महायानसूत्रालंकार (अन्य संस्करण) · अध्याय 12
महायानसूत्रालंकारे धर्मपर्येष्ट्यधिकार एकादशः
द्वादशो ऽधिकारः
धर्मदेशनायां मात्सर्यप्रतिषेधे श्लोकः
प्राणान्भोगांश्च धीराः प्रमुदितमनसः कृच्छ्रलब्धानसारान् सत्वेभ्यो दुःखितेभ्यः सततमवसृजन्त्युच्चदानप्रकारैः ।
प्रागेवोदारधर्मं हितकरमसकृत्सर्वथैव प्रजानां कृच्छ्रे नैवोपलब्धं भृशमवसृजतां वृद्धिगं चाव्ययं च
धर्मो नैव च देशितो भगवता प्रत्यात्मयवेद्यो यत आकृष्टा जनता च युक्त[युक्ति]विहितैर्धर्मैः स्वर्की धर्मतां ।
स्वशान्त्यास्यपुटे विशुद्धिविपुले साधारणे ऽथाक्षये लालेनेव कृपात्मभिस्त्वजगरप्रख्यैः समापादिता
तस्मान्नैव निरर्थिका भवति सा या भावना योगिनां तस्मान्नैव निरर्थिका भवति सा या देशना सौगती ।
दृष्टो ऽर्थः श्रुतमात्रकाद्यदि भवेत् स्याद्भावनापार्थिका अश्रुत्वा यदि भावनामनुविशेत् स्याद्देशनापार्थिका
आगमतो अधिगमतो विभुत्वतो देशनाग्रसत्वानां ।
मुखतो रूपात्सर्वा[र्वतःआ]काशादुच्चरणताऽपि............
विषदा संदेहजहा आदेया तत्वदर्शिका द्विविधा ।
संपन्नदेशनेयं विज्ञेयं[या] बोधिसत्त्वानां
मधुरा मदव्यपेता न च खिन्ना देशनाग्रसत्वानां ।
स्फुटचित्रयुक्तगमिका निरामिषा सर्वगा चैव
अदीना मधुरा सूक्ता प्रतीता विषदा तथा [वाग्जिनात्मजे] ।
[यथार्हा निराभिषा च परिमिताक्षया तथा]
उद्देशान्निर्देशात्तथैव यानानुलोमनात् श्लाक्ष्ण्यात् ।
प्रातीत्यद्याथार्हान्नैर्याण्यादानुकूल्यत्वात्
व्यञ्जनसंपच्चैषा विज्ञेया सर्वथाग्रसत्त्वानां ।
षष्ट्यङ्गी साचिन्त्या घोषो ऽनन्तस्तु सुगतानां
वाचा पदैः सुयुक्तैरनुदेशविभागसंशयच्छेदैः ।
बहुलीकारानुगता ह्युद्धटितविपञ्चितज्ञेषु
शुद्धा त्रिमण्डलेन हितेयं देशना हि बुद्धानां ।
दोषैर्विवर्जिता पुनरष्टभिरेषैव विज्ञेया
कौशीद्यमनवबोधो ह्यवकाशस्याकृतिर्ह्यनीतत्वम् ।
संदेहस्याच्छेदस्तद्विगमस्यादृढीकरणम्
खेदो ऽथ मत्सरित्वं दोषा ह्येते मता कथायां हि ।
तदभावाद्बुद्धानां निरूत्तरा देशना भवति
कल्याणो धर्मो ऽयं हेतुत्वाद्भक्तितुष्टिबुद्धीनां ।
द्विविधार्थः सुग्राह्यश्चतुर्गुणब्रह्मचर्यवदः
परैरसाधारणयोगकेवलं त्रिधातुकक्लेशविहानिपूरकम् ।
स्वभावशुद्धं मलशुद्धितश्च तच्चतुर्गुणब्रह्मविचर्यमिष्यते
अवतारणसंधिश्च संधिर्लक्षणतो ऽपरः ।
प्रतिपक्षाभिसंधिश्च संधिः परिणतावपि
श्रावकेषु स्वभावेषु दोषाणां विनये तथा ।
अभिधानस्य गाम्भीर्ये संधिरेष चतुर्विधः
असारे सारमतयो विपर्यासे च सुस्थिताः ।
क्लेशेन च सुसंक्लिष्टा लभन्ते बोधिमुक्तमां ॥ म्स_12.17* ॥
॥ इति ॥
समता ऽर्थान्तरे ज्ञेयस्तथा कालान्तरे पुनः ।
पुद्गलस्याशये चैव अभिप्रायश्चतुर्विधः
बुद्धे धर्मे ऽवज्ञा कौशीद्यं तुष्टिरल्पमात्रेण ।
रागे माने चरितं कौकृतं चानियतभेदः
सत्त्वानामावरणं तत्प्रतिपक्षो ऽग्रयानसंभाषा ।
सर्वान्तरायदोषप्रहाणमेषां ततो भवति
यो ग्रन्थतो ऽर्थतो वा गाथाद्वयधारणे प्रयुज्येत ।
स हि दशविधमनुशंसं लभते सत्वोत्तमो धीमान्
कृत्स्नां च धातुपुष्टिं प्रामोद्यं चोत्तमं मरणकाले ।
जन्म च यथाभिकामं जातिस्मरतां च सर्वत्र
बुद्धैश्च समवधानं तेभ्यः श्रवणं तथाग्रयानस्य ।
अधिमुक्तिं सह बुद्ध्या द्वयमुखतामाशुबोधिं च
इति सुग[म]तिरखेदवान् कृपालुः प्रथितयशाः सुविधिज्ञतामुपेतः ।
भवति सुकथिको हि बोधिसत्त्वस्तपति जने कथितैर्यथैव सूर्यः
मूल पाठ: Mahāyānasūtrālaṃkāra · Edition: S. Bagchi: Mahayana sutralankara of Asanga with its Svavrtti. Darbhanga : The Mithila Institute, 1970, 1-180 (karika only). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0