भाषा

ENहिગુ
ग्रंथ पाठ

महावस्तु-अवादन · भाग 81100

अमात्यं देव कुर्यासि पण्डितम् अर्थचिन्तकं ।
अलुब्धम् अनुरक्तं च राष्ट्रस्य परिणायकं ॥
दुष्प्रज्ञानाम् अमात्यानां प्रज्ञाविकल्पकारिणां ।
राष्ट्राणि दुःखम् एधन्ति राष्ट्राधिपतिना सह ॥
पण्डितानाम् अमात्यानां प्रज्ञातेजेन पार्थिव ।
राष्ट्राणि सुखम् एधन्ति राष्ट्राधिपतिना सह ॥
लुब्धो च अल्पबुद्धी च अमात्यो मनुजाधिप ।
नैव राज्ञो हितो भोति राष्ट्रस्यापि न सो हितः ॥
तस्माद् अलुब्धमेधाविं अमात्यं मनुजाधिप ।
मन्त्रस्यानुयुक्तं कुर्या राष्ट्रस्य परिणायकं ॥
नास्ति चारसमं चक्षुः नास्ति चारसमो नायो ।
तस्माच् चारं प्रयोजेय्या सर्वार्थेषु जनाधिपः ॥
सर्वं परिजनं राष्ट्रं संपरिगृह्ण पार्थिव ।
बलाग्रम् उपजीविञ् च कृत्याकृत्येहि पार्थिव ॥
तस्माद् धीरं प्रतीहारं प्रतिपद्यासि पार्थिव ।
अप्रमादं स कुर्या च तवम् एतत् सुखावहं ॥
एतावती अर्थवती एषा मह्यानुशासनी ।
[_म्वु_1.280_] तं सर्वम् ओग्रहेत्वान एवं कुरुहि पार्थिव ॥
एवन् ते प्रतिपन्नस्य यशो कीर्तिश् च भेष्यति ।
क्षेमं भविष्यति राष्ट्रं ऋद्धं स्फीतं जनाकुलं ॥
कौशिको चापि पृच्छितो ते पृष्टा व्याकरेन्सु मे ।
राजधर्मं यथातथा त्वं दानि शुक पृच्छसि ॥
बलं कतिविधं राज्ञो पण्डित अर्थचिन्तक ।
राजधर्मं यथातथा इच्छितव्यं ब्रवीहि मे ॥
शुको आह ॥
बलं पंचविधं राज्ञः इच्छितव्यं नराधिप ।
एकाग्रमनसो भूत्वा शृणोहि वचनं मम ॥
प्रथमं बलं सहजं द्वितीयं पुत्रबलं तथा ।
ज्ञातिमित्रबलं चापि तृतीयं मनुजाधिप ॥
चतुरंगबलं चापि चतुर्थं भवति पार्थिव ।
पंचमं च बलं क्रुहि प्रज्ञाबलम् अनुत्तरं ॥
एतं बलं पंचविधं यस्य चापि जनाधिप ।
राष्ट्रो ऽस्य स्थावरो भोति ऋद्धं स्फीतं जनाकुलो ॥
बलवं पुनर् एतेषां प्रज्ञाबलम् अनुत्तम ।
प्रज्ञाबलेन संग्रहे कृत्याकृत्यं जनाधिप ॥
अकृत्यं परिवर्जेति कृत्यं च अनुतिष्ठति ।
आत्मनो ज्ञातिमित्राणां राष्ट्रस्य च सुखावहं ॥
कुलीनो ऽपि हि दुष्प्रज्ञो राजार्थे मनुजाधिप ।
नैव राज्ञो हितो भोति राष्ट्रस्यापि न सो प्रियः ॥
[_म्वु_1.281_] क्षिप्रं तु नश्यते राज्यं प्रतिराजेहि पार्थिव ।

विरक्ता प्रकृतियो च अन्यं मार्गन्ति स्वामिकं ॥
अतीव सत्कृतो भवति पण्डितो अर्थचिन्तकः ।
वरान्यो च स्थापयति शूरां वीरां विचक्षणां ॥
यशं च इह लोकस्मिं संपराये च स्वर्गति ।
अधर्मं परिवर्जेत्वा धर्मम् आचरते सदा ॥
धर्मं चर महाराज मातापितृषु पार्थिव ।
इह धर्मं चरित्वान राजा स्वर्गं गमिष्यति ॥
धर्मं चर महाराज पुत्रदारे जनाधिप ।
इह धर्मं चरित्वान राजा स्वर्गं गमिष्यति ॥
धर्मं चर महाराज मित्रामात्ये जनाधिप ।
इह धर्मं चरित्वान राजा स्वर्गं गमिष्यति ॥
धर्मं चर महाराज श्रमणे ब्राह्मणे तथा ।
इह धर्मं चरित्वान राजा स्वर्गं गमिष्यति ।
धर्मं चर महाराज पुरे जानपदेषु च ॥
इह धर्मं चरित्वान राजा स्वर्गं गमिष्यति ॥
धर्मं चर महाराज अस्मिं लोके परत्र च ।
इह धर्मं चरित्वान राजा स्वर्गं गमिष्यति ॥
एतावती अर्थवती एषा मह्यानुशासनी ।
तं सर्वम् ओग्रहीत्वान एवं कुरुहि पार्थिव ॥
एवन् ते प्रतिपन्नस्य यशो कीर्ति च भेष्यति ।
क्षेमं भविष्यते राष्ट्रं ऋद्धं स्फीतं जनाकुलं ॥
तान् एवम् उवाच राजा ब्रह्मदत्तो प्रतापवान्* ।
[_म्वु_1.282_] समन्तपण्डिता पुत्रा निपुणा अर्थचिन्तका ॥
सर्वेषां वो करिष्यामि वचनम् अनुशासनीं ।
दृष्टो धार्मिकथया वो अर्थो यं सांपरायिकः ॥
पूर्वेनिवासं भगवां पूर्वेजातिम् अनुस्मरन्* ।
जातकम् इदम् आख्यासि शास्ता भिक्षूणम् अन्तिके ॥
अनवराग्रस्मिं संसारे यत्र मे उषितं पुरा ।
शुको अहं तद आसि शारिपुत्रो च सारिको ॥
आनन्दो कौशिको आसि ब्रह्मदत्तो शुद्धोदनो ।
एवम् इदम् अपरिमितं बहुदुःखं
उच्चनीचं चरितं पुराणं ।
विगतज्वरो विगतभयो अशोको स्वजातकं
भगवां भाषति भिक्षुसंघमध्ये ॥
_____इति श्रीमहावस्तु-अवदाने त्रिशकुनीयं नाम जातकं समाप्तं ॥
अथ बोधिसत्वस् तं शुकभवं जहित्वा कुमारो संवृत्तः दशकुशलां कर्मपथां देशेति ॥
दश वशिता आख्याता बुद्धेनादित्यबन्धुना ।
बोधिसत्वान शुराणां भाषतो तं शृणोथ मे ॥
वशी आयुष्मन्तो धीरो प्रतिभाने तथैव च ।
उपपत्तिया च कर्मे च चिन्ते च वशितां गतो ॥

धर्मे च ऋद्धिवशिता अभिप्रायवशिस् तथा ।
कालदेशे वशी धीरो इत्य् एते वशिता दश ॥
[_म्वु_1.283_] वशितादशसु एतासु प्रतिष्ठाय विशारदाः ।
सत्वकोटिसहस्राणि परिपाचेन्ति नरर्षभाः ॥
बुद्धक्षेत्रं विशोधेन्ति बोधिसत्वा च नायका ।
बोधिसत्वा द्युतिमन्तो महाकारुणलाभिनो ॥
जातकपर्यवसाने तहिं च परिपाचिता ।
चतुरशीतिहि प्राणिसहस्रेहि धर्मो अभिसंमतो ॥
बुद्धेन भगवता वैशालीये सीमं आक्रमन्तेन सर्वे अमनुष्यका पलानाः ॥ महन्तो जनकायो प्रीतो भगवन्तं पृच्छति ॥ पश्य भगवन् कथं भगवता वैशालीये सीमाम् आक्रमन्तेनैव सर्वे अमनुष्यकाः पलानाः ॥ भगवान् आह ॥ किम् अत्र वासिष्ठाहो आश्चर्यं यन् तथागतेन परमसंबोधिप्रप्तेन देवातिदेवेन सीमाम् आक्रमन्तेनैव सर्वे अमनुष्यका पलानाः ॥ अन्यदापि मया ऋषिभूतेन कम्पिल्ले नगरे सीमाम् आक्रमन्तेनैव सर्वे अमनुष्यका पलानाः ॥ लेच्छविका आहन्सु ॥ अन्यदापि भगवन्* ॥ भगवान् आह ॥ अन्यदापि वासिष्ठा ॥
___भूतपूर्वं वासिष्ठा अतीत-म्-अध्वाने पांचाले जनपदे कम्पिल्ल नगरे राजा ब्रह्मदत्तो नाम राज्यं कारेसि सुसंगृहीतपरिजनो दानसंविभागशीलो ॥ तस्य तं कम्पिल्लं जनपदं ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च सुखितमनुष्यं च प्रशान्तदण्डडमरं सुनिगृहीततस्करं व्यवहारसम्पन्नं ॥ तस्य दानि राज्ञो ब्रह्मदत्तस्य रक्षितो नाम पुरोहितपुत्रो महेशाख्यो दशकुशलकर्मपथसमादायवर्ती कामेषु आदीनवदर्शावी निःशरणप्रज्ञो संवेगबहुलो नैष्क्रम्याभिप्रायो ॥ सो कामेषु आदीनवं दृष्ट्वा अनुहिमवन्तं गत्वा ऋषिप्रव्रज्यां पर्व्रजीतो ॥ तेन दानि तहिं हिमवन्ते आश्रमं
[_म्वु_1.284_] मापेत्वा तृणकुटीपर्णकुटीनि कृत्वा मूलपत्रपुष्पफलभक्षेण बाहिरकेण मार्गेण पूर्वरात्रं अपररात्रं जागरिकायोगम् अनुयुक्तेन विहरन्तेन चत्वारि ध्यानानि उत्पादितानि पंच च अभिज्ञा साक्षीकृता ॥ सो दानि चतुर्ध्यानलाभी पंचाभिज्ञो दशकुशलकर्मपथसमादायवर्ती कुमारो ब्रह्मचारी स्वयम् आश्रमे पर्यंकेन निषण्णो चन्द्रमण्डलं च सूर्यमण्डलं च पाणिना परामृषति । यावद् ब्रह्मकायिककायान् वशे वर्तेति उग्रतपो ऋषि महाभागो ॥ कदाचित् कम्पिल्ले महानगरे सजनपदे अमनुष्यव्याधि दारुणो उत्पन्नो ॥ तेन अमनुष्यव्याधिना स्पृष्टा बहूनि प्राणिसहस्राणि अनयव्यसनम् आपद्यन्ते ॥ राज्ञा ब्रह्मदत्तेन तं कम्पिल्ले महान्तम् आदीनवं दृष्ट्वा अनुहिमवन्ते रक्षितस्य दूतो प्रेषितः ॥ कम्पिल्ले एदृशो अमनुष्यव्याधि उत्पन्नो बहूनि प्राणिसहस्राणि अनयव्यसनम् आपद्यन्ति ॥ साधु भगवान् कम्पिल्लम् आगच्छेया अनुकम्पाम् उपादाय ॥ ऋषिर् दूतवचनं श्रुत्वा अनुहिमवन्तातो कम्पिल्लम् आगतो ॥ तेन ऋषिणा कम्पिल्लस्य सीमाम् आक्रमन्तेन सर्वे ते अमनुष्यका पलानाः ॥ ऋषिणा तहिं कम्पिल्ले स्वस्त्ययनं कृतं दश कुशलाः कर्मपथा देशिता चतुरशीतिनां प्राणिसहस्राणां ॥
किं सो नरो जल्पम् अचिन्त्यकालं
कतमास्य विद्या कतमं स्य दानं ।
सौख्याध्वगो अस्मिं परे च लोके
कथंकरो रक्षितो स्वस्त्ययनं तद् आहु ॥
यो सिद्धदेवां च नरांश् च सर्वा
ज्ञातिं च भूतानि च नित्यकालं ।
अवजानति प्रज्वलनं च तीक्ष्णं
भूतानुकम्पि रक्षितो स्वस्त्ययनं तद् आहुः ॥
[_म्वु_1.285_] यो वा दुरुक्तं वचनं क्षमेया
क्षान्तीबलेन अधिवासयन्तो ।
परुषं श्रुत्वा वचनं अनिष्टं
अधिवासनारक्षितो स्वस्त्ययनं तद् आहुः ॥
यो वा दुरुक्तं वचनं क्षमेय
जाता च ये स्निग्धमित्रा सततं भवन्ति ।
विशारदा अविसंवादका च
तां मित्रद्रोहीसमसंविभागी ।
धनेन मित्रां सदा-म्-अनुकम्पि
सो मित्रमध्ये रक्षितो स्वस्त्ययनं तद् आहुः ॥
यो ज्ञातिमध्ये च सहायमध्ये
शीलेन प्रज्ञाय वशीतया च ।
अभिरोचति सर्वं हि नित्यकालं
सो ज्ञातिमध्ये रक्षितो स्वस्त्ययनं तद् आहुः ॥
यस्मिं राजा भूमिपती प्रसन्ना
जानन्ति सत्ये च पराक्रमे ।
अभव्य एषो इह च पुरा च
स राजमध्ये रक्षितो स्वस्त्ययनं तद् आहुः ॥
यं स्निग्धभावा . . . . . . . . . . .
माता प्रजायाम् अनुकम्पिता च ।
प्रजायते रूपवती सुशीला

घरवास रक्षितो स्वस्त्ययनं तद् आहुः ॥
[_म्वु_1.286_] ये आर्यधर्मेण स्तुवन्ति बुद्धं
उपस्थिता परिचरियाये सन्तो ।
बहुश्रुता तीर्णकांक्षा विमुक्ता
अर्हन्तमध्ये रक्षितो स्वस्त्ययनं तद् आहुः ॥
अन्नं पानं काशिकचन्दनं च
गन्धं च माल्यं च ददन्ति काले ।
प्रसन्नचित्ता श्रमणब्रह्मेहि
ग्रामस्य मध्ये रक्षितो स्वस्त्ययनं तद् आहुः ॥
पैशुन्यं मृषावाद परेषु दारं
प्राणातिपातं च तथैव मद्यं ।
एतं प्रहाय स्वर्गतिं गमिष्यथ
ग्रामस्य मध्ये रक्षितो स्वस्त्ययनं तद् आहुः ॥
स्यात् खलु पुनर् वो वासिष्ठाहो एवम् अस्यास्याद् अन्यो स तेन कालेन तेन समयेन रक्षितो नाम ऋषि अभूषि । न खल्व् एव द्रष्टव्यं । तत् कस्य हेतोः । अहं सो वासिष्ठा तेन कालेन तेन स्मयेन रक्षितो नाम ऋषि अभूषि ॥ अन्यो सो तेन कालेन तेन समयेन कम्पिल्ले नगरे ब्रह्मदत्तो नाम राजा अभूषि ॥ न खल्व् एतद् एव द्रष्टव्यं ॥ एषो राजा श्रेणिको बिम्बिसारो तदा कम्पिल्ले नगरे ब्रह्मदत्तो नाम राजा अभूषि ॥ तदापि मये ऋषिभूतेन कम्पिल्ले सीमाम् आक्रमन्तेनैव सर्वे अमनुष्यका पलानाः ॥ एतरहिं पि मये वैशालीये सीमाम् आक्रमन्तेनैव सर्वे अमनुष्यका पलानाः ॥
___अपि च न एतरहिं येव मये सीमाम् आक्रमन्तेनैव सर्वे अमनुष्यका पलानाः । अन्यदापि मये सीमाम् आक्रमन्तेनैव अमनुष्यका पलानाः ॥
___भूतपूर्वं वासिष्ठाहो अतीतम् अध्वानं नगरे वाराणसी काशिजनपदे राजा राज्यं कारयति कृतपुण्यो महेशाख्यो महाबलो महाकोशो महावाहनो सुसंगृहीतपरिजनो
[_म्वु_1.287_] दानसंविभागशीलो ॥ तस्य तं नगरं वाराणसी काशिजनपदो ऋद्धो च स्फीतो च क्षेमो च सुभिक्षो च आकीर्णजनमनुष्यो च ॥ तस्य दानि राज्ञो हस्तिनागो कृतपुण्यो महेशाख्यो महातेजो महानुभावो तस्य तेजानुभावेन वाराणसी काशीजनपदो निरीतिको निरुपद्रवो येनान्येषाम् अपि ग्रामजनपदानां सीमाम् आक्रमन्तेनैव निरीतिका निरुपद्रवा भोन्ति ॥ कदाचित्* मिथिलायां विदेहनगरे अमनुष्यव्याधिर् उत्पन्नो बहूनि प्राणिसहस्राणि अनयव्यसनम् आपद्यन्ति ॥ ते शृण्वन्ति काशीराज्ञो हस्तिनागो कृतपुण्यो च महेशाख्यो च महातेजो च महानुभावो च यस्य ग्रामस्य वा नगरस्य वा सीमाम् आक्रमति निरीतिको निरुपद्रवो सो ग्रामो वा नगरो वा भवति ॥ तेन दानि वैदेहकराज्ञा अपरो ब्राह्मणो उक्तो ॥ गच्छ वाराणसीं सो काशिराजा सर्वंददो च दानसंविभागशीलो च ॥ तस्य इमां प्रकृतिं आरोचेहि तं च हस्तिनागं याचेहि ॥ तेन नागेन इह आगतेन सर्वो अमनुष्यव्याधि प्रशमिष्यति ॥ सो ब्राह्मणो राज्ञो वचनं श्रुत्वा अनुपूर्वेण वाराणसिम् अनुप्राप्तो ॥ ब्राह्मणो च वाराणसिं प्रविशति ॥ अयं च काशिराजा वाराणसीतो बहिर् नगरं निर्याति महता राजानुभावेन महतीये राज-ऋद्धीये तं च हस्तिनागं सर्वालंकारविभूषितं हेमजालसंच्छन्नं शिरीज्वलन्तं पुरतो गच्छति ॥ तेन ब्राह्मणेन सो काशिराजा पुरतः स्थित्वा जयेन वर्धापितो ॥ राजा तं ब्राह्मणं दृष्ट्वा स्थितो ॥ केन ते स्ति भो ब्राह्मण अर्थो किन् ते ददामि ॥ ब्राह्मणेन तं मिथिलायाम् अमनुष्यं उपसर्गं सर्वं काशिराज्ञो आरोचितं ॥ एतं महाराज हस्तिनागं देहि मिथिलायाम् अनुकम्पाम् उपादाय ॥ राजा सकृपो परानुग्रहप्रवृत्तो च ॥ तेन तं हस्तिनागं तस्य ब्रह्मणो यथालंकृतं दिन्नं ॥ ददामि ते ब्राह्मण नागम् इमम् अलंकृतं हेमजालेन च्छन्नं राजार्हं राजभोग्यं उदारं
[_म्वु_1.288_] ससारथिं । गच्छहि येनकामं ॥ स्यात् खलु पुनर् वो वासिष्ठाहो एवम् अस्यास्या अन्यः स तेन कालेन तेन समयेन वाराणस्यां राजा अभूषि ॥ न एतद् एवं द्रष्टव्यं ॥ एष राजा श्रेणिको बिम्बिसारो तेन कालेन तेन समयेन काशिराजा अभूषि ॥ स्यात् खलु पुनर् वो वासिष्ठाहो एवम् अस्यास्या अन्यो सो तेन कालेन तेन समयेन मिथिलायां राजा भवति ॥ न एतद् एवं द्रष्टव्यं ॥ तत् कस्य हेतोः ॥ एष सिंहसेनापतिस् तेन कालेन तेन समयेन राजा अभूषि ॥ अन्यो सो ब्राह्मणो भवति । एषो तोमरो लेच्छविः ॥ अन्यो सो हस्तिनागो भवति ॥ न खलु पुनर् एवं द्रष्टव्यं ॥ अहं सो तेन कालेन तेन समयेन राज्ञो हस्तिनागो अभूषि ॥ तदापि मये हस्तिनगभूतेन मिथिलायां सर्वे अमनुष्यकाः पलानाः ॥ एतरहिं पि मये वैशालीये सीमाम् आक्रमन्तेनैव सर्वे अमनुष्यका पलानाः ॥
___अपि तु वासिष्ठाहो न एतरहिम् एव मये सीमाम् आक्रमन्तेनैव सर्वे अमनुष्यकाः पलानाः ॥ अन्यदापि ऋषभभूतेन सीमाम् आक्रमन्तेनैव सर्वे अमनुष्यकाः पलानाः ॥
___भूतपूर्वं वासिष्ठाहो अतीतम् अध्वानं राजगृहे नगरे राजा राज्यं कारयति कृतपुण्यो महेशाख्यो सुसंगृहीतपरिजनो दानसंविभागशीलो महाबलो महाकोशो महाबलवाहनो । तस्य तं राज्यं ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णमनुष्यञ् च बहुजनमनुष्यम् च सुखितजनमनुष्यं च प्रशान्तदण्डडमरं सुनिगृहीततस्करं व्यवहारसम्पन्नं ॥ तहिं अमनुष्यव्याधि उत्पन्नो बहूनि प्राणिसहस्राणि अमनुष्यव्याधिना अनयव्यसनम् आपद्यन्ति ॥ अङ्गराज्ञो च ऋषभो अभूषि प्रासादिको दर्शनीयो कृतपुण्यो महेशाख्यो ॥ तस्य तेजानुभावेन सर्वम् अङ्गविषयं निरीतिकं निरुपद्रवं ॥ राजगृहका ब्राह्मणगृहपतिका शृण्वन्ति ॥ अङ्गराज्ञो ईदृशो ऋषभो प्रासादिको दर्शनीयो कृतपुण्यो महेशाख्यो । तस्य तेजानुभावेन सर्वम् अंगविषयं निरीतिकं

[_म्वु_1.289_] निरुपद्रवं भवति ॥ तेहि राज्ञो आरोचितं ॥ महाराज शृणोम अंगराज्ञो एदृशो ऋषभो प्रासादिको दर्शनीयो कृतपुण्यो महेशाख्यो महानुभावो । यस्य ग्रामस्य वा नगरस्य वा सीमाम् आक्रमति तं निरीतिकं निरुपद्रवं भवति ॥ महाराज ऋषभं आनय यथा तेन आनीतेन राजगृहे अमनुष्यव्याधि प्रशमिष्यति ॥ राजगृहकेन राज्ञा अङ्गराज्ञो ब्राह्मणो प्रेषितो ॥ गच्छ अङ्गराज्ञ इमं राजगृहे आदीनवं वेदयित्वा तं ऋषभं याचाहीति ॥ सो दानि राज्ञो ब्राह्मणो तथेति प्रतिश्रुणित्वा राजगृहातो अनुपूर्वेण अङ्गराजस्य नगरम् अनुप्राप्तः ॥ तेन अङ्गराज्ञो उपसंक्रमित्वा अङ्गराजानं जयेन वर्धापेत्वा एवं राजगृहकम् अमनुष्यव्याधिं सर्वं विस्तरेण आरोचेत्वा ऋषभं याचितं ॥ सो पि च राजा सकृपो च परानुग्रहप्रवृत्तो च ॥ तेन तं राजगृहकानां महन्तम् आदीनवं श्रुत्वा सो ऋषभो तस्य ब्राह्मणस्य दिन्नः ॥ गच्छ ब्राह्मण सुखी भवन्तु राजगृहका मनुष्या सर्वे सत्वाश् च ॥ ब्राह्मणो तं ऋषभं गृह्य अंगविषयातो मगधविषयम् आगच्छति ॥ समनन्तरं च वासिष्ठाहो ऋषभेण राजगृहस्य सीमा आक्रान्ता सर्वे च ते अमनुष्यका पलाना निरीतिको च निरुपद्रवो राजगृहस्य जनपदो संवृत्तो ॥ स्याद् वो पुनर् एव वासिष्ठाहो एवम् अस्यास्याद् अन्यः स तेन कालेन तेन समयेन अंगनगरे अंगराजा अभूषि ॥ न खलु पुनर् एवं द्रष्टव्यं ॥ तत् कस्य हेतोः ॥ एष वासिष्ठाहो राजा श्रेणियो बिम्बिसारो तेन कालेन तेन समयेन अङ्गराजा अभूषि ॥ अन्यो स तेन कालेन तेन समयेन राजगृहे राजा अभूषि ॥ न एतद् एवं द्रष्टव्यं ॥ तत् कस्य हेतोः ॥ एष सिंहसेनापतिः ॥ अन्यः स तेन कालेन तेन समयेन राजगृहको ब्राह्मणो अभूषि येन तं ऋषभं आनीतं ॥ न एतद् एवं द्रष्टव्यं ॥ तत् कस्य
[_म्वु_1.290_] हेतोः ॥ एष वासिष्ठाहो तोमरो लेच्छविस् तेन कालेन तेन समयेन राजगृहे ब्राह्मणो अभूषि येन तं अङ्गराज्ञो सकाशातो ऋषभो राजगृहम् आनीतो ॥ स्यात् खलु पुनर् वो वासिष्ठाहो एवम् अस्यास्या अन्यः स तेन कालेन तेन समयेन अंगराज्ञो ऋषभो अभूषि ॥ न खल्व् एतद् एवं द्रष्टव्यं ॥ तत् कस्य हेतोः ॥ अहं सो वासिष्ठाहो तेन कालेन तेन समयेन अंगराज्ञो ऋषभो अभूषि ॥ तदापि मये ऋषभभूतेन राजगृहस्य सीमाम् आक्रमन्तेनैव सर्वे अमनुष्यका पलाना एतरहिं पि मये परमसंबोधिप्राप्तेन वैशालीयं सीमाम् आक्रमन्तेनैव सर्वे अमनुष्यका पलानाः ॥
_____इति श्रीमहावस्तु-अवदाने ऋषभस्य जातकं समाप्तं ॥
अथ भगवान् अनुपूर्वेण वैशालीम् अनुप्राप्तः ॥ भगवां दानि वैशालीये साभ्यन्तरबाहिराये स्वस्त्ययनं करोति । स्वस्त्ययनगाथां भाषति ॥
नमो ऽस्तु बुद्धाय नमो ऽस्तु बोधये
नमो विमुक्ताय नमो विमुक्तये ।
नमो ऽस्तु ज्ञानस्य नमो ऽस्तु ज्ञानिनो
लोकाग्रश्रेष्ठाय नमो करोथ ॥
यानीह भूतनि समागतानि
भूम्यानि वा यानि व अन्तरीक्षे ।
सर्वाणि वा आत्तमनानि भूत्वा
शृण्वन्तु स्वस्त्ययनं जिनेन भाषितं ॥
इमस्मिं वा लोके परस्मिं वा पुनः
स्वर्गेषु वा यं रतनं प्रणीतं ।
न तं समं अस्ति तथागतेन
[_म्वु_1.291_] देवातिदेवेन नरोत्तमेन ।
इमं पि बुद्धे रतनं प्रणीतं
एतेन सत्येन सुस्वस्ति भोतु
मनुष्यतो वा अमनुष्यतो वा
. . . . . . . . . . . . . . . . .

. . . . . . . . . . . . . . . . .
इदं पि धर्मे रतनं प्रणीतं ।
एतेन सत्येन सुस्वस्ति भोतु
मनुष्यतो वा अमनुष्यतो वा ॥
यं बुद्धश्रेष्ठो परिवर्णये शुचिं
यम् आहु आनन्तरियं समाधिं
समाधिनो तस्य समो न विद्यते ।
इदं पि धर्मे रतनं प्रणीतं
एतेन सत्येन सुस्वस्ति भोतु
मनुष्यतो वा अमनुष्यतो वा ॥
ये पुद्गला अष्ट सदा प्रशस्ता
चत्वारि एतानि युगानि भोन्ति ।
ते दक्षिणीया सुगतेन उक्ताः
एतानि दिन्नानि महत्फलानि ।
इदं पि संघे रतनं प्रणीतं
एतेन सत्येन सुस्वस्ति भोतु
मनुष्यतो वा अमनुष्यतो वा ॥
सर्वैव यस्य दर्शनसंपदायो
[_म्वु_1.292_] त्रयो स्य धर्मा जहिता भवन्ति ।
सत्कायदृष्टीविचिकित्सितं च
शीलव्रतं चापि यत् अस्ति किंचित्* ।
इदं पि संघे रतनं प्रणीतं
एतेन सत्येन सुस्वस्ति भोतु
मनुष्यतो वा अमनुष्यतो वा ॥
किं चापि शैक्षो प्रकरोति पापं
कायेन वाचा यथ चेतसापि ।
अभव्यो सो तस्य निगूहनाय
अभव्यता दृष्टपथेषु उक्ता ।
इदं पि संघे रतनं प्रणीतं
एतेन सत्येन सुस्वस्ति भोतु
मनुष्यतो वा अमनुष्यतो वा ॥
यथा इन्द्रकीलो पृथिवीसन्निश्रितो स्या
चतूर्भि वातेहि असंप्रकम्पि ।
तथोपमं सत्पुरुषं वदेमि
यो आर्यसत्यानि सुदेशितानि
गम्भीर-अर्थानि अवेत्य पश्यति ।
इदं पि संघे रतनं प्रणीतं
एतेन सत्येन सुस्वस्ति भोतु
मनुष्यतो वा अमनुष्यतो वा ॥
ये आर्यसत्यानि विभावयन्ति

गम्भीरप्रज्ञेन सुदेशितानि ।
किं चापि ते भोन्ति भृशं प्रमत्ता
[_म्वु_1.293_] न ते भवां अष्ट उपादियन्ति ।
इदं पि संघे रतनं प्रणीतं
एतेन सत्येन सुस्वस्ति भोतु
मनुष्यतो वा अमनुष्यतो वा ॥
ये युक्तयोगी मनसा सुच्छन्दसा
नैष्क्रम्यिणो गौतमशासनस्मिं ।
ते प्राप्तिप्राप्ता अमृतं विगाह्य
विमुक्तचित्ता निर्वृतिं भुंजमाना ।
इदं पि संघे रतनं प्रणीतं
एतेन सत्येन सुस्वस्ति भोतु
मनुष्यतो वा अमनुष्यतो वा ॥
क्षीणं पुराणं नवो नास्ति संचयो
विमुक्ता आयतिके भवस्मिं ।
ते क्षीणबीजा अविरूढिधर्मा
निर्वान्ति धीरा यथ तैलदीपा ।
इदं पि संघे रतनं प्रणीतं
एतेन सत्येन सुस्वस्ति भोतु
मनुष्यतो वा अमनुष्यतो वा ॥
अग्निर् यथा प्रज्वलितो निषीदे
इन्धनक्षया शाम्यति वेगजातो ।
एवंविधं ध्यायिनो बुद्धपुत्राः
प्रज्ञाय रागानुशयं ग्रहेत्वा
अदर्शनं मृत्युराजस्य यान्ति ।
[_म्वु_1.294_] इदं पि संघे रतनं प्रणीतं
मनुष्यतो वा अमनुष्यतो वा ॥
ग्रीष्माणमासे प्रथमे चैत्रस्मिं
वने प्रगुल्मा यथ पुष्पिताग्रा
वातेरिता ते सुरभिं प्रवान्ति ।
एवंविधं ध्यायिनो बुद्धपूत्राः
शीलेन्ऽ; उपेता सुरभिं प्रवान्ति ।
इदं पि संघे रतनं प्रणीतं
एतेन सत्येन सुस्वस्ति भोतु
मनुष्यतो वा अमनुष्यतो वा ॥
यानीह भूतानि समागतानि
भूम्यानि वा यानि व अन्तरीक्षे ।
मैत्रीकरोन्तु सद मनुष्यका प्रजा
दिवं चा रात्रिं च हरन्ति वो बलिं ।
तस्माद् धि तं रक्षथ अप्रमत्ता

माता व पुत्रं अनुकम्पमाना ।
एतेन सत्येन सुस्वस्ति भोतु
मनुष्यतो वा अमनुष्यतो वा ॥
विपश्यिस्मिं विश्वभुवि क्रकुच्छन्दे
भामकनकमुनिस्मिं काश्यपे
महायशे शाक्यमुनिस्मिं गौतमे ।
एतेहि बुद्धेहि महर्द्धिकेहि
या देवता सन्ति अभिप्रसन्ना ।
[_म्वु_1.295_] वाढं पि तं रक्षयन्तु च करोन्तु
स्वस्त्ययनं मानुषिकप्रजाये ।
तस्मा हि तं रक्षथ अप्रमत्ता
माता व पुत्रं अनुकम्पमाना ।
[एतं पि संघे रतनं प्रणीतं]
एतेन सत्येन सुस्वस्ति भोतु
मनुष्यतो वा अमनुष्यतो वा ॥
यो धर्मचक्रं अभिभूय लोकं
प्रवर्तयति सर्वभूतनुकम्पितं ।
एतादृशं देवमनुष्यश्रेष्ठं
बुद्धं नमस्यामि सुस्वस्ति भोतु ।
धर्मं नमस्यामि सुस्वस्ति भोतु
संघं नमस्यामि सुस्वस्ति भोतु
मनुष्यतो वा अमनुष्यतो वा ॥
गोशृङ्गीये बुद्धप्रमुखे भिक्षुसंघे भक्तं कृत्वा शालवनं निर्यातितं ॥ लेच्छवीनाम् एतद् अभूषी ॥ प्रतिबलो अस्माकम् एकको भगवन्तं सश्रावकसंघं यावज्जीवम् उपस्थिहितुं चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारेहि ॥ अपि तु तथा क्रियतु यथा महाजनो पुण्येन संयुज्येया ॥ मनुष्यतण्डुलो ओहारीयतु ॥ तेहि मनुष्यतण्डुलो ओहारितो पंचविंशम् उत्तरं वा तण्डुलजाता ॥ एवं तेहि भगवां सश्रावकसंघो सप्ताहम् उपस्थितो ॥
शिरिमन्तं महेशाख्यं वर्णवन्तं यशस्विनं ।
[_म्वु_1.296_] संबुद्धं पर्युपासन्ति चन्द्रं तारागणा यथा ॥
पीतालंकारवसनाः कर्णिकारा व पुष्पिता ।
संबुद्धं पर्युपासन्ति घनकेयूरधारिणः ॥
हरिचन्दनलिप्तांगा काशिकोत्तमधारिणः ।
. . . . . . . . . . . . . . . . . . . . . . . . . .
तां देवसंघां परिषां समागतां
शुचिं सुजातां शतपुण्यलक्षणां ।
सर्वेण बुद्धो अभिभोति तेजसा
नक्षत्रराजा इव तारकाणां ॥
चन्द्रो यथा विगतवलाहके नभे
अभिरोचते तारगणां प्रभांकरो ।
एवं ह्ऽ; इमां क्षत्रियभूमिपालां
सर्वेण बुद्धो अभिभोति तेजसा ॥
सूर्यो यथा प्रभवति अन्तरीक्षे
आदित्यमार्गस्मिं स्थितो विरोचति ।
एवं ह्ऽ; इमां क्षत्रियभूमिपालां

सर्वेण बुद्धो अभिभोति तेजसा ॥
सूर्यो यथा प्रतपति अन्तरीक्षे
आदित्यमार्गस्मिं स्थितो विरोचति ।
एवं ह्ऽ; इमां क्षत्रियभूमिपालां
सर्वेण बुद्धो अभिभोति तेजसा ॥
पद्मं यथा कोकनदं सुजातं
प्रभासितं फुल्लम् उपेतगन्धं ।
[_म्वु_1.297_] एवं प्ऽ; इमां क्षत्रियभूमिपालां
सर्वेण बुद्धो अभिभोति तेजसा ॥
शक्रो यथा असुरगणप्रमर्दको
सहस्रनेत्रो त्रिदशाभिरोचते ।
एवं इमां क्षत्रियभूमिपालां
सर्वेण बुद्धो अभिभोति तेजसा ॥
ब्रह्मा यथा भूतनुकम्पि सर्वां
मरुप्रभां अभिरोचति तेजसा ।
एवं इमां क्षत्रियभूमिपालां
सर्वेण बुद्धो अभिभोति तेजसा ॥
दशांगुपेतं प्रमुंचि शिरिं शुचिं
ततश् च बुद्ध्वा अमृतप्रसादं ।
विनेस्ऽ; इमां क्षत्रियभूमिपालां
धर्मं इमं पाणितले व दर्शये ॥
एवम् आयुष्मता आनन्देन भगवान् अभिस्तुतो ॥
___भगवां वैशालकानां लेच्छवीनां धर्मया कथया संदर्शयित्वा समुत्तेजयित्वा संप्रहर्षयित्वा बहूनि च प्राणिशतसहस्राणि अभिविनेति ॥ वैशालकानां लेच्छवीनां तावद् दानं देयधर्मं इमाये अनुमोदनाये ॥
यथापि ते मधुकरका समेत्वा
नानाविधां कुसुमरसां ग्रहेत्वा ।
तुण्डेहि पादेहि च संहरित्वा
. . . . . . . . . . . . . . . . . ॥
[_म्वु_1.298_] सामग्रिये भवति रसगन्धयोसो
तं संस्तृतं भवति मधु प्रणीतं ।
वर्णेन गन्धेन रसेन्ऽ; उपेतं
भैषज्यभक्तेषु च तं उपेति ॥
एम्ऽ; एव ग्रामे निगमेषु वा पुनः
महाजनो भवति यहिं स आगतो ।
सपुत्रदारा पुरुषस्त्रियो च
कल्याणकार्येषु समानच्छन्दा ॥
समोहरित्वान ददन्ति पानं
संघस्य भक्तानि करोन्ति यागुं ।
पानानि संयक्सुखखादनीया
रसां च आर्यानुमतां ददन्ति ॥
यथाप्रसादं च यथानुभावं

कल्पं बहुं चापि समोहरित्वा ।
पुनर् पुनः देन्ति प्रसन्नचित्ता
समुच्चयं गच्छति पुण्यराशिः ॥
अभिवादनांजलिकर्मणो च
प्रत्युत्थान-म्-आसनतां ततो च ।
वैयावृत्यं धर्मनुमोदनां च
महाजनो प्रीतो करोति पुण्यं ॥
ते दिन्नदाना कृतपुण्यकर्मका
येनैव वाचाथ समोहरित्व वा ।
[_म्वु_1.299_] यैनैव च कर्मसभागताये
सर्वे पि ते स्वर्गम् उपेन्ति स्थानं ॥
दिव्येहि रूपेहि समंगिभूता
परिचारियन्त्य् अप्सरसां गणेहि ।
प्रभूतभक्षा प्रवरान्नपाना
विमानश्रेष्ठोपगता रमन्ति ॥
यदा च ते एन्ति मनुष्यलोकं
सर्वे पि आढ्यकुलेषु जाता ।
ऋद्धेषु स्फीतेषु महाधनेषु
प्रभूतनारीनरसंकुलेषु ॥
मधुं कृतं सत्पुरुषप्रशस्तं
सर्वेहि पुष्पेहि सुखावहाय ।
यं किंचिद् अर्थो मनसा च प्रार्थितः
सर्वो स ऋद्ध्येय यथामनो च ॥
सर्वार्थं संगम्य उपेथ निर्वृतिं
ससर्वसंस्कारकिलेशसूदनां ।
संवर्णये लोकहितो महाप्रभुः
सपुत्रदारा सहज्ञातिबान्धवा ॥
ते दानि लेच्छवयो भगवन्तम् आहन्सुः ॥ अयम् अस्माकं भगवन् उद्यानानां महा-उद्यानं यद् इदं महावनं सकूटागारशालं । तं च भगवतो सश्रावकसंघस्य देम निर्यातेम ॥ भगवां दानि भिक्षून् आमन्त्रेसि ॥ तेन हि भिक्षवो अनुजानामि आरामार्थं विहारार्थं कल्पार्थं ॥ भगवां दानि महावनातो चापालं चेतियं आगतः ॥ लेच्छवयो
[_म्वु_1.300_] पृच्छन्ति ॥ कहिं भगवां ॥ भिक्षवो आहन्सुः ॥ एष वासिष्ठाहो भगवां महावनातो येन चापालं चेतियं तेनोपसंक्रान्तो दिवाविहाराय ॥ ते दानि लेच्छवयो आहन्सुः ॥ देम भगवतो चापालं चेतियं सश्रावकसंघस्य निर्यातेम ॥ अपरकाले लेच्छविका महावनम् आगता भगवतो पादवन्दका भगवां च कृतभक्तकृत्यो सप्ताम्रचेतियं गतो दिवाविहाराय ॥ लेच्छवयो भिक्षूणां पृच्छन्ति ॥ आर्या कहिं भगवान्* ॥ भिक्षू आहन्सुः ॥ एष वासिष्ठाहो भगवां कृतभक्तकृत्यो येन सप्ताम्रचेतियं तेन्ऽ; उपसंक्रान्तो दिवाविहाराय ॥ ते दानि लेच्छवयो येन सप्ताम्रचेतियं तेन्ऽ; उपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा भगवन्तम् एतद् अवोचत्* ॥ देम भगवं सप्ताम्रचेतियं भगवतो सश्रावकसंघस्य निर्यातेम ॥ एवं बहुपुत्रचेतियं गौतमकं चेतियं कपिनह्यं चेतियं ॥ भूयो चापि भगवान् कृत्यभक्तकृत्यो महावनातो येन मर्कटह्रदतीरं चेतियन् तेन्ऽ; उपसंक्रान्तो दिवाविहाराय ॥ लेच्छवयो आगता महावनं भगवतो पादवन्दकाः ॥ भिक्षूणां पृच्छन्ति ॥ आर्या कहिं भगवान्* ॥ भिक्षू आहन्सु ॥ एष वासिष्ठाहो भगवां कृतभक्तकृत्यो येन मर्कटह्रदतीरं तेन्ऽ; उपसंक्रान्तो दिवाविहाराय ॥ ते दानि येन मर्कटह्रदतीरं चेतियन् तेन्ऽ; उपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा भगवन्तम् एतद् उवाच ॥ देम मर्कटह्रदतीरं चेतियं भगवतः सश्रावकसंघस्य निर्यातेम ॥ आम्रपालीये भगवतः सश्रावकसंघस्य भक्तं कृत्वा आम्रवनं निर्यातितं ॥ बालिकाये भगवतः सश्रावकसंघस्य भक्तं कृत्वा बालिकाछवी निर्यातिता ॥
_____इति श्रीमहावस्तु-अवदाने छत्रवस्तुं समाप्तं ॥
अथ अपरिमितयशधर्मराज्ञो
नवविधशासनधर्मकोशरक्षो ।
[_म्वु_1.301_] भवतु गणवरो चिरस्थितिको
शिरिप्रवरो अचलो यथा सुमेरू ॥
बुद्धानाम् अनुत्पादे प्रत्येकबुद्धा लोके उत्पद्यन्ति ॥ तूष्णीकशोभना महानुभावा एकचरा खड्गविषाणकल्पा एकम् आत्मानं दमेन्ति परिनिर्वायन्ति ॥ अपरो दानि प्रत्येकबुद्धो काशिभूमिषु पूर्वाह्णे ग्रामं पिण्डाय प्रविशति प्रासादिकेन अभिक्रान्तप्रतिक्रान्तेन आलोकितविलोकितेन संमिञ्जितप्रसारितेन संघटीपात्रचीवरधारणेन नागो विय कारितकारणो अन्तर्गतेहि इन्द्रयेहि अबहिर्गतेन मानसेन स्थितेन धर्मताप्राप्तेन युगमात्रं प्रेक्षमाणः ॥ ग्रामिको च ग्रामतो अरण्यं निर्धावति कर्मान्तं प्रत्यवेक्षणाये प्रासादिको अभिप्रसन्नदेवमनुष्यो ॥ प्रत्येकबुद्धो तं ग्रामं सावदानं पिण्डाय चरित्वा यथाधौतेन पात्रेण ततः ग्रामातो निर्धावति ॥ प्रायोन्नकालो वर्तति न च केनचिद् भिक्षा दिन्ना ॥ ग्रामिको कर्मान्ता प्रत्यवेक्षयित्वा पुनर् ग्रामं प्रविशति पश्यति च नं प्रत्येकबुद्धं ग्रामतो निर्धावन्तं ॥ तस्य भवति ॥ प्रायोन्नकालो वर्तति ॥ जानामि तावं किं इमेन प्रव्रजितेन भैक्षं लब्धम् इति ॥ ग्रामिकः प्रत्येकबुद्धम् उपसंक्रम्य पृच्छति ॥ आर्य लब्धं भैक्षं ति ॥ प्रत्येकबुद्धो तूष्णीकशोभनो तुच्छकं पात्रं ग्रामिकस्य दर्शयति ॥ ग्रामिको प्रत्येकबुद्धस्य तुच्छकं पात्रं दृष्ट्वा नम् आह ॥ यावद् असंविभागशीलो जनो यत्र नाम एवरूपो दक्षिणीयो एवं महन्तातो ग्रामातो यथाधौतेन पात्रेण निर्धावति ॥ इमे किं उद्दीपयं परिभुंजन्ति ॥ सो आह ॥ भगवं आगच्छ अहं ते आहारं दास्यामि ॥ सो तं प्रत्येकबुद्धं गृहीत्वा तं ग्रामं प्रविष्टो ॥ सो चतुःमहापथे स्थित्वा अविधाविधा ति क्रन्दति ॥ अवस्थितग्रामिकस्य अविधाविधन् ति शब्दं श्रुत्वा सस्त्रीमनुष्यो ग्रामो सन्निपतितः ॥ ग्रामिकस्य

[_म्वु_1.302_] उपसंक्रमित्वा पृच्छन्ति ॥ किं क्षेमं किं अविधाविधं ति क्रन्दसि ॥ ग्रामिक आह ॥ क्रन्दामि येनैते न संविभागरता न संविभागशीलाः यत्र नाम एवं महन्तातो ग्रामातो एको भिक्षु यथाधौतेन पात्रेण निर्धावति ॥ ते दानि ग्रामे महल्लका तस्य ग्रामिकस्य श्रुत्वा तं प्रत्येकबुद्धं सत्कर्तव्यं मन्येन्सु ॥ ग्रामिकेन प्रत्येकबुद्धं गृहं प्रवेशेत्वा आहारेण प्रतिमानेत्वा यावज्जीवम् उपनिमन्त्रितो ॥ अहम् आर्यस्य निमन्त्रेमि यावज्जीवं सर्वसुखोपधानेन ॥ स्वयंधीता संवेदिता ॥ एवन् तुवं आर्यं तं दिवसम् आहारेण उपस्थिहिसि ॥ दारिका प्रीता तुष्टा संवृत्ता ॥ शोभनं मे कल्याणं कर्म सेवितं ॥ सा दानि तं प्रत्येकबुद्धं दिवसम् आहारेण उपस्थिहति प्रासादिकाभिप्रसन्नदेवमनुष्या ॥ प्रत्येकबुद्धो परिज्ञातभोजनो सर्वाशुचिपरिक्षीणो महाभागो ॥ तस्य दानि ग्रामिकस्य धीतुस् तां प्रत्येकबुद्धस्य ईर्यां पश्यित्वा उदारं पसादं जातं ॥ तथा अन्ये पि जना प्रसन्ना ॥ सो दानि प्रत्येकबुद्धो तस्य ग्रामिकस्य प्रसादेन तत्रैव ग्रामक्षेत्रे अनुपादाय परिनिर्वृतो ॥ ततो ग्रामिकेन तं प्रत्येकबुद्धं ध्यायेत्वा स्तूपं कृतं न चातिखुड्डाकं न चातिमहन्तं सुधामृत्तिकालेपनं ॥ सा दानि ग्रामिकस्य धीता तं स्तूपं दैवसिकं कांस्यपात्रेण पूजेति गन्धेन माल्येन च धूपेन च ॥ पश्चात् ततो स्तूपातो तं नानाप्रकारं माल्यं वातेन अपकर्षीयते ॥ ताये दानि तं माल्यं संकड्डित्वा चेटीहि सार्धं दीर्घमालागुडिका निचितोपचिता नानापुष्पाणां ॥ तत्र ताये मालाये तं प्रत्येकबुद्धस्य स्तूपं सर्वं परिवेठितं ॥ तस्या तां मालां तहिं स्तूपे स्थितां च माला च सर्वा रूपेण च तेजेन च अभिभवित्वा तिष्ठन्तीं देवेषु दिव्यम् आयुःप्रमाणं क्षपेत्वा शोभन्तीं दृष्ट्वा अति-र्-इव चित्तप्रसादम् उत्पन्नं ॥ सा दानि प्रसन्नचित्ता प्रणिधानम्
[_म्वु_1.303_] उत्पादेति ॥ यादृशेषा माला अत्र स्तूपे शोभति एतादृशा मे माला मूर्ध्नि प्रादुर्भवेया यत्र यत्र उपपद्येयं ॥
___सा दानि तं कल्याणं कर्मं कृत्वा तत्र च्यवित्वा देवेषूपपन्ना रतनमालाये आबद्धा तस्या तहिं उपपन्नाये अप्सरसां शतसहस्रं परिवारेसि ॥
___ततो पि च्युता वाराणसीयं कृकिस्य राज्ञो अग्रमहिषीये कुक्षिस्मिं उपपन्ना ॥ नवानां वा दशानां वा मासानाम् अत्ययेन देवीये दारिका प्रजाता प्रासादिका दर्शनीया रतनमालाये आबद्धा ॥ तस्या मालिनीति नामं कृतं ॥ राज्ञो कृकिस्य प्रिया मनापा तथा सर्वस्य परिजनस्य सम्मता सर्वस्याधिष्ठानस्य यावत् कृतपुण्या दारिका ॥
प्रतियेकबुद्धो ग्रामं पिण्डाय उपसंक्रमे ।

यथाधौतेन पात्रेण ततो ग्रामातो निष्क्रमेत्* ॥
तम् एनं ग्रामिको दृष्ट्वा संबुद्धम् इदम् अब्रवीत्* ।
किञ्चि अरोगो भगवां लभ्यते पिण्डयापनं ॥
ततो ऽस्य भगवन् पात्रं ग्रामिकस्य प्रणामये ।
न चात्र अदर्शी भिक्षां दौर्मनस्यं ग्रामिकस्य ऽभूत्* ॥
अन्धभूतो अयं लोको मिथ्यादृष्टिहतो सदा ।
एतादृशं दक्षिणीयं न पूजेन्ति यथारहं ॥
ग्रामान्तं उपसंक्रम्य स्थिहित्वान चतुष्पथे ।
अविधाविधं ति क्रन्दति ततो सन्निपते जनाः ॥
महाजनो समागत्वा इस्त्रियो पुरुषा पि च ।
ग्रामिकं उपसंक्रम्य किं करोम अविधाविधं ति ॥
[_म्वु_1.304_] ग्रामिको आह ॥
यं नूनं कोटि युष्माकं न संविभागरतो जनो ।
एषो हि एतस्मिं ग्रामस्मिं एको भिक्षु विहन्यति ॥
ग्रामिकस्य वचनं श्रुत्वा सर्वो ग्रामो स-इस्त्रियो ।
सारायणीयं करेन्सु संबुद्धस्य पुनः पुनः ॥
तम् एनं ग्रामिको वच सभार्याको सपुत्रको ।
सर्वसुखविहारेण निमन्त्रेमि तथागतं ॥
ग्रामिकस्य स्वका धीता शुचिवस्त्रा सुवासना ।
आचारगुणसम्पन्ना उपस्थीय तथागतं ॥
ग्रामिकस्य प्रसादेन तस्मिं ग्रामस्मिं सुव्रतो ।
संबुद्धो परिनिर्वायि ऋषि क्षीणपुनर्भवः ॥
तं निर्वृतं ध्यायेत्वान स्तूपं कारेसि ग्रामिको ।
नृत्यवादितगीतेन पूजां कारेसि महर्षिणो ॥
समासाद्य सितं पुष्पं वातेन अपकर्षितं ।
एकाध्यं संहरित्वान दीर्घमालां वगूहयेत्* ॥
सा यादृशी तत्रैव मह्यं माला चित्रा उपनिश्रिता ।
एतादृशी मे शिरसि भोतु माला यथा अयं ॥
यत्र यत्रोपपद्येहं तत्र म्ऽ; एतं समृध्यतु ॥
सा तं कर्मं करित्वान कल्याणं बुद्धवर्णितं ।
त्रायस्त्रिंशेषु देवेषु उपपद्यि ऽथ अप्सरा ॥
अप्सराशतसहस्रं च पुरस्कृत्वान तां स्थिता ।
तासां सा प्रवरा श्रेष्ठा नारी सर्वाङ्गशोभना ॥
[_म्वु_1.305_] ततो तासां च्यवित्वान देवकन्या महर्द्धिका ।
राज्ञो कृकिस्य भार्याय कुक्षिस्मिं उपपद्यि ऽथ ॥
निर्गते द्वादशमासे राजभार्या प्रजायत ।
मालिनीं नाम नामेन नारीं सर्वङ्गशोभनां ॥
. . . . . . . . अतिवर्णा अतिरूपवती अभूत्* ।
श्रेष्ठा च राजकन्यानां धीता सा काशिराजिनो ॥
आचारगुणसम्पन्ना शुचिवस्त्रा सुवासना ।

राज्ञो कृकिस्य अन्तिके तिष्ठते प्रांजलीकृता ॥
तम् एनम् अवदद् राजा तिष्ठन्तीं प्रांजलीकृतां ।
ब्राह्मणां मे तुवं भद्रे भोजापेहि अतन्द्रिता ॥
पितुः सा वचनं श्रुत्वा ब्राह्मणानाम् अनूनकां ।
विंशत्सहस्रां भोजेति सर्वकामेहि मालिनी ॥
तम् एनं ब्राह्मणा दृश्य मालिनीम् अप्सरोपमां ।
रागग्रसितचित्ताश् च उल्लपन्ति पुनर् पुनः ॥
उद्धतां उन्नतां दृष्ट्वा चपलां प्राकटेन्द्रियां ।
मालिनी संविचिन्तेति न इमे दक्षिणारहा ॥
सा आरुहित्वा प्रासादं समन्तेन विलोकये ।
अदर्शी भगवतो सिष्यं संबुद्धस्य शिरीमतो ॥
सा प्रासादवरगता काशिकवरचन्दनेन आलिप्ता ।
राज्ञो कृकिस्य धीता सर्वा दिशता विलोकेति ॥
सा अद्दशासि . . . . . प्रासादिकेन्ऽ; इंजितेन प्रविशन्तां ।
बुद्धस्य श्रावकान् बाहितपापां अन्तिमशरीरां ॥
[_म्वु_1.306_] सा दासीं प्रेषेति एतेषां ऋषीणां वन्दनं ब्रुहि ।
वन्दित्वा च भणाहि प्रविशथ भदन्त निषीदाथ ॥
सा दासी उपगम्य पादां वन्दित्वा भावितात्मनां ।
प्राञ्जलिकृता अवोचत् प्रविशथ भदन्त निषीदाथ ॥
रागा उपातिवृत्ता विशारदा अग्रपण्डिता लोके ।
बुद्धस्य श्रावका बाहितपापा अन्तिमशरीराः ॥
तं पाण्डरं च सुकृतं सुतोरणं खड्ग-असिगुप्तं ।
प्रविशेन्सुः अन्तःपुरं राज्ञो धीतुः मनापाये ॥
काशिकप्रत्यास्तरणं सुविचित्रकलापकं मणिविचित्रं ।
विचित्रपुष्पावकीर्णं प्रज्ञप्तं आसनं आसि ॥
पद्मम् इव शुभाभासं जलेरुहं यथ जले अनुपलिप्तं ।
तथ अनुपलिप्तचित्ता तत्र निषीदे विगतमोहा ॥
शालीनामोदनविधिम् अकालकम् अनेकव्यंजनम् उपेतं ।
स्वहस्तम् उपनामयते यथा भदन्तान अभिरोचे ॥
ते भिक्षू अवचेन्सुः शास्ता मो अग्रपण्डितो लोके ।
तस्या प्रथमं भक्तं सो भुंजये व महावीरो ॥
बुद्धो ति स्रुणित्व घोषं लोके कुतूहलं अश्रुतपूर्वं ।
अधिकतरं सा प्रसीदे इमेहि किल सो विशिष्टतरो ॥
सा मालिनी अवोच भुञ्जित्वा शास्तुनो हरथ भक्तं ।
[_म्वु_1.307_] अभिवादनं च ब्रुथ मम वचनातो लोकनाथस्य ॥
अधिवासे भक्तं भगवां सुवेतना सार्धं भिक्षुसंघेन ।
अन्तःपुरस्य मध्ये राज्ञो धीतुः मनापाय ॥
ते दानि भगवतो काश्यपस्य अग्रश्रावका तिष्यो च भारद्वाजो मालिनीये भक्तं परिभुंजित्वा भगवतो काश्यपस्य भक्तम् आदाय ऋषिवदनं निर्धाविता ॥ भगवतो काश्यपस्य पिण्डपात्रम् उपनामेत्वा मालिनीये वचनेन भगवन्तं काश्यपं वन्दनं वदेन्सु ॥ कृकिस्य भगवं काशिराज्ञो धीता भगवतो वन्दनं पृच्छति सश्रावकसंघस्य शुवेदानि च भक्तेन निमन्त्रेति सार्धं भिक्षुसंघेन राज्ञो कृकिस्य अन्तःपुरे तस्या भगवां अधिवासेतु अनुकम्पाम् उपादाय ॥ भगवता काश्यपेन वैनेयवशेन अधिवासितं ॥ ये तेहि महाश्रावकेहि सार्धं पुरुषा गता भगवतो काश्यपस्य ओवादम् आदाय तेहि गत्वा मालिनीये निवेदितं ॥ अधिवासितं तेन भगवता काश्यपेन शुवेदानि भक्तं सार्धं भिक्षुसंघेन ॥ मालिनीये तेषां पुरुषाणां श्रुत्वा ताम् एव रात्रिं प्रभूतं खादनीयं भोजनीयं प्रतिजागरित्वा भगवतो काश्यपस्य कालम् आरोचापितं ॥ भगवां कालज्ञो वेलाज्ञो समयज्ञो पुद्गलज्ञो पुद्गलपरापरज्ञो ॥ काल्यम् एव निवासयित्वा पात्रचीवरम् आदाय येन चारिकाविकालो संप्राप्तो सायं मागधे प्रातराशे वर्तमाने सार्धं विंशतीहि भिक्षुसहस्रेहि वाराणसिं नगरं प्रविशेत्* ॥ हंसप्रडीनकम् इव बुद्धा भगवन्तो नगरं प्रविशन्ति ॥ दक्षिणपार्श्वे तिष्यो महाश्रावको ॥ वामे पार्श्वे भारद्वाजो महाश्रावकः ॥ तेषां पृष्ठतो चत्वारो महाश्रावका चतुर्णां अष्ट अष्टानां षोडश षोडशानां द्वात्रिंश द्वात्रिंशतानां चतुषष्टि ॥ एवं भगवां विंशतीहि भिक्षुसहस्रेहि पुरस्कृतो
[_म्वु_1.308_] राज्ञो कृकिस्य अन्तःपुरं प्रविशति ॥ भगवतो नगरं प्रविशन्तस्य ओनता भूमिर् उन्नमति समं भूमितलं जातं संस्थाति ॥ अशुचिपाषाणशर्करकठल्ला भूमिं प्रविशन्ति मुक्तपुष्पावकीर्णा मही संस्थाति ॥ पुष्पोपगा वृक्षा पुष्पन्ति फलोपगा वृक्षा फलन्ति । ये तत्र मार्गे वामदक्षिणेन वापीयो वा पुष्करिणीयो वा शीतलस्य वारिस्य भरिता भवन्ति उत्पलपदुमकुमुदपुण्डरीकनलिनीसौगन्धिकाप्रच्छन्ना । उदुपानमुखा तोयं प्रस्यन्दति । अश्वा हीष्यन्ति ऋषभा नर्दन्ति हस्तिकुंजरा नर्दनं मुंचन्ति ॥ समनन्तरं इन्द्रकीलं पादेन चोक्रमति सर्वं च नगरं प्रकम्पति । अन्धा आलोकेन्ति बधिराः शब्दं शृण्वन्ति उन्मत्तकाः स्मृतिं प्रतिलभन्ते व्याधिता व्याधितो मुंचन्ति गुर्विणीयो अरोगाः प्रसूयन्ति नग्नानां चैलाः प्रादुर्भवन्ति बन्धनबद्धानां बन्धनानि स्फुटन्ति पेडाकरण्डावृतानि रतनानि संघट्टन्ति भाजनानि रणन्ति । ये भवन्ति नगरे परिवादिनीयो वल्लकीयो वेणुवीणामृदंगभेरीपणवा असंखतान्य् अपि अघट्टितानि संप्रवाद्यन्ति । शुकसारिककोकिलहंसमयूराः स्वकस्वकानि रुतानि मुंचन्ति ॥ चतुरङ्गुलेन च भूमिं असंस्पृशन्तो गच्छति धरणितले च पदचक्राणि प्रादुर्भवन्ति सहस्राराणि सनाभिकानि सर्वाकारपरिपूर्णानि अन्तरीक्षे च देवा दिव्यानि तूर्यसहस्राणि प्रवादयन्ति दिव्यानि पुष्पवर्षाणि प्रवर्षन्ति ॥ भगवां काश्यपो सश्रावकसंघो एदृशाये विधीये एदृशाये विभूषाये एदृशेन समुदयेन एदृशाये ऋद्धीये एदृशेन विभवेन देवमनुष्येहि सत्क्रियन्तो सश्रावकसंघो राज्ञो कृकिस्य अन्तःपुरं प्रविष्टो ॥ भगवां मालिनीये सश्रावकसंघो तहिं अभ्यन्तरिमे चतुःशाले महासत्कारेण परिविष्टो प्रभूतेन प्रणीतेन स्वादनीयेन भोजनीयेन ऋजुरसेन अग्ररसेन
[_म्वु_1.309_] अविगतरसेन प्रत्यग्ररसेन ॥ भगवां भुक्तावी सश्रावकसंघो धौतहस्तो अपनीतपात्रो मालिनीं धर्मया कथया संदर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्षयित्वोत्थायासनातो प्रक्रमे ॥

___यानि तानि कृकिस्य काशिराज्ञो विंशति ब्राह्मणसहस्राणि नित्यभोजिका ते कुपिता यं मालिनीये भगवां काश्यपो सश्रावकसंघो राजकुले परिविष्टो महता सत्कारेण महता सन्मानेन ॥ तेहि सर्वा ब्राह्मणपरिषा सन्निपातिता अनेकानि ब्राह्मणसहस्राणि ॥ तेन कालेन तेन समयेन ब्राह्मणाक्रान्ता पृथिवी भवति ॥ संनिपतिता मालिनीं घातेतुकामा ॥ एषा येव अत्र राजकुले ब्राह्मणानां कण्टको उत्पन्नो ॥ कृकिश् च राजा ब्राह्मणेषु अभिप्रसन्नो तस्य विंश ब्राह्मणसहस्रा दैवसिकं भुंजन्ति एषा च पितृणा ब्राह्मणानां नियोजिता एतानि ब्राह्मणानि दैवसिकं भोजेहीति एताये ब्राह्मणानां अवमन्यित्वा श्रमणा राजकुले प्रवेशिता एषां च एदृशो पूजासत्कारो कृतो ॥ सा एषा यत् तं ब्राह्मणानां उपजीव्यं राजकुलातो पूजासत्कारार्थं श्रमणानां परिणामेति मानयन्तीति ॥ तेहि ब्राह्मणेहि एषो व्यवसायो कृतो मालिनी मारेतव्या ॥ कृकी च काशिराजा जनपदं प्रत्यवेक्षको व गतो ॥ तेहि ब्राह्मणेहि कृकिस्य राज्ञो दूतो प्रेषितो ॥ एदृशं मालिनीये ब्राह्मणानां मूले अबहुमानम् उत्पन्नं । काश्यपस्य सश्रावकसंघस्य राजकुलं प्रवेशित्वा एदृशो च पूजासत्कारो कृतो ब्राह्मणानां दर्शनं पि न देति ॥ यथा महाराजेन संदिष्टं तथा न करोति ॥ यन् तु ब्राह्मनानां राजकुले नित्यकं विंशतीनां ब्राह्मणसहस्राणां तं पि न वर्तति ॥ मालिनी ब्राह्मणानां दर्शनं पि न देति ॥ राजा श्रुतमात्रेणैव जनपदात्तो
[_म्वु_1.310_] वाराणसिम् आगतो पश्यति अनेकां ब्राह्मणानां सहस्रियो समागतानि ॥ सो येन ब्राह्मणास् तेनैव गतो ॥ ब्राह्मणा पि राज्ञो प्रत्युद्गता जयेन वर्धापयित्वा एतां प्रकृतिं मालिनीये तं सर्वं कृकिस्य राज्ञो निवेदेन्ति ॥ महाराज एषा मालिनी ब्राह्मणानां कण्टको उत्पन्ना न शक्यं ब्राह्मणेहि राज्ञो नित्यकं प्रतीच्छितुं यावन् न मालिनी घातिता ॥ एष समग्राये ब्राह्मणपर्षाये निश्चयो उत्पन्नो ॥ राजा पि ब्राह्मण्यो । एषा ब्राह्मणपरिषाय क्रिया अनुपरिवर्तितव्या ॥ यदि ते ब्राह्मण्यं अपरित्यक्तं मालिनीं परित्यजाहि । अथ ते मालिनी अपरित्यक्ता नास्ति ते ब्राह्मण्यं ॥ ब्राह्मणपरिषाया क्रियाम् अनुपरिवर्तन्तस्य तस्य राज्ञो एतद् अभूषि ॥ इमा ब्राह्मणाक्रान्ता पृथिवी बहुब्राह्मण्या । यदि मालिनीं न परित्यजिष्यामि डिम्बं भविष्यति । नैवं मालिनी भविष्यति नैवम् अहं ॥
त्यजेद् एकं कुलस्यार्थं ग्रामार्थं तु कुलं त्यजेत्* ।
ग्रामं जनपदस्यार्थं आत्मार्थं पृथिवीं त्यजे ॥
ते दानि काशिराज्ञा मालिनी परित्यक्ता ॥ यथा ब्राह्मणपरिषाये अभिप्रायम् तथा भवतु ॥ ते दानि ब्राह्मणा आहन्सु ॥ यदि परित्यक्ता मालिनी आणापियतु राज्ञा ॥ ततो तेन बाहिरे नगरातो ब्राह्मणानां मूले स्थितकेन दूतो प्रेषितो ॥ आगच्छथ मालिनीम् आनेथ त्ति ॥ राजवचनेन दूतो राजकुलम् अनुप्राप्तः ॥ आगच्छ मालिनी परित्यक्तासि पितरि ब्राह्मणानां । ब्राह्मणेहि जीविताद् व्यपरोप्यसि ॥ मालिनीये मातरं आगत्वा आरावो मुक्तो सर्वेण च अन्तःपुरेण ॥ नगरे सर्वजनो तेन आरावशब्देन उत्कण्ठितो आकुलीभूतो ॥ महं आसि रोदनं ॥
[_म्वु_1.311_]___मालिनी वाराणसीतो दूतेन निष्कास्यति पितुः सकाशं ॥ सा दानि दूतेहि निष्कासीता पितुः अल्लीपिता ॥ इयं महाराज मालिनी ॥ राज्ञा अश्रुकण्ठेन रुदन्मुखेन महतो जनकायस्य मालिनी ब्राह्मणानां दत्ता परित्यक्ता पितरे ॥ सा दानि मालिनी यत्र काले पितरि परित्यक्ता ब्राह्मणानाम् आज्ञाकृता ॥ ततः मालिनी प्रांजलीकृता ब्राह्मणपरिषाये प्रणिपतित्वा ॥ इच्छामि एकां प्रज्ञप्तिं ब्राह्मणपरिषा यदि प्रमाणन् ति ॥ ते आहन्सु ॥ जल्प या ते विज्ञप्ति ॥ आह ॥ अहं पितरि ब्राह्मणानां परित्यक्ता युष्माकं अहं वशगता ॥ ब्राह्मणपरिषाये एवम् एव निश्चयो मालिनी मारेतव्या ॥ तद् इच्छामि ब्राह्मणपरिषायम् एव सकाशातो सप्ताहं जीवितुं दानं दास्यामि पुण्यं च करिष्यामि ॥ अहं च ब्राह्मणानां कृतोपस्थाना मयापि ब्राह्मणा उपस्थापिता पितुर् वचनेन ॥ ततो मे सप्ताहस्यात्ययेन मारेथ यं वा वो क्षमति तं करोथ ॥ तेषां ब्राह्मणानां महत्तरकानाम् उत्पन्नं ॥ एवम् एतं यथा मालिनी जल्पति चिरकालम् एताये ब्राह्मणा उपस्थापिता पितुर् वचनेन भोजापिताः । पश्चा एताये पापकं चित्तम् उत्पन्नं यं ब्राह्मणां मेल्लित्वा श्रमणानाम् अभिप्रसन्ना ॥ ततो नार्हति भूयो श्रमणानां दानं दातुं उत्सृष्टा न तेषां ब्राह्मणानाम् एव एषा सप्तरात्रं दानं दास्यति । तद् दीयतु एताय विज्ञप्तिः मुच्यतु सप्तरात्रं सप्ताहस्यात्ययेन हनिष्यति ॥ यं कारणं ब्राह्मणपरिषाये एष निश्चय उत्पन्नस् तं मालिनीये जीवमानाय कार्यं ॥ तस्या तेहि ब्राह्मणेहि दत्ता विज्ञप्तिः ॥ सप्तरात्रम् उत्सृष्टा महतो जनकायस्य ब्राह्मणानां सकाशातो अप्रमादा भवेया सप्तरात्रं पि न विलुपे त्ति ॥ सा दानि ओसृष्टा समानापि नूनं सार्धं महता जनकायेन परिवृता पुनः राजकुलं प्रविष्टा पितरं विज्ञापेति ॥ इच्छामि इमानि सप्त दिवसानि दानं च दातुं पुण्यं
[_म्वु_1.312_] च कर्तुं यत्र मम अभिप्रायो ॥ राजा आह ॥ एवम् अस्तु करोहि पुत्रि पुण्यं यत्र ते अभिप्रायो ॥ सा आह ॥ भगवन्तं काश्यपं सम्यक्संबुद्धं सश्रावकसंघं सप्ताहम् इह राजकुले परिविषेयं ॥ राजा आह ॥ अनुमोदाहि त्वं ॥ भगवां काश्यपो सश्रावकसंघो राजकुले सप्ताहं भक्तेन उपनिमन्त्रितो ॥ अनुकम्पाम् उपादाय भगवता काश्यपेन वैनेयवशेन महाजनकायं विनयम् आगमिष्यतीति अधिवासितं ॥ ते ब्राह्मणा परिकुपिता इच्छन्ति हनितुं जीवन्तीं ॥ मालिनी प्रांजलीकृता ॥ क्षमथ तावत् सप्ताहं यावद् ददामि दानं ॥ ददन्तो ब्राह्मणा कामकारो वः ॥
___ताये प्रथमस्मिं दिवसस्मिं शास्ता भोजापितो सह गणेन अन्तःपुरस्य मध्ये मातुश् च पितुश् च मध्यगताये ॥ शास्ता च प्रसादनीयां राज्ञो कथये कथां ॥ विनीवरणे च धर्मे अभिसमेति राजा अन्तःपुरेण सह ॥ द्वितीयस्मिं दिवसस्मिं विनेसि पंच पुत्रशाता ॥ तृतीयस्मिं दिवसस्मिं यो तेषाम् अभूषि परिवारो च ॥ चतुर्थस्मिं दिवसे राजामात्यां विनेति संबुद्दः ॥ पंचमे यं च बलाग्रं प्रथमफले निवेशये शास्ता ॥ षष्ठस्मिं दिवसस्मिं राजाचार्यं विनेति संबुद्धः ॥ निगमां च सप्तमे श्रोतापत्तिफले विनये ॥ राजापि हृष्टचित्तो संबुद्धं पश्यिय सह गणेन भगवन्तं काश्यपं निमन्त्रयेद् अग्रभक्तेन ॥ मालिनीये सप्तमे दिवसे भगवन्तं काश्यपं भुक्ताविं विदित्वा अपनीतपात्रं प्रणिधानम् उत्पादितं ॥ अनन्तरेणाहं दुःखस्यान्तं करेयं । एदृशो मे पुत्रो भवेया यथायं भगवन्तो काश्यपो देवमनुष्याणां अर्थचर्यां चरति ॥ एवं मम पुत्रो अनुत्तरां सम्यक्संबोधिम् अभिसंबोधित्वा देवमनुष्याणाम् अर्थचर्यां चरतु ॥ मालिनीये

[_म्वु_1.313_] भ्राता अनियवन्तो नाम कुमारो । तेनापि प्रणिहितं ॥ एदृशो मे पिता भवेया यथायं भगवां काश्यपो एतरहिं । तत्र च अहं दुःखस्यान्तं करेयं ॥ एवं भगवता काश्यपेन कृकी च काशिराजा सान्तःपुरो पंच कुमारशता अमात्या च भट्टबलाग्रं योभूयेन च नैगमा सर्वे आर्यधर्मेहि विनीता ॥ तेषाम् एतड् अभूषि ॥ अस्माकं मालिनी कल्याणमित्रा मालिनीम् आगम्य अस्माकं सर्वधर्मेषु धर्मचक्षुर् विशुद्धं ॥ तां ब्राह्मणा जीविताद् व्यपरोपयिष्यन्ति ॥ अपि नाम वयं आत्मानं परित्यजेयाम न मालिनीं ॥ तेहि तेषां ब्राह्मणानां संदिष्टं ॥ एते वयं मालिनीये सह आगच्छामः मालिनी अस्माकं कल्याणमित्रा न युष्मे शक्ता अस्मेहि जीवन्तेहि मालिनीं जीविताद् व्यपरोपयितुं ॥ यदा वयं सर्वे न भवाम एवं युष्मे शक्नोथ तां मालिनीं जीविताद् व्यपरोपयितुं ॥ ते दानि सपरिवाराः सबलवाहनाः मालिनीम् अग्रतो कृत्वा वाराणसीतो निर्गम्य येन तानि ब्राह्मणसहस्राणि तेन प्रणता ॥ ते ब्राह्मणास् तं अनन्तं बलाग्रं दृष्ट्वा मालिनीये सह आगच्छन्तं भीता त्रस्ता ॥ तेहि दूतो प्रेषितो राज्ञो च ॥ निर्गम्यतु मुक्ता भवतु मालिनी तं दिवसं या चैषा उद्धृतदण्डा एषा पितरे आलोकं निसृष्टा भवतूद्धृतदण्डा ॥ एषा न अस्माकं मालिनी अपराध्यति । काश्यपो अस्माकं सपरिवारो अपराध्यति तस्य वयं दण्डं करिष्यामः ॥
___तेहि दानि सन्नद्धकवचिताः सहस्रयोगा दश पुरुषा ऋषिवदने प्रेषिताः काश्यपं श्रमणं सश्रावकसंघं जीविताद् व्यपरोपयथ ॥ ते भगवता काश्यपेन मैत्र्या स्फारित्वा आर्यधर्मेहि प्रतिष्ठापिता ॥ तेहि ब्राह्मणेहि अपरे विंश पुरुषाः सन्नद्धकवचिताः प्रेषिताः काश्यपं श्रमणं जीविताद् व्यपरोपयथ ॥ ते पुरुषा ऋषिवदनं गताः सन्नद्धाः सप्रहरणाः ॥ ते पि भगवता मैत्र्या स्फारित्वा आर्ये धर्मे प्रतिष्ठापिताः ॥ एवं
[_म्वु_1.314_] त्रिंशच् चत्वारिंश पंचाशं यत्तका प्रेषिता तत्तका काश्यपेन भगवता मैत्र्याय स्फारित्वा आर्यधर्मेहि प्रतिष्ठापिताः ॥ आकर्षणा एषा बुद्धानां ॥ भगवता वैनेयसत्वानां आकर्षणतायै यत्तका तहिं बुद्धवैनेया आसि तेहि ब्राह्मणसहस्रेहि तत्तका तेहि विसर्जिताः ते च भगवता सर्वे आर्यधर्मेहि विनीताः ॥ मिथ्याप्रतिपन्ना अवशिष्टा अनेकप्राणसहस्रिये ॥ तेषाम् आर्यधर्मेहि विनीतानां भवति ॥ न एते ब्राह्मणा बुद्धमाहात्म्यं जानन्ति । यदि एते भगवन्तं काश्यपम् उपसंक्रमेन्सुः महता अर्थेन संयुज्येन्सुः ॥ तेहि तेषां ब्राह्मणानां दूतो प्रेषितो ॥ भगवां काश्यपो सम्यक्संबुद्धो महात्मा महाकारुणिको लोकस्यानुग्रहप्रवृत्तो ॥ मा भवन्तो भगवतो काश्यपस्यान्तिके भिक्षुसंघस्य बाधितुं प्रदूषेथ ॥ एवं मानं च मदं च जहित्वा आगच्छथ सर्वे भगवतो काश्यपस्य पादवन्दनं महता अर्थेन संप्रयुज्यथ ॥
सत्य अपिशुनवर्णा नं च अर्थवती शुची ।
अन्येषां मधुरा व्यक्ता बुद्धस्य सखिला गिरा ॥
तर्पणीया निर्वम्हणी सर्वदाहविनाशनी ।
नेलवर्णा सुखवर्णा बुद्धस्य सखिला गिरा ॥
अगद्गदा अविकला अवितथा अनन्यथा ।
यथातथा अविकल्पिता बुद्धस्य सखिला गिरा ॥
ज्ञेयज्ञाना अनुत्पन्ना अनोसाना असादिशा ।
नरवशा सुविभक्ता च वाचा अमितबुद्धिनो ॥
सत्यं चापिशुनं च भाषति
स सर्वतः पुन मैत्रचित्तो ।
[_म्वु_1.315_] उपकारे परमार्थसंहितं
एतं वा परमं सुभाषितं ॥
आविष्टं गदितं स भाषति
उच्चनीचम् अथ अपि मध्यमं ।
अनुपदं अन्वक्षरं विशुद्धं
एतं वा परमं सुभाषितं ॥
परमकरुणम् उदितयुक्तां
गिरां भाषति दशफलयुक्तां ।
अष्टांग्ऽ; उपेतचतुष्प्रकारां
एतं वा परमं सुभाषितं ॥
वाचां भाषति पंचपुण्यां
सुनिश्चितां वा पुन छिन्नसंशयां ।
न च कर्म किंचि करोति पापं
तथाविधं उत्तमपौरुषत्वं ॥
एवं उपेतं वरलक्षणेहि
महाद्युतिगणम् अनुशासते ।
वरं ज्ञातीरतनं प्रहाय
रतिं च स्फीतां अभिनिष्क्रमे ॥
अमृतपदं जिगीषुं नन्दजाता

द्रुमसारं वरगन्धम् उत्तमं ।
लोचेत्वान कृतविकृतं तं
अथ तेनैव पचेसि ओदनं ॥
[_म्वु_1.316_] एवम् इह काश्यपं महर्षि
परिभाषन्ति जना परीत्तप्रज्ञाः ।
स्वाख्यातपदं अनिन्दितं
पुरुषाजानियम् अनतिक्रमं ॥
शमिताविं प्रहाय पुण्यपापं
भवसंयोजनसंक्षये रतं ।
शान्तं सुविभक्तमानसं
तं जनो गरहति अनंगनं ॥
भिक्षू च उपासका इमे
बहु काश्यपशासने रता ।
ज्वलितं व हुताशनं शिखिं
एथ वन्दाम समेत्य काश्यपं ॥
एषो द्विपदानम् उत्तमो
सो चक्षुददो विनायको ।
मानं च मदं च विप्रहा
एथ वन्दाम समेत्य काश्यपं ॥
ते ब्राह्मणा सर्वे नित्यत्वनियतराशी बुद्धसहस्रम् अपि यदि धर्मं देशेय अभव्या ते धर्मम् आजानितुं बुद्धे च धर्मे च संघे च प्रसादयितुं ॥ ते दानि दण्डलगुडहस्ता येन भगवान् काश्यपो तेन प्रधाविता ॥ भगवता पृथिवीदेवता आभाष्टा ॥ सा दानि तालमात्रेण आत्मभावेन भगवतो पुरतो स्थिता ॥ भगवां तां पृथिवीदेवताम् आह ॥ के च ते तत्र ब्राह्मणा भवन्ति ॥ सा दानि आह ॥ एते मम पृथिवीनिसृता दासा ॥ भगवान् आह ॥ तेन हि यथा दासा पराक्रम्यन्ते तथा पराक्रम ॥ सा दानि महान्तं
[_म्वु_1.317_] तालस्कन्धम् उन्मूलेत्वा येन ते ब्राह्मणा तेन प्रत्युद्गता ॥ तं तालस्कन्धं पृथिवीये छटाछटाये उपरिपतितं ॥ ते ब्राह्मणा भीता नाशनष्टाः ॥
_____इति श्रीमहावस्तु-अवदाने मालिनीये वस्तु समाप्तं ॥
एवं मया श्रुतं एकस्मिं समये भगवां कोशलेषु चारिकां चरमाणो महता भिक्षुसंघेन सार्धं पंचहि भिक्षुशतेहि येन कोशलानां मारकरण्डो निगमो तद् अवसारि तद् अनुप्राप्तो तत्रैव विहरति अन्यतरस्मिं वनषण्डे ॥ अथ खलु भगवान् सायाह्नकालसमये प्रतिसंलयनाद् व्युत्थाय विहारातो निर्गम्य ऊर्ध्वं च उल्लोकेत्वा दिशाभागां च अभिविलोकेत्वा अधो च ओलोकेत्वा समं च भूमिभागं समवेक्षित्वा स्मितं प्रादुष्करित्वा दीर्घं चंक्रमं चंक्रमे ॥ अद्राक्षीत्* अथ खल्व् आयुष्मान् आनन्दो भगवन्तं सायाह्नकालसमये प्रतिसंलयनाद् व्यूत्थाय ऊर्ध्वं च उल्लोकेत्वा दिशाभागां च अभिविलोकेत्वा अधो च ओलोकेत्वा समं च भूमिभागं समवेक्षित्वा स्मितं प्रादुष्करित्वा दीर्घं चंक्रमं चक्रमन्तं । दृष्ट्वा पुनर् येन संबहुला भिक्षवस् तेनोपसंक्रमित्वा भिक्षून् एतत् अवोचत्* ॥ एषो बुद्धो भगवान् सायाह्नसमये प्रतिसंलयनाद् व्यूत्थाय ऊर्ध्वं च उल्लोकेत्वा दिशाभागां च अभिविलोकेत्वा अधो च अवलोकेत्वा समं भूमिभागं समवेक्षित्वा स्मितं च प्रादुष्करित्वा दीर्घं चंक्रमं चंक्रमति ॥ न च पुनर् आवुसावो तथागता अर्हन्तः सम्यक्सम्बुद्धाः अहेतु अप्रत्ययं स्मितं प्रादुष्कुर्वन्ति ॥ किं पुनर् वयं आवुसावो येन भगवांस् तेनोपसंक्रमित्वा भगवन्तम् एतम् अर्थं पृच्छेम ॥ यथा तं भगवां व्याकरिष्यति तथा तं धारयिष्याम ॥ साध्व् आयुष्मन्न् इति ते भिक्षू आयुष्मतो आनन्दस्य प्रत्यश्रोषि ॥
___अथ खलु आयुष्मान् आनन्दो तेहि भिक्षुहि सार्धं येन भगवांस् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा विन्दित्वा एकान्ते अस्थासि ॥ एकान्ते स्थितः आयुष्मान् आनन्दो
[_म्वु_1.318_] भगवन्तम् एतत् अवोचत्* ॥ इहाहं भगवन्तं अद्दशामि सायाह्नसमये प्रतिसंलयनाद् व्यूत्थाय विहारान् निष्क्रम्य ऊर्ध्वं च उल्लोकेत्वा अधो च अवलोकेत्वा दिशाभागां च अभिविलोकेत्वा समं च भूमिभागं समवेक्षित्वा स्मितं च प्रादुष्कुर्वन्तं दीर्घं चंक्रमं चंक्रमन्तं ॥ न च पुनस् तथागता अर्हन्तः सम्यक्सम्बुद्धा अहेतु अप्रत्ययं स्मितं प्रादुष्करोन्ति ॥ को भगवन्* हेतुः प्रत्ययः स्मितस्य प्रादुष्करणाय ॥ एवम् उक्ते भगवान् आयुष्मन्तम् आनन्दम् एतद् उवाच ॥ पश्यसि त्वं च आनन्द एतं पृथिवीप्रदेशं ॥ एवं ह्य् एतं भगवन्* ॥ एतस्मिं आनन्द पृथिवीप्रदेशे भगवतो काश्यपस्य आगमवस्तुं अभूषि ॥ पश्यसि त्वम् आनन्द एतं पृथिवीप्रदेशं ॥ एवं ह्य् एतं भगवन्* ॥ एतस्मिन्न् आनन्द पृथिवीप्रदेशे भगवतो काश्यपस्य कुटीवस्तु अभूषि ॥ पश्यसि त्वम् आनन्द एतं पृथिवीप्रदेशं ॥ एवं ह्य् एतद् भगवं ॥ एतस्मिन्न् आनन्द पृथिवीप्रदेशे भगवतो काश्यपस्य चंक्रमषष्टिः अभूषि ॥ पश्यसि त्वम् आनन्द एतं पृथिवीप्रदेशं ॥ एवं ह्य् एतं भगवं ॥ एतस्मिन्न् आनन्द पृथिवीप्रदेशे त्रयाणां तथागतानाम् अर्हतां सम्यक्सम्बुद्धानां निषद्या अभूषि भगवतो क्रकुच्छन्दस्य भगवतो च कनकमुनिस्य भगवतो च कास्यपस्य ॥ अथ खल्व् आयुष्मान् आनन्दो अश्चार्याद्भुतसंविग्नरोमहृष्टजातो शीघ्रं शीघ्रं त्वरमाणरूपो येन सो पृथिवीप्रदेशो तेनोपसंक्रमित्वा तस्मिं पृथिवीप्रदेशे चतुर्गुणसंघाटिं प्रज्ञपेत्वा येन भगवां तेनाञ्जलिं प्रणामेत्वा भगवन्तम् एतद् अवोचत्* ॥ इह भगवां निषीदतु प्रज्ञप्त एव आसने ॥ अयं पृथिवीप्रदेशो चतुर्हि तथागतेहि अर्हन्तेहि सम्यक्सम्बुद्धेहि परिभुक्तो भविष्यति भगवता क्रकुच्छन्देन भगवता च कनकमुनिना भगवता च काश्यपेन भगवता चैतर्हि ॥ निषीदतु खलु भगवां प्रज्ञप्त एव आसने ॥ आयुष्मां पि आनन्दो भगवतः पादौ
[_म्वु_1.319_] शिरसा वन्दित्वा एकान्ते निषीदि ॥ ते पि भिक्षू भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषीदेन्सुः ॥ एकान्ते निषण्णम् आयुष्मन्तम् आनन्दं भगवान् एतद् अवोचत्* ॥ इच्छसि पुनस् त्वम् आनन्द तथागतस्य पूर्वनिवाससंयुक्तां धर्मीकथां भाषतो श्रोतुं इमम् एव मारकरण्डं निगमम् आरभ्य ॥ एवम् उक्ते आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्* ॥ एतस्य दानि भगवं कालो एतस्य दानि सुगतो समयो यं भगवां भिक्षूणाम् एतम् अर्थं भाषे ॥ भिक्षू भगवतो संमुखा श्रुत्वा संमुखा प्रगृहीत्वा तथत्वाये धारयिष्यन्ति ॥ एवम् उक्ते भगवान् आयुष्मन्तम् आनन्दम् एतद् अवोचत्* ॥

___भूतपूर्वम् आनन्द भगवति काश्यपे अयं मारकरण्डो निगमो वेरुडिङ्गो नाम ब्राह्मणग्रामो अभूषि ॥ वेरुडिङ्गे खलु आनन्द ब्राह्मणग्रामे घटिकारो नाम कुम्भकारो अभूषि भगवतो काश्यपस्य उपस्थायको ॥ घटिकारस्य खलु पुनर् आनन्द कुम्भकारस्य ज्योतिपालो नाम माणवको अभूषि दारकवयस्यको सहपांशुक्रीडनको प्रियो मनापो अजन्यस्य ब्राह्मणस्य पुत्रो ॥ अथ खल्व् आनन्द भगवां काश्यपो कोशलेषु चारिकां चरमाणो महता भिक्षुसंघेन सार्धं सप्तहि भिक्षुसहस्रेहि येन कोशलानां वेरुडिङ्गो ब्राह्मणग्रामो तद् अवसारि तद् अनुप्राप्तस् तत्रैव विहरति इमस्मिं एव वनखण्डे ॥ अश्रोषि खल्व् आनन्द घटिकारो कुम्भकारो भगवां किल काश्यपो कोशलेषु चारिकां चरमाणो येन कोशलानां वेरुडिङ्गो ब्राह्मणग्रामं तद् अवसारि तद् अनुप्राप्तो तत्रैव विहरति अन्यतरस्मिं वनखण्डे ॥ अथ खल्व् आनन्द घटिकारो कुम्भकारो येन ज्योतिपालो माणवो तेन्ऽ; उपसंक्रमित्वा ज्योतिपालं माणवम् एतद् अवोचत्* ॥ श्रुतम् इदं सम्यग्ज्योतिष्पाल । भगवां किल काश्यपो कोशलेषु चारिकां चरमाणो महता भिक्षुसंघेन सार्धं सप्तहि भिक्षुसहस्रेहि येन कोशलानां वेरुडिङ्गो ब्राह्मणग्रामो तद् अवसारि तद् अनुप्राप्तः
[_म्वु_1.320_] तत्रैव विहरति अन्यतरस्मिं वनखण्डे ॥ किं पुनर् वयं सम्यग्ज्योतिपाल येन भगवां काश्यपो तेनोपसंक्रमेम भगवन्तं काश्यपं दर्शनाये वन्दनाये पर्युपासनाये ॥ एवम् उक्ते ज्योतिपालो माणवो घटिकारं कुम्भकारम् एतद् अवोचत्* ॥ किं मे भणे घटिकार तेहि मुण्डिकेहि श्रमणेहि दर्शनाये उपसंक्रान्तेहि पर्युपासनाये । द्वितीयं तृतीयं पि आनन्द घटिकारो कुम्भकारो ज्योतिस्पालं माणवम् एतद् उवाच ॥ . . . . . . . किं मे भणे घटिकार तेहि मुण्डेहि श्रमणेहि दर्शनाये उपसंक्रान्तेहि पर्युपासनाये ॥ अथ खल्व् आनन्द घटिकारस्य कुम्भकारस्य एतद् अभूषि ॥ को नु खलु स्याद् उपायो यं ज्योतिपालो माणवो भगवन्तं काश्यपं दर्शनाय उपसंक्रमेय पर्युपासनाय अथ खलु आनन्द घटिकारस्य कुम्भकारस्य एतद् अभूषि ॥ अस्ति खलु तस्यैव वनखण्डस्य अविदूरे सुमुका नाम पुष्करिणी यं नूनाहं ज्योतिपालेन माणवेन सार्धं येन सुमुका नाम पुष्करिणी गच्छेयं शीर्षस्नापनाय ॥ अथ खल्व् आनन्द घटिकारो कुम्भकारो येन ज्योतिपालो माणवो तेन्ऽ; उपसंक्रमित्वा ज्योतिपालं माणवम् एतद् उवाच ॥ किं पुनर् वयं सम्यग्योतिपाल येन सुमुका नाम पुष्करिणी तेनोपसंक्रमेम शीर्षस्नापनाय ॥ एवम् उक्ते आनन्द ज्योतिपालो माणवो घटिकारं कुम्भकारम् एतद् उवाच ॥ तेन हि भणे घटिकार सुखी भव यस्येदानि कालं मन्यसे ॥ अथ खल्व् आनन्द घटिकारो कुम्भकारो शीर्षस्नानीयशाटिम् आदाय ज्योतिपालेन माणवेन सार्धं येन सा पुष्करिणी तेनोपसंक्रमेन्सु स्नानाय ॥ अथ खल्व् आनन्द ज्योतिपालो माणवो शीर्षस्नातो उदकतीरे अस्थासि केशां सन्थापयमानो ॥ अथ खल्व् आनन्द घटिकारो कुम्भकारो ज्योतिपालं माणवम् एतद् अवोचत्* ॥ अयं सम्यग्ज्योतिपाल भगवां काश्यपो इमस्मिं येन वनखण्डे किं पुनर् वयं सम्यग्ज्योतिपाल येन भगवां काश्यपो तेन्ऽ; उपसंक्रमेम भगवन्तं काश्यपं दर्शनाय पर्युपासनाय ॥ एवम् उक्ते ज्योतिपालो माणवो घटिकारं कुम्भकारम्
[_म्वु_1.321_] एतद् अवोचत्* ॥ किं मे भणे घटिकार तेहि श्रमणकेहि दर्शनाये उपसंक्रमन्तेहि पर्युपासनाये ॥ अथ खल्व् आनन्द घटिकारो कुम्भकारो ज्योतिपालं माणवं कृकाटिकायां गृह्य एतद् अवोचत्* ॥ अयं सम्यग्ज्योतिपाल भगवां काश्यपो इमस्मिं एव वनखण्डे किं पुनर् वयं सम्यग्ज्योतिपाल येन भगवां काश्यपो तेन्ऽ; उपसंक्रमेम भगवन्तं काश्यपं दर्शनायोपसंक्रमन्तं पर्युपासनाय ॥ अथ खल्व् आनन्द ज्योतिपालो माणवो घटिकारं कुम्भकारं अपधुनित्वा प्रयाति ॥ तम् एनं घटिकारो कुम्भकारो अनुजवित्वा प्रवेणिकेशेहि गृहीत्वा एतद् अवोचत्* ॥ अयं सम्यग्ज्योतिपाल भगवां काश्यपो इमस्मिं एव वनखण्डे विहरति किं पुनर् वयं सम्यग्ज्योतिपाल येन भगवां काश्यपस् तेनोउपसंक्रमेम भगवन्तं काश्यपं दर्शनाय पर्युपासनाय ॥ अथ खल्व् आयुष्मन् आनन्द ज्योतिपालमाणवस्य एतद् अभूषि ॥ न खल्व् अप्रत्ययं वा तं यं मे घटिकारो कुम्भकारो शीर्षस्नातं मुर्ध्नि केशेषु परामृषति नुदन्तकं हीनाय जात्या समानो ॥ तेन हि भणे घटिकार सुखी भव यस्य दानि मन्यसे ॥
___अथ खल्व् आनन्द घटिकारो कुम्भकारो ज्योतिपालेन माणवेन सार्धं येन भगवां काश्यपो तेन्ऽ; उपसंक्रमित्वा भगवतः काश्यपस्य पादौ वन्दित्वा एकान्ते अस्थासि ॥ एकान्तस्थितः आनन्द घटिकारो कुम्भकारो भगवन्तं काश्यपम् एतद् अवोचत्* ॥ अयं मे भगवन्* ज्योतिपालमाणवो दारकवयस्यो सहपांशुक्रीडनको प्रियो मनापो अजन्यस्य ब्राह्मणस्य पुत्रो तं भगवां ओवदतु अनशासतु ॥ अथ खल्व् आनन्द भगवां काश्यपो ज्योतिपालं माणवं त्रीहि च शरणगमनेहि पंचहि च शिक्षापदेहि समादापये ॥ अथ खल्व् आनन्द ज्योतिपालो माणवो भगवन्तं काश्यपम् एतद् अवोचत्* ॥ न तावद् अहं भगवन् सर्वाणि पंच शिक्षापदानि समादापयिष्यं ॥ अस्ति ताव मे एको पुरुषो विहेठको रोषको जीविताद् व्यपरोपयितव्यो ॥ एवम् उक्ते भगवां ज्योतिपालं माणवम् एतद् अवोचत्* ॥ कतमो पुनर् ज्योतिपाल एको पुरुषो विहेठको रोषको जीविताद्
[_म्वु_1.322_] व्यपरोपयितव्यो ॥ एवम् उक्ते आनन्द ज्योतिपालो माणवो भगवन्तं काश्यपम् एतद् अवोचत्* ॥ अयं भगवं घटिकारो कुम्भकारो यो मे तदा एवं शीर्षस्नातं मूर्ध्नि केशेहि परामृषति ॥ तदाहं एवम् आह ॥ उपसंक्रमेम भगवन्तं काश्यपं दर्शनायोपसंक्रमन्तं पर्युपासनाये ॥ . . . . . . . . . . . . . अपि च भवां सुखी भवतु घटिकारो कुम्भकारो एषो ऽहं सर्वाणि एवं पंच शिक्षापदानि समादियामि ॥ अथ खल्व् आनन्द भगवां काश्यपो घटिकारं कुम्भकारं ज्योतिपालं च माणवं धार्म्यया कथया संदर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्षयित्वा उद्योजयि ॥ अथ खल्व् आनन्द घटिकारो ज्योतिपालो च माणवो भगवतो काश्यपस्य पादौ शिरसा वन्दित्वा प्रक्रामि ॥

___अथ खल्व् आनन्द ज्योतिपालमाणवो अचिरप्रक्रान्तो घटिकारं कुम्भकारम् एतद् अवोचत्* ॥ त्वं पि भणे घटिकार भगवतो काश्यपस्य सम्यग्धर्मं देशितम् आजानासि यथैव अहं ॥ एवम् उक्ते आनन्द घटिकारो कुम्भकारो ज्योतिपालं माणवम् एतद् अवोचत्* ॥ एवम् उक्ते सम्यग्ज्योतिपाल ॥ अहं पि भगवतो काश्यपस्य एवं सम्यग्धर्मं देशितम् आजानामि यथैव त्वं ॥ एवम् उक्ते आनन्द ज्योतिपालो माणवो घटिकारं कुम्भकारम् एतद् उवाच ॥ कस्मात् पुनः त्वं घटिकार भगवतो काश्यपस्य सन्तिके न अगारस्यानगारियं प्रव्रजसि ॥ एवम् उक्ते आनन्द घटिकारो कुम्भकारो ज्योतिपालं माणवम् एतद् अवोचत्* ॥ अस्ति मे सम्यग्ज्योतिपाल मातापितरौ जीर्णवृद्धौ दुर्बलचक्षू तेषां नास्त्य् अन्यो उपस्थायको ॥ तेनाहं भगवतो काश्यपस्य अन्तिके न अगारस्यानगारियं प्रव्रजामि ॥ अथ खल्व् आनन्द ज्योतिपालस्य माणवस्य नचिरस्यैव गृहवासे अरतिर् उत्पद्येत् प्रव्रज्यायै चित्तं नमे ॥ अथ खल्व् आनन्द ज्योतिपालो माणवो येन घटिकारो तेन्ऽ; उपसंक्रमित्वा घटिकारं कुम्भकारम् एतद् अवोचत्* ॥ एहि सम्यग्घटिकार
[_म्वु_1.323_] भगवतो काश्यपस्य सन्तिके अनुप्रणिधेमि प्रव्रज्यायै प्रव्रजिष्यामि अगाररस्यानगारियं ॥ अथ खल्व् आनन्द घटिकारो कुम्भकारो ज्योतिपालं माणवम् उपादाय येन भगवान् काश्यपो तेन्ऽ; उपसंक्रमित्वा भगवतः काश्यपस्य पादौ शिरसा वन्दित्वा एकान्ते अस्थासि ॥
___एकमन्ते स्थितो आनन्द घटिकारो कुम्भकारो भगवन्तं काश्यपम् एतद् अवोचत्* ॥ अयं मे भगवं ज्योतिपालो माणवो दारकवयस्यको सहपांशुक्रीडनको प्रियो मनापो अजन्यस्य ब्राह्मणस्य पुत्रो ॥ तं भगवां प्रव्राजेतु उपसंपादेतु च ॥ अथ खल्व् आनन्द भगवां काश्यपो भिक्षू आमन्त्रेसि ॥ प्रव्राजेथ भिक्षवो ज्योतिपालं माणवं उपसंपादेथ ॥ अथ खल्व् आनन्द भिक्षवो ज्योतिपालं माणवं प्रव्राजेन्सुः ॥ अथ खल्व् आनन्द भगवां काश्यपो ज्योतिपालस्मिं भिक्षुस्मिं अचिरोपसम्पन्ने कोशलेहि काशीषु चारिकां प्रक्रामि ॥
___अथ खल्व् आनन्द भगवान् काश्यपो काशीषु चारिकां चरमाणो महता भिक्षुसंघेन सार्धं सप्तहि भिक्षुसहस्रेहि येन काशीनां वाराणासी नगरं तद् अवसारि तद् अनुप्राप्तः तत्रैव विहरति ऋषिवदने मृगदावे ॥ अश्रोषीत् खल्व् आनन्द कृकी राजा भगवां किल काश्यपो काशीषु चारिकां चरमाणो महता भिक्षुसंघेन सार्धं सप्तहि भिक्षुसहस्रेहि येन काशीनां वाराणसी नगरं तद् अवसारि तद् अनुप्राप्तः तत्रैव विहरति ऋषिवदने मृगदावे ॥ अथ खल्व् आनन्द कृकी काशीराजा अन्यतरं पुरुषम् आमन्त्रेसि ॥ एहि त्वं भो पुरुष येन भगवां काश्यपो तेनोपसंक्रमित्वा मम वचनेन भगवन्तं काश्यपं वन्दनं वदेसि ॥ कृकी काशीराजा भगवतो काश्यपस्य पादौ शिरसा वन्दित्वा अल्पाबाधतां च अल्पातंकतां च बलं सुखतां स्पर्शविहारतां च पृच्छति सुवेतनानि च निवेशनं भक्तेन निमन्त्रेति सार्धं भिक्षुसंघेन सचास्य भगवां काश्यपः अधिवासयति ॥ एवम् उक्ते आनन्द भगवां काश्यपो तं पुरुषम् एतद् उवाच ॥ सुखी भवतु कृकी
[_म्वु_1.324_] काशिराजा सकुमारो सपरिजनो । यस्य दानि कालं मन्यसे ॥ अथ खलु स पुरुषो भगवतो अधिवासनां विदित्वा येन वाराणसी नगरं तेन प्रक्रामि ॥ अथ खल्व् आनन्द सो पुरुषो येन कृकी काशीराजा तेन्ऽ; उपसंक्रामि ॥ कृकिं काशीराजम् इदम् अवोचत्* ॥ उक्तं मे महाराज तव वचनेन भगवतो काश्यपस्य वन्दनं ॥ अल्पाबाधतां च अल्पातंकतां च सुखं च बलं स्पर्शविहारतां च पृच्छतो सुवेतनानि च भक्तेन निमन्त्रितो सार्धं भिक्षुसंघेन ॥ अधिवासेति च भगवां काश्यपो यस्येदानि कालं मन्यसे ॥ अथ खल्व् आनन्द कृकी काशीराजा इमाम् एव रात्रिं प्रभूतं प्रणीतं खादनीयं भोजनीयं प्रतिजागरयित्वा तस्या एव रात्रिये अत्ययेनान्यतरं पुरुषम् आमन्त्रेसि ॥ एहि त्वं भो पुरुष येन भगवां काश्यपो तेनोपसंक्रमित्वा भगवन्तं काश्यपम् एवं वदेहि ॥ समये भगवं कृकिस्य काशिराज्ञो निवेशने भक्ताये यस्य भगवं कालं मन्यसे ॥ साधु महाराज त्ति सो पुरुषो कृकिस्य काशिराज्ञो प्रतिश्रुत्वा वाराणसीतो नगरातो निर्गम्य येन ऋषिवदनो मृगदावो तेन प्रक्रामि ॥ अथ खल्व् आनन्द स पुरुषो येन भगवां काश्यपो तेन्ऽ; उपसंक्रमित्वा भगवतो काश्यपस्य पादौ शिरसा वन्दित्वा भगवन्तं काश्यपम् एतद् उवाच ॥ समयो भगवं कृकिस्य राज्ञो निवेशने भक्ताय यस्य दानि भगवं कालं मन्यसे ॥ अथ खल्व् आनन्द भगवां काश्यपो तस्य पुरुषस्य प्रतिश्रुत्वा काल्यस्यैव निवासयित्वा पात्रचीवरम् आदाय भिक्षुसंघपरिवृतो भिक्षुसंघपुरस्कृतः येन वाराणसीनगरं तेन प्रक्रमते ॥ तेन खलु पुनर् आनन्द समयेन कृकी काशीराजा कुमारामात्यपरिवृतः स्वकस्य निवेशनस्य प्रतिद्वारे अस्थासि भगवन्तं काश्यपं सश्रावकसंघं प्रतिपालयमानो ॥ अद्राक्षीत् खल्व् आनन्द कृकी काशिराजा भगवन्तं काश्यपं सश्रावकसंघं दूरतो एव आगच्छन्तं ॥ दृष्ट्वा पुनर् येन भगवां काश्यपो सश्रावकसंघो तेनोपसंक्रमित्वा भगवतो काश्यपस्य सश्रावकसंघस्य पादौ शिरसा वन्दित्वा भगवन्तं काश्यपं सश्रावकसंघं पुरस्कृत्वा स्वकं
[_म्वु_1.325_] निवेशनं प्रवेशेति ॥ तेन खलु पुनः समयेन कृकिस्य काशिराज्ञो निवेशने कोकनदो नाम प्रासादो नवो अचिरनिष्ठितो अपरिभुक्तपूर्वो केनचित् श्रमणकेन वा ब्राह्मणेन वा ॥ अथ खल्व् आनन्द कृकी काशिराजा भगवन्तं काश्यपम् एतद् अवोचत्* ॥ अयं मे भगवन् निवेशने कोकनदो नाम प्रासादो नवो अचिरनिष्ठितो अपरिभुक्तपूर्वो केनचिच् छ्रमणेन वा ब्राह्मणेन वा तं भगवां प्रथमं परिभुंजतु ॥ भगवता परिभुक्तं पश्चाद् वयं परिभुंजिष्यामः ॥ एवम् उक्ते भगवां काश्यपो कृकिं काशिराजं एतद् उवाच ॥ तेन हि महाराज सुखी भव यस्येदानीं कालं मन्यसे ॥ अथ खलु कृकी काशिराजा कोकनदे प्रासादे आसनानि प्रज्ञापयेत् खाद्यभोज्यम् अभिनामयेत्* ॥ अथ खलु भगवां कोकनदं प्रासादं अभिरुहित्वा निषीदे प्रज्ञप्त एव आसने यथासने च भिक्षुसंघः ॥ अथ खल्व् आनन्द खलु कृकी काशिराजा भगवन्तं काश्यपं स्वहस्तेनैव खादनीयभोजनीयेन सन्तर्पयेत् संप्रवारयेत्* ॥ एकमेकं च सप्तसप्त पुरुषा सप्तसप्तेहि निष्ठानेहि पर्णकुलकेन च शालिना ॥

___अथ खलु कृकी काशिराजा भगवन्तं काश्यपं भुक्ताविं धौतपाणिं अपनीतपात्रं विदित्वा अन्यतरं नीचकम् आसनम् आदाय येन भगवां काश्यपो तेन्ऽ; उपसंक्रमित्वा भगवतो काश्यपस्य पादौ शिरसा वन्दित्वा एकान्ते निषीदि ॥ एकान्ते निषण्णो आनन्द कृकी काशिराजा भगवन्तं काश्यपम् एतद् अवोचत्* ॥ अधिवासेतु भगवां वाराणसीये नगरे वर्षावासं ॥ अहं भगवं आरामं कारापयिष्यं इमस्मिं च सप्त कूटागारसहस्राणि सप्त च पीठसहस्राणि सप्त च वीथिसहस्राणि सप्त च तुरगसहस्राणि सप्त च आरामिकसहस्राणि उपस्थापयिष्यन्ति यानि भिक्षुसंघं प्रत्येकं प्रत्येकं उपस्थिहिष्यन्ति ॥ एवंरूपेण उपस्थानेन भगवन्तं च उपस्थिहिष्यन्ति भिक्षुसंघं च ॥ एवम् उक्ते
[_म्वु_1.326_] आनन्द भगवां काश्यपो कृकिं काशिराजानम् एतद् अवोचत्* ॥ न हि महाराज शक्यं वज्जिषु मे वर्षावासो भविष्यति ॥ द्वितीयं पि तृतीयं पि एवम् एव कर्तव्यं ॥ अथ खल्व् आनन्द कृकी काशिराजा नैवं भगवां काश्यपो अधिवासेति वाराणसीयं नगरे वर्षावासं ति प्रारोदीद् अश्रुकानि च प्रवर्तयि ॥ अथ खल्व् आनन्द कृकी काशिराजा भगवन्तं काश्यपम् एतद् अवोचत्* ॥ अस्ति पुनर् भगवतो अन्यो पि एवंरूपो उपस्थायको यथैवाहं ॥ एवम् उक्ते आनन्द भगवां काश्यपो कृकिं राजानम् एतद् अवोचत्* ॥ अपरिपूर्णो खलु मे त्वं महाराज उपस्थायको ॥ एवम् उक्ते आनन्द कृकी काशिराजा भगवन्तं काश्यपम् एतद् उवाच ॥ कतमो पुनर् भगवतो मम पूर्णतरो परिपूर्णतरो उपस्थायको ॥ एवम् उक्ते आनन्द भगवां काश्यपो कृकिं काशिराजानम् एतद् अवोचत्* ॥ अस्ति महाराज तुह्यं एव विजिते वेरुडिङ्गं नाम ब्राह्मणग्रामो ॥ तत्र घटिकारो सो मे उपस्थायको ॥ एवम् उक्ते आनन्द कृकी काशिराजा भगवन्तं काश्यपम् एतद् अवोचत्* ॥ केवरूपा पुनर् भगवं घटिकारस्य भोगा येहि भगवन्तम् उपस्थिहति संघं च ॥ एवम् उक्ते आनन्द भगवां काश्यपो कृकिं काशिराजानम् एतद् अवोचत्* ॥ घटिकारो महाराज कुम्भकारो यावज्जीवं प्राणातिपातातो प्रतिविरतो यावज्जीवम् अदत्तादानातो प्रतिविरतो यावज्जीवं अब्रह्मचर्यातो प्रतिविरतो यावज्जीवं मृषावादात् प्रतिविरतो यावज्जीवं सुरामैरेयमद्यप्रमदस्थानातो प्रतिविरतो यावज्जीवं नृत्यगीतवादिता प्रतिविरतो यावज्जीवं गन्धमाल्यवर्णकधारणात् प्रतिविरतो यावज्जीवं उच्चशयना महाशयनात् प्रतिविरतो यावज्जीवं विकारभोजनात् प्रतिविरतो यावज्जीवं जातरूपरजतप्रतिग्रहणात् प्रतिविरतो ॥ न खलु महाराज घटिकारो कुम्भकारो सामं पृथिवीं खनति इति । अथ खलु ये ते भवन्ति मूषोत्किरा वा वारिप्ररोपिता वा
[_म्वु_1.327_] वारुच्छिन्ना वा मृत्तिका ततो मृत्तिकाम् आदाय भाजनकानि कृत्वा चतुर्महापथे निक्षिपति ॥ ये तेहि भाजनेहि अर्थिका भवन्ति ते तानि भाजनानि मुद्गप्रभिन्नं वा माषप्रभिन्नं वा तण्डुलप्रभिन्नं वा पूरेत्वा उत्किरित्वा भाजनकान्य् आदाय अनपेक्षा येव प्रक्रमन्ति ॥ एवंरूपा महाराज घटिकारस्य कुम्भकारस्य भोगाः येहि तथागतश् च उपस्थितो संघश् च ॥ मातापितरौ च जीर्णौ वृद्धौ दुर्बलचक्षू ॥

___एकम् इदम् अहं महाराज समयं वेरुडिङ्गे ब्राह्मणग्रामे विहरामि ॥ सो हं महाराज काल्यम् एव निवासयित्वा पात्रचीवरम् आदाय वेरुडिङ्गं ब्राह्मणग्रामं पिण्डाय प्रक्रामि ॥ सो हं महाराज वेरुडिङ्गे ब्राह्मणग्रामे सावदानं पिण्डाय चरन्तो येन घटिकारस्य कुम्भकारस्य निवेशनं तेनोपसंक्रमित्वा उद्देशे अस्थासि ॥ तेन खलु पुनः समयेन घटिकारो कुम्भकारो स्वकान् निवेशनान् निष्क्रान्तो अभूषि ॥ अथ खलु महाराज घटिकारस्य कुम्भकारस्य मातापितरौ तथागतम् एतद् अवोचत्* ॥ निष्क्रान्तो ते भगवं उपस्थायको ॥ एषो उपरिकोष्ठके सूपश् च ओदनश् च अतो भगवां परिभुंजतु ॥ सो हं महाराज उपरिकोष्ठकात् सूपं ओदनं च देवताहि प्रतिग्राहेत्वा परिभुंजित्वा प्रक्रामि ॥ अथ खलु महाराज घटिकारो कुम्भकारो येन स्वकं निवेशनं तेनोपसंक्रमि ॥ अद्राक्षीत् खलु महाराज घटिकारो कुम्भकारो उपरिकोष्ठका सूपं च ओदनं च परिभुक्तं दृष्ट्वान पुनर् मातापितरौ एतद् अवोचत्* ॥ केन्ऽ; इमा तात घटिकारस्य उपरिकोष्ठका सूपो च ओदनं च परिभुक्ता ॥ एवम् उक्ते महाराज घटिकारस्य कुम्भकारस्य मातापितरौ घटिकारं कुम्भकारम् एतद् अवोचत्* ॥ भगवता पुत्र काश्यपेन ॥ अथ खलु महाराज घटिकारस्य कुम्भकारस्य एतद् अभवत्* ॥ लब्धा पुनर् मे सुलब्धा लाभा यस्य मे भगवां काश्यपो यावद् एको पि अतिविश्वस्तो ॥ तस्य चैवम् अर्धमासं प्रीतिसुखं कायं न विजहति सप्ताहं च मातापितॄणां जीर्णवृद्धानां दुर्बलचक्षूणां ॥
[_म्वु_1.328_]___एकम् इदं महाराज समयं तथागतस्य अरण्यकुटिकाये छाद्यमानाये तृणानि न संभुणन्ति ॥ सो हं महाराज भिक्षुणाम् आमन्त्रयेसि ॥ गच्छथ भिक्षवो घटिकारस्य कुम्भकारस्य निवेशनं तृणानि आनेथ ॥ अथ खलु महाराज ते भिक्षूः येन घटिकारस्य कुम्भकारस्य निवेशनं तेनोपसंक्रमेन्सुः ॥ तेन खलु पुनर् महाराज समयेन घटिकारो कुम्भकारः स्वकातो निवेशनातो निष्क्रान्तो अभूषि ॥ ते तत्र नादृशेन्सु तृणानि अद्दशेन्सु नवच्छदनां आवेशनशालां ॥ अथ खलु महाराज ते भिक्षूः येन तथागतो तेनोपसंक्रमित्वा तथागतस्य पादौ शिरसा वन्दित्वा तथागतं च एतद् अवोचत्* ॥ निष्क्रान्तो ते भगवं उपस्थायको नास्ति चात्र कानिचि तृणानि अस्ति चात्र नवच्छदना आवेशनशाला ॥ एवम् उक्ते महाराज तां भिक्षुं एतद् अवोचत्* ॥ गच्छथ भिक्षवो घटिकारस्य कुम्भकारस्य नवच्छदनां आवेशनशालां उत्तृणीकृत्वा तृणानि आनेथ ॥ अथ खलु महाराज ते भिक्षू येन घटिकारस्य कुम्भकारस्य निवेशनं तेनोपसंक्रमित्वा घटिकारस्य कुम्भकारस्य नवच्छदनाम् आवेशनशालाम् उत्तृणीकरेन्सु ॥ अथ खलु महाराज घटिकारस्य कुम्भकारस्य मातापितरौ तां भिक्षून् एतद् अवोचत्* ॥ को एष घटिकारस्य कुम्भकारस्य नवच्छदनाम् आवेशनशालाम् उत्तृणीकृत्वा तृणानि हरति ॥ एवम् उक्ते महाराज ते भिक्षू घटिकारस्य कुम्भकारस्य मातापितरौ एतद् उवाच ॥ यत्र आयुष्मं भिक्षूणां भगवतो काश्यपस्य च अरण्यकुटिकाये छाद्यमानाये तृणा न संभुणन्ति तत्र एतानि तृणानि नीयन्ति ॥ एवम् उक्ते महाराज घटिकारस्य कुम्भकारस्य मातापितरौ तां भिक्षून् एतद् अवोचत्* ॥ हरथ हरथ स्वकानि च ॥ अथ खलु महारज घटिकारो कुम्भकारो येन स्वकं निवेशनं तेनोपसंक्रमेसि ॥ अद्रक्षीत् खलु महाराज घटिकारो कुम्भकारो नवच्छदनाम् आवेशनशालाम् उत्तृणीकृतां तृणानि हृतानि दृष्ट्वा च पुनर् मातापितरौ एतद् अवोचत्* ॥ केन्ऽ; इमा तात घटिकारस्य
[_म्वु_1.329_] कुम्भकारस्य नवच्छदना आवेशनशाला उत्तृणीकृता तृणानि हृतानि ॥ एवम् उक्ते घटिकारस्य कुम्भकारस्य मातापितरौ घटिकारं कुम्भकारम् एतद् अवोचत्* ॥ भगवतो पुत्र काश्यपस्य अरण्यकुटिकाये तृणानि न प्रभवन्ति तत्र एतानि भिक्षुभिस् तृणानि नीतानि ॥ अथ खलु महाराज घटिकारस्य कुम्भकारस्य एतद् अभवत्* ॥ लब्धा मे सुलब्धा लाभा यत् पुनर् अस्य मे भगवां काश्यपो यावद् एको पि अतिविश्वस्तो ॥ तस्य चैकमासं प्रीतिसुखं कायं न विजहे अर्धमासं च अन्धानां मातापितॄणां ॥ न खलु पुनर् अहं महाराज अभिजानामि घटिकारस्य कुम्भकारस्य इदम् एवरूपं दौर्मनस्यप्रतिलाभं यथैव महाराजे न मे भगवां काश्यपो अधिवासेसि वाराणसीये नगरे वर्षावासन् ति ॥
___अथ खल्व् आनन्द कृकिस्य काशिराज्ञो एतद् अभवत्* ॥ लाभा पुनर् मे सुलब्धा यस्य मे एवंरूपो ब्रह्मचारी विजिते प्रतिवसति द्विपादकानि पुण्यक्षेत्राणि ॥ अथ खल्व् आनन्द कृकी काशिराजा घटिकारस्य कुम्भकारस्य पर्णकुलशालिस्य शत वाहां प्रेषयेत्* नवोदकं च तैललवणक्वथनं ॥ अथ खल्व् आनन्द काश्यपो कृकिं काशिराजानं धर्म्यया कथया संदर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्षयित्वा उत्थायासनातो प्रक्रामि ॥
___अथ खल्व् आनन्द भगवां काश्यपो पश्चाद्भक्तं पिण्डपात्रप्रतिक्रान्तो भिक्षुणां आमन्त्रेसि ॥ निषीदथ भिक्षवो सन्निपतिथ भिक्षवो बन्धथ पर्यंकं एषो हि पर्यङ्कं बन्धामि तावन् न भिन्दामि यावन् न इमेषां सप्तानां भिक्षुसहस्राणाम् एतेहि एवं आसनेहि निषण्णानां अनुपादायाश्रवेभ्यश् चित्तानि विमुक्तानि ॥ साधु भगवन्न् इति ते भिक्षु भगवतो काश्यपस्य प्रतिश्रुत्वा सन्निषीदेन्सुः संनिपतेन्सुः बन्धेन्सुः पर्यङ्कं ॥ अथ खल्व् आनन्द ज्योतिपालस्य भिक्षुस्य एकरहोगतस्य प्रतिसंलीनस्य अयम् एवरूपश् चेतसो परिवितर्को

[_म्वु_1.330_] उत्पद्ये ॥ अहो पुनर् अहं भवेयम् अनागतम् अध्वानं तथागतो अर्हं सम्यक्सम्बुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च ॥ सो इमं च लोकम् अभिज्ञाय सदेवकं लोकं समारकं सब्रह्मकं सश्रमणं प्रजां सदेवमनुष्यां इहैव वाराणस्यां ऋषिवदने मृगदावे धर्मचक्रं प्रवर्तेयं द्वादशाकारं अप्रवर्तियं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा केनचिद् वा पुनर् लोके सह धर्मेण ॥ एवं च सर्वाकारसंपन्नं सर्वाकारपरिपूर्णं च धर्मं देशयेयं यथापि भगवां काश्यपो एतरहिं ॥ एवं च देवमनुष्या श्रोतव्यं श्रद्धातव्यं मन्येन्सु तथा भगवतो काश्यपस्य एतरहिं ॥ तं भवेयं बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥ हायेन्सु आसुरा काया दिव्या काया अभिवर्धेन्सु ॥ अथ खल्व् आनन्द भगवां काश्यपो ज्योतिपालस्य भिक्षुस्य इदम् एवरूपं चेतसा एव चेतोपरिवितर्कम् आज्ञाय अन्यतरं भिक्षुं आमन्त्रयसि ॥ एहि त्वं भिक्षु येन ज्योतिपालो भिक्षुस् तेनोपसंक्रमित्वा ज्योतिपालं भिक्षुम् एवं वदेहि ॥ शास्ता ते आयुष्मं आमन्त्रेति । उपसंक्रमे येन तथागतो ॥ भगवतो काश्यपस्य प्रतिश्रुत्वा येन ज्योतिपालो भिक्षुस् तेनोपसंक्रमित्वा ज्योतिपालं भिक्षुम् एतद् अवोचत्* ॥ शास्ता आयुष्मं ज्योतिपाल आमन्त्रयति उपसंक्रमे येन भगवां ॥ साध्व् आयुष्मन्न् इति आयुष्मां ज्योतिपालस् तस्य भिक्षुस्य प्रतिश्रुत्वा येन भगवान् काश्यपस् तेनोपसंक्रमित्वा भगवतः काश्यपस्य पादौ शिरसा वन्दित्वा एकान्ते निषीदि ॥ एकान्ते निषण्णं आयुष्मन्तं ज्योतिपालं भिक्षुं भगवां काश्यप एतद् अवोचत्* ॥ ननु ज्योतिपाल एकस्य ज्योतिपालस्य रहोगतस्य प्रतिसंलीनस्य अयम् एवंरूपश् चेतसो परिवितर्क उत्पद्ये ॥ अहो पुनर् अहं भवेयं अनागतम् अध्वानं तथागतो अर्हं सम्यक्सम्बुद्धो विद्याचरणसम्पन्नो सुगतो
[_म्वु_1.331_] लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च ॥ सो इमं च लोकम् अभिज्ञाय परं च लोकम् अभिज्ञाय सदेवकं च लोकं समारकं सश्रमणब्राह्मणं प्रजां सदेवमनुष्यां इहैव वाराणसीये ऋषिवदने मृगदावे धर्मचक्रं प्रवर्तेयं त्रिपरिवर्तं द्वादशाकारं अप्रवर्तियं श्रमणेन वा ब्राह्मणेन वा मारेण वा ब्रह्मना वा केनचिद् वा पुनर् लोके सह धर्मेण ॥ एवं च सर्वाकारसंपन्नं सर्वाकारपरिपूर्णं धर्मं देशयेयं यथापि भगवां काश्यपो एतरहिं ॥ एवं च समग्रं भिक्षुसंघं परिहरेयं यथा भगवां काश्यपो एतर्हिं ॥ एवं च मे देवा च मनुष्या च श्रोतव्यं श्रद्धातव्यं मन्येन्सु यथापि भगवतो काश्यपस्य एतरहि ॥ तं भवेय्या बहुजनहिताय बहुजनसुखाय लोकानुकंपायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥ हायेन्सु आसुरा काया दिव्या काया अभिवर्द्धेन्सु ॥ एवम् उक्तो आनन्द ज्योतिपालो भिक्षुर् भगवन्तं काश्यपम् एतद् अवोचत्* ॥ एवम् एतं भगवन्* ॥ एवम् उक्ते आनन्द भगवां ज्योतिपालं भिक्षुम् एतद् अवोचत्* ॥ तस्माद् धि ज्योतिपाल इदं सुवर्णपीठकं दुष्ययुगं बुद्धप्रमुखे भिक्षुसंघे देहि कृतपुण्यास् ते देवा च मनुष्याश् च श्रोतव्यं श्रद्धातव्यं मनिष्यन्ति ॥ अदासि खल्व् आनन्द
[_म्वु_1.332_] ज्योतिपालो भिक्षुः सुवर्णपीठकं दुष्ययुगं बुद्धप्रमुखे भिक्षुसंघे ॥ अथ खल्व् आनन्द भगवां काश्यपो स्मितं प्रादुष्करित्वा ज्योतिपालं भिक्षुं व्याकार्षीत्* ॥ भविष्यसि त्वं ज्योतिपाल अनागतम् अध्वानं तथागतो ऽर्हन् सम्यक्सम्बुद्धो विद्याचरणसम्पन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च ॥ सो इमं च लोकं अभिज्ञाय परं च लोकम् अभिज्ञाय सदेवकं च लोकं समारकं सब्रह्मकं सश्रमणब्राह्मणीं प्रजां सदेवमनुष्यां इहैव वाराणसीये ऋषिवदने मृगदावे धर्मचक्रं प्रवर्तयिष्यसि त्रिपरिवर्तं द्वादशाकारं अप्रवर्तितं केनचिच् छ्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा केनचिद् वा पुनर् लोके सह धर्मेण ॥ एवं च सर्वाकारसम्पन्नं सवाकारपरिपूर्णं धर्मं देशयिष्यसि यथापि भगवां काश्यपो एतरहिं ॥ एवं च समग्रं श्रावकसंघं परिहरिष्यसि यथापि भगवां काश्यपो एतरहिं ॥ एवं च ते देवा च मनुष्या च श्रोतव्यं श्रद्धातव्यं मन्येन्सु यथापि भगवतो काश्यपस्य च एतरहि ॥ तं भविष्यसि बहुजनहिताय बहुजनसुखाय लोकानुकंपायै महातो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥ हायिष्यन्ति आसुरा काया दिव्या काया अभिवर्धिष्यन्ति ॥
___अथ खल्व् आनन्द भगवता काश्यपेन ज्योतिपालस्मिं व्याकृते भूम्या देवा घोषम् उदीरयेन्सु ॥ एषो मारिषा भगवता काश्यपेन ज्योतिपालो नाम भिक्षुर् व्याकृतो सो भविष्यति अनागतम् अध्वानं तथागतो ऽर्हं सम्यक्संबुद्धो विद्याचरणसम्पन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च ॥ सो इमं लोकम् अभिज्ञाय परं च लोकम् अभिज्ञाय सदेवकं च लोकं समारकं सब्रह्मकं सश्रमणब्राह्मणीं प्रजां सदेवमनुष्यां अभिज्ञाय इहैव वाराणसीये ऋषिवदने मृगदावे धर्मचक्रं प्रवर्तयिष्यति त्रिपरिवर्तं द्वादशाकारं अपरिवर्तितं श्रमणेन वा ब्राह्मणेन वा देवेन वा

[_म्वु_1.333_] मारेण वा ब्रह्मणा वा केनचिद् वा पुनर् लोके सह धर्मेण ॥ एवं सर्वाकारसम्पन्नं सर्वाकारपरिपूर्णं धर्मं देशयिष्यति यथापि भगवां काश्यपो एतरहिं ॥ तद् भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥ हायिष्यन्ति आसुरा काया दिव्या काया अभिवर्द्धिष्यन्ति ॥ भूम्यानां देवानां घोषं श्रुत्वा चातुर्महाराजकायिका देवाः त्रायस्त्रिंशा यामाः तुषिता निर्माणरतयः परिनिर्मितवशवर्तिन इति ॥ तत् मुहूर्तं यावद् ब्रह्मकायिका देवनिकाया घोषम् अभ्युद्गच्छेत्* ॥ एषो मारिष भगवता काश्यपेन ज्योतिपालो नाम भिक्षु व्याकृतो सो भविष्यति अनागतम् अध्वानं तथागतो ऽर्हं सम्यक्संबुद्धो विद्याचरणसम्पन्नो सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च ॥ सो इमं च लोकम् अभिज्ञाय परं च लोकं अभिज्ञाय सदेवकं च लोकं च सब्रह्मकं सश्रमणब्राह्मणीं प्रजां सदेवमनुष्याम् अभिज्ञाय इह एव वाराणसीयं ऋषिवादने मृगदावे धर्मचक्रं प्रवर्तयिष्यति त्रिपरिवर्तं द्वादशाकारं अप्रवर्तियं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा पुनर् लोके सह धर्मेण ॥ एवं च सर्वाकारसम्पन्नं च सर्वाकारपरिपूर्णं धर्मं देशयिष्यति यथापि भगवां काश्यपो एतरहिं ॥ एवं च देवा च मनुष्या च श्रोतव्यं श्रद्धातव्यं मनिष्यन्ति यथापि भगवतो काश्यपस्य एतरहिं ॥ तद् भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकंपायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥ हायिष्यन्ति आसुरा काया दिव्या काया अभिवर्द्धिष्यन्ति ॥
___अथानन्द भगवां काश्यपस् तस्मिं घोषे ऽन्तर्हिते तां भिक्षून् धर्मया कथया संदर्शये
[_म्वु_1.334_] समादापये समुत्तेजये संप्रहर्षये ॥ एवं भिक्षवो वितर्केथ एवं मा वितर्केथ एवं मनसिकरोथ एवं मा मनसिकरोथ ॥ आत्मद्वीपा भिक्षवो विहरथ अनन्यद्वीपाः आत्मशरणाः अनन्यशरणाः धर्मद्वीपा अनन्यद्वीपाः धर्मशरणा अनन्यशरणाः ॥ अथ खलु भगवां आदीप्तेन कायेन संप्रज्वलितेन सज्योतिभूतेन एकं तालं वैहायसम् अभ्युद्गतो भिक्षूं धर्मया कथया संदर्शयेत् समादापयेत् समुत्तेजयेत् संप्रहर्षयेत्* ॥ एवं भो भिक्षवो वितर्केथ एवं मा वितर्केथ एवं मनसिकरोथ एवं मा मनसिकरोथ आत्मद्वीपा भिक्षवो विहरथ अनन्यद्वीपा आत्मशरणा अनन्यशरणाः धर्मद्वीपा अनन्यद्वीपा धर्मशरणा अनन्यशरणाः ॥ अथ खल्व् आनन्द भगवां काश्यपो एकतालाद् द्वितालं वैहायसम् अब्भ्युद्गम्य द्वितालात् त्रितालं त्रितालातो चतुतालं चतुतालातो पंचतालं पंचतालातो षट्तालं षट्तालातो सप्ततालं सप्ततालसंस्थितो तां भिक्षूं धर्मया कथया संदर्शायति समादापयति समुत्तेजयति संप्रहर्षयति ॥ एवं भिक्सवः वितर्केथ एवं मा वितर्केथ एवं मनसिकरोथ एवं मा मनसिकरोथ ॥ आत्मद्वीपा भिक्षवो विहरथ अनन्यद्वीपा आत्मशरणा अनन्यशरणा धर्मशरणा अनन्यशरणाः ॥ अथ खल्व् आनन्द भगवां काश्यपो सप्ततालातो षट्तालसंस्थितो षट्तालात् पंचतालं पंचतालातो चतुतालं चतुतालातो त्रितालं त्रितालातो द्वितालं द्वितालातो एकतालं एकतालातो स्वके आसने निषण्णो तां भिक्षूं धर्मया कथया संदर्शयेत् समादापयेत् समुत्तेजयेत् संप्रहर्षयेत्* ॥ एवं भिक्षवो वितर्केथ एवं मा वितर्केथ एवं मनसिकरोथ एवं मा मनसिकरोथ ॥ आत्मद्वीपा भिक्षवो विहरथ अनन्यद्वीपा आत्मशरणा अनन्यशरणा धर्मद्वीपा अनन्यद्वीपा धर्मशरणा अनन्यशरणाः ॥ अथ खल्व् आनन्द भगवां काश्यपः पर्यङ्कं
[_म्वु_1.335_] भिन्दन्तो तां भिक्षूं आमन्त्रयसि ॥ अहं भिक्षवो पर्यङ्कं भिन्दामि सर्वेषाम् इमेषां सप्तानां भिक्षुसहस्राणां एतेहि एव आसनेहि निषण्णानाम् अनुपादायाश्रवेभ्यश् चित्तानि विमुक्तानि स्थापयित्वा ज्योतिपालस्य भिक्षुस्य ॥ सो पि मह्यं व्याकृतो च अनुत्तराये सम्यक्संबोधये ॥ स्यात् खलु पुनर् आनन्द एवम् अस्यास्यात्* अन्यो सो तेन कालेन तेन समयेन ज्योतिपालो नाम भिक्षुः अभूषि ॥ नैतद् एवं द्रष्टव्यं ॥ अहं सो तेन कालेन तेन समयेन ज्योतिपालो नाम भिक्षु अभूषि ॥ इदम् अवोचद् भगवान् आत्तमना आयुष्मान् आनन्दो तानि सप्त च भिक्षुसहस्राणि भगवतो भाषितम् अभिनन्देन्सुः ॥
_____इति स्रीमहावस्तु-अवदाने ज्योतिपालसूत्रं समाप्तं ॥
ज्योतिपालेन भिक्षुणा भगवतो काश्यपस्य सश्रावकसंघस्य य्वागूपानं कृत्वा शतसहस्रेण केशरं क्रीणित्वा भगवन्तं काश्यपं सश्रावकसंघं अभ्योकिरेसि सुवर्णपीठकं च दुष्ययोगं भगवतो काश्यपस्य अदासि ॥ एवं च अनुप्रणिधेसि ॥ यथायं भगवां काश्यपो सम्यक्संबुद्धो द्वात्रिम्शतीहि महापुरुषलक्षणेहि समन्वागतो अशीतिहि अनुव्यंजनेहि उपशोभितशरीरो अष्टदशेहि आवेणिकेहि बुद्धधर्मेहि समन्वागतो दशहि तथागतबलेहि बलवां चतुर्हि वैशारद्येहि विशारदो अहो पुन् अहं पि अनागतम् अध्वानं भवेयं तथागतो ऽर्हं सम्यक्संबुद्धो विद्याचरणसंपन्नो सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च यथायं भगवां काश्यपो एतरहि ॥ एवं च त्रिपरिवर्तं द्वादशाकारं अनुत्तरं धर्मचक्रं प्रवर्तेयं यथापि भगवान् काश्यपो एतरहिं ॥ एवं च श्रावकसंघं परिहरेयं यथायं भगवां काश्यपो एतरहि ॥ एवं च मे ते देवा च मनुष्या च श्रोतव्यं श्रद्धातव्यं मन्येन्सुः यथापि भगवतो काश्यपस्य एतरहि ॥ एवं तीर्णो तारयेयं मुक्तो मोचयेयं आश्वास्तो आश्वासयेयं परिनिर्वृतो

[_म्वु_1.336_] परिनिर्वापयेयं यथायं भगवां काश्यपो एतरहिं ॥ तं भवेयं बहुजनहिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥ ज्योतिपालः काश्यपेन अनुत्तराये सम्यक्सम्बोधये व्याकृतो ॥ भविष्यसि त्वं ज्योतिपाल अनागतम् अध्वानं तथागतो ऽर्हं सम्यक्संबुद्धो विद्याचरणसम्पन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च इमस्मिं एव भद्रकल्पे समनन्तरं द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागतो अशीतिहि अनुव्यंजनेहि उपशोभितशरीरो अष्टादशेहि आवेणिकेहि बुद्धधर्मेहि समन्वागतो दशहि तथागतबलेहि बलवां चतुर्हि वैशारद्येहि विशारदो ॥ एवं तीर्णो तारयिष्यसि मुक्तो मोचयिष्यसि आश्वस्तो आश्वासयिष्यसि परिनिर्वृतो परिनिर्वापयिष्यसि यथापि अहं एतरहिं ॥ तं भविष्यसि बहुजनहिताय बहुजनसुखाय महतो जनकायस्यार्थाय हिताय सुखाय लोकानुकम्पायै देवानां च मनुष्याणां च ॥ समनन्तरव्याकृतो पुनर् ज्योतिपालो भिक्षुः भगवता काश्यपेन सम्यक्संबुद्धेन इयं महापृथिवी अतीव षड्विकारं कम्पे प्रकम्पे संप्रकम्पे भूम्या च देवा घोषम् उदीरयेन्सुः शब्दम् अनुश्रावयेन्सु ॥ यथान्येषु व्याकरणेषु विस्तरेण कर्तव्यं यथापि अयं भगवतो अनुप्रणिधिः ॥ काश्यपम् अनुप्रव्रजित्वा शोधये चारामं पानीयं चोपस्थाये ज्योतिपालो बोधिसत्वो संबुद्धेन अनुशिष्टो ॥
य्वागूपानं अदासि सुवर्णपीठकं च वस्त्रयुगं च ।
बोधिसत्वो ज्योतिपालो प्रार्थयमानो भवनिरोधं ॥
सो तं दानं दत्त्वा प्रणिधेसि लोकनायको अस्यां ।
देवमनुष्याचर्यो आर्यं धर्मं प्रकाशेय्या ॥
[_म्वु_1.337_] एवं च मह्यं अस्यात् प्रकाशना धर्मस्य एवं च बहूं सत्वा आर्यधर्मेहि निवेशेय्या ॥ एवं च मे श्रुणेन्सु देवमनुष्या वाक्यं एवं च धर्मचक्रं प्रवर्तेयं बहुजनहिताय धर्मोल्कां प्रज्वालेयं पराहणेयं धर्मभेरीं सपताकां उच्छ्रपयेयं धर्मकेतुं धर्मशंखं प्रपूरयेयं कृच्छ्रापन्नैः जातिजरापीडितैर् मरणधर्मैः भवचक्षुकैः अपायेहि प्रज्ञाचक्षु निवेशेय्यं ॥ संजीवे कालसूत्रे संघाते रौरवे अवीचिस्मिं षट्सु गतिषु विकीर्णां भवसंसारात् परिमोचयेयं नरके पक्वविपक्वां अपायनिपीडितां मरणधर्मां अल्पसुखदुःखबहुलां भवसंसारात् परिमोचयेयं ॥ अर्थं चरेयं लोकस्य देवमनुष्याणां देशेयं धर्मं ॥ एवं विनयं सत्वां यथायं लोकप्रद्योतो ॥
बुद्धो तुवं होहिसि लोकनायको ।
अनागते इमस्मिं भद्रकल्पे ।
कपिलाह्वये ऋषिवदनस्मिं शाकियो ।
तदा तव प्रणिधिविपाको भेष्यति ॥
अखण्डं अच्छिद्रम् अशबलकल्माषं परिपूर्णं परिशुद्धं ब्रह्मचर्यं चरित्वा कालगतो तुषिते नाम देवनिकाये श्वेतकेतुर् नाम देवपुत्रो महर्द्धिको महानुभावो सो अन्यां देवां दिव्येहि दशहि स्थानेहि अभिभवति दिव्येनायुषा दिव्येन वर्णेन दिव्येन सुखेन दिव्येन ऐश्वर्येण दिव्येन परिवारेण दिव्येन रूपेण दिव्येहि शब्देहि दिव्येहि गन्धेहि दिव्येहि रसेहि दिव्येहि प्रष्टव्येहि ॥ [अन्ये पि देवपुत्रा नं आपृच्छे यं परिपृच्छनीयं इति ॥] अयं श्वेतकेतुर् नाम देवपुत्रो पण्डितो व्यक्तो विशारदो कुशलो मेधावी चत्वारिंशतीहि बुद्धसहस्रेहि अनुप्रव्राजितो । पंचाशीतीनां बुद्धसहस्राणाम् अधिकारकर्माणि कृतानि षण्णवतीहि प्रत्येकबुद्धकोटीहि को पुनर् वादो श्रावकमहेशाख्येहि ॥
[_म्वु_1.338_] चत्वारिंशं बुद्धसहस्राणि निर्वृता लोकनायका बुद्धा ।
येषु जिनो अचरि ब्रह्मचर्यं प्रार्थयमानो भवनिरोधं ॥
पंचाश बुद्धसहस्राणि निर्वृता लोकनायका बुद्धा ।
येहि जिनो अकासि कालं प्रार्थयमानो भवनिरोधं ॥
षण्णवति प्रत्येकबुद्धकोटीनि निर्वृत्तानि स्वयंभुनो ।
येषु जिन अकासि कालं प्रार्थयमानो भवनिरोधं ॥
अपरिमिता अर्हन्तकोटी निर्वृता येषु महाध्यायीषु ।
जिनो अकासि कालं प्रार्थयमानो भवनिरोधं ॥
एतेषु पूर्वयोगा प्रकीर्तिता शास्तुनो दशबलस्य ॥
___अल्पा भणिता बहू अभणिता येषु जिनो अकासि कालं प्रार्थयमानो भवनिरोधं ॥
_____इति श्रीमहावस्तु-अवदाने ज्योतिपालस्य व्याकरणं समाप्तं ॥
राजवंशे आदि ॥ भवति भिक्षवः स कालो भवति स समयो यद् अयं लोको दीर्घस्याध्वनो ऽत्ययेन संवर्तति ॥ संवर्तमाने च पुनर् भिक्षवो लोके योभूयेन सत्वा आभास्वरे देवनिकाये अपपद्यन्ति ॥ भवति भिक्षवः स कालो भवति स समयो यद् अयं लोको दीर्घस्याध्वनो अत्ययेन विवर्तति ॥ विवर्तमाने खलु पुनर् भिक्षवो लोके संस्थिते लोकसन्निवेशे अन्यतरा सत्वा आयुःक्षयाय च कर्मक्षयाय च आभास्वरातो देवनिकायातो च्यवित्वा इच्छत्वम् आगच्छन्ति ॥ ते भवन्ति सत्वा स्वयंप्रभाः अन्तरीक्षचरा मनोमया प्रीतिभक्षाः सुखस्थायिनो येनकामंगताः ॥ धर्मता खलु पुनर् भिक्षवो यं तेषां सत्वानां स्वयंप्रभाणां अन्तरीक्षचराणां मनोमयानां प्रीतिभक्षाणां
[_म्वु_1.339_] सुखस्थायिनां येनकामंगतानां ॥ इमे चन्द्रमसूर्या लोके न प्रज्ञायेन्सुः ॥ चन्द्रमसूर्येहि लोके अप्रज्ञायन्तेहि तारकरूपा लोके न प्रज्ञायेन्सुः ॥ तारकरूपेहि लोके अप्रज्ञायन्तेहि नक्षत्रपथा लोके न प्रज्ञायेन्सुः । नक्षत्रपथेहि लोके न प्रज्ञायन्तेहि रात्रिंदिवा लोके न प्रज्ञायेन्सुः । रात्रिंदिवेहि लोके न प्रज्ञायन्तेहि मासार्धमासा लोके न प्रज्ञायेन्सुः ॥ मासार्धमासेषु लोके अप्रज्ञायमानेषु ऋतुसंवत्सरा लोके न प्रज्ञायन्ते ॥ धर्मता खलु भिक्षवो यं तेषां सत्वाणां स्वयंप्रभाणाम् अन्तरीक्षचराणां यावद् येनकामंगतानां ॥ अयम् अपि महापृथिवी उदकह्रदं विय समुदागच्छेत्* ॥ सा चाभूद् वर्णसम्पन्ना रससम्पन्ना सय्यथापि नाम क्षुद्रं मध्वनेडकं एवम् आस्वादो सय्यथापि नाम क्षीरसन्तानं वा सर्पिसन्तानं वा एवं वर्णप्रतिभासो ॥ अथ खलु भिक्षवो अन्यतरः सत्वः चपलो लोलुपजातीयो तं पृथिवीरसं अंगुलीये आस्वादेसि ॥ तस्य तं स्वादयति वर्णेनापि गन्धेनापि रसेनापि ॥ अन्ये पि सत्वा तस्य सत्वस्य दृष्ट्वानुकृतिम् आपद्यन्ते ॥ ते पि पृथिवीरसम् अंगुल्यास्वादयेन्सुः ॥ तेषाम् अपि तं स्वादयति यावत्* रसेनापि ॥ अथ खलु भिक्षवः सो सत्वो अपरकालेन तं पृथिवीरसं आलोपकारम् आहारं आहारेसि ॥ अन्ये पि सत्वा तस्य सत्वस्य दृष्ट्वानुकृतिम् आपद्यन्ते ॥ ते पि तं पृथिवीरसं आलोपकारकम् आहारम् आहारेन्सुः ॥ यतो च भिक्षवस् ते सत्वा तं पृथिवीरसम् आलोपकारकम् आहारम् आहरेन्सुः अथ तेषां काये गुरुत्वं च खरत्वं च कक्खटत्वं च उपनिपते ॥ यापि चाभूत् पूर्वं सानं स्वयंप्रभता अन्तरीक्षचरता मनोमयकायता प्रीतिभक्षता सुखस्थायिता येनकामंगमता सा अन्तरहाये ॥

[_म्वु_1.340_]___स्वयंप्रभताये अन्तरीक्षचरताये मनोमयताये प्रीतिभक्षताये येनकामंगमताये अन्तर्हिताये चन्द्रसूर्या लोके प्रज्ञायेन्सु ॥ चन्द्रमसूर्येहि लोके प्रज्ञायन्तेहि तारकरूपा लोके प्रज्ञायेन्सु । तारकरूपेहि लोके प्रज्ञायन्तेहि नक्षत्रपथा लोके प्रज्ञायेन्सु । नक्षत्रपथेहि लोके प्रज्ञायन्तेहि रात्रिंदिवा लोके प्रज्ञायन्ते । रात्रिंदिवसेहि लोके प्रज्ञायन्तेहि मासार्धमासा लोके प्रज्ञायन्ते । मासार्धमासेहि प्रज्ञायन्तेहि ऋतुसंवत्सरा लोके प्रज्ञायेन्सु ॥

___अथ खलु भिक्षवस् ते सत्वा तं पृथिवीरसम् आहारम् आहरन्ता तंवर्णा तंभक्षा तदाहारा चिरं दीर्घम् अध्वानं तिष्ठेन्सुः ॥ ये सानं बहु आहारम् आहरेन्सु ते अभून्सु दुर्वर्णाः ये अल्पम् आहारम् आहारेन्सुः वर्णवन्ता ॥ ये अभून्सुः वर्णवन्ता ते दुर्वर्णां सत्वा अवजानेन्सुः ॥ वयम् अस्म वर्णवन्तो सत्वा इमे भवन्ति दुर्वर्णा ॥ तेषां वर्णाभिवर्णप्रत्ययानां मानाभिमानजातीयानां विहरतां पृथिवीरसो अन्तरहाये ॥ भूमिपर्पटकं प्रादुर्भवेय सय्यथापि नाम च्छात्रकं एवं वर्णप्रतिभासो ॥ सो च अभूद् वर्णसम्पन्नो च गन्धसंपन्नो च सय्यथापि नाम क्षुद्रो मधु अनेडको एवम् आस्वादो ॥ अथ खलु भिक्षवो ते सत्वा अस्मिं पृथिवीरसे अन्तरहिते इमं उदानम् उदानयेन्सु ॥ अहो रसो अहो रसेति ॥ सय्यथापि नाम भिक्षव एतरहि मनुष्या सुभोजनखादिता सुखिता भुक्ताविनो इमं उदानम् उदानेन्तीति ॥ अहो रसो अहो रसो ति ॥ तम् एव पौराणम् अक्षरम् अग्निन्यं उपनिपते अर्थं चास्य न विभावयेन्सु ॥ अथ खलु भिक्षवस् ते
[_म्वु_1.341_] सत्वास् तं भूमिपर्पटकं आहारं आहरन्ता तद्वर्णा तद्भक्षास् तदाहारा चिरं दीर्घम् अध्वानं तिष्ठेन्सु ॥ ये सानं बहुं आहारं आहारेन्सु अभून्सु दुर्वर्णा ये अल्पं आहारं आहारेन्सु ते अभून्सु वर्णवन्तो ॥ ये सुवर्णवन्तो ते दुर्वर्णां सत्वां अवजानेन्सुः ॥ वयम् अस्म वर्णवन्ता इमे भवन्ति सत्वा दुर्वर्णा ॥ तेषां वर्णाभिवर्णप्रत्ययानां मानाभिमानजातीयानां विहरतां भूमिपर्पटकम् अन्तरहाये वनलता प्रादुर्भूता ॥ सय्यथापि नाम कलम्बुका एवं वर्णप्रतिभासापि वर्णसम्पन्नापि गन्धसम्पन्नापि रससम्पन्नापि तद्यथापि नाम क्षुद्रं मधुम् अनेळकं एवम् आस्वादा ॥ अथ खलु भिक्षवो ते सत्वा भूमिपर्पटके अन्तर्हिते अनुस्तनयेन्सु ॥ अहो वदि अहो वदीति ॥ तद्यथापि नाम भिक्षव एतरहिं सत्वा केनचिद् एवं दुःखधर्मेण स्पृष्टा अनुस्तनयेन्सु अहो वदि अहो वदीति तम् एव पौराणम् अक्षरम् अग्निन्यं उपनिपते अर्थं च न विभावयेन्सुः ॥ एवम् एव भिक्षवस् ते सत्वास् तस्मिं भूमिपर्पटके अन्तर्हिते अनुस्तनयेन्सुः ॥ अहो वदि अहो वदीति ॥
___अथ खलु भिक्षवस् ते सत्वास् तस्मिं भूमिपर्पटके अन्तरहिते वनलतां आहारम् आहरन्ता तंवर्णा तंभक्षा तदाहारा चिरं दीर्घम् अध्वानं तिष्ठेन्सु ॥ ये सानं बहुं आहारं आहारेन्सुः ते अभून्सुः दुर्वर्णा ये अल्पाहारं आहारेन्सु अभून्सु वर्णवन्तो ॥ ते तां दुर्वर्णां सत्वा अवजानेन्सु ॥ वयम् अस्म वर्णवन्तो इमे भवन्ति सत्वा दुर्वर्णा ॥ तेषां वर्णाभिवर्णप्रत्ययानां मानाभिमानजातीयानां वनलता अन्तरहाये ॥ शालि
[_म्वु_1.342_] अकणो अतुषः सुरभितण्डुलः प्रादुर्भवेया सायं लूनो सो काल्यं भवति जातो पक्वो विरूढो अवदानं पि से न प्रज्ञायति ॥ सो पि काल्यं लूनो सायं भवति जातो पक्वो विरूढो अवदानं चास्य न प्रज्ञायति ॥ अथ खलु भिक्षवो ते सत्वा तस्मिं वनलते अन्तर्हिते अनुस्तनयेन्सुः ॥ अहो वदे अहो वदे ति ॥ तद्यथापि नाम भिक्षवो एतरहिं सत्वा केनचिद् एवं दुःखधर्मेण स्पृष्टा अनुस्तनयेन्सु ॥ तम् एव पौराणम् अक्षरम् अग्निन्यं उपनिपते अर्थं चास्य न विभावयेन्सु ॥ अथ खलु भिक्षवस् ते सत्वा तस्मिं वनलते अन्तर्हिते तं शालिं अकणं अतुषं सुरभितण्डुलफलं आहारम् आहरन्ता चिरं दीर्घम् अध्वानं तिष्ठेन्सु ॥ यतो च भिक्षवस् ते सत्वास् तं शालिं अकणं अतुषं सुरभितण्डुलफलं आहारम् आहारेन्सु अथ सानं स्त्रीणां स्त्रीव्यंजनानि प्रादुर्भवेन्सुः पुरुषाणां पुरुषव्यंजनानि प्रादुर्भवेन्सुः ॥ अतिवेलं रक्तचित्ता अन्योन्यं उपनिध्यायेन्सु ॥ अन्योन्यं रक्तचित्ता अन्योन्यं उपनिध्याय ते अन्यमन्यं संरञ्जेन्सु अन्यमन्यं संरक्ता अन्यमन्यं दूषयेन्सुः ॥ ये खलु पुनर् भिक्षवः सत्वान् पश्येन्सु दूष्यमाणां ते तत्र दण्डं पि क्षिपेन्सु लेष्टुं क्षिपेन्सु पांशु पि क्षिपेन्सु ॥ अधर्मो भवन्तो लोके प्रादुर्भूतो असद्धर्मो भवन्तो लोके प्रादुर्भूतः यत्र हि नाम सत्वो सत्वं दूषयति ॥ तद्यथापि नाम भिक्षवः एतरहिं दारिकाये वुह्यन्तीये दण्डं निक्षिपन्ति लेष्टुं पि निक्षिपन्ति तं एव पौराणम् अक्षरम् अग्निन्यं उपनिपते अर्थं चास्य न विभावयेन्सु ॥ तदा खलु पुनस् तं भिक्षवः अधर्मसंमतं अयज्ञसंमतं च अविनयसंमतं च । एतरहिं खलु पुनस् तं भिक्षवः धर्मसंमतं च यज्ञसंमतं विनयसंमतं च ॥ अथ खलु भिक्षवस् ते सत्वा तेन अधर्मेण
[_म्वु_1.343_] अर्तीयन्ता विजिगुप्सिता एकाहं पि विप्रवसेन्सु द्व्यहं पि विप्रवसेन्सु त्र्यहं पि विप्रवसेन्सु चतुरहं पि विप्रवसेन्सु पंचाहं पि पक्षं पि मासं पि विप्रवसेन्सु गृहकर्मान्ता पि कारयेन्सु यावद् एव तस्यैव अधर्मस्य प्रतिच्छदनार्थं ॥
___अथ खलु भिक्षव अन्यतरस्य सत्वस्य शालिहारकं गतस्य एतद् अभवत्* ॥ किम् अस्य नाम अहं किलमामि कथं पुराहं किलमामि सायं सायमासाय प्रातं प्रातरासाय ॥ यं नूनाहं सकृद् एव दैवसं सायंप्रातिकं शालिं हरेयं ॥ आहरे खलु भिक्षवो सो सत्वो सकृद् एव दैवसं सायंप्रातिकं शालिं ॥ अथ खलु भिक्षवः अन्यतरो सत्वो तं सत्वम् एतद् उवाच ॥ एहि भो सत्व शालिहारं गमिष्यामः ॥ एवम् उक्त भिक्षवः सो सत्वो तं सत्वम् एतद् उवाच ॥ गच्छ तुवं सत्व आनीतो मया सकृद् एव सायंप्रातिको शालिः ॥ अथ खलु भिक्षवस् तस्यापि सत्वस्य एतद् अभवत्* ॥ एवं पि क्रियमाणं शोभनं भवति । यं नूनाहं पि सकृद् एव द्व्यहिकं त्रीहिकं तं शालिं हरेयं ॥ आहरे खलु भिक्षवः सो पि सत्वो सकृद् एव द्वीहिकं त्रीहिकं शालिं ॥ अथ खलु भिक्षवः अन्यतरो सत्वो तं सत्वम् एतद् उवाच ॥ एहि भो सत्व शालिहारं गमिष्याम ॥ एवम् उक्ते सो सत्वो तं सत्वम् एतद् उवाच ॥ गच्छ त्वं भो सत्व आनीतो मया सकृद् एव द्वीहिको त्रीहिको शालिः अथ खलु भिक्षवस् तस्यापि सत्वस्य एतद् अभवत्* ॥ एवं पि दानि क्रियमाणं शोभनं भवति ॥ यं नूनाहं पि चतुरहिकं पंचाहिकं शालिम् आहरेयं ॥ आहरे खलु भिक्षवो सो पि सत्वो सकृद् एव चतुरहिकं पंचाहिकं शालिं ॥ यतो च भिक्षवः ते सत्वा तं शालिं अकणं अतुषं सुरभितण्डुलफलं संनिधिकारं परिभुंजेन्सु अथ खलु तस्य शालिस्य कणो च तुषो च प्रादुर्भवति ॥ सो पि सायं लूनो काल्यं न जातो भवति न पक्वो न विरूढो अवदानं चास्य प्रज्ञायति ॥

[_म्वु_1.344_]___अथ खलु भिक्षवस् ते सत्वा संधावेन्सुः संधावित्वा संनिपतित्वा मन्त्रां मन्त्रयेन्सुः ॥ वयं भवन्तो स्वयंप्रभा अन्तरीक्षचरा मनोमया प्रीतिभक्षा सुखस्थायिनो येनकामंगमाः ॥ तेषाम् अस्माकं स्वयंप्रभाणाम् अन्तरीक्षचराणां मनोमयानां प्रीतिभक्षाणां सुखस्थायिनां येनकामंगमानां चन्द्रमसूर्या न प्रज्ञायेन्सु ॥ चन्द्रमसूर्येहि लोके अप्रज्ञायन्तेहि तारकरूपा न प्रज्ञायन्ते । तारकरूपेहि लोके अप्रज्ञायन्तेहि नक्षत्रपथा लोके न प्रज्ञायन्ते । नक्षत्रपथेहि लोके अप्रज्ञायन्तेहि रात्रिंदिवा न प्रज्ञायेन्सु । रात्रिंदिवेहि अप्रज्ञायन्तेहि मासार्धमासा न प्रज्ञायेन्सु । मासार्धमासेहि अप्रज्ञायन्तेहि ऋतुसंवत्सरा न प्रज्ञायेन्सु ॥ अयम् अपि महापृथिवी उदकह्रदं विय समुदागच्छति ॥ तद्यथापि नाम सर्पिसन्तानं वा क्षीरसन्तानं वा एवं वर्णप्रतिभासा अभूषि वर्णसंपन्ना च गन्धसंपन्ना च रससम्पन्ना च तद्यथापि नाम क्षुद्रो मधु अनेलको एवम् आस्वादो ॥ अथ खलु भवन्तो अन्यतरो सत्वो चपलो लोलुपजातीयो तं पृथिवीरसं अंगुलीये आस्वादयते ॥ तस्य तम् आस्वादयति वर्णेनापि गन्धेनापि रसेनापि ॥ अथ खलु भवन्तो सो सत्वो तं पृथिवीरसम् अपरकालेन आलोपकारकम् आहारं आहारेसि ॥ वयं तस्य सत्वस्य दृष्ट्वानुकृतिम् आपद्यन्ता तं पृथिवीरसं आलोपकारकम् आहारं आहरेम ॥ यतो च वयं भवन्तो पृथिवीरसम् आलोपकारकम् आहारं आहरेम अथास्माकं काये गुरुत्वं च खरत्वं च कक्खटत्वं च उपनिपते ॥ यापि सा पूर्वं अभूषि स्वयंप्रभा अन्तरीक्षचरता मनोमयकायता प्रीतिभक्षता सुखस्थायिता येनकामंगमता सा अन्तरहायि ॥ तेषां भवन्तो स्वयंप्रभताये अन्तरीक्षचरताये मनोमयकायताये प्रीतिभक्षताये सुखस्थायिताये येनकामंगमताये अन्तरहिताये चन्द्रमसूर्या लोके प्रज्ञायेन्सुः ॥ चन्द्रमसूर्येहि लोके प्रज्ञायन्तेहि
[_म्वु_1.345_] तारकरूपा प्रज्ञायेन्सुः ॥ तारकरूपेहि प्रज्ञायन्तेहि नक्षत्रपथा प्रज्ञायेन्सुः । नक्षत्रपथेहि प्रज्ञायन्तेहि रात्रिंदिवा प्रज्ञायेन्सुः । रात्रिंदिवेहि प्रज्ञायन्तेहि मासार्धमासा प्रज्ञायेन्सुः । मासार्धमासेहि प्रज्ञायन्तेहि ऋतुसंवत्सरा प्रज्ञायेन्सुः ॥ ते वयं भवन्तो तं पृथिवीरसम् आहारम् आहरन्ता तंवर्णा तंभक्षा तदाहारा चिरं दीर्घम् अध्वानं तिष्ठेम ॥ यतो च सानं केचित् पापका अकुशला धर्मा प्रज्ञायेन्सुः यतो च मो केचिद् भवन्तो पापका अकुशला धर्माः प्रज्ञायेन्सुः अथ सो पृथिवीरसो अन्तर्हाये भूमिपर्पटकं प्रादुर्भवे ॥ तद्यथा छात्रकं एवं वर्णप्रतिभासो पि अभूषि वर्णसम्पन्नो च गन्धसम्पन्नो च ॥ तद्यथापि नाम क्षुद्रमधु अनेडको एवम् आस्वादो ॥ ते वयं भवन्तो भूमिपर्पटकं आहारम् आहरन्ता तंवर्णा तंभक्षा तदाहारा चिरं दीर्घम् अध्वानं तिष्ठेम ॥ यतो च सानं केचित् पापका अकुशला धर्मा प्रज्ञायेन्सु अथ सो भूमिपर्पटकं अन्तरहाये वनलता प्रादुर्भवेत्* ॥ तद्यथापि नाम कलम्बुका एवंवर्णप्रतिभासा सापि अभूषि वर्णसम्पन्ना च गन्धसम्पन्ना च रससम्पन्ना च ॥ सय्यथापि नाम क्षुद्रो मधु अनेडका एवमास्वादः ॥ ते वयं भवन्तो तां वनलताम् आहारम् आहरन्ता तंवर्णा तंभक्षा तदाहारा दीर्घम् अध्वानं तिष्ठेम ॥ यतो च सानं केचित् पापका अकुशला धर्मा प्रज्ञायेन्सुः यतो च मो भवन्तो केचित् पापका अकुशला धर्मा प्रज्ञापयेन्सुः अथ सा वनलता अन्तरहाये ॥ शालिं अकणं अतुषं सुरभितण्डुलफलं प्रादुर्भवेया ॥ सायं लूनो सो काल्यं भवति जातो पक्वो विरूढो अवदानं पि च से न प्रज्ञायति ॥ ते वयं भवन्तो तं शालिं अकणं अतुषं सुरभितण्डुलफलं आहारम् आहरन्ता तंवर्णा तंभक्षा
[_म्वु_1.346_] तदाहारा चिरं दीर्घम् अध्वानं हि तिष्ठेम ॥ यतो च सानं केचित् पापका अकुशला धर्मा प्रज्ञायेन्सुः अथ से शालिस्य कणो च तुषो च पर्यवनहे ॥ यो च शायं लूनो सो काल्यं न जातो न पक्वो न विरूढो अवदानं पि च से प्रज्ञायति ॥ यो पि काल्यं लूनो सो सायं न जातो ब पक्वो न विरूढो अवदानं पि च से प्रज्ञायति ॥ यं नूनं वयं शालिक्षेत्राणि विभजेम सीमां नयेमः ॥ इमं भवन्तानां शालिक्षेत्रं इमम् अस्माकं मापयेमः ॥ अथ खलु भिक्षवस् ते सत्वाः शालिक्षेत्राणां सीमा नयेन्सुः ॥ इमं भवन्तानां शालिक्षेत्रं इमम् अस्माकं ॥
___अथ खलु भिक्षवः अन्यतरस्य सत्वस्य शालिहारं गतस्य एतद् अभवत्* ॥ किं स्य नाम अहं भविष्यं केन स्य नाम जीवितं कल्पेष्यं स्वके शलिभागे क्षीणे ॥ यं नूनाहं अदिन्नं अन्यातकं शालिम् आदियेयं ॥ अथ खलु भिक्षवो सो सत्वो स्वकं शालिभागं परिरक्षन्तो अदिन्नम् अन्यताकं शालिभागम् आदियेय ॥ अद्राक्षीद् भिक्षवो अन्यतरः सत्वो तं सत्वम् अदिन्नम् अन्यातकं शालिं आदियन्तं दृष्ट्वा च पुनर् येन सो सत्वो तेनोपसंक्रमित्वा तं सत्वम् एतद् अवोचत्* ॥ अपि नाम त्वं भो सत्व अदिन्नम् अन्यातकं शालिम् आदियसि ॥ एवम् उक्ते भिक्षवः सो सत्वस् तं सत्वम् एतद् अवोचत्* ॥ तेन हि भो सत्व न पुनर् एवं भविष्यति ॥ द्वितीयं पि भिक्षवस् तस्य सत्वस्य शालिहारं गतस्य एतद् अभवत्* ॥ किं स्य नाम अहं भविष्यं केन स्य नाम अहं जीविकां कल्पेष्यं स्वके शालिभागे क्षीणे ॥ यं नूनाहं अदिन्नम् अन्यातकं शालिम् आदियेयं ॥ द्वितीयं पि भिक्षवः सो सत्वो स्वकं शालिभागं परिरक्षन्तो अदिन्नम् अन्यातकं शालिम् आदियेत्* ॥ अद्राक्षीद् भिक्षवः सो सत्वस् तं सत्वं द्वितीयकं पि अदिन्नम् अन्यातकं शालिम् आदियन्तं ॥ दृष्ट्वा च पुनर् येन सो सत्वो तेनोपसंक्रमित्वा तं सत्वम् एतद् अवोचत्* ॥ अस्ति नाम त्वं भो सत्व याव द्वितीयकं

[_म्वु_1.347_] पि अदिन्नम् अन्यातकं शालिम् आदियसि ॥ द्वितीयं पि भिक्षवः सो सत्वो तं सत्वम् एतद् अवोचत्* ॥ तेन हि भो सत्व न पुनर् एवं भविष्यति ॥ तृतीयकं पि भिक्षवः तस्य सत्वस्य शालिहारं गतस्यैतद् अभवत्* ॥ किं स्य नाम अहं भविष्यं केन स्य नाम जीविकां कल्पयिष्यं स्वके शालिभागे क्षीणे ॥ यं नूनाहम् अदिन्नम् अन्यातकं शालिम् आदियेयं ॥ तृतीयकं पि भिक्षवः सो सत्वो स्वकं शालिभागं परिरक्षन्तो अदिन्नम् अन्यातकं शालिम् आदियति ॥ अद्राक्षीद् भिक्षवः सो सत्वो तं सत्वं तृतीयकं पि अदिन्नम् अन्यातकं शालिम् आदियन्तं ॥ दृष्ट्वा च पुनर् येन सो सत्वो तेन्ऽ; उपसंक्रमित्वा तं सत्वं दण्डेन परिताडयन्तो एवम् आह ॥ अस्ति नाम त्वं भो सत्व यावत् तृतीयकं पि अदिन्नम् अन्यातकं शालिम् आदियसि ॥ अथ खलु भिक्षवः सो सत्वो उभौ बाहां प्रगृह्य विक्रन्दे विक्रोशे ॥ अधर्मो भवन्तो लोके प्रादुर्भूतः असद्धर्मो भवन्तो लोके प्रादुर्भूतः यत्र नाम लोके दण्डादानं प्रज्ञायति ॥ अथ खलु भिक्षवः सो सत्वो पृथिवीयं दण्डम् आवेष्टित्वा उभौ बाहू प्रगृह्य विक्रन्दे विक्रोशे ॥ अधर्मो भवन्तो लोके प्रादुर्भूतो असद्धर्मो भवन्तो लोके प्रादुर्भूतः यत्र हि नाम अदिन्नादानं च मृषावादं च लोके प्रज्ञायति ॥ एवं च पुनर् भिक्षवः इमेषां त्रयाणां पापकानां अकुशलानां धर्माणां प्रथम एवम् एव लोके प्रादुर्भावो तद्यथादिन्नादानस्य मृषावादस्य दण्डादानस्य च ॥
___अथ खलु भिक्षवः ते सत्वा संधावेन्सुः संनिपतेन्सुः संधावित्वा संनिपतित्वा संमन्त्रेन्सुः ॥ यं नूनं वयं भवन्तो यो अस्माकं सत्वो सर्वप्रासादिको सर्वमहेशाख्यो च तं संमन्येमः यो अस्माकं निग्रहारहं च निगृह्णीया प्रग्रहारहं च प्रगृह्णेया देशये चायं स्वकस्वकेषु शालिक्षेत्रेषु शालिभागं ॥ अथ खलु भिक्षवस् ते सत्वा यो सानं
[_म्वु_1.348_] सत्वो अभूषि सर्वप्रासादिको च सर्वमहेशाख्यो च तं संमन्येन्सुः ॥ भवान् अस्माकं सत्वं निग्रहारहं निगृह्णातु प्रग्रहारहं च प्रगृह्णातु वयं ते सर्वसत्वानां अग्रताये संमन्येम स्वकस्वकेषु शालिक्षेत्रेषु षष्ठं शालिभागं ददाम ॥ महता जनकायेन संमतो ति महासम्मतो ति संज्ञा उदपासि ॥ अरहति शालिक्षेत्रेषु शालिभागे ति राजा ति संज्ञा उदपासि । सम्यक् रक्षति परिपालेति मूर्ध्नाभिषिक्तः . . . . . . संज्ञा उदपासि । मातापितृसमो नैगमजानपदेषु त्ति जानपदस्थामवीर्यप्राप्तो ति संज्ञा उदपासि ॥ तेनाहं राजा क्षत्रियो मूर्ध्नाभिषिक्तो जनपदस्थामवीर्यप्राप्तो ति ॥
___राज्ञो सम्मतस्य पुत्रो कल्याणो कल्याणस्य पुत्रो रवो रवस्य पुत्रो उपोषधो उपोषधस्य पुत्रो राजा मान्धातो ॥ राज्ञो मान्धातस्य पुत्रपौत्रिकायो नप्तप्रनप्तिकायो बहूनि राजसहस्राणि । पश्चिमको शाकेते महानगरे सुजातो नाम इक्ष्वाकुराजा अभूषि ॥ सुजातस्य खलु इक्ष्वाकुराज्ञो पंच पुत्रा अभूषि ओपुरो निपुरो करकण्डको उल्कामुखो हस्तिकशिर्षो । पंच च धीतरो कुमारियो शुद्धा विमला विजिता जला जली ॥ जेन्तो नाम कुमारो वैलासिकाये पुत्रो ॥ तस्य माता जेन्ती नाम ॥ ताये राजा सुजातो स्त्रीधर्मेण आराधितो । तस्य राजा प्रीतो संवृत्तो ॥ प्रीतेन राज्ञा जेन्ती वरेण प्रवारिता ॥ जेन्ती वरेण प्रवारेमि । यं मे वरं याचसि तं ते वरं ददामि ॥ सा दानि आह ॥ महाराज यावता खु मातापितरं आपृच्छामि ततो देवस्य सकाशातो वरं याचिष्यामि ॥ ताये मातापितॄणां आरोचितं ॥ राज्ञाहं प्रवारिता तद् युष्माकं किं वरम् उच्यति किं राज्ञो वरं याचामि ॥ तेहि
[_म्वु_1.349_] दानि यस्य यं मतं सो तं जल्पति ॥ ग्रामवरं याचाहि त्ति ॥ तहिं अपरा परिव्राजिका पण्डिता निपुणा मेधाविनी ॥ सा आह ॥ जेन्ति त्वं वैलासिकाये धीता तव पुत्रो न किंचित् पैतृकस्य द्रव्यस्य प्रभवति किं पुन राज्यस्य ॥ एते पंच कुमारा क्षत्रियकन्यापुत्राः ते पैतृकस्य राज्यस्य च द्रव्यस्य च प्रभवन्ति ॥ त्वं च राज्ञा वरेण प्रवारिता राजा च सुजातो अप्रतिवचनो सत्यवादी यथावादी तथाकारी तं तुवं राज्ञो वरं याचाहि ॥ एते पंच कुमारा राज्यातो विप्रवासेत्वा मम पुत्रं जेन्तं कुमारं युवराज्ये अभिषिंचाहीति ॥ एष देवस्य अत्ययेन शाकेते महानगरे राजा भविष्यतीति ततो तव सर्वं भविष्यति ॥ ताये राजा सुजातो एवं वरं याचितो ॥ महाराज एतां पंच कुमारां राज्यातो विप्रवासेत्वा जेन्तं कुमारं युवराज्ये अभिषिचाहि । यथैषो देवस्य अत्ययेन शाकेते महानगरे राजा भवेय ॥ एतं मे वरं देतु राजा ॥ सुजातो श्रुत्वा दुर्मना संवृत्तो तेषां कुमाराणां प्रेम्नेन न च शक्यं वरं दत्त्वा अन्यथा कर्तुं ॥ राजा जेन्तीये देवीये आह ॥ एवम् अस्तु दिन्नं भवतु एतं वरं ॥ वरदानं नागरेहि जानपदेहि च श्रुतं कुमारां विप्रवासेत्वा जेन्तं कुमारं वैलासिकाये पुत्रं युवराज्ये अभिषिंचिष्यतीति ॥ तत्र जनकाये उत्कण्ठो कुमाराणां गुणमाहात्म्येन या कुमाराणां गतिः सा अस्माकं गतिः ॥ राज्ञा सुजातेन श्रुतं महाजनकायो शाकेतातो जनपदातो कुमारेहि सार्धं विप्रवसिष्यन्ति इति ॥ तेन शाकेते महानगरे घोषणा कारापिता ॥ यो कुमारेहि सह शाकेतातो विप्रवसिष्यति तस्य येन कार्यं तं राजकृत्या कोशातो दीष्यति ॥ येषां हस्तिहि कार्यं अश्वेहि रथेहि वा युग्येहि वा यानेहि वा शकटेहि वा प्रवहणेहि वा बलिवर्देहि वा मस्नियेहि वा अजेहि वा एडकेहि वा धनेहि वा चान्येन वा वस्त्रेण वा अलंकारेहि
[_म्वु_1.350_] वा दासेहि वा दासीहि वा सर्वं राजकृत्या कोशातो दीष्यति ॥ कुमारेहि सार्धं विप्रवसन्तानां राजाणत्तीये अमात्येहि एवं कोशकोष्ठागारा मुक्तं यो यं याचति तस्य तं दीयति ॥ एवं ते कुमारा शाकेतातो अनेकेहि जानपदसहस्रेहि सार्धं महता बलकायेन अनेकेहि शकटयुग्ययानसहस्रेहि शाकेतातो नगरातो निर्याता उत्तरामुखं प्रयाता ॥ काशिकोशलेन राज्ञा प्रगृहीता ॥ कुमारा कृतपुण्या च महेशाख्या च निवाता च सुखसंस्पर्शा च पुण्यवन्ता च धार्मिका च ॥ तेषां सर्वकाशिकोशलका मनुष्या मूलातो प्रीता ॥ अहो याव कल्याणा कुमारा धार्मिका च ॥ तस्य राज्ञो यथोक्तं भगवता शक्रप्रश्नेषु ॥ ईर्ष्यामात्सर्यसंयोजनसंप्रयुक्ता देवमनुष्या असुरा गरुडा गन्धर्वा यक्षा राक्षसा पिशाचा कुम्भाण्डा ये वा पुनर् अन्ये सन्ति पृथुकायाः ॥ तस्य काशिकोशलराज्ञो ईर्ष्याधर्मं संवृत्तं ॥ यथैव एषो जनकायो इमेषां कुमाराणां गुणगृहीतो स्थानम् एतद् विद्यति यं एते मम जीवितातो व्यपरोपेत्वा अतो कुमारां राज्ये अभिषिंचेन्सुः ॥ ते दानि तेनापि काशिकोशलेन राज्ञा विप्रवासिता ॥

___अनुहिमवन्ते कपिलो नाम ऋषिः प्रतिवसति पंचाभिज्ञो चतुर्ध्यानलाभी महर्द्धिको महानुभावो ॥ तस्य तं आश्रमपदं महाविस्तीर्णं रमणीयं मूलपुष्पोपेतं पत्रोपेतं फलोपेतं पानीयोपेतं मूलसहस्र-उपशोभितं महं चात्र शाकोटवनखण्डं ॥ ते दानि कुमारा तहिं पि शाकोटवनखण्डे आवासिता ॥ तत्र समनुक्रान्ता वाणिजका काशिकोशलां जनपदां गच्छन्ति व ॥ ते वाणिजका जनेन पृच्छीयन्ति कुतो आगच्छथ त्ति ॥ ते आहन्सुः ॥ अमुकातो शाकोटवनखण्डातो ॥ शाकेता अपि
[_म्वु_1.351_] कोशला वाणिजका तहिं पि गच्छन्ति शाकोटवनखण्डे ॥ ते पि पृच्छीयन्ति ॥ कहिं गमिष्यथ त्ति ॥ ते पि आहन्सुः ॥ शाकोटवनखण्डं अनुहिमवन्तं ॥ तेहि दानि कुमारेहि मा मो जातिसंदोषं भविष्यतीति जातिसंदोषभयेन स्वकस्वका येव मातृयो भगिनीयो परस्परस्य विवाहिता ॥ राजा सुजातो अंआत्यानां पृच्छति ॥ भो अमात्या कुमारा कहिं आवसन्ति ॥ अमात्या आहन्सुः ॥ महाराज अनुहिमवन्तो महाशाकोटकवनखण्डं तहिं कुमारा प्रतिवसन्ति ॥ राजा अमात्यानां पृच्छति ॥ कुतो कुमारेहि दाराणि आनीतानि ॥ अमात्या आहन्सुः ॥ श्रुतं मो महाराज कुमारेहि जातिसंदोषभयेन स्वकस्वका येव मातृयो भगिनीयो परस्परस्य विवाहितायो मा मो जातिसंदोषं भविष्यतीति ॥ राज्ञा दानि सुजातेन पुरोहितो च अन्ये च ब्राह्मणपण्डिता पृच्छिता ॥ शक्या एतम् एवं कर्तुं यथा तेहि कुमारेहि कृतं ॥ ते पुरोहितप्रमुखा ब्राह्मणपण्डिता आहन्सुः ॥ शक्यं महाराज कुमारा ततो निदानं दोषेण न लिप्यन्ति ॥ राजा सुजातो ब्राह्मणपण्डितानां श्रुत्वा हृष्टो तुष्टो आत्तमना इमं उदानम् उदानये ॥ शक्या पुनर् भवन्तो कुमारा ॥ तेषां दानि कुमाराणां शक्यं शाकिया ति समाख्यासमाज्ञाप्रज्ञप्ति उदपासि ॥
___तेषां दानि कुमाराणां एतद् अभवत्* ॥ केवत्तकं वयं शाकोटकवनखण्डे निवासं कल्पेष्यामः ॥ महांश् च अयं जनकायो आगच्छति ॥ यं नूनं वयं नगरं मापयेमः ॥ ते दानि कुमारा कपिलस्य ऋषिस्य सकाशं संक्रान्ता ॥ ते ऋषिस्य पादौ वन्दित्वा आहन्सुः ॥ यदि भगवां कपिलो अनुजानेय्या वयं इमस्मिं नगरं मापयेमः ऋषिस्य नामेन कपिलवस्तुं ॥ ऋषि आह ॥ यदि मम इदम् आश्रम राजकुलं
[_म्वु_1.352_] कृत्वा नगरं मापेथ ततो अनुजानामि ॥ ते कुमारा ऋषिस्य आहन्सुः ॥ यथा ऋषिस्य अभिप्रायो तथा करिष्यामः ॥ इमम् आश्रमं राजकुलं कृत्वा नगरं मापेष्यामः ॥ ऋषिणा तं वस्तुं तेषां कुमाराणां करकं गृह्य उदकेन दिन्नं ॥ कुमारेहि पि तं ऋषिस्य आश्रमं राजकुलं कृत्वा नगरं मापितं ॥ कपिलेन ऋषिणा वस्तुं दिन्नं ति कपिलवस्तुसमाख्या उदपासि ॥ एवं कपिलवस्तुमहानगरं ऋद्धो च स्फीतो च क्षेमो च सुभिक्षो च आकीर्णजनमनुष्यो च बहुजनमनुष्यो सुखितजनमनुष्यो विस्तीर्णजनपरिवारो च संवृत्तो दिशि विदिशि विश्रुतो च संवृत्तो उत्सवसमाजबहुलो वणिजप्रियो व्यवहारसम्पन्नो ॥
___तेषां दानि पंचानां कुमाराणां ओपुरस्य निपुरस्य करण्डकस्य उल्कामुखस्य हस्तिकशीर्षस्य च ओपुरो कुमारो ज्येष्ठो ॥ सो कपिलवस्तुस्मिं राज्ये च अभिषिक्तो ॥ ओपुरस्य राज्ञो पुत्रो निपुरो निपुरस्य राज्ञो पुत्रो करकण्डो करकण्डकस्य राज्ञो पुत्रो उल्कामुखो उल्कामुखस्य पुत्रो हस्तिकशीर्षो हस्तिकशीर्षस्य पुत्रो सिंहहनुः ॥ सिंहहनुस्य राज्ञो चत्वारि पुत्राः शुद्धोदनो धौतोदनो शुक्लोदनो अमृतोदनो अमिता च नाम दारिका ॥
___तहिं दानि अपरस्य शाकियस्य महत्तरस्य धीता प्रासादिका दर्शनीया अक्षुद्रावकाशा परमपुष्करतया समन्वागता तस्या दारिकाये कुष्ठव्याधि उत्पन्नः ॥ सा दानि तेन कुष्ठव्याधिना ग्रस्ता ॥ वैद्या घटन्ति सर्वक्रिया क्रियन्ति न च वार्त्तीभवति आलेपनप्रत्यालेपनानि वमनविरेचनानि च क्रियन्ति न च कुष्ठव्याधि प्रशाम्यति ॥ सर्वं शरीरम् एकव्रणं ॥ सर्वस्य जनस्य तां दृष्ट्वा घृणा उत्पद्यति ॥ सा दानि भ्रातृहि यानके आरूपिय अनुहिमवन्तं नीता ॥ तत्र उत्संगपर्वते गुहां खनापयित्वा सा दारिका प्रवेशिता प्रभूतं च खाद्यभोज्यं उदकं च उपस्तरणप्रावरणं
[_म्वु_1.353_] स्थपेत्वा गुहाये द्वारं सुष्ठु पिधित्वा महापांशुराशिं कृत्वा नगरं कपिलवस्तुं प्रविष्टाः ॥ तस्या दानि दारिकाये तहिं गुहाये वसन्तीये तेन निवातेन च संरोधेन च तस्या गुहाये उष्मेण सर्वं च कुष्ठव्याधिं विस्रुतं शरीरं चौक्षं निर्व्रणं उत्तमरूपसंजातं नापि ज्ञायते मानुषिका एषा ति ॥ तहिं दानि उद्देशे व्याघ्रो पर्याहिण्डन्तो आगतो ॥
घ्राणैः पश्यन्ति पशवः वेदैः पश्यन्ति ब्राह्मणाः ।
चारैः पश्यन्ति राजानो चक्षुभ्याम् इतरा प्रजा इति ॥
सो दानि व्याघ्रो तं मनुष्यगन्धम् उपजिघ्रति ॥ तेन दानि तं मनुष्यगन्धम् उपजिघ्रित्वा तं महापांशुराशिं पादेहि अपकर्षितं ॥ तत्र च अविदूरे कोलो नाम राज-ऋषिः प्रतिवसति पंचाभिज्ञो चतुर्ध्यानलाभी ॥ तस्य तं आश्रमपदं मूलोपेतं पत्रोपेतं पुष्पोपेतं फलोपेतं पानीयोपेतं नानावृक्षसम्पन्नं रमणीयं ॥ सो दानि र्षि आश्रमपदं अनुचंक्रमन्तो अनुविचरन्तो तं देशम् आगतो यत्र सा शाक्यकन्या गुहायं निहितिका ॥ तेनापि व्याघ्रेण सर्वं तं पांशुराशिं पादेन अपकर्षितं काष्ठावशेषं संवृत्तं ॥ सो दानि व्याघ्रो तं ऋषिं दृष्ट्वा ओसक्कितो ऋषिणा ॥ व्याघ्रेण तत्पांशु अपकर्षितकं दृष्ट्वा ऋषिस्य कौतूहलं संजातं ॥ तेन दानि ऋषिणा तानि काष्ठानि अपकर्षितानि तस्या गुहाये द्वारम् अपावृतं ॥ तेन शाक्यकन्या दृष्टा उत्तमवीर्येण नापि ज्ञायति मानुषिका ति ॥ एषो ऋषि पृच्छति ॥ भद्रे का त्वं ति ॥ मानुषिका सा आह ॥ अहं कपिलवस्तुतो अमुकस्य शाक्यस्य धीता ॥ साहं कुष्ठव्याधिना परिगता इह जीवन्तिका एवं विवर्जिता ॥ तस्य तां शाक्यकन्यां दृष्ट्वा उत्तमरूपधरां तीव्रो रागो प्रादुर्भूतः ॥
[_म्वु_1.354_] किंचापि तावच् चिरब्रह्मचारी
न चास्य रागानुशयो समूहतो ।
पुनो पि सो रागविषो प्रकुप्यति
तिष्ठं यथा काष्ठगतं अनूहतं ॥

सो दानि राजर्षिः ताये शाक्यकन्याये सार्धं संयोगं गतो ध्यानेहि च अभिज्ञाहि च भ्रष्टो ॥ सो दानि तां शाक्यकन्यां गृह्य आश्रमपदं गतो ॥ सा दानि शाक्यकन्या तहिं आश्रमपदे कोलेन राजर्षिणा सार्धं संवसति ॥ षोडश बालां यमलां पुत्रां प्रजाता ॥ द्वात्रिंश ऋषिकुमारा प्रासादिका दर्शनीया अजिनजटाधराः ॥ ते दानि यं कालं विवृद्धा ऋषिकुमारा ततो मातरे कपिलवस्तुं विसर्जिता ॥ गच्छथ पुत्रा कपिलवस्तुं महानगरं अमुको नाम शाकियो मम पिता वो मातामहो ॥ तस्य अमुकस्य पुत्रा ते वो मातुलका योभूयेन शाक्यमहत्तरका ज्ञातिका महन्तो वो कुलवंशो ॥ ते युष्माकं वृत्तिं संविधेष्यन्ति ॥ ताये शिक्षिता यथा शाक्यानां समुदाचारं ॥ एवं वो शाक्यपरिषा उपसंक्रमितव्या ॥ एवम् अभिवादनं कर्तव्यं । एवं निषीदितव्यं ॥ सर्वे शाक्यसमुदाचारं संदिशित्वा विसर्जिता ॥ ते मातापितृणाम् अभिवादेत्वा प्रदक्षिणं कृत्वा गता अनुपूर्वेण कपिलवस्तुम् अनुप्राप्ताः ॥
___सर्वे यथायुष्काये पटिपाटिकाये कपिलवस्तुं प्रविशन्ति ॥ तान् ऋषिकुमारां दृष्ट्वा महाजनकायो समन्वाहरति ॥ अहो यादृशा ऋषिकुमाराः प्रासादिका दर्शनीया च अजिनजटाधारिणो ॥ ते दानि महता जनकायेन परिवारिता शाक्यानां संस्थागारम् उपसंक्रान्ताः ॥ पंचमात्राणि च शाक्यशतानि संस्थागारे सन्निषण्णानि अभून्सु संनिपतितानि केनचिद् एव करणीयेन ॥ ते दानि यथा ताये मातरि संदिष्टा तेन समुदाचारेण शाक्यपरिषाम् उपसंक्रान्ता ॥ शाक्यपरिषा ऋषिकुमाराणां तं
[_म्वु_1.355_] शाक्यसमुदाचारं दृष्ट्वा विस्मिता ॥ ते दानि शाक्या ऋषिकुमाराणां पृच्छन्ति ॥ कुतो यूयं ति ॥ तेहि तं प्रकृतिं सर्वं आचिक्षितं यथा ताये मातरि संदिष्टा ॥ अनुहिमवन्ते अमुकातो आश्रमपदातो कोलस्य राज-ऋषिस्य पुत्राः अमूकस्य शाक्यस्य धीता सा मो माता ॥ यथा सा शाक्यकन्या तत्र उद्देशे विसर्जिता तथा तेहि मातुः श्रुत्वा शाक्यानां सर्वम् आचिक्षितं ॥ शाक्या श्रुत्वा प्रीताः ॥ सो पि सानं मातामहो शक्यमहत्तरको जीवति महान्तं च कुलवंशं ॥ सो पि कोलो राजर्षि वाराणसीतो ज्येष्ठकुमारं राज्याभिषिंचित्वा ऋषिप्रव्रजितो दिशासु अभिज्ञातपरिज्ञातो महात्मा राजर्षिः ॥ ते दानि शाक्या प्रीता संवृत्ताः राजर्षिणा इमे जाता न प्राकृतेन पुरुषेण ॥ तेषां शाक्यानां भवति ॥ इमे कुमारा अस्माकं सुजाता पि इमेषां च शाक्यकन्या दीयन्तु वृत्तिश् च ॥ तेहि तेषां कुमाराणां शाक्यकन्यायो च दिन्नायो कर्षणानि च दिन्नानि सजनपदानि ॥ तद्यथा नामाश्रमं निगमं सुमुक्तं कर्करभद्रं अपराणि च कर्षणानि सजनपदानि प्रभूतं स्वापतेयं ॥ कोलेन ऋषिणा जाता त्ति कोलिया त्ति समाज्ञा व्याघ्रपथे व्याघ्रपद्या समाज्ञा च ॥
_____इति श्रीमहावस्तु-अवदाने कोलियानाम् उत्पत्ति समाप्तं ॥
अथ शाक्यानां देवडहो नाम निगमो ॥ तहिं सुभूतिर् नाम शाक्यानां महत्तरको तेन अमुकातो निगमातो कोलियकन्या नाम भार्या आनीता ॥ तस्य सप्त धीतरो जाता माया महामाया अतिमाया अनन्तमाया चूलीया कोलीसोवा महाप्रजापती ॥ माया-उत्पत्ति ॥
___राज्ञो सिंहहनुस्य शाक्यराज्ञो चत्वारि पुत्रा दारिका च एका शुद्धोदनो शुक्लोदनो धौतोदनो अमृतोदनो अमिता च दारिका ॥ राज्ञा सिंहहनुना कालगतेन
[_म्वु_1.356_] शुद्धोदनेन राज्यं प्रतिलब्धं ॥ राज्ञा शुद्धोदनेन आमात्या आणत्ता सदृशां मे दारिकां आनेथ या भवेय प्रासादिका च कुलीना च ॥ तेहि अमात्येहि समन्ततो ब्राह्मणा विसर्जिता पण्डिता च बहुश्रुता च स्त्रीलक्षणपुरुषलक्षणदारिलाकक्षणविधिज्ञा ॥ गच्छथ दारिकां विजानथ या राज्ञो शुद्धोदनस्य योग्या भवेया ॥ तेहि ब्राह्मणेहि ग्रामनिगमनगरजनपदेहि अण्वन्तेहि शाक्यानां देवडहे निगमे सुभूतिस्य शाक्यस्य सप्त धीतरो दृष्टा तासां सप्तानां धीतराणं माया सर्वप्रधाना कृत्स्ने च जम्बुद्वीपे तादृशा कन्या सुदुर्लभा ॥ तेहि राज्ञो निवेदितं देवडहे निगमे सुभूतिस्य शाक्यस्य सप्त धीतरो प्रासादिका दर्शनीया च एका चात्र सर्वासां सप्तानां भगिनीनां प्रधाना रूपेणापि तेजेनापि प्रज्ञाये पि सर्वगुणसंपन्ना माया नाम ॥ यत्तका अस्माभिः ग्रामनगरनिगमजनपदा अण्विता न खल्व् अस्माभिस् सदृशा कन्या दृष्टपूर्वा यादृशी माया सुभूतिस्य शाक्यस्य धीता ॥ शुद्धोदनेन सुभूतिस्य प्रेषितं ॥ मायां धीतां मम भार्यार्थं देहीति अग्रमहिषी भविष्यति ॥ सुभूतिर् आह दूतानां ॥ मायाये षड्दारिकायो ज्येष्ठतरिकायो याव तायो वुह्यन्ति तता माया महाराजस्य दीयिष्यति ॥ तेहि दूतेहि राज्ञो शुद्धोदनस्य निवेदितं ॥ महाराज एवं सुभूति शाक्यो आह ॥ यावद् इमा ज्येष्ठतरिका षड्दारिकायो वुह्यन्ति ततो माया महाराजस्य दीयिष्यतीति ॥ राज्ञा शुद्धोदनेन भूयो दूतो सुभूतिस्य शाक्यस्य प्रेषितो ॥ सर्वां मे सप्त धीतरां देहि ॥ तेहि दूतेहि सुभूतिस्य शाक्यस्य आरोचितं ॥ राजा शुद्धोदनो आह ॥ सर्वां मे सप्त धीतरो देहीति ॥ सुभूतिना शाक्येन राज्ञो शुद्धोदनस्य संदिष्टं ॥ महाराज दिन्ना ते भवन्तु ॥ ता दानि सर्वायो सप्त दारिकायो राज्ञा शुद्धोदनेन महता राज-ऋद्धीये महता राजानुभावेन महता राजसमृद्धीये
[_म्वु_1.357_] आनीता देवडहातो निगमातो कपिलवस्तुं ॥ राज्ञा शुद्धोदनेन द्वे दारिके स्वमन्तःपुरं प्रवेशिता माया च महाप्रजापती च ॥ पंच दारिका पंच भ्रातृणां दिन्ना ॥
___द्वादशेहि वर्षेहि बोधिसत्वो तुषितभवनातो च्यविष्यति ॥ शुद्धावासा देवा जम्बुद्वीपे प्रत्येकबुद्धानाम् आरोचयन्ति बोधिसत्वो च्यविष्यति रिंचथ बुद्धक्षेत्रं ॥
तुषितभवनाद् अतियशो च्यविष्यति अनन्तज्ञानदर्शावी ।

रिंचथ बुद्धक्षेत्रं . . . . . . वरलक्षणधरस्य ॥
ते श्रुत्व बुद्धशब्दं प्रत्येकजिना महेश्वरवराणां ।
निर्वांसु मुक्तचित्ता स्वयंभुनो चित्तवशवर्ती ॥
ते दानि प्रत्येकबुद्धा स्वकस्वकानि व्याकरणानि व्याकरित्वा परिनिर्वृताः ॥
___वाराणस्यां सार्धयोजने महावनखण्डं तत्र पंच प्रत्येकबुद्धशतानि प्रतिवसेन्सु ॥ ते पि स्वकस्वकानि व्याकरणानि व्याकरित्वा परिनिर्वृता ॥
आलब्धवीर्या सततानुयोगी
उदग्रचित्ता अकुशीदवर्ती ।
दृढविक्रमा वीर्यबलोपपेता
एकचरा खड्गविषाणकल्पा ॥
वैहायसम् अभ्युद्गम्य तेजोधातुं समापद्यित्वा अनुपादाय परिनिर्वृता ॥ स्वकाये तेजोधातूये मान्सशोणितं ध्यापितं । शरीराणि पतितानि ॥
. . . . उपेक्षां करुणां च भाव्य
आसेवमानो मुदितां च काले ।
मैत्रेण चित्तेन हितानुकंपी
एको चरे खड्गविषाणकल्पो ॥
[_म्वु_1.358_] सर्वेषु प्राणेषु निधाय दण्डं
अविहेठको अन्यतरे पि तेषां ।
निक्षिप्तदण्डो त्रसस्थावरेषु
एको चरे खड्गविषाणकल्पो ॥
ओतारयित्वा गृहिव्यंजणानि
संशीर्णपत्रो यथ पारिपात्रो ।
काषायवस्त्रो अभिनिष्क्रमित्वा
एको चरे खड्गविषाणकल्पो ॥
संदारयित्वा गृहिव्यंजनानि
शिखिर् यथा भस्मनि एकचारी ।
काषायवस्त्रो अभिनिष्क्रमित्वा
एको चरे खड्गविषाणकल्पो ॥
संसेवमानस्य सियातिस्नेहो
स्नेहान्वयं दुःखम् इदं प्रभोति ।
संसेवमानं तु जुगुप्समानो
एको चरे खड्गविषाणकल्पो ॥
संसेवमानस्य सियातिस्नेहो
स्नेहान्वयं दुःखम् इदं प्रभोति ।
प्रियातिस्नेहं विजिगुप्समानो
एको चरे खड्गविषाणकल्पो ॥
संसेवमानस्य सियातिस्नेहो
स्नेहान्वयं दुःखम् इदं प्रभोति ।
प्रिया वियोगं विजुगुप्संआनो
एको चरे खड्गविषाणकल्पो ॥
संसेवमानस्य सियातिस्नेहो
[_म्वु_1.359_] स्नेहान्वयं दुःखम् इदं प्रभोति ।

मित्रेषु आदीनवं संमृशन्तो
एको चरे खड्गविषाणकल्पो ॥
संसेवमानस्य सियातिस्नेहो
स्नेहान्वयं दुःखम् इदं प्रभोति ।
पुत्रेषु आदीनव संमृशन्तो
एको चरे खड्गविषाणकल्पो ॥
पुत्रां सहायान् अवलोकयन्तो
हापेति अर्थं प्रतिबद्धचित्तो ।
न पुत्रम् इच्छेय कुतो सहायान्*
एको चरे खड्गविषाणकल्पो ॥
ज्ञातीं सहायान् अवलोकयन्तो
हापेति अर्थं प्रतिबद्धचित्तो ।
ज्ञाती न इच्छेय कुतो सहायां
एको चरे खड्गविषाणकल्पो ॥
सर्वा खड्गविषाणगाथा विस्तरेण कर्तव्या ॥ पंचानां प्रत्येकबुद्धशतानाम् एक-एका गाथा ॥ ऋषयो ऽत्र पतिता ऋषिपतनं ॥
___तहिं वनखण्डे रोहको नाम मृगराजा सहस्रमृगयूथं परिहरति ॥ तस्य दुवे पुत्रा न्यग्रोधो च नाम विशाखो च ॥ तेन दानि मृगराजेन एकास्यापि पुत्रस्य पंच मृगशतानि दिन्नानि अपरस्यापि पुत्रस्य पंच मृगशतानि दिन्नानि ॥ ब्रह्मदत्तो काशिराजा अभीक्ष्णं मृगव्यं निर्धावति तं वनषण्डं परिसमन्तं तत्र च मृगानि हन्ति ॥ न तत्तकां मृगां स्वयं उपजीवति यत्तकानि आहतकानि वनगुल्मेषु च वनगहनेषु च शरहारेषु च नडकहारेषु च कण्टकहारेषु च प्रविशित्वा मरन्ति ॥ ते तत्र काकशकुन्तेहि
[_म्वु_1.360_] खज्जन्ति ॥ न्यग्रोधो मृगराजा तं भ्रातरं विशाखं आह ॥ विशाख एतं काशिराजं विज्ञापेम ॥ न तत्तका त्वं मृगां स्वयं उपजीवसि यत्तका आहतका गहनेहि प्रदेशेहि प्रविशित्वा मरन्ति काकशकुन्तेहि खाद्यन्ति ॥ वयं राज्ञो एकं मृगं दैवसिकं दास्यामः यो तव स्वयं महानसं प्रविशिष्यति ॥ इमं च मृगयूथं न एवं अनयव्यसनम् आपद्यिष्यन्ति ॥ तस्य भ्राता विशाखो आह ॥ एवं भवतु विज्ञापेम ॥ सो दानि राजा मृगव्यं निर्धावितो ॥ तेहि यूथपतीहि मृगराजेहि सो राजा दृष्टो दूरत एव आगच्छन्तो सबलवाहनो असिधनुशक्तितोमरधरेहि संपरिवृतो ॥ ते दानि तं राजानं दृष्ट्वा येन राजा तेन अभिमुखा प्रत्युद्गता अभीता अनुत्त्रस्ता आत्मानं परित्यजित्वा ॥ तेन दानि काशिराज्ञा मृगराजानौ दृष्ट्वा दूरत एव अभिमुखा आगच्छन्ता ॥ तेन स्वकस्य बलाग्रस्य आणत्ति दिन्ना ॥ न केनचिद् एते मृगा आगच्छन्तो विहेठयितव्या को जानाति किम् अत्र अन्तरं यथैते बलाग्रं दृष्ट्वा न पलायन्ति मम अभिमुखा आगच्छन्ति ॥ बलाग्रेण तेषां मृगाणाम् अन्तरो दिन्नो वामदक्षिणभूतो सो बलाग्रो ॥ ते मृगा येन राजा तेनोपसंक्रमित्वा राज्ञो जानुहि प्रणिपतिताः ॥ राजा तेषां मृगराजानां पृच्छति ॥ का वो विज्ञप्तिः विज्ञापेथ यं वो कार्यं ॥ ते दानि मानुषाये वाचाये तं राजानं विज्ञापेन्ति ॥ महाराज विज्ञापाम ॥ वयं तव इह राज्ये अत्र वनखण्डे जाता संवृद्धा अन्ये पि बहूनि मृगशतानि ॥ वयन् तेषां मृगाणां द्वे भ्रातरौ यूथपतिनौ इह महाराजस्य विजिते प्रतिवसामः ॥ यथैव महाराजस्य नगरा पट्टना च ग्रामा च जनपदा च जनेन शोभन्ति गोबलिवर्देहि च अन्येहि पि प्राणसहस्रेहि द्विपदचतुष्पदेहि एवम् एतानि वनखण्डानि आश्रमाणि च नदीयो च प्रस्रवणीयो च एतेहि मृगपक्षेहि शोभन्ति ॥ एवं महाराज एतस्य अधिष्ठानस्य अलंकारो ॥ सर्वे एते महाराज द्विपदचतुष्पदा यत्तका महाराजस्य विजिते
[_म्वु_1.361_] वसन्ति ग्रामगता वारण्यगता वा पर्वतगता वा महाराजस्य शरणं गताः सर्वे ते महाराज चिन्तनीया परिपालनीया च ॥ महाराजा च तेषां प्रभवति अन्यो राजा न ॥ यं वेलं महाराजा मृगव्यं निष्कासति ततः बहूनि मृगशतानि अनयव्यसनम् आपद्यन्ति ॥ न तत्तका महाराजस्य उपजीव्या भवन्ति यत्तका शरेहि आहतका अत्र वनगहनेषु च नडगहनेषु शरहारेषु च काशहारेषु च प्रविशिय मरन्ति काकशकुन्तेहि खाद्यन्ते महाराजा च अधर्मेण लिप्यति ॥ यदि महाराजस्य प्रसादो भवेय वयं द्वे यूथपतिनो महाराजस्य दैवसिकं एकमृगं विसर्जयिष्यामः यो तव महानसं स्वयं प्रविशिष्यति ॥ एकातो यूथातो एकं दिवसं द्वितीयातो यूथातो द्वितीयं दिवसं एकं मृगं विसर्जयिष्यामः महाराजस्य च मृगमान्सेन अविभक्षणं भविष्यति इमे च मृगा एवं अनयव्यसनं नोपपद्यिष्यन्ति ॥ तेन दानि राज्ञा तेषां मृगयूथपतीनां विज्ञप्ति दिन्ना ॥ यथा युष्माकम् अभिप्रायो तथा भवतु गच्छथ अभीता अनुत्त्रस्ता वसथ मम च एकं मृगं दिवसेदिवसे विसर्जेथ ॥ राजा तेषां विज्ञप्तिं दत्त्वा अमात्यानाम् आह ॥ न केनचित्* मृगा विहेठयितव्या ॥ एवम् आज्ञां दत्त्वा नगरं प्रविष्टो ॥ तेहि यूथपतीहि ते मृगा सर्वे समानीता आश्वासिता च ॥ मा भायथ एवम् अस्माभिः राजा विज्ञापितो यथा राजा न भूयो मृगव्यं निर्धाविष्यति न क्वचित्* मृगां विहेठयिष्यति राज्ञो च दिवसेदिवसे एको मृगो विसर्जेतव्यः एकं दिवसं एकतो यूथातो अपरं दिवसं अपरातो यूथातो ॥ तेहि मृगेहि सर्वां च तां मृगां उभयेहि यूथेहि गणेत्वा यूथातोयूथातो ओसरं कृतं ॥ एकातो यूथातो एकं दिवसं मृगो गच्छति राज्ञो महानसं अपरातो यूथातो अपरं दिवसं गच्छति ॥
___कदाचित् विशाखस्य यूथातो ओसरस्मिं गुर्विणीये मृगीये वारो राज्ञो महानसं गमनाय ॥ सा दानि मृगी आणापकेन मृगेन वुच्यति ॥ तव अद्य ओसरो गच्छ

[_म्वु_1.362_] राज्ञो महानसं ति ॥ सा आह ॥ अहं गुर्विणी द्वे मे पोतका कुक्षिस्मिं अन्यं ताव आणापेहि यं वेलं प्रसूता भविष्यामि ततः गमिष्यामि ॥ ते दानि एकस्यार्थे त्रिवर्गं चरिष्यामः ॥ युष्माकं एवं चिरतरकेन वारो भविष्यति इमेहि दुवेहि पोतकेहि जातेहि ॥ तेन आणापकेन मृगेन एतं कार्यं यूथपतिस्य आरोचितं ॥ यूथपति आह ॥ अन्यं मृगं आणापेहि यो एतस्या मृगीये अन्तरेण ॥ एषा मृगी प्रसूता समाना पश्चाद् गमिष्यति ॥ तेन आणापकेन मृगेन तां मृगीम् अतिक्रमित्वा यो तस्या मृगीये अन्तरेण सो आणत्तो गच्छ राज्ञो महानसन् ति ॥ सो पि आह ॥ न मम अद्य ओसरो अमुकाये मृगीये अद्य ओसरो एवं तावद् अन्तरं जीविष्यं ॥ एवं अपरापरे पि वुच्यन्ति न च अनोसरा गच्छन्ति । सर्वे जल्पन्ति ॥ अमुकाये मृगीये ओसरो सा गच्छतू ति ॥ सा मृगी वुच्यति ॥ भद्रे न कोचिद् इच्छति अनोसरेण गन्तुं । तव ओसरो त्वं एव गच्छाहि राज्ञो महानसं ॥ सा दानि मृगी यां वेलां न मुच्यति सा तेषां पोतकानां प्रेम्नेन मम संनिपातेन एते पि घातयिष्यन्तीति तं द्वितीयं मृगयूथं गता ॥ गच्छिय तस्य यूथपतिस्य प्रणिपतिता ॥ सो नां यूथपतिः पृच्छति ॥ किं एतं भद्रे किम् आणापेसि किं कार्यं ॥ सा आह ॥ अद्य ततो यूथातो मम वारो राज्ञो महानसं गमनाये मम च दुवे पोतका कुक्षिस्मिं ततो मे सो विशाखो यूथपति विज्ञप्तो ॥ मम अद्य ओसरो इमे च दुवे पोतका कुक्षिस्मिं । अन्यां प्रेषेहि यं वेलं प्रसूता भविष्यं ततो गमिष्यामि ॥ तेन च यूथपतिना ये अन्ये आणापियन्ति ते पि न इच्छन्ति गन्तुं नास्माकम् ओसरो अमुकाये मृगीये ओसरो सा गच्छन्तू ति ॥ सा अहं तेहि न मुच्यामि ओसरातो वुच्यामि गच्छाहि तव ओसरो ति तद् इच्छामि मृगराजेन अतो अन्यं मृगं विसर्जमानं यं वेलं अहं प्रसूता भविष्यामि
[_म्वु_1.363_] ततो गमिष्यामि ॥ सो मृगराजा मृगीम् आह ॥ ताव मा भायाहि अन्यं विसर्जयिष्यं ॥ तेन मृगराजेन आणापको मृगो आणत्तो इतो यूथातो यस्य मृगस्य ओसरो तं आणापेहि एताये मृगीये मया अभयं दिन्नं ॥ तेन आणापकेन यस्य मृगस्य ओसरो तं आणाप्यति ॥ गच्छ राज्ञो महानसं ॥ सो पि आह ॥ न अस्माकं यूथस्य अद्य वारो विशाखस्य यूथस्य अद्य वारो ॥ सो आणापको मृगो आह ॥ विशाखस्य यूथातो अद्य वारो यस्या मृगीये वारो सा गुर्विणी दुवे पोतका कुक्षिस्मिं । तेहि न मुच्यति तव ओसरो त्वं गच्छाहीति ॥ ताये च मृगीये ततो अमुच्यन्तिये इह यूथम् आगत्वा न्यग्रोधो यूथपति विज्ञप्तो ॥ न्यग्रोधेन यूथपतिना तस्या मृगीये अभयं दिन्नं ॥ यूथपतिना आणत्तं ॥ यस्य इतो यूथातो ओसरो तं विसर्जेहि इति ॥ तव इतो यूथातो ओसरो त्वं गच्छाहि ॥ सो आह ॥ द्वितीयस्य अद्य ओसरो तं नाहं अनोसरे गच्छेयं ॥ एवं यो यो आणाप्यति सो सो पि न इच्छति अनोसरे गन्तुं ॥ तेन आणापकेन मृगेण न्यग्रोधस्य मृगपतिस्य आरोचितं ॥ न कोचि इच्छति अनोसरेण गन्तुं जल्पन्ति नास्माकम् अद्य ओसरो द्वितीयस्य मृगयूथस्य अद्य ओसरो ॥ मृगराजा आह ॥ मिल्लेहि मये इमस्या मृगीये अभयं दिन्नं । न शक्या सैषा भूयो तत्र महानसं विसर्जयितुं । अहं स्वयं गमिष्यामि ॥
___सो मृगराजा ततो वनषण्डातो पन्थम् ओतरित्वा वाराणसीं गच्छति ॥ यो यो पुरुषो तं मृगराजं पश्यति गच्छन्तं सो सो एतम् अनुगच्छति ॥ मृगो दर्शनीयो रूपेण चित्रोपचित्रो रक्तेहि खुरेहि अञ्जनेहि अक्षीहि प्रभास्वरेहि दर्शनीयेहि ॥ महता जनकायेन अग्रतोकृतो गच्छति यावद् अभ्यन्तरं नगरं प्रविष्टो नागरेहि दृष्टो अभिज्ञातो सो मृगराजा सो मृगराजा महतो जनकायस्य ॥ ते तं पश्यित्वा मृगराजम् उत्कण्ठिता
[_म्वु_1.364_] तम् तत्तकं मृगयूथं सर्वं क्षपितं अयं यूथपतिः स्वयम् आगतो ॥ गच्छाम राजानं विज्ञापेमः यथैषो मृगराजा मुच्येया न हन्येया अलंकारो इमस्य अधिष्ठानस्य चक्षुरमणीयो जातो निर्धावन्तो उद्याने च तडागे च ॥ ते तं मृगं पश्यित्वा चक्षुःप्रीतिम् अनुभवन्ति ॥ तेनैव समहत्तरकेन महता जनकायेन सार्धं मृगराजस्य अनुपृष्ठतो राजकुलं प्रविष्टं ॥ मृगराजा च महानसं प्रविष्टो इमेहि च नैगमेहि राजा अर्थकरणस्मिं उपविष्टो विज्ञप्तो ॥ महाराज तत्तकं मृगयूथं सर्वं क्षीणं ॥ अहेठका शुष्कार्द्राणि तृणानि भक्षयन्ति न कस्यचि अपराध्यन्ति ते च सर्वे क्षपिता अयं सो यूथपति स्वयम् आगतो ॥ दुर्लभो महाराज एदृशो मृगराजा प्रासादिको दर्शनीयो जनस्य चक्षुरमणीयो ॥ नगरातो जना निर्धावन्ति उद्यानं वा तडागं वा आरामं वा पुष्करिणीं वा च ते पि तं मृगराजं पश्यित्वा प्रीता भवन्ति अलंकारभूतं नगरोपवनस्य ॥ यदि महाराजस्य प्रसादो भवेया एषो मृगराजा जीवन्तो मुच्येया ॥ राज्ञा अमात्या आणत्ता ॥ गच्छथ तं मृगराजं महानसातो आनेथ ॥ सो तेहि अमात्येहि गत्वा महानसातो आनीतो राज्ञो सकाशं ॥ राजा तं मृगराजं पृच्छति ॥ किं त्वं स्वयम् आगतो नास्ति भूयो कोचित्* मृगो यं तुवं स्वयम् आगतो ति ॥ सो मृगराजा आह ॥ न हि महाराज नास्ति अपरे मृगाः ॥ किम् तु अद्य द्वितीयस्य मृगयूथस्य ओसरो ॥ तत्र यस्या मृगीये वारो आपद्यति सा गुर्विणी दुवे पोतका कुक्षिस्मिं ॥ सा मृगी वुच्यति गच्छ नहानसं तव अद्य वारो ॥ द्वितीयमृगयूथे विशाखो यूथपति अस्ति ॥ सा तं गत्वा आह ॥ मम अद्य ओसरो राज्ञो महानसं गन्तुं किन् तु अहं गुर्विणी दुवे मे पोतका कुक्षिस्मिं इच्छामि अन्यं विसर्जयितुं यं वेलं अहं प्रसूता भविष्यं ततो गमिष्यामि ॥ ततो यो अन्यो म्र्गो आणाप्यति सो न इच्छति गन्तुं जल्पति एतस्या मृगीये ओसरो एषा गच्छतू ति तेहि मृगेहि न मुच्यति ॥ तव अद्य ओसरो त्वं गच्छाहि सा तेहि अमुच्यन्ती मम मूले आगता ॥ अहं ताये

[_म्वु_1.365_] विज्ञप्तो मम अद्य ततो यूथातो ओसरो मे दुवे पोतका कुक्षिस्मिं न च तेहि मुच्यामि तद् इच्छामि मृगराजेन इतो यूथातो अन्यम् आणापयितुं यो राज्ञो महानसं गच्छेया ॥ येन अन्तरेण अहं प्रसूता भविष्यं ततो गमिष्यं ॥ तस्या मये मृगीये अभयं दिन्नं मयापि यो मृगो आणाप्यति सो न इच्छति ॥ न अस्माकं ओसरो द्वितीयस्य यूथस्य ओसरो एवं यो यो आणाप्यति सोसो न इच्छति अनोसरस्मिं इहागन्तुं ॥ सो ऽहं जानामि मया एतस्या मृगीये अभयं दिन्नं गच्छामि स्वयन् ति सो अहं स्वयम् आगतो ॥ सो राजा तस्य मृगस्य श्रुत्वा विस्मितो सर्वो च जनकायो अहो यावद् धार्मिको मृगराजा ॥ तस्य काशिराज्ञो भवति ॥ नायं तिरिच्छो यः एषो मृगो परस्य कारणेन आत्मानं परित्यजति धर्मं जानाति । वयं तिरिच्छा ये वयं धर्मं न जानाम ये इमेषां एवरूपाणां सत्वरत्नानाम् अहेठकानां हेठाम् उत्पद्येम ॥ सो तं मृगराजम् आह ॥ प्रीतो स्मि तव सकाशातो सकृपो च महात्मा च त्वं यं मृगभूतेन ते तस्या आत्मभृत्याये मृगीये अभयं दिन्नं ॥ अहं पि तव आगम्य त्वद्वचनात् सर्वमृगानां च अभयं देमि ॥ अद्याग्रेण ये च तत्र उद्देशे तेषां सर्वेषां मृगाणां अभयं ददामि गच्छाहि वसथ अभीता अनुत्त्रस्ता ॥ राज्ञा नगरे घण्ठाघोषणा कारापिता ॥ न केनचित्* मम विजिते मृगा विहेठयितव्या तस्य राज्ञो तेषां मृगानाम् अभयदानप्रदानात्* ॥
___यावद् देवेषु शब्दम् अभ्युद्गतं ॥ शक्रेण देवानाम् इन्द्रेण राज्ञो जिज्ञासनार्थं अनेकानि मृगशतानि मृगसहस्राणि निर्मितानि ॥ सर्वो काशिजनपदो मृगेहि आकीर्णो नास्ति सो क्षेत्रो यत्र न मृगाः ॥ जानपदेहि राजा विज्ञप्तो ॥
___तेन दानि न्यग्रोधेन मृगराज्ञा सा मृगी वुच्यति ॥ भद्रे गच्छ विशाखस्य यूथं ॥ सा आह ॥ मृगराज न गमिष्यामि वरं तव मूले मृतं न विशाखमूले जीवितं ॥ सा दानि मृगी गाथां भाषति
[_म्वु_1.366_] न्यग्रोधम् एव सेवेया न विशाखम् अभिप्रार्थयेत्* ।
न्यग्रोधस्मिं मृतं श्रेयो न विशाखम् अस्मिं जीवितं ॥
जानपदा राजं विज्ञापेन्ति ॥
उदज्यते जनपदो राष्ट्रं स्फीतं विनश्यति ।
मृगा धान्यानि खादन्ति तं निषेध जनाधिप ॥
उदज्यतु जनपदो स्फीतं राष्ट्रं विनश्यतु ।
न तु एवं मृगराजस्य वरं दत्त्वा मृषं भणे ॥
मृगाणां दायो दिन्नो मृगदायो ति ऋषिपत्तनो ॥
___द्वादशेहि वर्षेहि बोधिसत्वो तुषितभवनातो च्यविष्यतीति शुद्धावासा देवा ब्राह्मणवेशं निर्मिणिय वेदां च मन्त्रां च द्वात्रिंश महापुरुषलक्षणां ब्राह्मणां वाचेन्ति यथा बोधिसत्वम् इहागतं व्याकरेन्सुः ॥
_______________________________पर्त् 2_______________________________
[_म्वु_2.1_] अथ बोधिसत्वो तुषितभवनातो च्यवनकालसमये चत्वारि महाविलोकितानि विलोकेति । तद्यथा कालविलोकितं । देशविलोकितं । द्वीपविलोकितं । कुलविलोकितं ॥ द्वीहि कुलेहि बोधिसत्वा जायन्ति । क्षत्रियकुले वा ब्राह्मणकुले वा । यदा क्षत्रियाक्रान्ता पृथिवी भवति तदा क्षत्रियकुले जायन्ति । यदा ब्राह्मणाक्रान्ता पृथिवी भवति तदा ब्राह्मणकुले जायन्ति ॥ यस्मिं च भिक्षवः कुले बोधिसत्वा जायन्ति तं कुलं षष्टीहि अङ्गेहि समन्वागतं भवति । कतमेहि षष्टीहि । अभिज्ञातं च भवति । अक्षुद्रावचरं च जातिसम्पन्नं च गोत्रसंपन्नञ् च पुरुषयुगसम्पन्नञ् च अभिज्ञातपूर्वपुरुषयुगसंपन्नं च बहुस्त्रीकं च बहुपुरुषं च अलोलं च अनूनं च अनीचं च अदीनं च प्रज्ञावन्तञ् च शीलवन्तं च अमान्यप्रेक्षितं च तं कुलं भोगां भुंजति दृढमित्रं च तं कुलं भवति । कृतज्ञं च विधिज्ञं च अच्छन्दगामि च तं कुलं भवति । अदोषगामि च अमोहगामि च अभयगामि च अनवद्यभीरु च स्थूलभिक्षं च पुरुषकारमतिं च दृढविक्रमं च वरविक्रमं च श्रेष्ठविक्रमं च चेतियपूजकं च देवतापूजकं च पूर्वमित्रपूजकं च क्रियाधिमुक्तं च त्यागाधिमुक्तं च आत्मपूर्वापरं च तं कुलं भवति । अभिघोषघुष्टं च अभिदेवादिघोषघुष्टं च कुलज्येष्ठं
[_म्वु_2.2_] च कुलश्रेष्ठं च कुलं कुलप्रवरं च कुलवशिप्राप्तं {सेनर्त्: -प्ताप्तं} च महेशाख्यं च महापरिवारं च अश्रमपरिवारं च अनुरक्तपरिवारं च अभेद्यपरिवारं च मातृज्ञं च पितृज्ञं च श्रामण्यं च ब्राह्मण्यं च कुलज्येष्ठापचायकं च प्रभूतधनधान्यञ् च प्रभूतकोशकोष्ठागारं च प्रभूतहस्त्यश्वाजैडकं च प्रभूतदासीदासकर्मकरपौरुषेयं च अप्रधर्ष्यं च तं कुलं भवति परेहि प्रत्यर्थिकेहि प्रत्यमित्रेहि । यस्मिं कुले बोधिसत्वा जायन्ति तं कुलं इमेहि षष्टीहि अङ्गेहि समन्वागतं भवति ॥ ये ते सत्वा कुलसम्पन्ना भवन्ति एवंरूपा सत्वा महाकरुणां प्रतिलभन्ति । बोधिसत्वो महासंविधानं करोति च्यवनकालस्मिं तुषितभवनातो । देवसहस्रियो चातुर्महाराजिकानुपादाय सर्वे कामावचरा तुषितभवने संनिपतित बोधिसत्वस्य च्यवनकाले ॥ बिम्बिसारप्रभृतिका उक्ता । त्वं राजगृहे उपपद्यहि । त्वयि विनीते महाजनकायो विनयमार्गं गमिष्यतीति । एवं सहसोद्गतो अभयो सार्थवाहो तथान्ये पि गृहपतिमहाशालाः ब्राह्मणमहाशालाः ॥ उदयनो वत्सराजा वुच्यति । कौशाम्ब्यां उपपद्याहि । त्वयि विनीते महाजनकायो विनयमार्गं गमिष्यति । घोषिलो गृहपतिः तथान्ये पि क्षत्रियमहाशालाः गृहपतिमहाशालाः । एताये विधीये देवपुत्रसहस्राणि येन भगवतो संसारे सन्सरन्तस्य सहचरितं जम्बूद्वीपे षोडशहि महाजनपदेहि उपपद्यन्ति क्षत्रियमहाशालकुलेहि ब्राह्मणमहाशालकुलेहि गृहपतिमहाशालकुलेहि । निःसंदिग्धं तुफेहि विनीतेहि महाजनकायो विनयमार्गं गमिष्यतीति ॥ बोधिसत्वो अवलोकेति कहिं उपपद्यामि । अयं राजा शुद्धोदनो मम योग्यो पिता ॥ मातरं गवेषति या प्रासादिका च भवेय कुलीना च शुचिगात्रा च मन्दरागा च अल्पायुष्का च यस्या ससप्तरात्रा दश मासा आयुष्प्रमाणतो अवशिष्टा भवेन्सुः ॥
[_म्वु_2.3_] सर्वेषां बोधिसत्वानां जनेत्वा पुरुषोत्तमं ।
चरमे सप्तमे दिवसे माता जहति जीवितं ॥

अत्र किं कारणं भवति यदि सर्वज्ञमातरः ।
जनेत्वा पुरुषश्रेष्ठं शीघ्रं जहन्ति जीवितं ॥
वसन्तो तुषिते काये बोधिसत्वो इमां स्मृतिं ।
लभते शुभकर्मेण परीक्षन्तो जनेत्रियो ॥
यस्येह परिशेषं स्या नारीयो जीवितं भवेत्* ।
दिवसानि सप्त मासा च दश तस्या उरम् ओतरे ॥
किं कारणं अयुक्तं हि अस्मद्विधम् अनुत्तरं ।
धारेत्वा उत्तरे काले मैथुनं प्रतिसेवितुं ॥
अथापि प्रतिसेवेयु कामा सुगतमातरि ।
न पिता देवसंघानां भिन्नवृत्तो ति तद् भवेत्* ॥
भगवां च नाम कामानां दोषं सततं भाषति ।
अथ च लोकनाथस्य माता कामां निषेवति ॥
ये च नृपतिवेश्मेषु भोन्ति रत्नकरण्डकाः ।
रतनं पुरुषश्रेष्ठा भाजनं बोधिमातरो ॥
अल्पायुष्कां भुवि समन्वेषन्तो भोधिसत्वो अद्राक्षीत् कपिलवस्तुस्मिं शुद्धोदनस्य अग्रमहिषीं प्रसादिकां च कुलीनां अच् शुचिगात्रां च मन्दरागां च अल्पायुष्कां । ससप्तरात्रा चास्या दश मासा आयुष्प्रमाणतो अवशिष्टा ॥ बोधिसत्वस्यैतद् अभवत्* ॥ एषा मे माता योग्या ॥
पश्यति विलोकयन्तो लोकं शुद्धोदनस्य ओरोधे ।
[_म्वु_2.4_] नारीं अमरवधुनिभां विद्युल्लतानिभां विय मायां ॥
सो तां निशाम्य जननीं आमन्त्रयते मरुणां च्यविष्यामि ।
अन्तिमम् उपेत्य वासं गर्भे मरुमानुषसुखार्थं ॥
तं अवच देवसंघः कृतांजलिपुटो वराभरणधारी ।
ऋध्यतु उत्तमपुद्गल तव प्रणिधि अहीनगुणरूप ॥
वयम् अपि लोकहिता बहु मनोरमां ओशिरित्वा कामरतिं ।
पूजार्थं तव अनिन्दित मनुष्यलोके वसिष्यामः ॥
ते विपुलरुचिरवर्णं मन्दारवपुष्पवर्षम् आकाशे ।
प्रमुंचिन्सु उदग्रचित्ता स्तवंता मधुराहि वाचाहि ॥
यम् अमरवसना प्रशमनमनोरमां शोकदुःखविमिश्रान्* ।
ईक्षसि न च निषेवसि कामां इदम् अद्भुतं तुह्यं ॥
यं पि अभिभूय मरुगणं जम्बूनदपर्वतोपमप्रकाशो ।
उद्योतयसि दश दिशो सुरर्षभ इदं पि आश्चर्यं ॥
अभिभवसि देवसंघा समहेश्वरदानवां समारगणां।
तारागणां खगचरां अमितमति इदं पि आश्चर्यं ॥
किंचापि विप्रयोगं त्वया न इच्छाम भूतसंघगुरु ।
अपि च अरविन्दनयन भविष्यसि गतिर् नरमरूणां ॥
अथ च्यवनकालसमये विशुद्धशतपत्रपद्मनयनस्य।
आनन्दिता मरुगणा घोषन्ति दिशाहि सर्वाहि ॥
एषा च वर्तति कथा तुषितपुरे सा च अप्रतिरूपा माया ।
शुद्धोदनस्य महिषी राजानम् उपेत्य इदम् आह ॥
[_म्वु_2.5_] सा हरिणवत्सनयना विशुद्धगन्धर्ववधुनिभा श्यामा ।
सहितं इदं सुमधुरं शुद्धोदनम् अब्रवीत् माया ॥
आभरणस्तम्भितभुजा प्रवरवसनधारिणी सखीहि सह।

त्वया विना शाक्यनन्दन रजनीम् इमां क्षपयितुं छन्दो ॥
धृतराष्ट्रस्य नरवर प्रासादवरस्य उत्तमां भूमीं ।
शयनप्रवरं आरुहि यत्र कुमुदवसनसंनिभं विमलं ॥
तेन वचनेन तुष्टो देविये शुद्धोदनो मनापेन ।
आमन्त्रयति नरवरो परिवारम् उदग्रसंकल्पो ॥
प्रतिवेदयन्तु मि लघुं धृतराष्ट्रं प्रवरकुसुमसंछन्नं ।
मुक्तकुसुमाभिकीर्णं करोथ दिवि देवभवनं वा ॥
ओसक्तपट्टदामं धृतराष्ट्रं च शोभतां चपलम् एव ।
वरहेमजालच्छन्नं सुमेरुवरशृङ्गसंकाशं ॥
चतुरङ्गिनी च सेना सशूलनाराचतोमरविचित्रा ।
परिपालयतां चपलं धृतराष्ट्रं मनोज्ञसंघातं ॥
ओसृष्टा येवाज्ञा नरपतिना सज्जं एव च सर्वं ।
कृत्वा तत्र सकुशलं राजानम् उपेत्य इदम् आहुः ॥
वर्षसहस्रम् अनूनं प्रजा परिपालयतु भो महिपालो ।
सज्जं ति विमानवरं शोभति तव हर्षसंजननं ॥
अथ सा अमरवधूनिभा माया उत्थाय आसनवरातो ।
[_म्वु_2.6_] अब्रवीत् महीपतिसुतं आदित्ये अस्तमितमात्रे ॥
एषा समादियामि प्राणेषु अविहिंसं ब्रह्मचर्यं च ।
विरमामि चाप्य् अदिन्नाद् मद्याद् अनिबद्धवचनाच् च ॥
अखिलवचनाच् च नरवर विरमामि तथैवं पैशुन्याच् च।
परुषवचनाच् च नरपति विरमामि अयं मम छन्दो ॥
परकामेषु च ईर्ष्यां नो संजानेय्यं नाप्य् अभिद्रोहं ।
भूतेषु उपजनेष्यं विपरीतमतिं च विजहामि ॥
एकादशप्रकारं शीलं सेवाम्य् अहं पृथिविपाल ।
रजनीम् इमां अनूनां एवं मम जायते छन्दो ॥
मा सुद खु भूमिपाल कामवितर्को मा मयि प्रतिकांक्षि ।
प्रेषय मा ति अपुण्यं भवेया मयि ब्रह्मचारिणिये ॥
सर्वे तव संकल्पां परिपूरेमीति पार्थिवो अवच ।
अभिरम भवनवरगता अहं च राज्यं च तव वश्यं ॥
सा स्त्रीसहस्रसमग्रा अनन्तरं गृह्य तं विमानवरं ।
अभिरुहिय अभिनिषीदे मनापपरिपूर्णसंकल्पा ॥
सा किंचिद् एव कालं तस्मिं हिमकुमुदपुण्डरीकनिभे ।
शयने प्रशमदमरता तूष्णींभावेन क्षेपयति ॥
सा दानिं दक्षिणेन पार्श्वेन परिन्यासि शरीरवरं ।
कुसुमलता व द्रुमवरं शयनं परिवेल्लियाशयिता ॥
अथ तां निशाम्य शयनोपगतां देवीं दिव्यप्रमदारूपनिभां ।
तुषितालया च्यविय देवगणा प्रासादमूर्ध्नि प्रतिष्ठिहिन्सु ॥
[_म्वु_2.7_] ते मूर्धना अभिनता सर्वे हृष्टा कृतांजलिपुटा अमरा ।
वन्दन्ति तां विपुलपुण्यधरां मायां जिनस्य जननीं शयने
अथ कौतूहलपरं संजनिया बहुदेवकन्या शुचिमाल्यधरा ।

जिनमातुर् उपगता द्रष्टुमना प्रासादमूर्ध्नि प्रतिष्ठिहिन्सु ॥
उपसंक्रमित्व शयनोपगतां मायां निशाम्य वरविद्युनिभां ।
प्रीतिसुखं विपुलं संजनिया अथ संप्रवर्षि दिविजं कुसुमं ॥
मानुष्यकं पि किल एदृशकं रूपं सुजातम् इदम् आश्चर्यं।
कञ्चित् कालं स्थिहिय्ऽ; अन्तरतो नायं समा मरवधूहि भवे ॥
लीलां निशामयथ हे सखिका प्रमदायिमस्य यथ ओपयिकां ।
शयने विरोचति मनः हरति विभ्राजते कनकरीतिर् इव ॥
अयन् तु धरेष्यति महापुरुषं अत्यन्तदानदमशीलरतं ।
सर्वाश्रवान्तकरणं विरजं किं हायते तव नरेन्द्रवधू ॥
चापोदरे करतलप्रमिते वररोमराजिविचित्रे रुचिरे ।
इह सो भविष्यति अनन्तमतिः सततं अलिप्त अशुभेन शुचिः ॥
बहुदीर्घरात्रनिचितं कुशलं प्रमदायिमस्य विपुलं परमं ।
या तं धरेष्यति अनन्तगुणं चिररात्रसन्निचितपुण्यबलं ॥
अनुरूपा त्वं प्रमदा प्रवरा माता स चैव पुरुषप्रवरो ।
पुत्रो प्रहीनवनथो विरजो किं हायते तव नरेन्द्रवधू ॥
अथ राक्षसा विविधरूपधरा आणत्ता दिवि परितो चपलं ।
तिष्ठन्तु भो प्रवरशस्त्रधरा सर्वदिशां कुरुथ असंवरणां ॥
[_म्वु_2.8_] तेषाम् अनन्तरं द्विजिह्वगणा आरक्षहेतु दिशतासु स्थिता ।
वातं पि येष चलितं श्रुणिय क्रोधा समुत्पतन्ति अग्निसमा ॥
तेषाम् अनन्तरगता थपिता यक्षा प्रदीप्तशिखरा विकृता ।
ये दुष्टचित्त विनिवारयथा मा च वधं कुरुथ कस्य चापि ॥
तेषाम् अनन्तरस्थिता बहवो गन्धर्वसंघ शुभरूपधरा ।
आरक्षहेतु शुभचापधरा च्यवनक्षणे विमलबुद्धिमतो ॥
चत्वारि लोकपतिनो पि स्थिता गगने स्वकपारिवारेण सह ।
अद्य च्यविष्यति किल भगवां लोकस्य अर्थसुखवृद्धिकरो ॥
त्रिदशेहि सार्धं त्रिदशप्रवरो स्थित अन्तरीक्षे वरचक्रधरो ।
अचिरा च्यविष्यति च्युतिं चरिमां आकाङ्क्षमाणो सुखम् अप्रतिमं ॥
मायाय मूलि बहुदेवगणा कृत्वा दशाङ्गुलं नताभिमुखा ।
समुदीरयन्ति मधुरं वचनं उल्लोकयन्ति तुषितेषु जिनं ॥
व्यवदानसन्निचितपुण्यबला समयो ति अन्तिमम् उपेहि भवं । {च्यवदान-?}
सज्जा ताव भवति ते जननी अनुकंप दानि दुःखितां जनतां ॥
एषो च्यवामि इति मुंचि गिरां शुभं वचनं उदीरयि . . . . ।
अथ सुपिनं जननी जिनस्य तस्मिं क्षणे पश्यति वरविपाकफलं ॥
हिमरजतनिभो मे षड्विषाणो सुचरणचारुभुजो सुरक्तशीर्षो ।
उदरम् उपगतो गजप्रधानो ललितगतिः अनवद्यगात्रसन्धिः ॥
न खलु बोधिसत्वा कालपक्षे मतु कुक्षिं ओक्रामन्ति ॥ अथ खलु पूर्णायां पूर्णमास्यां पुष्यनक्षत्रयोगयुक्तायां रात्र्यां बोधिसत्वा मातुः कुक्षिम् अवक्रामन्ति ॥ उपोषधिकायां
[_म्वु_2.9_] प्रमदोत्तमायां सनन्दितायां अविलक्षितायां अक्षुद्रावचरायां प्रासदिकायां शुचिगात्रायां मन्दरागायां जातिसंपन्नायां कुलसंपन्नायां रूपसम्पन्नायां वर्णसम्पन्नायां नामसम्पन्नायां आरोहसम्पन्नायां परिणाहसम्पन्नायां व्यक्तायां अग्रयौवनमण्डप्राप्तायां विश्रुतायां पण्डितायां स्मृतायां संप्रजानायां प्रदक्षिणचित्तायां सर्वाकारसम्पन्नायां सर्वाकारपरिपूर्णायां प्रमदोत्तमायां बोधिसत्वा मातुः कुक्षिम् अवक्रामन्ति ॥ बोधिसत्वेन प्रभा ओसृष्टा याये प्रभाये सर्वं बुद्धक्षेत्रं अवभासितं । देवपुत्रो देवपुत्रं पृच्छति ॥
किं कारणं सुरवरेण प्रभा प्रमुक्ता
चन्द्रांशुशीतलतरा कनकावदाता ।
येनासुरेश्वरगणा मनुजेश्वराश् च

मूल पाठ: Mahāvastu-avādana · Edition: Émile Senart, 3 vols., Paris 1882-1897. Cf. also : Emmanuel Faure, B. Oguibénine, M. Yamazaki, and Y. Ousaka Mahāvastu-avādana, vol.I: word index and reverse word index Tokyo 2003 (Philologica Asiatica, Monograph Series 20) The Chuo Academic Research Institute (Tokyo, 2003 (July)) · Data entry Emmanuel Fauré · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc