भाषा

ENहिગુ
ग्रंथ पाठ

महायानसूत्रालंकार (अन्य संस्करण) · अध्याय 1

1.1

महायानसूत्रालंकारः
ओम्
नमः सर्वबुद्धबोधिसत्वेभ्यः
प्रथमो ऽधिकारः
अर्थज्ञो ऽर्थविभावनां प्रकुरुते वाचा पदैश्चामलैर् दुःखस्योत्तरणाय दुःखितजने कारुण्यतस्तन्मयः ।
धर्मस्योत्तमयानदेशितविधेः सत्वेषु तद्गामिषु श्लिष्टामर्थगतिं निरुत्तरगतं पञ्चात्मिकां दर्शयन्

1.2

घटितमिव सुवर्णं वारिजं वा विबुद्धं सुकृतमिव सुभोज्यं भुज्यमानं क्षुधार्तैः ।
विदित इव सुलेखो रत्नपेटेव मुक्ता विवृत इह स धर्मः प्रीतिमग्र्यां दधाति

1.3

यथा बिम्बं भूषाप्रकृतिगुणवद्दर्पणगतं विशिष्टं प्रामोद्यं जनयति नृणां दर्शनवशात् ।
तथा धर्मः सूक्तप्रकृतिगुणयुक्तो ऽपि सततं विभक्तार्थस्तुष्टिं जनयति विशिष्टामिह सताम्

1.4

आघ्रायमाणकटुकं स्वादुरसं यथौषधं तद्वत् ।
धर्म[र्मो] द्वयव्यवस्था[स्थो] व्यञ्जनतो ऽर्थो न च[र्थतश्च] ज्ञेयः

1.5

राजेव दुराराधो धर्मो ऽयं विपुलगाढगम्भीरः ।
आराधितश्च तद्वद्वरगुणधनदायको भवति

1.6

रत्नं जात्यमनर्थं[र्घं]यथा ऽपरीक्षकजनं न तोषयति ।
धर्मस्तथायमबुधं विपर्ययात्तेषयति तद्वत्

1.7

आदावव्याकरणात्समप्रवृत्तेरगोचरात्सिद्धेः ।
भावाभावे ऽभावात्प्रतिपक्षत्वाद्रुतान्यत्वात्

1.8

प्रत्यक्षचक्षुषो बुद्धाः शासनस्य च रक्षकाः ।
अध्ममन्यनावृतज्ञाना उपेक्षातो न युज्यते

1.9

वैकल्यतो विरोधादनुपायत्वात्त्थाप्यनुपदेशात् ।
न श्रावकयानमिदं भवति महायानधर्माख्यम्

1.10

आशयस्योपदेशस्य प्रयोगस्य विरोधतः ।
उपस्तम्भस्य कालस्य यत् हीनं हीनमेव तत्

1.11

स्वके ऽवतारात्स्वस्यैव विनये दर्शनादपि ।
औदार्यादपि गाम्भीर्यादविरुद्धैव धर्मता

1.12

निश्रितो ऽनियतो ऽव्यापी सांवृतः खेदवानपि ।
बालाश्रयो मतस्तर्कस्तस्यातो विषयो न तत्

1.13

औदार्यादपि गाम्भीर्यात्परिपाको ऽविकल्पना ।
देशनाऽतो द्वयस्यास्मिन् स चोपायो निरुत्तरे

1.14

तदस्थानत्रासो भवति जगतां दाहकरणो महाऽपुण्यस्कन्धप्रसवकरणाद्दीर्धसमयम् ।
अगोत्रो ऽसन्मित्रो ऽकृतमतिरपूर्वाऽचितशुभस्रसत्यस्मिन् धर्मे पतति महतो ऽर्थाद्गत इह

1.15

तदन्यान्या[न्यस्या?]भावात्परमगहनत्वादनुगमात् विचित्रस्याख्यानाद् ध्रुवकथनयोगाद्बहुमुखात् ।
यथाख्यानं नार्थाद्भगवति च भावातिगहनात् न धर्मे ऽस्मिंस्रासो भवति विदुषां योनिविचयात्

1.16

श्रुतं निश्रित्यादौ प्रभवति मनस्कार इह यो
मनस्काराज्ञानं प्रभवति च तत्वार्थविषयम् ।
ततो धर्मप्राप्तिः प्रभवति च तस्मिन्मतिरतो
यदा प्रत्यात्मं सा कथमसति तस्मिन्व्यवसितिः

1.17

अहं न बोद्धा न गभीरबोद्धा बुद्धौ गभीरं किमतर्कगम्यम् ।
कस्माद् गभीरार्थविदां न मोक्ष इत्येतदुत्त्रासपदं न युक्तम्

1.18

हीनाधिमुक्तः सुनिहीनधातोर् ही नैः सहायैः परिवारितस्य ।
औदार्यगाम्भीर्यसुदेशिते ऽस्मिन् धर्मे ऽधिमुक्तिर्यदि नास्ति सिद्धम्

1.19

श्रुतानुसारेण हि बुद्धिमत्तं लब्ध्वाऽश्रुते यः प्रकरोत्यवज्ञाम् ।
श्रुते विचित्रे सति चाप्रमेये शिष्टे कुतो निश्चयमेति मूढः

1.20

यथारुते ऽर्थे परिकल्प्यमाने स्वप्रत्ययो हानिमुपैति बुद्धेः ।
स्वाख्याततां च क्षिपति क्षतिं च प्राप्नोति धर्मे प्रतिघावतीव[प्रतिघातमेव]

1.21

मनः प्रदोषः प्रकृतिप्रदुष्टो [ऽयथारुते चापि] ह्ययुक्तरूपः ।
प्रागेव संदेहगतस्य धर्मे तस्मादुपेक्षैव वरं ह्यदोषा

मूल पाठ: Mahāyānasūtrālaṃkāra · Edition: S. Bagchi: Mahayana sutralankara of Asanga with its Svavrtti. Darbhanga : The Mithila Institute, 1970, 1-180 (karika only). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc