महायानसूत्रालंकार (अन्य संस्करण) · अध्याय 4
महायानसूत्रालंकारे गोत्राधिकारस्तृतीयः
चतुर्थो ऽधिकारः
चित्तोत्पादलक्षणे श्लोकः ।
महोत्साहा महारम्भा महार्थाय महोदया ।
चेतना बोधिसत्त्वानां द्वयार्था चित्तसंभवः
चित्तोत्पादो ऽधिमोक्षो ऽसौ शुद्धाध्याशयिको ऽपरः ।
वैपाक्यो भूमिषु मतस्तथावरणवर्जितः
करुणामूल इष्टो ऽसौ सदासत्त्वहिताशयः ।
धर्माधिमोक्षस्तज्ज्ञानपर्येष्ट्यालम्बनस्तथा
उत्तरच्छन्दयानो ऽसौ प्रतिष्ठाशीलसंवृतिः ।
उत्थापना विपक्षस्य परिपन्थो ऽधिवासना
शुभवृद्ध्यनुशंसो ऽभौ पुण्यज्ञानमयः स हि ।
सदापारमितायोगनिर्याणश्च स कथ्यते
भूमिपर्यवसानो ऽसौ प्रतिस्वं तत्प्रयोगतः ।
विज्ञेयो बोधिसत्त्वानां चित्तोत्पादविनिश्चयः
मित्रबलाद् हेतुबलान्मूलबलाच्छू तबलाच्छुभाभ्यासात् ।
अदृढदृढोदय उक्तश्चित्तोत्पादः पराख्यानात्
सूपासितसंबुद्धे सुसंभृतज्ञानपुण्यसंभारे ।
धर्मेषु निर्विकल्पज्ञानप्रसवात्परमतास्य
धर्मेषु च सत्वेषु च तत्कृत्येषूत्तमे च बुद्धत्वे ।
समचित्तोपा[त्तोप]लम्भात्प्रामोद्यविशिष्टता तस्य
जन्मौदार्यं तस्मिन्नुत्साहः शुद्धिराशयस्यापि ।
कौशल्यं परिशिष्टे निर्याणं चैव विज्ञेयम्
धर्माधिमुक्तिबीजात्पारमिताश्रेष्ठमातृतो जातः ।
ध्यानमये सुखगर्भे करुणा संवर्धिका धात्री
औदार्यं विज्ञेयं प्रणिधानमहादशाभिनिर्हारात् ।
उत्साहो बोद्धव्यो दुष्करदीघाघिकाखेदात्
आसन्नबोधिबोधात्तदुपायज्ञानलाभतश्चापि ।
आशयशुद्धिर्ज्ञेया कौशल्यं त्वन्यभूमिगतम्
निर्याणं विज्ञेयं यथाव्यवस्थानमनसिकारेण ।
तत्कल्पनताज्ञानादविकल्पनया च तस्यैव
पृथिवीसम उत्पादः कल्याणसुवर्णसंनिभश्चान्यः ।
शुक्लनवचन्द्रसदृशो वह्निप्रख्यो ऽपरोच्छ्रायः [ज्ञेयः]
भूयो महानिधानवदन्यो रत्नाकरो यथैवान्यः ।
सागरसदृशो ज्ञेयो वज्रप्रख्यो ऽचलेन्द्रनिभः
भैषज्यराजसदृशो महासुहृत्संनिभो ऽपरो ज्ञेयः ।
चिन्तामणिप्रकाशो दिनकरसदृशो ऽपरो ज्ञेयः
गन्धर्वमधुरघोषवदन्यो राजोपमो ऽपरो ज्ञेयः ।
कोष्ठागारप्रख्यो महापथसमस्तथैवान्यः
यानसमो विज्ञेयो गन्धर्वसमश्च वेतसग[चेतसः]प्रभवः ।
आनन्दशब्दसदृशो महानदीश्रोत[स्रोतः]सदृशश्च
मेघसदृशश्च कथतश्चित्तोत्पादो जिनात्मजानां हि ।
तस्मात्तथा गुणाढ्यं चित्तं मुदितैः समुत्पाद्यम्
परार्थचित्तात्तदुपायलाभतो महाभिसंध्यर्थसुतत्वदर्शनात् ।
महार्हचित्तोदयवर्जिता जनाः शमं गमिष्यन्ति विहाय तत्सुखम्
सहोदयाच्चित्तवरस्य धीमतः सुसंवृतं चित्तमनन्तदुष्कृतात् ।
सुखेन दुःखेन च मोदते सदा शुभी कृपालुश्च विवर्धन, द्वयम्
यदानपेक्षः स्वशरीरजीविते परार्थमभ्येति परं परिश्रमम् ।
परोपघातेन तथाविधः कथं स दुष्कृते कर्मणि संप्रवत्स्यति
मायोपमान्वीक्ष्य स सर्वधर्मानुधानयात्रामिव चोपपत्तीः ।
क्लेशाच्च दुःखाच्च बिभेति नासौ संपत्तिकाले ऽथ विपत्तिकाले
स्वका गुणाः सत्त्वहिताच्च मोदः संचिन्त्यजन्मर्द्धिविकुर्वितं च ।
विभूषणं भोजनमग्रभूमिः क्रीडारतिर्नित्यकृपात्मकानाम्
परार्थमुद्योगवतः कृपात्मनो ह्यवीचिरप्येति यतो ऽस्य रम्यताम् ।
कुतः पुनस्त्रस्यति तादृशो भवन् पराश्रयैर्दुःखसमुद्भवैर्भवे
महाकृपाचार्यसदोषितात्मनः परस्य दुःखैरुपतप्तचेतसः ।
परस्य कृत्ये समुपस्थिते पुनः परैः समादापनतो ऽतिलज्जना
शिरसि विनिहितोच्चसत्वभारः शिथिलगतिर्नहि शोभते ऽग्रसत्त्वः ।
स्वपरवविधबन्धनातिबद्धः शतगुणमुत्सहमर्हति प्रकर्तुम्
मूल पाठ: Mahāyānasūtrālaṃkāra · Edition: S. Bagchi: Mahayana sutralankara of Asanga with its Svavrtti. Darbhanga : The Mithila Institute, 1970, 1-180 (karika only). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0