भाषा

ENहिગુ
ग्रंथ पाठ

महायानसूत्रालंकार (टीका सहित) · अध्याय 1

1.1

महायानसूत्रालंकारः
॥ ओं ॥
नमः सर्वबुद्धबोधिसत्वेभ्यः
छपित्रे इ
प्रथमो ऽधिकारः
अर्थज्ञो ऽर्थविभावनां प्रकुरुते वाचा पदैश् चामलैर् दुःखस्योत्तरणाय दुःखितजने कारुण्यतस् तन्मयः ।
धर्मस्योत्तमयानदेशितविधेः सत्वेषु तद्गामिषु श्लिष्टाम् अर्थगतिं निरुत्तरगतं पञ्चात्मिकां दर्शयन्

1.2

अर्थज्ञो ऽर्थविभावनां प्रकुरुते इति क उपदेशम् आरभ्य को ऽलंकरोतीति । अर्थज्ञः । कम् अलंकारम् अलंकरोति । अर्थविभावनां कुरुते । केन वाचा पदैश् चामलैः । अमलया वाचेति पौरुषया अमलैः पदैर् युक्तैः सहितैर् इति विस्तरः । न हि विना वाचा पदव्यञ्जनैर् अर्थो विभावयितुं सक्यत इति । कस्मै दुःखस्योत्तरणाय दुःखितजने कारुण्यतस् तन्मयः । दुःखितजने यत् कारुण्यं तस्मात् कारुण्यतः । तन्मय इति कारुण्यमयः । कस्यालंकारं करोति । धर्मस्योत्तमयानदेशितविधेः । उत्तमयानस्य देशितो विधिर् यस्मिन् धर्मे तस्य धर्मस्य । कस्मिन्न् अलंकरोति । सत्वेषु तद्गामिषु । निमित्तसप्तम् येषाम् महायानगामिसत्वनिमित्तम् इत्य् अर्थः । कतिविधम् अलंकारं करोति । पञ्चविधं । श्लिष्टाम् अर्थगतिं निरुत्तरगतां पञ्चात्मिकां दर्शयन् । ( म्स 2 ) श्लिष्टम् इति युक्तां निरुत्तरगताम् इत्य् अनुत्तरज्ञानगतां । ताम् इदानीं पञ्चात्मिकां अर्थगतिं द्वितीयेन श्लोकेन दर्श्यति ।
घटितम् इव सुवर्णं वारिजं वा विबुद्धं सुकृतम् इव सुभोज्यं भुज्यमानं क्षुधार्तैः ।
विदित इव सुलेखो रत्नपेटेव मुक्ता विवृत इह स धर्मः प्रीतिमग्र्यां दधाति

1.3

अनेन श्लोकेन पञ्चभिर् दृष्टान्तैः स हि धर्मः पञ्चविधम् अर्थम् अधिकृत्य देशितः साध्यं व्युत्पाद्यं चिन्त्यम् अचिन्त्यं परिनिष्पन्नं चाधिगमार्थं प्रत्यात्मवेदनीयं बोधिपक्षस्वभावं । सो ऽनेन सूत्रालंकारेण विवृतः प्रीतिम् अग्रां दधादति । यथाक्रमं घटितसुवर्णादिवत् । यदा स धर्मः प्रकृत्यैव गुणयुक्तः कथं सो ऽलंक्रियत इत्य् अस्य चोद्यस्य परिहारार्थं त्र्तीयः श्लोकः ।
यथा बिम्बं भूषाप्रकृतिगुणवद् दर्पणगतं विशिष्टं प्रामोद्यं जनयति नृणां दर्शनवशात् ।
तथा धर्मः सोक्तप्रकृतिगुणयुक्तो ऽपि सततं विभक्तार्थस् तुष्टिं जनयति विशिष्टाम् इह सताम्

