भाषा

ENहिગુ
ग्रंथ पाठ

महायानसूत्रालंकार (अन्य संस्करण) · अध्याय 13

13.1

महायानसूत्रालंकारे देशनाधिकारो द्वादशः
त्रयोदशो ऽधिकारः
प्रतिपत्तिविभागे षट् श्लोकाः ।
द्वेधा नैरात्म्यमाज्ञाय धीमान् पुद्गलधर्मयोः ।
द्वयमिथ्यात्वसम्यक्त्वं विवर्ज्येत त्रयेण हि

13.2

अर्थज्ञः सर्वधर्माणां वेत्ति कोलसमानतां ।
श्रुततुष्टिप्रहाणाय धर्मज्ञस्तेन कथ्यते

13.3

पार्थग्जनेन ज्ञानेन प्रतिविध्य द्वयं तथा ।
तज्ज्ञानपरिनिष्पत्तावनुधर्मं प्रपद्यते

13.4

ततो ज्ञानं स लभते लोकोत्तरमनुत्तरं ।
आदिभूमौ समं सर्वैर्बोधिसत्त्वैस्तदात्मभिः

13.5

कृत्वा दर्शनज्ञेयानां[हेयानां] क्लेशानां सर्वसंक्षयम् ।
ज्ञेयावरणज्ञानाय[हानाय] भवनायां प्रयुज्यते

13.6

व्यवस्थानाविकल्पेन ज्ञानेन सहचारिणा ।
अनुधर्मं चरत्येवं परिशिष्टासु भूमिषु

13.7

सुलाभो ऽथ स्वधिष्ठानः सुभूमिः सुसहायकः ।
सुयोगो गुणवान् देशो यत्र धीमान् प्रपद्यते

13.8

बहुश्रुतो दृष्टसत्यो वाग्मी समनुकम्पकः ।
अखिन्नो बोधिसत्त्वश्च ज्ञेयः सत्पुरूषो महान्

13.9

स्वालम्बना सुसं भारा [सुसंस्तब्धा] सुभावनैव [सुपायाचैव ?] देशिता ।
सुनिर्याणप्रयोगा च आत्मसम्यक्प्रधानता

13.10

रतेः क्षणोपपत्तेश्च आरोग्यस्यापि कारणं ।
समाधेर्विचयस्यापि पूर्वे हि कृतपुण्यता

13.11

धर्मधातुविनिर्मुक्तो यस्माद्धर्मो न विद्यते ।
तस्माद्रागादयस्तेषां बुद्धैर्निःसरणं मताः

13.12

धर्मधातुविनिर्मुक्तो यस्माद्धर्मो न विद्यते ।
तस्मात्संक्लेशनिर्देशे स संविद्[संधिर]धीमतां मतः

13.13

यतस्तानेव रागादीन्योनिशः प्रतिपद्यते ।
ततो विमुच्यते तेभ्यस्तेनैषां निःसृतिस्ततः

13.14

न खलु जिनसुतानां बाधकं दुःखमुग्रं नरकभवनवासैः सत्वहेतोः कथंचित् ।
शमभवगुणदोषप्रेरिता हीनयाने विविधशुभविकल्पा बाधका धीमतां तु

13.15

न खलु नरकवासो धीमतां सर्वकालं विमलविपुलबोधेरन्तरायं करोति ।
स्वहितपरमशीतस्त्वन्ययाने विकल्पः परमसुखविहारे ऽप्यन्तरायं करोति

13.16

धर्माभावोपलब्धिश्च निःसंक्लेशविशुद्धिता ।
मायादिसदृशी ज्ञेया आकाशसदृशी तथा

13.17

यथैव चित्रे विधिवद्विचित्रिते नतोन्नतं नास्ति च दृश्यते ऽथ च ।
अभूतकल्पे ऽपि तथैव सर्वथा द्वयं सदा नास्ति च दृश्यते ऽथे च

13.18

यथैव तोये लुति[टि]ते प्रसादिते न जायते सा पुनरच्छतान्यतः ।
मलापकर्षस्तु स तत्र केवलः स्वचित्तशुद्धौ विधिरेष एव हि

13.19

मतं च चित्तं प्रकृतिप्रभास्वरं सदा तदागन्तुकदोषदूषितं ।
न धर्मताचित्तमृते ऽन्यचेतसः प्रभास्वरत्वं प्रकृतौ विधीयते

13.20

बोधिसत्त्वस्य सत्त्वेषु प्रेम मज्जगतं महत् ।
यथैकपुत्रके तस्मात्सदा हितकरं मतम्

13.21

सत्वेषु हितकारित्वान्नैत्यापत्तिं स रागजां ।
द्वेषो विरुद्यते त्वस्य सर्वसत्वेषु सत्पथा[सर्वथा]

13.22

यथा कपोती स्वसुतातिवत्सला स्वभावकांस्तानुपगुह्य तिष्ठति ।
तथाविधायं प्रतिघो विरुध्यते सुतेषु तद्वत्सकृपे ऽपि देहिषु

13.23

मैत्री यतः प्रतिघचित्तमतो विरुद्धं शान्तिर्यतो व्यसनचित्तमतो विरुद्धं ।
अर्थो यतो निकृतिचित्तमतो विरुद्धं ल्हादो यतः प्रतिभयं न[च] ततो विरुद्धं

13.24

यथातुरः सुभैषज्ये संसारे प्रतिपद्यते ।
आतुरे च यथा वैद्यः सत्वेषु प्रतिपद्यते

13.25

अनिष्पन्ने यथा चेटे स्वात्मनि प्रतिपद्यते ।
वणिग्यथा पुनः पुण्ये कामेषु प्रतिपद्यते

13.26

यथैव रजको वस्त्रे कर्मणे प्रतिपद्यते ।
पिता यथा सुते बाले सत्वाहेठे प्रपद्यते

13.27

अग्न्यर्थी वाधरारण्यां सातत्ये प्रतिपद्यते ।
वैश्वासिको वानिष्पन्ने अधिचित्ते प्रपद्यते

13.28

मायाकार इव ज्ञेये प्रज्ञया प्रतिपद्यते ।
प्रतिपत्तिर्यथा यस्मिन् बोधिसत्त्वस्य सा मता

13.29

इति सततमुदारयुक्तवीर्यो द्वयपरिपाचनशोधने सुयुक्तः ।
परमविमलनिर्विकल्पबुद्ध्या व्रजति स सिद्धिमनुत्तमां क्रमेण

मूल पाठ: Mahāyānasūtrālaṃkāra · Edition: S. Bagchi: Mahayana sutralankara of Asanga with its Svavrtti. Darbhanga : The Mithila Institute, 1970, 1-180 (karika only). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc