भाषा

ENहिગુ
ग्रंथ पाठ

महायानसूत्रालंकार · अध्याय 1

1.1

महायानसूत्रालंकारः
॥ ओं ॥
नमः सर्वबुद्धबोधिसत्त्वेभ्यः
प्रथमो ऽधिकारः
अर्थज्ञो ऽर्थविभावनां प्रकुरुते वाचा पदैश्चामलै-
र्दुःखस्योत्तरणाय दुःखितजने कारुण्यतस्तन्मयः ।
धर्मस्योत्तमयानदेशितविधेः सत्त्वेषु तद्गामिषु
श्लिष्टामर्थगतिं निरुत्तरगतां पञ्चात्मिकां दर्शयन्

1.2

अर्थज्ञो ऽर्थविभावनां प्रकुरुते.........[इत्यादि] कोषदेशमारभ्य को ऽलंकरोति । अर्थज्ञः । कमलंकारमलंकरोति अर्थविभावनां कुरुते । केन वाचा पदैश्चामलैः । अमलया वाचेतिष........[पौर्यादिना] अमलैः पदैरिति युक्तैः सहितैरिति विस्तरः । न हि विना वाचा पदव्यञ्जनैरर्थो विभावयितुं शक्यत इति । कस्मै दुःखस्योत्तरणाय दुःखितजने कारुण्यतस्तन्मयः । दुःखितजने यत्कारुण्यं तस्मात्कारुण्यतस्तन्मय इति कारुण्यमयः । कस्यालंकारं करोति । धर्मस्योत्तमयानदेशितविधेः । उत्तमयानस्य देशितो विधिर्यस्मिन्धर्मे तस्य धर्मस्य । कस्मिन्नलंकरोति । सत्त्वेषु तद्गामिषु । निमित्तसप्तम्येषा.........[महायान]गामिसत्त्वनिमित्तमित्यर्थः । कतिविधमलंकारं करोति । पञ्चविधम् । श्लिष्टामर्थगतिं निरुत्तरगतां पञ्चात्मिकां दर्शयन् । श्लिष्टामिति युक्ताम् । निरुत्तरगतामित्यनुत्तरज्ञान[यान]गताम् ।
तामिदानीं पञ्चात्मिकामर्थगतिं द्वितीयेन श्लोकेन दर्शयति ।
घटितमिव सुवर्णं वारिजं वा विबुद्धं
सुकृतमिव सुभोज्यं भुज्यमानं क्षुधार्तैः ।
विदित इव सुलेखो रत्नपेटेव मुक्ता
विवृत इह स धर्मः प्रीतिमग्र्यां दधाति

1.3

अनेन श्लोकेन पञ्चभिर्दृष्टान्तैः स हि धर्मः पञ्चविधमर्थमधिकृत्य देशितः साध्यं व्युत्पाद्यं चिन्त्यमचिन्त्यं परिनिष्पन्नं चाधिगमार्थं प्रत्यात्मवेदनीयं बोधिपक्षस्वभावम् । सो ऽनेन सूत्रालंकारेण विवृतः प्रीतिमग्र्यां दधाति । यथाक्रमं घटितसुवर्णादिवत् ।
यदा स धर्मः प्रकृत्यैव गुणयुक्तः कथं सो ऽलंक्रियत इत्यस्य चोद्यस्य परिहारार्थं तृतीयः श्लोकः ।
यथा बिम्बं भूषाप्रकृतिगुणवद्दर्पणगतं
विशिष्टं प्रामोद्यं जनयति नृणां दर्शनवशात् ।
तथा धर्मः सूक्तप्रकृतिगुणयुक्तो ऽपि सततं
विभक्तार्थस्तुष्टिं जनयति विशिष्टामिह सताम्

1.4

अनेन किं दर्शयति । यथा बिम्बं भूषया प्रकृत्यैव गुणवत् आदर्शगतं दर्शनवशाद्विशिष्टं प्रामोद्यं जनयत्येवं स धर्मः सुभाषितैः प्रकृत्यैव गुणयुक्तो ऽपि सततं विभक्तार्थस्तुष्टिं विशिष्टां जनयति । बुद्धिमतामतस्तुष्टिविशेषोत्पादनादलंकृत इव भवतीति ।
अतः परं त्रिभिः श्लोकैस्तस्मिन्धर्मे त्रिविधमनुशंसं दर्शयत्यादरोत्पादनार्थम् ।
आघ्रायमाणकटुकं स्वादुरसं यथौषधं तद्वत् ।
धर्म[र्मो] द्वयव्यवस्था[स्थो] व्यञ्जनतो ऽर्थो न च[र्थतश्च]ज्ञेयः

1.5

राजेव दुराराधो धर्मो ऽयं विपुलगाढगम्भीरः ।
आराधितश्च तद्वद्वरगुणधनदायको भवति

1.6

रत्नं जात्यमनर्थं[र्घं]यथापरीक्षकजनं न तोषयति ।
धर्मस्तथायमबुघं विपर्ययात्तोषयति तद्वत्

1.7

त्रिविधो ऽनुशंसः । आवरणप्रहाणहेतुत्वमौषधोपमत्वेन । द्वयव्यवस्थ इति व्यञ्जनार्थव्यवस्थः । विभुत्वहेतुत्वमभिज्ञादिवैशेषिकगुणैर्श्वर्यदानाद्राजोपमत्वेन । आर्यध[ज]नोपभोगहेतुत्वं च अनर्थ[र्घ]जात्यरत्नोपमत्वेन । परीक्षकजन आर्यजनो वेदितव्यः ।
नैवेदं महायानं बुद्धवचनं कुतस्तस्यायमनुशंसो भविष्यतीत्यत्र विप्रतिपन्नास्तस्य बुद्धवचनत्वप्रसाधनार्थं कारणविभाज्यमारभ्य श्लोकः ।
आदावव्याकरणात्समप्रवृत्तेरगोचरात्सिद्धेः ।
भावाभावे ऽभावात्प्रतिपक्षत्वाद्रुतान्यत्वात्

1.8

आदावव्याकरणात् यद्येतत्सद्धर्मान्तरायिपश्चात्केनाप्युत्पादितम् । कस्मादादौ भगवता न व्याकृतमनागतभय[भंग]वत् । समप्रवृत्तेः समकालं च श्रावकयानेन महायानस्य प्रवृत्तिरुपलभ्यते न पश्चादिति कथमस्याबुद्धवचनत्वं विज्ञायते । अगोचरान्नायमेवमुदारो गम्भीरश्च धर्मस्तार्किकाणां गोचरः । तीर्थिकशास्त्रेषु तत्प्रकारानुपलम्भादिति । नायमन्यैर्भाषितो युज्यते । उच्यमाने ऽपि तदनधिमुक्तेः । सिद्धेरथान्येनाभिसंबुध्य भाषितः । सिद्धमस्य बुद्धवचनत्वम् । स एव बुद्धो यो ऽभिसंबुध्य एवं भाषते । भावाभावे ऽभावाद्यदि महायानं किंचिदस्ति तस्य भाव[वे] सिद्धमिदं बुद्धवचनमतो ऽन्यस्य महायानस्याभावात् । अथ नास्ति तस्याभावे श्रावकयानस्याप्यभावात् । श्रावकयानं बुद्धवचनं न महायानमिति न युज्यते विना बुद्धयानेन बुद्धानामनुत्पादात् । प्रतिपक्षत्वात् । भाव्यमानं च महायानं सर्वनिर्विकल्पज्ञानाश्रयत्वेन क्लेशानां प्रतिपक्षो भवति तस्माद् बुद्धवचनम् । रुतान्यत्वात् । न चास्य यथारुतमर्थस्तस्मान्न यथारुतार्थानुसारेणेदमबुद्धवचनं वेदितब्यम् ।
यदुक्तमादावव्याकरणादित्यनाभोगादेतदनागतां भगवता न व्याकृतमिति कस्यचित् स्यादत उपेक्षाया अयोगे श्लोकः ।
प्रत्यक्षचक्षुषो बुद्धाः शासनस्य च रक्षकाः ।
अध्मन्यनावृतज्ञाना उपेक्षातो न युज्यते

