महायानसूत्रालंकार (अन्य संस्करण) · अध्याय 2
महायानसूत्रालंकारे महायानसिद्ध्यधिकारः प्रथमः
द्वितीयो ऽधिकारः
शरणगमनविशेषसंग्रहश्लोकः ।
रत्नानि यो हि शरणप्रगतो ऽत्र याने ज्ञेयः स एव परमः शरण[णं] गतानाम् ।
सर्वत्रगाभ्युपगमाधिगमाभिभूतिभेदैश्चतुर्विधमयार्थविशेषणेन
यस्मादादौ दुष्कर एष व्यवसायो दुःसाधो ऽसौ नैकसहस्रैरपि कल्पैः ।
सिद्धो यस्मात्सत्त्वहिताधानमहार्थस् तस्मादग्रे यान इहाग्रशरणार्थः
सर्वान् सत्त्वांस्तारयितुं यः प्रतिपन्नो यनो ज्ञाने सर्वगते कौशल्ययुक्तः ।
यो निर्वाणे संसरणे ऽप्येकरसो ऽसौ [संसृतिशान्त्येकरसो ऽसौ] ज्ञेयो धीमानेष हि सर्वत्रग एवम्
शरणगतिमिमां गतो महार्थां गुणगणवृद्धिमुपैति सो ऽप्रमेयाम् ।
स्फुरति जगदिदं कृपाशयेन प्रथयति चाप्रतिमं महा[र्धं]धर्मम्
मूल पाठ: Mahāyānasūtrālaṃkāra · Edition: S. Bagchi: Mahayana sutralankara of Asanga with its Svavrtti. Darbhanga : The Mithila Institute, 1970, 1-180 (karika only). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0