भाषा

ENहिગુ
ग्रंथ पाठ

महायानसूत्रालंकार (अन्य संस्करण) · अध्याय 5

5.1

महायानसूत्रालंकारे चित्तोत्पादाधिकारश्चतुर्थः
पञ्चमो ऽधिकारः
प्रतिपत्तिलक्षणे श्लोकः ।
महाश्रयारम्भफलोदयात्मिका जिनात्मजानां प्रतिपत्तिरिष्यते ।
सदा महादानमहाधिवासना महार्थसंपादनकृत्यकारिका

5.2

परत्रलब्ध्वात्मसमानचित्ततां स्वतो ऽधि वा श्रेष्ठतरेष्टतां परे ।
तथात्मनो ऽन्यार्थविशिष्टसंज्ञिनः स्वकार्थता का कतमा परार्थता

5.3

परत्र लोको न तथातिनिर्दयः प्रवर्तते तापनकर्मणारिपौ ।
यथा परार्थं भृशदुःखतापने कृपात्मकः स्वात्मनि संप्रवर्तते

5.4

निकृष्टमध्योत्तमधर्मतास्थिते सुदेशनावर्जनताऽवतारणा ।
विनीतिरर्थे परिपाचना शुभे तथाववादस्थितिबुद्धिमुक्तयः

5.5

गुणैर्विशिष्टैः समुदागमस्तथा कुलोदयो व्याकरणाभिषिक्तता ।
तथागतज्ञानमनुत्तरं पदं परार्थ एष त्र्यधिको दशात्मकः

5.6

जनानुरूपा ऽविपरीतदेशना निरुन्नता चाप्यममा विचक्षणा ।
क्षमा च दान्ता च सुदूरगाऽक्षया जिनात्मजानां प्रतिपत्तिरुत्तमा

5.7

महाभये कामिजनः प्रवर्तते चले विपर्याससुखे भवप्रियः ।
प्रतिस्वमाधिप्रशमे शमप्रियः सदा तु सर्वाधिग[श]मे कृपात्मकः

5.8

जनो विमूढः स्वसुखार्थमुद्यतः सदा तदप्राप्य परैति दुःखताम् ।
सदा तु धीरो हि परार्थमुद्यतो द्वयार्थमाधाय परैति निर्वृतिम्

5.9

यथा यथा ह्यक्षविचित्रगोचरे प्रवर्तते चारगतो जिनात्मजः ।
तथा तथा युक्तसमानतापदैर्हिताय सत्त्वेष्वभिसंस्करोति तत्

5.10

सदा ऽस्वतन्त्रीकृतदोषचेतने जने न संदोषमुपैति बुद्धिमान् ।
अकामकारेण हि विप्रपत्तयो जने भवन्तीति कृपाविवृद्धितः

5.11

भवगतिसकलाभिभूयगन्त्री परमशमानुगता प्रपत्तिरेव ।
विविधगुणगणैर्विवर्धमाना जगदुपगु[गृ?]ह्य सदा कृपाशयेन

मूल पाठ: Mahāyānasūtrālaṃkāra · Edition: S. Bagchi: Mahayana sutralankara of Asanga with its Svavrtti. Darbhanga : The Mithila Institute, 1970, 1-180 (karika only). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc