
जाताया अमनसिकारबाहुल्यं परिपन्थः । अजातायाः कौशीद्यम्, ग्राह्यग्राहकभूताया योगविभ्रमः, तथैवाभिनिवेशात् । मित्रादात्तायाः कुमित्रम्, विपरीतग्राहणात् । स्वात्मतो ऽधिमुक्तेः कुशलमूलदौर्बल्यम् । अभ्रान्ताया अयोनिशो अमनसिकारः [मनसिकारः] परिपन्थस्तद्विरोधित्वात् ।
प्रमादो ऽल्पश्रुतत्वं च श्रुतचिन्ताल्पतुष्टता ।
शममात्राभिमानश्च तथापरिजयो मतः
आमुखायाः प्रमादः, तस्या अप्रमादकृतत्वात् । घोषाचाराया अल्पश्रुतत्वम्, नीतार्थसूत्रान्ताश्रवणात् । एषिकायाः श्रुतमात्रसंतुष्टत्वमल्पचिन्तासंतुष्टत्वं च । ईक्षिकायाश्चिन्तामात्रसंतुष्टत्वं शमथमात्राभिमानश्च । हार्याव्यवकीर्णयोरपरिजयः परिपन्थः ।
अनुद्वेगस्तथोद्वेग आवृत्तिश्चाप्ययुक्तता ।
असंभृतिश्च विज्ञेयाधिमुक्तिपरिपन्थता
हीनाया अनुद्वेगः संसारात् । उदाराया उद्वेगः अनावृतायाश्चावृतिः । युक्ताया अयुक्तता । संभृताया असंभृतिः परिपन्थः ।
अधिमुक्तावनुशंसे पञ्च श्लोकाः ।
पुण्यं महदकौकृत्यं सौमनस्यं सुखं महत् ।
अविप्रणाशः स्थैर्यं न विशेषगमनं तथा
धर्माभिसमयश्चाथ स्वपरार्थाप्तिरूत्तमा ।
क्षिप्राभिज्ञत्वमेते हि अनुशंसाधिमुक्तितः
जातायां प्रत्युत्पन्नायां पुण्यं महत् । अतीतायामकौकृत्यमविप्रतिसारात् । ग्राहिकायां ग्राह्यभूतायां च महत्सौमनस्यं समाधियोगात् । कल्याणमित्रजनितायामविप्रणाशः । स्वयमधिमुक्तौ स्थैर्यम् । भ्रा[अभ्रा]न्तिकायामामुखायां श्रुतमयादिकायां च यावत् मध्यायां विशेषगमनम् । अधिमात्रायां धर्माभिसमयः । हीनायां स्वार्थप्राप्तिः । उदारायां परार्थप्राप्तिः परमा । अनावृतयुक्तसंभृतादिषु शुक्लपक्षासु क्षिप्राभिज्ञत्वमनुशंसः ।
कामिनां सा श्वसदृशी कूर्मप्रख्या समाधिनाम् ।
भृत्योपमा स्वार्थिनां सा राजप्रख्या परार्थिनाम्
यथ श्वा दुःखार्तः सततमवितृप्तः क्षुधितको यथा कूर्मश्चासौ जलविवरके संकुचितकः । यथा भृत्यो नित्यमुपचकितमूर्तिर्विचरति । यथा राजा आज्ञाविषये वश[चक्र?]वर्ती विहरति ।
तथा कामिस्थातृस्वपरजनकृत्यार्थमुदिते
विशेषो विज्ञेयः सततमधिमुक्त्या विविधया ।
महायाने तस्य विधिवदिह मत्वा परमतां
भृशं तस्मिन् धीरः सततमिह ताभेव वृणुयात्
अपि खलु कामिनामधिमुक्तिः श्वसदृशी लौकिकसमाधिगतानां कूर्मप्रख्यास्वार्थवतां भृत्योपमा । राजप्रख्या परार्थवताम् । एतमेवार्थं परेणोपपाद्य महायानाधिमुक्तौ समादापयति ।
अधिमुक्तिलयप्रतिषेधे श्लोकाः[कः] ।
मनुष[ष्य]भूताः संबोधिं प्राप्नुवन्ति प्रतिक्षणम् ।
अप्रमेया यतः सत्त्वा लयं नातो ऽधिवासयेत्
त्रिभिः कारणैर्लयो न युक्तः । यतो मनुष[ष्य]भूता बोधिं प्राप्नुवन्ति । नित्यं प्राप्नुवन्ति । अप्रमेयाश्च प्राप्नुवन्ति ।
अधिमुक्तिपुण्यविशेषणे द्वौ श्लोकौ ।
यथा पुण्यं प्रसवते परेषां भोजनं ददत् ।
न तु स्वयं स भुञ्जानस्तथा पुण्यमहोदयः
सूत्रोक्तो लभ्यते धर्मात्परार्थाश्रयदेशितात् ।
न तु स्वार्थाश्रयाद्धर्माद्देशितादुपलभ्यते
यथा भोजनं ददतः पुण्यमुत्पद्यते परार्थाधिकारात् । न तु स्वयं भुञ्जानस्य स्वार्थाधिकारात् । एवं परार्थाश्रयदेशितात् महायानधर्मात्तेषु तेषु [महायान] सूत्रेषूक्तः पुण्योदयो महांल्लभ्यते । न तु स्वार्थाश्रयदेशितात् श्रावकयानधर्मात् ।
अधिमुक्तिफलपरिग्रहे श्लोकः ।
इति विपुलगतौ महोघ[महार्य]धर्मे जनिय [परिजनयन्?] सदा मतिमान्महाधिमुक्तिम् ।
विपुलसततपुण्यतद्विवृद्धिं व्रजति गुणैरसमैर्महात्मतां च
मूल पाठ: Mahāyānasūtrālaṃkāra · Edition: S. Bagchi: Mahāyānasūtrālaṅkāra of Asaṅga, Darbhaga 1960 [or a reprint of 2000?] (Buddhist Sanskrit Texts, 13). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0