महायानसूत्रालंकार (अन्य संस्करण) · अध्याय 7
महायानसूत्रालंकारे तत्वाधिकारः षष्ठः
सप्तमो ऽधिकारः
प्रभावलक्षणविभागे श्लोकः ।
उत्पत्तिवाक् चित्तशुभाशुभाधि तत्स्थाननिःसारपदा परोक्षम् ।
ज्ञानं हि सर्वत्रगसप्रभेदेष्वव्याहतं धीरगतः प्रभावः
ध्यानं चतुर्थं सुविशुद्धमेत्य निष्कल्पनाज्ञानपरिग्रहेण ।
यथाव्यवस्थानमनस्क्रियातः प्रभावसिद्धिं परमां परैति
येनार्यदिव्याप्रतिमैर्विहारैर् ब्राह्मैश्च नित्यं विहरत्युदारैः ।
बुद्धांश्च सत्त्वांश्च स दिक्षु गत्वा संमानयत्यानयते विशुद्धिम्
मायोपमान्पश्यति लोकधातून्सर्वान्ससत्त्वान्सविवर्तनाशान् ।
संदर्शयत्येव च तान्यथेष्टं वशी विचित्रैरपि स प्रकारैः
रश्मिप्रमोक्षैर्भृशदुःखितांश्च आपायिकान्स्वर्गगतान्करोति ।
मारान्वयान् क्षुब्धविमानशोभान् संकम्पयंस्रासयते समारान्
समाधिविक्रीडितमप्रमेयं संदर्शयत्यग्रगणस्यमध्ये ।
सकर्मजन्मोत्तमनिर्मितैश्च सत्त्वार्थमातिष्ठति सर्वकालम्
ज्ञानवशित्वात्समुपैति शुद्धिं क्षेत्रं यथाकामनिदर्शनाय
अबुद्धनामेषु[?] च बुद्धनाम संश्रावणात्तान्क्षिपते ऽन्यधातौ
शक्तो भवत्येव च सत्वपाके संजातपक्षः शकुनिर्यथैव ।
बुद्धात्प्रशंसां लभते ऽतिमात्राम् आदेयवाक्यो भवति प्रजानाम्
षड्धाप्यभिज्ञा त्रिविधा च विद्या अष्टौ विमोक्षा ऽभिभुवस्तथाऽष्टौ ।
दशापि कृत्स्नायतनान्यमेयाः समाधयो धीरगतः प्रभावः
स हि परमवशित्वलब्धबुद्धिर्जगदवशं स्ववशे विधाय नित्यम् ।
परहितकरणैकताभिरामश्चरति भवेषु हि सिंहवत्सुधीरः
मूल पाठ: Mahāyānasūtrālaṃkāra · Edition: S. Bagchi: Mahayana sutralankara of Asanga with its Svavrtti. Darbhanga : The Mithila Institute, 1970, 1-180 (karika only). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0