1.4

अनेन किं दर्शयति । यथा बिम्बं भूषाप्रकृतिगुणवद् दर्शणगतं दर्शनवशाद् विशिष्टं प्रामोद्यं जनयत्य् एवं स धर्मः सुभाषितैः प्रज्कृत्यैव गुणयुक्तो ऽपि सततं विभक्तार्थस् तुष्टिं विशिष्टां जनयति । बुद्धिमताम् अतस् तुष्टिविशेषोत्पादनाद् अलंकृत इव भवतीति । अतः परं त्रिभिः श्लोकैस् तस्मिन् धर्मे त्रिविधम् उपशंसं दर्शयत्य् आदरोत्पादनार्थं ।
आघ्रायमाणकटुकं स्वादुरसं यथाउषधं तद्वत् ।
धर्मर्मो द्वयव्यवस्थास्थो व्यञ्जनतो ऽर्थो न च ज्ञेयः

1.5

राजेव दुराराधो धर्मो ऽयं विपुलगाढगम्भीरः ।
आराधितश् च तद्वद्वरगुणधनदायको भवति

1.6

रत्नं जात्यमनर्थंर्घं यथा ऽपरीक्षकजनं न तोषयति ।
धर्मस् तथायम् अबुधं विपर्ययात् तोषयति तद्वत्

1.7

त्रिविधो ऽशंसः । आवरणप्रहाणहेतुत्वम् औषधोपमत्वेन । स्वयव्यवस्थ इति ( म्स 3 ) व्यञ्जनार्थव्यवस्थः । विभुत्वहेतुत्वम् अभिज्ञादिवैशेषिकगुणाइश्वर्यदानाद् राजोपमत्वेन । आर्यधनोपभोगहेतुत्वं च अनर्थजात्यरत्नोपमत्वेन । परीक्षकजन आर्यजनो वेदितव्यः । नैवेदं महायानं बुद्धवचनं कुतस् तस्यायम् अनुशंसो भविष्यतीत्य् अत्र विप्रतिपन्नस् तस्य बुद्धवचनत्वप्रसाधनार्थं कारणविभाज्यम् आरभ्य श्लोकः ।
आदाव् अव्याकरणात् समप्रवृत्तेर् अगोचरात् सिद्धेः ।
भावाभावे ऽभावात् प्रतिपक्षत्वाद् रुतान्यत्वात्

1.8

आदाव् अव्याकरणात् यद्य् एतत् सद्धर्मान्तराये पश्चात् केनापि उत्पादितं । कस्माद् आदौ भवता न व्याकृतम् अनागतभयवत् । समप्रवृत्तेः समकालं च श्रावकयानेन महायानस्य प्रवृत्तेर् उपलभ्यते न पश्चाद् इति कथम् अस्याबुद्धवचनत्वं विज्ञायते । अगोचरान् नायम् एवम् उदारो गम्भीरश् च धर्मस् तार्किकाणां गोचरः । तीर्तिकशास्त्रेषु तत्प्रकारानुपलम्भाद् इति । नायम् अन्यैर् भाषितो युज्यते । उच्यमाने ऽपि तदनधिमुक्तेः । सिद्धे अथान्येनाभिसंबुध्य भाषितः । सिद्धम् अस्य बुद्धवचनत्वं । स एव बुद्धो यो ऽभिसंबुध्य एवम् भाषते । भावाभावे ऽभावाद् यदि महायानं किंचिद् अस्ति तस्य भाव सिद्धिम् इदं बुद्धवचनम् अतो ऽन्यस्य महायानस्याभावात् । अथ नास्ति तस्याभावे श्रावकयानस्याप्य् अभावात् । श्रावकयानं बुधवचनं न महायानम् इति न युज्यते विना बुद्धयानेन बुद्धानाम् अनुत्पादात् । प्रतिपक्षत्वाद् भाव्यमानं च महायानं सर्वनिर्विकल्पज्ञानाश्रयत्वेन क्लेशानां प्रतिपक्षो भवति तस्माद् बुद्धवचनं । रुतान्यत्वात् न चास्य यथारुतम् अर्थस् तस्मान् न यथारुतार्थानुसारेणेदम् अबुद्धवचनं वेदितव्यं । यद् उक्तम् आदाव् अव्याकरणाद् इत्य् अनाभोगाद् एतद् अनागतं भगवता न व्याकृतम् इति कस्यचित् स्याद् अत उपेक्षाया अयोगे श्लोकः ।
प्रत्यक्षचक्षुषो बुद्धाः शासनस्य च रक्षकाः ।
अध्वन्य् अन्यनावृतज्ञाना उपेक्षातो न युज्यते