1.9

अनेन किं दर्शयति । त्रिभिः कारणैरनागतस्य महतः शासनोपद्रवस्योपेक्षा न युज्यते । बुद्धानामयत्नतो ज्ञानप्रवृत्तेः प्रत्यक्षचक्षुष्कतया शासनरक्षायाश्च[यां च] यत्नवत्वात् । अनागतज्ञानसमर्थ्याच्च सर्वकालाव्याहतज्ञानतयेति ।
यदुक्तं भावाभावे ऽभावादिति । एतदेव श्रावकयानं महायानमेतेनैव महाबोधिप्राप्तिरिति कस्यचित्स्यादतः श्रावकयानस्य महायानत्वायोगे श्लोकः ।
वैकल्यतो विरोधादनुपायत्वात्तथाप्यनुपदेशात् ।
न श्रावकयानमिदं भवति महायानधर्माख्यम्

1.10

वैकल्यात्परार्थोपदेशस्य । न हि श्रावकयाने कश्चित्परार्थ उपदिष्टः श्रावकाणामात्मनो निर्विद्विरागविमुक्तिमात्रोपायोपदेशात् । न च स्वार्थ एव परेषूपदिश्यमानः परार्थो भवितुमर्हति । विरोधात् । स्वार्थे हि परो नियुज्यमानः स्वार्थ एव प्रयुज्यते स आत्मन एव परिनिर्वाणार्थप्रयुक्तो ऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यत इति विरुद्धमेतत् । न च श्रावकयानेनैव चिरकालं बोधौ घटमानो बुद्धो भवितुमर्हति । अनुपायत्वात् । अनुपायो हि श्रावकयानं बुद्धत्वस्य न चानुपायेन चिरमपि प्रयुज्यमानः प्रार्थितमर्थं प्राप्नोति । श्रृङ्गादिव दुग्धं न भस्रया[भस्रायाः] । अथान्यथाप्यत्रोपदिष्टं यथा बोधिसत्त्वेन प्रयोक्तव्यम् । तथाप्यनुपदेशान्न श्रावकयानमेव महायानं भवितुर्महति । न हि स तादृश उपदेश एतस्मिन्नुपलभ्यते ।
विरुद्धमेव चान्योन्यं श्रावकयानं महायानं चेत्यन्योन्यविरोधे श्लोकः ।
आशयस्योपदेशस्य प्रयोगस्य विरोधतः ।
उपस्तम्भस्य कालस्य यत् हीनं हीनमेव तत्

1.11

कथं विरुद्धम् । पञ्चभिर्विरोधैः । आशयोपदेशप्रयोगोपस्तम्भकालविरोधैः । श्रावकयाने ह्यात्मपरिनिर्वाणायैवाशयस्तदर्थमेवोपदेशस्तदर्थमेव प्रयोगः परीत्तश्च पुण्यज्ञानसंभारसंगृहीत उपस्तम्भः, कालेन चाल्पेन तदर्थप्राप्तिर्यावत्त्रिभिरपि जन्मभिः । महायाने तु सर्वं विपर्ययेण । तस्मादन्योन्यविरोधाद् यद् यानं हीनं हीनमेव तत् । न तन्महायानं भवितुमर्हति ।
बुद्धवचनस्येदं लक्षणं यत्सूत्रे ऽवतरति विनये संदृश्यते धर्मतां च न विलोमयति । न चैवं महायानम्, सर्वधर्मनिःस्वभावत्वोपदेशात् । तस्मान्न बुद्धवचनमिति कस्यचित्स्यादतो लक्षणाविरोधे श्लोकः ।
स्वके ऽवतारात्स्वस्यैव विनये दर्शनादपि ।
औदार्यादपि गाम्भीर्यादविरुद्धैव धर्मता

1.12

अनेन श्लोकेन किं दर्शयति । अवतरत्येवेदं स्वस्मिन् महायानसूत्रे स्वस्य च क्लेशस्य[क्लेशः?] विनयः[विनये]संदृश्यते । यो महायाने बोधिसत्त्वानां क्लेशः उक्तः । विकल्पक्लेशा हि बोधिसत्त्वाः । औदार्यगाम्भीर्यलक्षणत्वाच्च । न धर्मतां विलोमयत्यथैव हि धर्मता महाबोधिप्राप्तये तस्मान्नास्ति लक्षणविरोधः ।
अगोचरादित्युक्तमतर्स्तकगोचरत्वायोगे श्लोकः ।
निश्रितो ऽनियतो ऽव्यापी सांवृतः खेदवानपि ।
बालाश्रयो मतस्तर्कस्तस्यातो विषयो न तत्

1.13

अदृष्टसत्याश्रयो हि तर्कः कश्चिदागमनिश्रितो भवति । अनियतश्च भवति कालान्तरेणान्यथाप्रत्यवगमात् । अव्यापी च न सर्वज्ञेयविषयः । संवृतिसत्यविषयश्च न परमार्थविषयः । खेदवांश्च प्रतिभानपर्यादानात् । महायानं तु न निश्रितं यावदखेदवत् । शतसाहस्रिकाद्यनेकसूत्रोपदेशात् । अतो न तर्कस्य तद्विषयः ।
अनुपायत्वात् श्रावकयाने न बुद्धत्वं प्राप्तमित्युक्तम्, अथ महायानं कथमुपायो युक्त इत्युपायत्वयोगे श्लोकः ।
औदार्यादपि गाम्भीर्यात्परिपाको ऽविकल्पना ।
देशनातो द्वयस्यास्मिन् स चोपायो निरुत्तरे

1.14

अनेन श्लोकेन किं दर्शयति । प्रभावौदार्यदेशनया सत्त्वानां परिपाकः प्रभावाधिमुक्तितो घटनात् । गाम्भीर्यदेशनया अविकल्पना, अत एतस्य द्वयस्यास्मिन् महायाने देशना । स चोपायो निरुत्तरे ज्ञाने, ताभ्यां यथाक्रमं सत्त्वानां परिपाचनादात्मनश्च बुद्धधर्मपरिपाकादिति ।
ये पुनरस्मात् त्रसन्ति तदर्थमस्थानत्रासादीनवे कारणत्वेन श्लोकः ।
तदस्थानत्रासो भवति जगतां दाहकरणो
महापुण्यस्कन्धप्रसवकरणाद्दीर्घसमयम् ।
अगोत्रो ऽसन्मित्रो ऽकृतमतिरपूर्वाचित्तशुभ-
स्त्रसत्यस्मिन् धर्मे पतति महतो ऽर्थाद्गत् इह

1.15

त्रासास्थाने त्रासस्तदस्थानत्रासः । दाहकरणो भवत्यपायेषु । किं कारणम् । महतः अपुण्यस्कन्धप्रसवस्य करणात् । कियन्तं कालमिति दीर्घसमयम् । एवं पश्चादादीनवः । येन च कारणेन यावन्तं च कालं तत् संदर्शयति । किं पुनः कारणे तु सतीति चतुर्विधं त्रासकारणं दर्शयति । गोत्रं चास्य न भवति सन्मित्रं वा अव्युत्पन्नमतिर्वा भवति महायानधर्मतायां पूर्वं वानुपचितशुभो भवति । पतति महतो ऽर्थादिति महाबोधिसंभारार्थात् । अप्राप्तपरिहाणितो ऽपरमादीनवं दर्शयति ।
त्रासकारणमुक्तमत्रासकारणं वक्तव्यमित्यत्रासकारणत्वे श्लोकः ।
तदन्यान्या[न्यस्या?]भावात्परमगहनत्वादनुगमात्
विचित्रस्याख्यानाद् ध्रुवकथनयोगाद्वहुमुखात् ।
यथाख्यानं नार्थाद्भगवति च भावातिगहनात्
न धर्मे ऽस्मिंस्त्रासो भवति विदुषां योनिविचयात्

1.16

तदन्यान्या[न्यस्या?]भावादिति ततो ऽन्यस्य महायानस्याभावात् । अथ श्रावकयानमेव महायानं स्यादन्यस्य श्रावकस्य प्रत्येकबुद्धस्य वाभावः स्यात् । सर्व एव हि बुद्धा भवेयुः । परमगहनत्वाच्च । सर्वज्ञज्ञानमार्गस्यानुगमाच्च तुल्यकालप्रवृत्त्या । विचित्रस्याख्यानात् । विचित्रश्चात्र संभा[सा?]रमार्ग आख्यायते न केवलं शून्यतैव । तस्माद[आ]भिप्रायिकेनानेन भवितव्यमिति । ध्रुवकथनयोगाद्, बहुमुखादभीक्ष्णं चात्र शून्यता कथ्यते बहुमिश्च पर्यायैस्तेषु तेषु सूत्रान्तेषु तस्माद्भवितव्यमत्र महता प्रयोजनेन । अन्यथा हि सत्कृत्प्रतिषेधमात्रकृतमभबिष्यदिति । यथाख्यानं नार्थात् न चास्य यथारुतमर्थो ऽस्मादपि त्रासो न युक्तः । भगवति च भावातिगहनादतिगहनश्च बुद्धानां भावो दुराज्ञेयस्तस्मान्नास्माभिस्तदज्ञानात्त्रसितव्यमिति । एवं योनिशः प्रविचयाद्विदुषां त्रासो न भवति ।
दूरानुप्रविष्टज्ञानगोचरत्वे श्लोकः ।
श्रुतं निश्रित्यादौ प्रभवति मनस्कार इह यो
मनस्काराज्ज्ञानं प्रभवति च तत्त्वार्थविषयम् ।
ततो धर्मप्राप्तिः प्रभवति च तस्मिन्मतिरतो
यदा प्रत्यात्मं सा कथमसति तस्मिन्व्यवसितिः

1.17

श्रुतं निश्रित्यादौ मनस्कारः प्रभवति यो योनिश इत्यर्थः । योनिशो मनस्कारात्तत्त्वार्थविषयं ज्ञानं प्रभवति लोकोत्तरा सम्यग्दृष्टिः, ततस्तत्फलस्य धर्मस्य प्राप्तिः, ततस्तस्मिन् प्राप्ते मतिर्विमुक्तिज्ञानं प्रादुर्भवति । एवं यदा प्रत्यात्मं सा मतिर्भवति, कथमसति तस्मिन्नेषा व्यवसितिर्निश्चयो भवति नैवेदं बुद्धवचनमितिए ।
अत्रासपदस्थानत्वे श्लोकः ।
अहं न बोद्धा न गभीरबोद्धा बुद्धौ गभीरं किमतर्कगम्यम् ।
कस्माद् गभीरार्थविदां च मोक्ष इत्येतदुत्त्रासपदं न युक्तम्

1.18

यदि तावदहमस्य न बोद्धेत्युत्त्रासपदम्, तन्न युक्तम् । अथ बुद्धो ऽपि गम्भी[भी?] रस्य पदार्थस्य न बोद्धा स किं गभीरं देशयिष्यतीत्युत्त्रासपदम्, तदयुक्तम् । अथ गम्भी[भी]रं कस्मादतर्कगम्यमित्युत्त्रासपदम्, तन्न युक्तम् । अथ कस्माद् गभीरार्थविदामेव मोक्षो न तार्किकाणामित्युत्त्रासपदम्, तन्न युक्तम् ।
अनधिमुक्तित एव तत्सिद्वौ श्लोकः ।
हीनाधिमुक्तेः सुनिहीनधातोर्ही नैः सहायैः परिवारितस्य ।
औदार्यगाम्भीर्यसुदेशिते ऽस्मिन् धर्मे ऽधिमुक्तिर्यदि नास्ति सिद्धम्

1.19

यस्य हीना चाधिक[चाधि]मुक्तिः, ततश्च हीन एव धातुः समुदागत आलयविज्ञानभावना । हीनैरेव सहायैः समानाधिमुक्तिधातुकैर्यः परिवारितस्तस्यास्मिन्नौदार्यगाम्भीर्यसुदेशिते महायानधर्मे यद्यधिमुक्तिर्नास्ति, अत एव सिद्धमुत्कृष्टमिदं महायानमिति ।
अश्रुतसूत्रान्तप्रतिक्षेपायोगे श्लोकः ।
श्रुतानुसारेण हि बुद्धिमत्तां लब्ध्वाश्रुते यः प्रकरोत्यवज्ञाम् ।
श्रुते विचित्रे सति चाप्रमेये शिष्टे कुतो निश्चयमेति मूढः

1.20

कामं तावदधिमुक्तिर्न स्यादश्रुतानां तु सूत्रान्तानामविशेषेण प्रतिक्षेपो न युक्तः । श्रुतानुसारेणैव हि बुद्धिमत्त्वं लब्ध्वा यः श्रुत एवावज्ञां करोति मूढः स सत्येवावशिष्टे श्रुते विचित्रे चाप्रमेये च कुतः कारणान्निश्चयमेति न तद्बुद्धवचनमिति । न हि तस्य श्रुतादन्यब्दलमस्ति तस्मादश्रुत्वा प्रतिक्षेपो न युक्तः ।
यदपि च श्रुतं तद्योनिशो मनसि कर्तव्यं नायोनिश इत्ययोनिशोमनसिकारादीनवे श्लोकः ।
यथारुते ऽर्थे परिकल्प्यमाने स्वप्रत्ययो हानिमुपैति बुद्धेः ।
स्वाख्याततां च क्षिपति क्षतिं च प्राप्नोति धर्मे प्रतिघावतीव[प्रतीघातमेव]

1.21

स्वप्रत्यय इति स्वयंदृष्टिपरामर्शको, न विज्ञानामन्तिकादर्थपर्येषी । हानिमुपैति बुद्धेरिति यथाभू[रु]तज्ञानादप्राप्तिपरिहानितः । धर्मस्य च स्वाख्याततां प्रतिक्षिपति तन्निदानं चापुण्यप्रभावात् क्षतिं प्राप्नोति । धर्मे च प्रतिघातमावरणं च धर्मव्यसनसंवर्तनीयं कर्मेत्ययमत्रादीनवः ।
अयथावतश्चा[अयथारुतञ्चा]र्थमविजानतो ऽपि प्रतिघातो न युक्त इति प्रतिघातायोगे श्लोकः ।
मनः प्रदोषः प्रकृतिप्रदुष्टो [ऽयथारुते चापि]ह्ययुक्तरूपः ।
प्रागेव संदेहगतस्य धर्मे तस्मादुपेक्षैव वरं ह्यदोषा

मूल पाठ: Mahāyānasūtrālaṃkāra · Edition: S. Bagchi: Mahāyānasūtrālaṅkāra of Asaṅga, Darbhaga 1960 [or a reprint of 2000?] (Buddhist Sanskrit Texts, 13). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc