महायानसूत्रालंकार (अन्य संस्करण) · अध्याय 14
महायानसूत्रालंकारे प्रतिपत्त्यधिकारस्त्रयोदशः
चतुर्दशो ऽधिकारः
अववादानुशासनीविभागे श्लोका
एकपञ्चाशत् ।
कल्पासंख्येयनिर्यातो ह्यधिमुक्तिं विवर्धयन् ।
संपूर्णः कुशलैर्धर्मैः सागरो वारिभिर्यथा
तथा संभृतसंभारो ह्यादिशुद्धौ जिनात्मजः ।
सुविज्ञः कल्प[ल्य]चित्तश्च भावनायां प्रयुज्यते
धर्मस्रोतसि बुद्धेभ्यो ऽववादं लभते तदा ।
विपुलं शमथज्ञानवैपुल्यगमनाय हि
ततः सूत्रादिके धर्मे सो ऽद्वयार्थविभावके ।
सूत्रादिनाम्नि बन्धीयाच्चित्तं प्रथमतो यतिः
ततः पदप्रभेदेषु विचरेदनुपूर्वशः ।
विचारयेत्तदर्थांश्च प्रत्यात्मयोनिशश्च सः
अवधृत्य च तानर्थान्धर्मे संकलयेत्पुनः ।
ततः कुर्यात्समाशास्तिं तदर्थाधिगमाय सः
एषेत प्रत्यवेक्षेत मनोजल्पैः प्रबन्धतः ।
निर्जल्पैकरसैश्चापि मनस्कारैर्विचारयेत्
ज्ञेयः शमथमार्गो ऽस्य धर्मनाय च पिण्डितं ।
ज्ञेयो विपश्यनामार्गस्तदर्थानां विचारणा
युगनद्धश्च विज्ञेयो मार्गस्तत्पिण्डितं पुनः ।
लीनं चित्तस्य गृह्णीयादुद्धतं शमयेत्पुनः
श[स]मप्राप्तमुपेक्षेत तस्मिन्नालम्बने पुनः ।
सातत्येनाथ सत्कृत्य सर्वस्मिन्योजयेत्पुनः
निबध्यालम्बने चित्तं तत्प्रवेधं[वाहं] न विक्षिपेत् ।
अवगम्याशु विक्षेपं तस्मिन् प्रतिहरेत्पुनः
प्रत्यात्मं संक्षिपेच्चित्तमुपर्युपरि बुद्धिमान् ।
ततश्चर [द]मयेच्चित्तं समाधौ गुणदर्शनात्
अरतिं शमयेत्तस्मिन्विक्षेपदोषदर्शनात् ।
अभिध्यादौर्मनस्यादीन्व्युत्थितान् शमयेत्तथा
ततश्च साभिसंस्कारां चित्ते स्वरसवाहितां ।
लभेतानभिसंस्कारान्[रां] तदभ्यासात्पुनर्यतिः
ततः स तनुकां लब्ध्वा प्रश्रब्धिं कायचेतसोः ।
विज्ञेयः समनस्कारः पुनस्तान् [स्तां] स विवर्धयन्
वृद्धिदूरंगमत्वेन मौर्ली स लभते स्थितिं ।
तां शोधयन्नभिज्ञार्थमेति कर्मण्यतां परां
ध्याने ऽभिज्ञाभिनिर्हाराल्लोकधातून्स गच्छति ।
पूजार्थमप्रमेयाणां बुद्धायां श्रवणाय च
अप्रमेयानुपास्यासौ बुद्धान्कल्पैरमेयगैः ।
कर्मण्यतां परामेति चेतसस्तदुपासनात्
ततो ऽनुशंसान् लभते पञ्च शुद्धैः स पूर्वगान् ।
विशुद्धिभाजनत्वं च ततो यानि निरुत्तरं
कृत्स्नादौस्वल्प[दौष्ठुल्य] कायो हि द्रवते ऽस्य प्रतिक्षणं ।
आपूर्यते च प्रश्रब्ध्या कायचित्तं समन्ततः
अपरिच्छिन्नमाभासं धर्माणां वेत्ति सर्वतः ।
अकल्पितानि संशुद्धौ निमित्तानि प्रपश्यति
प्रपूरौ च विशुद्धौ च धर्मकायस्य सर्वथा ।
करोति सततं धीमानेवं हेतुपरिग्रहं
ततश्चासौ तथाभूतो बोधिसत्त्वः समाहितः ।
मनोजल्पाद्विनिर्मुक्तान् सर्वार्थान्न प्रपश्यति
धर्म[र्मा]लोकस्य वृध्द्यर्थं वीर्यमारभते दृढं ।
धर्मालोकविवृध्द्या च चित्तमात्रे ऽवतिष्ठते
सर्वार्थप्रतिभासत्वं ततश्चित्ते प्रपश्यति ।
प्रहीनो ग्राह्यनि[वि]क्षेपस्तदा तस्य भवत्यसौ
ततो ग्राहकविक्षेपः केवलो ऽस्यावशिष्यते ।
आनन्तर्यसमाधिं च स्पृशत्याशु तदा पुनः
यतो ग्राहकविक्षेपो हीयते तदनन्तरं ।
ज्ञेयान्युष्मगतादीनि एतानि हि यथाक्रमं
द्वयग्राहविसंयुक्तं लोकोत्तरमनुत्तरं ।
निर्विकल्पं मलापेतं ज्ञानं स लभते पुनः
सास्याश्रयपरावृत्तिः प्रथमा भूमिरिष्यते ।
अमेयैश्चास्य सा कल्पैः सुविशुद्धिं निगच्छति
धर्मधातोश्च समतां प्रतिविध्य पुनस्तदा ।
सर्वसत्वेषु लभते सदात्मसमचित्ततां
निरात्मतायां दुःखार्थे कृत्ये निःप्रतिकर्मणि ।
सत्वेषु समचित्तो ऽसौ यथान्ये ऽपि जिनात्मजाः
त्रैधातुकात्मसंस्कारानभूतपरिकल्पतः ।
ज्ञानेन सुविशुद्धेन अद्वयार्थेन पश्यति
तदभावस्य भावं च विमुक्तं दृष्टिहायिभिः ।
लब्ध्वा दर्शनमार्गो हि तदा तेन निरूच्यते
अभावशून्यतां ज्ञात्वा तथाभावस्य शून्यतां ।
प्रकृत्या शून्यतां ज्ञात्वा शून्यज्ञ इति कथ्यते
अनिमित्तपदं ज्ञेयं विकल्पानां च संक्षयः ।
अभूतपरिकल्पश्च तदप्रणिहितस्य हि
तेन दर्शनमार्गेण सह लाभः सदा मतः ।
सर्वेषां बोधिपक्षाणां विचित्राणां जिनात्मजे
संस्कारमात्रं जगदेत्य बुद्ध्या निरात्मकं दुःखिविरूढिमात्रं ।
विहाय यानर्थमयात्मदृष्टिः महात्मदृष्टिं श्रयते महार्थां
विनात्मदृष्ट्या य इहात्मदृष्टिर्विनापि दुःखेन सुदुःखितश्च ।
सर्वार्थकर्ता न च कारकाङ्क्षी यथात्मनः स्वात्महितानि कृत्वा
यो मुक्तचित्तः परया विमुक्त्या बद्धश्च गाढायतबन्धनेन ।
दुःखस्य पर्यन्तमपश्यमानः प्रयुज्यते चैव करोति चैव
स्वं दुःखमुद्वोढुमिहासमर्थो लोकः कुतः पिण्डितमन्यदुःखं ।
जन्मैकमालोकयते[गतं] त्वचिन्तो विपर्ययात्तस्य तु बोधिसत्त्वः
यत्प्रेम या वत्सलता प्रयोगः सत्वेष्वखेदश्च जिनात्मजानां ।
आश्चर्यमेतत्परमं भवेषु न चैव सत्वात्मसमानभावात्
ततो ऽसौ भावनामार्गे परिशिष्टासु भूमिषु ।
ज्ञानस्य द्विविधस्येह भावनायै प्रयुज्यते
निविर्कल्पं च तज्ज्ञानं बुद्धधर्मविशोधकं ।
अन्यद्यथाव्यवस्थानं सत्वानां परिपाचकं
भावनायाश्च निर्याणं द्वयसंख्येयसमाप्तितः ।
पश्चिमां भावनामेत्य बोधिसत्वौ ऽभिषिक्तकः
वज्रोपमं समाधानं विकल्पाभेद्यमेत्य च ।
निष्ठाश्रयपरावृत्तिं सर्वावरणनिर्मलां
सर्वाकारज्ञतां चैव लभते ऽनुत्तरं पदं ।
यत्रस्थः सर्वसत्वानां हिताय प्रतिपद्यते
कथं तथा दुर्लभदर्शने मुनौ भवेन्महार्थं न हि नित्यदर्शनं ।
भृशं समाप्यायितचेतसः सदा प्रसादवेगैरसमश्रवोद्भवैः
अ[प्र]चोद्यमानः सततं च संमुखं तथागतैर्धर्मसु[मु]खे व्यवस्थितः ।
निगृह्य केशेष्विव दोषगह्वरात् निकृष्य बोधौ स बलान्निवेश्यते
स सर्वलोकं सुविशुद्धदर्शनैरकल्पबोधैरभिभूय सर्वथा ।
महान्धकारं विधमय्य भासते जगन्महादित्य इवात्युदारतः
बुद्धाः सम्यक्प्रशंसां विदधति सततं स्वार्थसम्यक्प्रयुक्ते, निन्दामीर्ष्याप्रयुक्ते स्थितिविचयपरे चान्तरायानुकूलान् ।
धर्मान् सर्वप्रकारान्विधिवदिह जिना दर्शयन्त्यग्रसत्वे, यान् वर्ज्यासेव्य योगे भवति विपुलता सौगते शासने ऽस्मिम्
इति सततशुभाचयप्रपूर्णः सुविपुलमेत्य स चेतसः समाधिं ।
मुनिसततमहाववादलब्धो भवति गुणार्णवपारगो ऽग्रसत्वः
मूल पाठ: Mahāyānasūtrālaṃkāra · Edition: S. Bagchi: Mahayana sutralankara of Asanga with its Svavrtti. Darbhanga : The Mithila Institute, 1970, 1-180 (karika only). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0