1.9

अनेन किं दर्शयति । त्रिभिः कारणैर् अनागतस्य महतः शासनोपद्रवस्योप्केषा न युज्यते । बुद्धानाम् अयत्नतो ज्ञानप्रवृत्तेः प्रत्यक्षचक्षुष्कतया शासनरक्षयाश् च यत्नवत्वात् । अनागतज्ञानसामर्थ्याच् च सर्वकालाव्याहतज्ञानतयेति । यद् उक्तं भावाभावे ऽभावाद् इति । एतद् एव श्रावकयानं महायानम् एतेनैव महाबोधिप्राप्तिर् इति कस्यचित् स्याद् अतः श्रावकयानस्य महायानत्वायोगे श्लोकः ।
वैकल्यतो विरोधाद् अनुपायत्वात् तथाप्य् अनुपदेशात् ।
न श्रावकयानम् इदं भवति महायानधर्माख्यम्

1.10

वैकल्यात् परार्थोपदेशस्य न हि श्रावकयाने कश्चित् परार्थ उपदिष्टः श्रावकाणाम् आत्मनो निर्विद्विरागविमुक्तिमात्रोपायोपदेशात् । न च स्वार्थ एव परेषूपदिश्यमानः परार्थो भवितुम् अर्हति । विरोधात् स्वार्थे हि परो नियुज्यमानः स्वार्थ एव प्रयुज्यते स आत्मन एव परिनिर्वाणार्थप्रयुक्तो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यत इति विरोधम् एतत् । न च श्रावकयानेनैव चिरकालं बोधौ घटमानो बुद्धो भवितुम् अर्हति । अनुपायत्वात् । अनुपायो हि श्रावकयानं बुद्धत्वस्य न चानुपायेन चिरम् अपि प्रयुज्यमानः प्रार्थितम् अर्थं प्राप्नोति । शृङ्गाद् इव दुग्धं न भस्त्रया । अथान्यथाप्य् अत्रोपदिष्टं यथा बोधिसत्वेन प्रयोक्तव्यं । तथाप्य् अनुपदेशान् न श्रावकयानम् एव महायानं भवितुम् अर्हति । न हि स तादृश उपदेश एतस्मिन्न् उपलभ्यते । विरुद्धम् वा चान्योन्यं श्रावकयानं चेत्य् अन्योन्यविरोधे श्लोकः ।
आशयस्योपदेशस्य प्रयोगस्य विरोधतः ।
उपस्तम्भस्य कालस्य यत् हीनं हीनम् एव तत्

1.11

कथं विरुद्धं । पञ्चभिर् विरोधैः । आशयोपदेशप्रयोग उपतम्भकालविरोधैः । श्रावकयाने ह्य् आत्मपरिनिर्वाणायैवाशयस् तदर्थम् एवौपदेशस् तदर्थम् एव प्रयोगः परीत्तश् च पुण्यज्ञानसंभारसंगृहीत उपस्तम्भः कालेन चाल्पेन तदर्थप्राप्तिर् यावत् त्रिभिर् अपि जन्मभिः । महायाने तु सर्वं विपर्ययेण । तस्माद् अन्योन्यविरोधाद् यद् यानं हीनं हीनम् एव तत् । न तन् महायानं भवितुम् अर्हति । बुद्धवचनस्येदं लक्षणं यत् सूत्रे ऽवतरति विनये संदृश्यते धर्मतां च न विलोमयति । न चैवं महायानं ( म्स 5 ) सर्वधर्मनिःस्वभावत्वोपदेशात् । तस्मान् न बुद्धवचनम् इति कस्यचित् स्याद् अतो लक्षणविरोधे श्लोकः ।
स्वके ऽवतारात् स्वस्यैव विनये दर्शनाद् अपि ।
औदार्याद् अपि गाम्भीर्याद् अविरुद्धैव धर्मता

1.12

अनेन श्लोकेन किं दर्श्यति । अवतरत्य् एवेदं स्वस्मिन् महायानसूत्रे स्वस्य च श्लेशस्य विनयः संदृश्यते । यो महायाने बोधिसत्वानां श्लेश उक्तः । विकल्पश्लेशा हि बोधिसत्वाः । औदार्यगम्भीर्यलक्षणत्वाच् च । न धर्मतां विलोमयत्य् अथैव हि धर्मता महाबोधिप्रापतये तस्मान् नास्ति लक्षण विरोधः । अगोचराद् इत्य् उक्तम् अतस् तर्कगोचरत्वायोगे श्लोकः ।
निश्रितो ऽनियतो ऽव्यापी सांवृतः खेदवान् अपि ।
बालाश्रयो मतस् तर्कस् तस्यातो विषयो न तत्

1.13

अदृष्टसत्याश्रेयो हि तर्कः कश्चिद् आगम निश्रितो भवति । अनियतश् च भवति कालान्तरेणान्यथा प्रत्यवगमात् । अव्यापी च न सर्वज्ञेयविषयः । सांवृत सत्यविषयश् च न पर्मार्थविषयः । खेदवांश् च प्रतिभानपर्यादनात् । महायानस् तु न निश्रितं यावत् अखेदवत् । शतसाहस्रिकाद्यनेकसूत्रोपदेशात् । अतो न तर्कस्य तद्विषयः । अनुपायत्वात् श्रावकयाने न बुद्धत्वं प्राप्तम् इत्य् उक्तम् अथ महायानं कथम् उपायो युक्त इत्य् उपायत्वयोगे श्लोकः ।
औदार्याद् अपि गाम्भीर्यात् परिपाको ऽविकल्पना ।
देशनाऽतो द्वयस्यास्मिन् स चोपायो निरुत्तरे

1.14

अनेन श्लोकेन किं दर्शयति । प्रभाव् औदार्य देशनया सत्वानां परिपाको प्रभाव् अधिमुक्तितो घटनात् । गाम्भीर्य देशनया अविकल्पना अत एतस्य द्वयस्यास्मिन् महायाने देशना स चोपायो निरुत्तरे ज्ञाने ताभ्यां यथाक्रमं ( म्स 6 )सत्वानां परिपाचनाद् आत्मनश् च बुद्धधर्मपरिपाकाद् इति । ये पुनर् अस्मात् त्रसन्ति तदर्थम् अस्थानत्रासादीनवे कारणत्वेन श्लोकः ।
तदस्थानत्रासो भवति जगतां दाहकरणो महापुण्यस्कन्धप्रसवकरणाद् दीर्घसमयम् ।
अगोत्रो ऽसन्मित्रो ऽकृतमतिर् अपूर्वाचितशुभस् त्रसत्य् अस्मिन् धर्मे पतति महतो ऽर्थाद् गत इह

1.15

त्रासास्थाने त्रासस् तदस्थानत्रासः । दाहकरणो भवत्य् अपायेषु किं कारणं । महतो अपुण्यस्कन्धप्रसवस्य करणात् । कियन्तं कालम् इति दीर्घसमयं । एवं पश्चाद् आदीनवः । येन च कारणेन यावन्तं च कालं तत् संदर्शयति । किं पुनः कारणे तु सतीति चतुर्विधं त्रासकारणं दर्शयति । गोत्रं चास्य न भवति सन्मित्रं वा अव्युत्पन्नमतिर् वा भवति महायानधर्मतायां पूर्वं वान् उपचितशुभो भवति । पतति महतो ऽर्थाद् इति महाबोधिसंभारार्थात् । अप्राप्तपरिहाणितो ऽपरमादीनवं दर्शयति । त्रासकारणम् उक्तम् अत्रासकारणं वक्तव्यम् इत्य् अत्रासकारणत्वे श्लोकः ।
तदन्यान्यान्याभावात् परमगहनत्वाद् अनुगमात् विचित्रस्याख्यानाद् ध्रुवकथनयोगाद् बहुमुखात् ।
यथाख्यानं नार्थाद् भगवति च भावातिगहनात् न धर्मे ऽस्मिंस् त्रासो भवति विदुषां योनिविचयात्

1.16

तदन्यान्यान्याभावाद् इति ततो ऽन्यस्य महायानस्थाभावात् । अथ श्रावकयानम् एव महानं स्याद् अन्यस्य श्रावकस्य प्रत्येकबुद्धस्य वाभावः स्यात् । सर्व एव हि बुद्धा भवेयुः । परमगहनत्वाच् च । सर्वज्ञज्ञानमार्गस्या नुगमाच् च तुल्यकालप्रवृत्त्या । विचित्रस्याख्यानाद् । विचित्रश् चात्र संभारमार्ग आख्यायते न केवलं शून्यतैव । तस्माद् अभिप्रायिकेनानेन भवितव्यम् इति । ध्रुवकथनयोगाद् बहुमुखाद् अभीक्ष्णं चात्र शून्यता कथ्यते बहिभिश् च पर्यायैस् तेषु तेषु सुत्रान्तेषु तस्माद् भवितव्यम् अत्र महता प्रयोगेन । अन्यथा हि सकृत् प्रतिषेधमात्रकृतम् अभविष्यद् इति । यथाख्यानं नार्थात् न चास्य यथारुतम् अर्थो ऽस्माद् अपि त्रासो न युक्तः । भगवति च भावातिगहनाद् अतिगहनश् च बुद्धानां भावो दुराज्ञेयस् तस्मान् नास्मभिस् तदज्ञानात् त्रसितव्यम् इति । ( म्स 7 ) एवं योनिशः प्रविचयाद् विदुषां त्रासो न भवति । दूरानुप्रविष्टज्ञानगोचरत्वे श्लोकः ।
श्रुतं निश्रित्यादौ प्रभवति मनस्कार इह यो
मनस्काराज् ज्ञानं प्रभवति च तत्वार्थविषयम् ।
ततो धर्मप्राप्तिः प्रभवति च तस्मिन् मतिरतो
यदा प्रत्यात्मं सा कथम् असति तस्मिन् व्यवसितिः

1.17

श्रुतं निश्रित्यादौ मनस्कारः प्रभवति यो योनिश इत्य् अर्थः । योनिशो मनसिकारात् तत्वार्थविषयं ज्ञानं प्रभवति लोकोत्तरा सम्यग्दृष्टिस् ततस् तत् फलस्य धर्मस्य प्राप्तिस् ततस् तस्मिन् प्राप्ते मतिर् विमुक्तिज्ञानं प्रादुर्भवति । एवं यदा प्रत्यात्मं सा मतिर् भवति । कथम् असति तस्मिन्न् एषा व्यवसितिर् निश्चयो भवति नैवेदं बुद्धवचनम् इति । अत्रासपदस्थानत्वे श्लोकः ।
अहं न बोद्धा न गभीरबोद्धा बुद्धो गभीरं किम् अतर्कगम्यं ।
कस्माद् गभीरार्थविदां न मोक्ष इत्य् एतद् उत्त्रासपदं न युक्तम्

1.18

यदि तावद् अहम् अस्य न बोद्धे त्य् उत्त्रासपदं तन् न युक्तं । अथ बुद्धो ऽपि गम्भीरस्य पदार्थस्य न बोद्धा स किं गभीरं देशयिष्यतीत्य् उत्त्रासपदं तद् अयुक्तं । अथ गम्भीरं कस्माद् अतर्कगम्यं इत्य् उत्त्रासपदं तन् न युक्तं । अथ कस्माद् गभीरार्थविदाम् एवम् मोक्षो न तार्किकाणाम् इत्य् उत्त्रासपदं तन् न युक्तं । अनधिमुक्तित एव तत् सिद्धौ श्लोकः ।
हीनाधिमुक्तः सुनिहीनधातोर् हीनैः सहायैः परिवारितस्य ।
औदार्यगाम्भीर्यसुदेशिते ऽस्मिन् धर्मे ऽधिमुक्तिर् यदि नास्ति सिद्धम्

1.19

यस्य हीना चाधिमुक्तिस् ततश् च हीन एव धातुः समुदागत आलयविज्ञानभावना । हीनैर् एव सहायैः समानाधिमुक्तिधातुकैर् यः परिवारितस् तस्यास्मिन्न् औदार्यगाम्भीर्यसुदेशिते महायान धर्मे यद्य् अधिमुक्तिर् नास्ति अत एव सिद्धम् उत्कृष्टम् इदं महायानम् इति । अश्रुतसूत्रान्तप्रतिक्षेपायोगे श्लोकः ।
श्रुतानुसारेण हि बुद्धिमत्तां लब्ध्वा श्रुते यः प्रकरोत्य् अवज्ञां ।
श्रुते विचित्रे सति चाप्रमेये शिष्टे कुतो निश्चयम् एति मूढः

1.20

कामं तावद् अधिमुक्तिर् न स्याद् अश्रुतानां तु सूत्रान्तानाम् अविशेषेण प्रतिपक्षो न युक्तिः । ( म्स 8 ) श्रुतानुसारेण इव हि बुद्धिमत्त्वं लब्ध्वा यः श्रुत एवा वज्ञां करोति मूढः स सत्य् एवाव शिष्टे श्रुते विचित्रे चा प्रमेये च कुतः । कारणान् निश्चयम् एति न तद् बुद्धवचनम् इति । न हि तस्य श्रुताद् अन्यद् बलम् अस्ति तस्माद् अश्रुत्वा प्रतिक्षेपो न युक्तः । यद् अपि च श्रुतं तद् योनिशो मनसि कर्तव्यं नायोनिश इत्य् अयोनिशोमनसिकाराधीनवे श्लोकः ।
यथारुते ऽर्थे परिकल्प्यमाने स्वप्रत्ययो हानिम् उपैति बुद्धेः ।
स्वाख्याततां च क्षिपति क्षतिं च प्राप्नोति धर्मे प्रतिघावतीव

1.21

स्वप्रत्यय इति स्वयंदृष्टप्रआमर्षको न विज्ञानाम् अन्तिकाद् अर्थपर्येष्टी । हानिम् उपैति बुद्धेर् इति यथाभूतज्ञानाद् अप्राप्तिपरिहानितः । धर्मस्य च स्वाख्याततां प्रति क्षिपति तन् निदानं चापुण्यप्रभावात् क्षतिं प्राप्नोति । धर्मे च प्रतिघातम् आवरणं च धर्मव्यवसनसंवर्तनीयं कर्मेत्य् अयम् अत्रादीनवः । अयथावतश् चार्थम् अविजानतो ऽपि प्रतिघातो न युक्त इति प्रतिघातायोगे श्लोकः ।
मनः प्रदोषः प्रकृतिप्रदुष्टो ऽयथारुते चापि ह्य् अयुक्तरूपः ।
प्राग् एव संदेहगतस्य धर्मे तस्माद् उपेक्षैव वरं ह्य् अदोषा

मूल पाठ: Mahāyānasūtrālaṃkāra with Vasubandhu's commentary (Bhāṣya) = Msa · Edition: Sylvain Lévi: Mahāyānasūtrālaṃkāra, Exposé de la doctrine du Grand Véhicule, vol. I, Paris 1907. · Data entry Jens Braarvig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc