महायानसूत्रालंकार (अन्य संस्करण) · अध्याय 6
महायानसूत्रालंकारे प्रतिपत्त्यधिकारः पञ्चमः
षष्ठो ऽधिकारः
परमार्थलक्षणविभागे श्लोकः ।
न सन्न चासन्न तथा न चान्यथा न जायते व्येति न चावहीयते ।
न वर्धते नापि विशुध्यते पुनर्विशुध्यते तत्परमार्थलक्षणम्
न चात्मदृष्टिः स्वयमात्मलक्षणा न चापि दुःसंस्थितता विलक्षणा ।
द्वयान्न चान्यद् भ्रम एषत[तू]दितस्ततश्च मोक्षो भ्रममात्रसंक्षयः
कथं जनो विभ्रममात्रमाश्रितः परैति दुःखप्रकृतिं न संतताम् ।
अवेदको वेदक एव दुःखितो न दुःखितो धर्ममयो न तन्मयः
प्रतीत्यभावप्रभवे कथं जनः समक्षवृत्तिः श्रयते ऽन्यकारितम् ।
तमः प्रकारः कतमो ऽयमीदृशो यतो ऽविपश्यन्सदसन्निरीक्षते
त चान्तरं किंचन विद्यते ऽनयोः सदर्थवृत्त्या शमजन्मनोरिह ।
तथापि जन्मक्षयतो विधीयते शमस्य लाभः शुभकर्मकारिणाम्
संभृत्य संभारमनन्तपारं ज्ञानस्य पुण्यस्य च बोधिसत्त्वः ।
धर्मेषु चिन्तासुविनिश्रि[श्चि]तत्वाज्जल्पान्वयामर्थगतिं परैति
अर्थान्स विज्ञाय च जल्पमात्रान् संतिष्ठते तन्निभचित्तमात्रे ।
प्रत्यक्षतामेति च धर्मधातुस्तस्माद्वियुक्तोद्वयलक्षणेन
नास्तीति चित्तात्परमेत्य बुद्ध्या चित्तस्य नास्तित्वमुपैति तस्मात् ।
द्वयस्य नास्तित्वमुपेत्य धीमान् संतिष्ठते ऽतद्गतिधर्मघातौ
अकल्पनाज्ञानबलेन धीमतः समानुयातेन समन्ततः सदा ।
तदाश्रयो गह्वरदोषसंचयो महगदेनेव विषं निरस्यते
मुनिविहितसुधर्मसुव्यवस्थो मतिमुपधाय समूलधर्मधातौ ।
स्मृतिम[ग]तिमवगम्य कल्पमात्रां व्रजति गुणार्णवपारमाशुधीरः
मूल पाठ: Mahāyānasūtrālaṃkāra · Edition: S. Bagchi: Mahayana sutralankara of Asanga with its Svavrtti. Darbhanga : The Mithila Institute, 1970, 1-180 (karika only). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0