महायानसूत्रालंकार (अन्य संस्करण) · अध्याय 3
महायानसूत्रालंकारे शरणगमनाधिकारो द्वितीयः
तृतीयो ऽधिकारः
गोत्रप्रभेदसंग्रहश्लोकः
सत्त्वाग्रत्वं स्वभावश्च लिङ्गं गोत्रप्रभेदता ।
आदीनवो ऽनुशंसश्च द्विधौपम्यं चतुर्विधा
धातूनामधिमुक्तेश्च प्रतिपत्तेश्च भेदतः ।
फलभेदोपलब्धेश्च गोत्रास्तित्वं निरूप्यते
उदग्रत्वे ऽथ सर्वत्वे महार्थत्वे ऽक्षयाय च ।
शुभस्य तत्रिमित्तत्वात् गोत्राग्रत्वं विधीयते
प्रकृत्या परिपुष्टं च आश्रयश्चाश्रितं च तत् ।
सदसच्चैव विज्ञेयं गुणोत्तारणतार्थतः
कारुण्यमधिमुक्तिश्च क्षान्तिश्चादिप्रयोगतः ।
समाचारः सुभस्यापि गोत्रेलिङ्गं निरुप्यते
नियतानियतं गोत्रमहार्यं हार्यमेव च ।
प्रत्यैर्गोत्रभेदो ऽयं समासेन चतुर्विधः
क्लेशाभ्यासः कुमित्रत्वं विधातः परतन्त्रता ।
गोत्रस्यादीनवो ज्ञेयः समासेन चतुर्विधः
चिरादपायगमनमाशुमोक्षश्च तत्र च ।
तनुदुःखोपसंवित्तिः सोद्वेगा सत्त्वपाचना
सुवर्णगोत्रवत् ज्ञेयममेयशुभताश्रयः ।
ज्ञाननिर्मलतायोगप्रभावाणां च निश्रयः
सुरत्नगोत्रवत्ज्ञेयं महाबोधिनिमित्ततः ।
महाज्ञानसमाध्यार्यमहासत्त्वार्थनिश्रयात्
ऐकान्तिको दुश्चरिते ऽस्ति कश्चित् कश्चित् समुद्घातितशुक्लधर्मा ।
अमोक्षभागीयशुभो ऽस्ति कश्चिन् निहीनशुक्लो ऽस्त्यपि हेतुहीनः
गाम्भीर्यौदार्यवादे परहितकरणायोदिते दीर्घधर्मे अज्ञात्वैवाधिमुक्तिर्भवति सुविपुला संप्रपत्तिक्षमा च ।
संपत्तिश्चावसाने द्वयगतपरमा यद्भवत्येव तेषां तज्ज्ञेयं बोधिसत्त्वप्रकृतिगुणवतस्तत्प्रपुष्टाच्च गोत्रात्
सुविपुलगुणबोधिवृक्षवृद्ध्यै धनसुखदुःखशमोपलब्धये च ।
स्वपरहितसुखक्रिया फलत्वाद् भवति समुदग्र[समूलमुदग्र]गोत्रमेतत्
मूल पाठ: Mahāyānasūtrālaṃkāra · Edition: S. Bagchi: Mahayana sutralankara of Asanga with its Svavrtti. Darbhanga : The Mithila Institute, 1970, 1-180 (karika only). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0