भाषा

ENहिગુ
ग्रंथ पाठ

महावस्तु-अवादन · भाग 6180

स्वप्नान्तरे या प्रमदा ददर्श
चन्द्रं नभा कुक्षिम् अनुप्रविष्टं ।
प्रसूयते सा नरदेवगर्भं
सो भवति राजा वरचक्रवर्ती ॥
स्वप्नान्तरे या प्रमदा ददर्श
श्वेतं गजं कुक्षिम् अनुप्रविष्टं ।
प्रसूयते सा गजसत्त्वसारं
सो भवति बुद्धो बुधितार्थधर्मो ॥
[_म्वु_1.210_] देवीं स पृच्छति ॥ किं धरेसि ॥ सा आह ॥ चक्रवर्तिन् ति ॥
कुक्षिं प्रभासयन्तं कनकवपुं प्रवरलक्षणसमंगिं ।
धारेमि चक्रवर्तिं वरपुरुषं राजशार्दूलं ॥
देवा नभे भगवतो घोषम् उदीरयेन्सुः ॥ बुद्धो भविष्यति न राजा बलचक्रवर्ती ॥ महाब्रह्मा गाथां भाषति ॥
गजं रत्नश्रेष्ठं मदनबलवेगापनयनं
प्रदीपं लोकस्य तमतिमिरमोहापनयनं ।
गुणानां कोषं त्वं अपरिमितरत्नाकरधरं
धरेसि राजर्षि अप्रतिहतचक्रं अमररुचिं ॥
देवी आह
यथा मम न रागदोषा प्रसहन्ति नरेन्द्रगर्भम् उपलभ्य ।
निःसंशयं भविष्यति समरुचि यथ निश्चरति वाचा ॥
बोधिसत्वे खलु पुनर् महामौद्गल्यायन मातुः कुक्षिगते बोधिसत्वमाता सुखं गच्छति तिष्ठति पि निषीदति पि शय्याम् अपि कल्पयति बोधिसत्वस्यैव तेजेन । शस्त्रं काये न क्रमति न विषं नाग्निर् नाशनिः प्रसहति बोधिसत्वस्यैव तेजेन ॥ बोधिसत्वे खलु पुनर् महामौद्गल्यायन मातुः कुक्षिगते बोधिसत्वमातरं देवकन्या दिव्येहि उच्छादनपरिमर्दनपरिष्कारेहि परिजागरन्ति ॥ दिव्यवस्त्रसंवृतशरीरा दिव्याभरणधारिणी भवति बोधिसत्वस्यैव तेजेन ॥ लाभिनी भवति दिव्यानां गन्धानां दिव्यानां माल्यानां दिव्यानां विलेपनानां दिव्यानां ओजानां बोधिसत्वस्यैव तेजेन ॥ बोधिसत्वे
[_म्वु_1.211_] खलु पुनर् महामौद्गल्यायन मातुः कुक्षिगते यो ऽस्या अभ्यन्तरपरिवारो सो ऽस्या अतीव शुश्रूषितव्यं श्रोतव्यं मन्यति बोधिसत्वस्यैव तेजेन ॥ बोधिसत्वे खलु पुनर् महामौद्गल्यायन मातुः कुक्षिगते बोधिसत्वमातरं ये पश्यन्ति ते ताम् उपसंक्रमित्वा किंकरणीयकप्रतिसंयुक्तेहि व निमन्त्रेन्ति बोधिसत्वस्य एव तेजेन ॥ न किंचिद् उपरिमेन गच्छति अन्तमशतो पक्षी पि बोधिसत्वस्यैव तेजेन ॥ बोधिसत्वे खलु पुनर् महामौद्गल्यायन मातुः कुक्षिगते बोधिसत्वमाता अल्पाबाधा भवति अल्पातंका । समाये विपाकनीयग्रहणीये समन्वागता नाप्य् अतिशीताये नाप्य् अति-उष्णाये सम्मापरिणामाये बोधिसत्वस्यैव तेजेन ॥ बोधिसत्वे खलु पुनर् महामौद्गल्यायन मातुः कुक्षिगते बोधिसत्वमाता लाभिनी प्रणीतानां खादनीयभोजनीयानाम् अग्ररसानां प्रत्यग्ररसानां बोधिसत्वस्यैव तेजेन ॥ बोधिसत्वे खलु पुनर् महामौद्गल्यायन मातुः कुक्षिगते बोधिसत्वमाता वीतरागा भवति । अखण्डम् अच्छिद्रम् अशबलम् अकल्माषं परिशुद्धं परिपूर्णं ब्रह्मचर्यं चरति ॥ मनसापि तस्याः प्रमदोत्तमाया रागो न उत्पद्यति सर्वपुरुषेहि अन्तमसतो राज्ञापि अर्चिमता ॥ बोधिसत्वे खलु पुनर् महामौद्गल्यायन मातुः कुक्षिगते बोधिसत्वमाता पञ्च शिक्षापदानि समादाय वर्तते । तानि च सपूर्वसमादिन्नानि भवन्ति । बोधिसत्वे खलु पुनर् महामौद्गल्यायन मातुः कुक्षिगते यावता नागराजानो नागराजाधिपतयो अण्डजा वा जरायुजा वा संस्वेदजा वा औपपादुका वा ते निवेशनम् उपसंक्रमित्वा दिव्यानि चन्दनचूर्णानि प्रकिरन्ति ॥ एवम् अगुरुचूर्णानि मुक्तकुसुमानि च प्रकिरेन्सुः समाप्ताये च नं अर्चनाये अर्चयेन्सुः परिपूर्णाये च नम् अर्चनाये अर्चयेन्सुः परिशुद्धाये च नम् अर्चनाये अर्चयेन्सुः ॥ ते दिव्यानि चन्दननचूर्णानि प्रकिरित्वा केशरचूर्णानि तमालपत्रचूर्णानि मुक्तकुसुमानि प्रकिरेन्ति ।
[_म्वु_1.212_] समाप्ताये नं अर्चयेन्सुः परिपूर्णाये च नम् अर्चनाये अर्चयेन्सु परिषुद्धाये च नं अर्चनाये अर्चयेन्सुः ॥ परिपूर्णाये अर्चनाये अर्चयित्वा परिशुद्धाये अर्चनाये अर्चयित्वा दिव्येहि चन्दनचूर्णेहि प्रकिरित्वा दिव्येहि अगुरुचूर्णेहि केशरचूर्णेहि तमालपत्रचूर्णेहि मुक्तकुसुमेहि ओकरित्वा अध्योकिरित्वा अभिप्रकिरित्वा बोधिसत्वमातां त्रिखुत्तं अभिप्रदक्षिणं कृत्वा येनकामं प्रक्रमिन्सुः बोधिसत्वस्यैव तेजेन ॥ बोधिसत्वे खलु पुनर् महामौद्गल्यायन मातुः कुक्षिगते यावता सुवर्णराजानो सुवर्णाधिपतयो अण्डजा वा जरायुजा वा संस्वेदजा वा उपपादुका वा ते निवेशनं प्रविशित्वा दिव्यानि चन्दनचूर्णानि प्रकिरन्ति दिव्यान्य् अनेकचूर्णानि प्रकिरन्ति दिव्यानि केशरचूर्णानि प्रकिरन्ति दिव्यानि तमालपत्रचूर्णानि प्रकिरन्ति दिव्यानि कुसुमचूर्णानि प्रकिरन्ति । समाप्ताये च नं अर्चनाये अर्चयेन्सु परिपूर्णाये च नं अर्चनाये अर्चयेन्सु परिशुद्धाये च नं अर्चनाये अर्चयेन्सुः ॥ दिव्यानि चूर्णानि प्रकिरित्वा अगुरुचूर्णानि केशरचूर्णानि तमालपत्रचूर्णानि प्रकिरित्वा दिव्यानि च मुक्तकुसुमानि प्रकिरित्वा बोधिसत्वमातां त्रिष्खुत्तं प्रदक्षिणं कृत्वा येनकामं प्रक्रमेन्सुः बोधिसत्वस्यैव तेजेन ॥ बोधिसत्वे खलु पुनर् महामौद्गल्यायन मातुः कुक्षिगते बोधिसत्वमातां चतुर्महाराजकायिका देवाः त्रायस्त्रिंशा यामा तुषिता निर्माणरतिपरनिर्मितवशवर्ती ब्रह्मकायिका शुद्धावासकायिका देवा तस्य निवेशनं प्रविशित्वा दिव्येहि चन्दनचूर्णेहि प्रकिरेन्सुः दिव्येहि अगुरुचूर्णेहि तमालपत्रचूर्णेहि दिव्येहि च मुक्तकुसुमेहि प्रकिरेन्सुः समाप्ताये च नं अर्चनाये अर्चयेन्सुः संपरिपूर्णाये च
[_म्वु_1.213_] नम् अर्चनाये अर्चयेन्सुः परिशुद्धाये च नं अर्चनाये अर्चयेन्सुः ॥ ते दिव्येहि चन्दनचूर्णेहि ओकिरित्वा दिव्येहि अगुरुचूर्णेहि दिव्येहि केशरचूर्णेहि दिव्येहि तमालपत्रेहि दिव्येहि मुक्तकुसुमेहि प्रकिरित्वा समाप्ताये च नं अर्चनाये अर्चयित्वा परिपूर्णाये च नं अर्चनाये अर्चयित्वा परिशुद्धाये च नं अर्चनाये अर्चयित्वा बोधिसत्वमातां त्रिष्कृत्वो प्रदक्षिणीकृत्य येनकामं प्रक्रमेन्सुः बोधिसत्वस्यैव तेजेन ॥
___बोधिसत्वो खलु पुनर् महामौद्गल्यायन मातुः कुक्षिगतो न चातिनीचं तिष्ठति न च अति-उच्चं तिष्ठति न च अवकुब्जको न उत्तानको न वामपार्श्वे तिष्ठति न उत्कुटिको ॥ अथ खलु मातुर् दक्षिणे पार्श्वे पर्यङ्कम् आभुंजित्वा तिष्ठति ॥ बोधिसत्वो खलु पुनर् महामौद्गल्यायन मातुः कुक्षिगतो न पित्तेन वा श्लेष्मेण वा रुधिरेण वा अन्येन वा पुन केनचिद् अशुचिनापरिशुद्धो तिष्ठति ॥ अथ खलु उच्छादितस्नापितविशदगात्रो बोधिसत्वो मातुः कुक्षिस्मिं तिष्ठति ॥ बोधिसत्वो खलु पुनर् महामौद्गल्यायन मातुः कुक्षिगतो मातरं पश्यति ॥ बोधिसत्वमातापि कुक्षिगतं बोधिसत्वं पश्यति विग्रहम् इव जातरूपस्य दृष्ट्वा च भवति आत्तमना [कुक्षिं ओभासेन्तं विग्रहम् इव जातरूपस्य] ॥ यथा वेरुलियस्य मणि स्फाटिकसमुद्गस्मिं निहितो अस्या एवम् एव बोधिसत्वं पश्यति माता कुक्षिम् ओभासेन्तं विग्रहम् इव जातरूपस्य ॥

[_म्वु_1.214_] बोधिसत्वे खलु पुनर् महामौद्गल्यायन मातुः कुक्षिगते देवसंघाः सुखरात्रिं सुखदिवसं पृच्छका आगच्छन्ति । तां च बोधिसत्वो अभिनन्दति दक्षिणकरम् उत्क्षिप्य मातरम् अबाधमानो ॥ बोधिसत्वं खलु पुनर् महामौद्गल्यायन मातुः कुक्षिगतं देवा नागा यक्षा दानवा राक्षसा पिशाचा न जहन्ति दिवा वा रात्रिं वा न चात्र आसंगकथा कथीयति कामोपसंहिता वा अन्या वा असत्या कथा । नान्यत्र बोधिसत्ववर्णम् एव भाषन्ति रूपतः सत्त्वतस् तेजतः वर्णतः यशतः कुशलमूलतः ॥ बोधिसत्वस्य मातुः कुक्षिगतस्य पूजा नोपरमति ॥ दिव्यानि तूर्याणि वाद्यन्ति दिव्यानि अगुरुधूपनि धूपेन्ति दिव्यं पुष्पवर्षं वर्षति दिव्यं चूर्णं वर्षति ॥ अप्सरसहस्राणि च उपगायन्ति उपनृत्यन्ति पि ॥ बोधिसत्वे खलु पुनर् महामौद्गल्यायन मातुः कुक्षिगते बोधिसत्वमातां देवकन्यासहस्रेहि सार्धं अभ्याभवति हास्यं च कथा च ॥ प्रसुप्तां च पुनर् बोधिसत्वमातरं देवकन्या मान्दारवदामेन परिवीजेन्ति बोधिसत्वस्य तेजेन ॥ अयं च पुनर् महामौद्गल्यायन त्रिसाहस्रमहासहस्रायां लोकधातूयम् अनुत्तरा गर्भावक्रान्तिपारमिता ॥
अन्यं च दानि पश्यथ आश्चर्यं तस्या देवपर्षाये ।
ताव विपुलाये या कथा अभू परमहर्षसंजननी ॥
न च कामकथान्या वा नाप्य् अप्सरसां कथा न गीतकथा ।
न च वाद्यकथा तेषां न पि भुक्तकथा न पानकथा ॥
नाभरणकथा तेषां न पि वस्त्रकथा प्रवर्तति कदाचित्* ।
[_म्वु_1.215_] यानोद्यानकथा वा मनसापि न जायते तेषां ॥ {या नोद्यानकथा?}
साधू पुण्यबलवतो द्युती अनुपमा सदेवकं लोकं ।
अभिभवति नायकस्य विकसति एषा कथा तत्र ॥
साधुं गर्भावक्रमणाम् अनोपमं रूपपारमिगतस्य ।
इति विकसति बहुविधा कथा परिषामध्ये एतस्मिं ॥
साधूहि निरामिषेहि संज्ञापदेहि क्षपेन्ति तं कालं ।
वरबुद्धिनो इयं अपि कथा विकसति परिषामध्ये ॥
एवं च बहुप्रकारां कथां कथेन्ता रमन्ति देवगणा ।
रूपं वर्णं तेजं बलं च विरजस्य कथयन्ता ॥
सर्वेषां बोधिसत्वानां मातरो परिपूर्णे दशमे मासे प्रसूयन्ति ॥ दशमे मासे पूर्णे सुदीपा नाम देवी राजानम् अर्चिमं आह ॥ देव अभिप्रायो मे पद्मवनं उद्यानं निर्गन्तुं ॥ राजा देवीये सुदीपाये श्रुत्वा अमात्यान् आह ॥ पद्मवनम् उद्यानं सान्तःपुरो निष्क्रमिष्यामि क्रीडार्थम् इति ॥

पद्मिनिवनं सुचपलं अपगततृणखण्डपत्रसंस्कारं ।
वरसुरभिकुसुमनिकरं करोथ गन्धोदकसुगन्धं ॥
पद्मिनिवने च वाता तमालपत्रगन्धवासितशरीरा ।
सिञ्चन्तु अमृतगन्धां मदजनना च पलायन्तु ॥
अगरुवरधूपगर्भा समोनमन्तु नभतो जलधरा तं ।
पद्मिनिवनं छादेतुं वरचूर्णरसाकुलं क्षिप्रं ॥
[_म्वु_1.216_] एकैकं च द्रुमवरं दुकूलपट्टोर्णकोशिकारेहि ।
कल्पयथ कल्पवृक्षान्* यथ दिवि देवप्रधानस्य ॥
देवा च देवकन्या च गन्धमाल्या गृह्य पद्मिनिवन-उद्यानम् अर्चिमतो आगच्छन्ति ॥
स्फटिकमणिकुण्डलधरा विगलितवसना प्रलम्बमणिहारा ।
आदाय गन्धमाल्यं गगनपथगता ओलीयन्ति ॥
मान्दारवाण भरिता काचित् संगेरियो भरित्वान ।
हरिचन्दनस्य काचित् काचि पुनः कल्पदुष्याणां ॥
स्थलजजलजं च माल्यं गृहीत्वा अप्सरा मुदितचित्ता ।
रतना आभरणानि च जम्बुद्वीपं अभिमुखीयो ॥
चतुराशीतिम् अनूनं छत्रसहस्राणि देवकन्यायो ।
कनकरतनामयानि आदाय नभे प्रलीयन्ति ॥
कूटागारशतेहि स्फटिकमणिचित्रेहि लेपनलेपितैः ।
भरितम् अपि अन्तरीक्षं दुष्यशतसमुच्छ्रितपताकं ॥
गजश्वसनसन्निकाशा शारदमेघा चाभिविरोचन्ति ।
वरसुरभिकुसुमगन्धा कमलोत्पलचम्पकविमिश्रा ॥
भुजगपतिनो पि मुदिता मेघेहि सुगन्धतोयभरितेहि ।
अभ्योकिरन्ति गगणं अन्यानि च अद्भुतशतानि ॥
अथ महामौद्गल्यायन राजा अर्चिमो महाता राजानुभावेन महता राज-ऋद्धिये महतीये विभूषाये सान्तःपुरो पद्मिनीवनम् उद्यानं निर्यासि ॥
[_म्वु_1.217_] अवगाह्य तं वनवरं देवी सखिपरिवृता जिनजनेत्री ।
विचरति चित्ररथे देवी अमरवधु यथा रतिविधिज्ञा ॥
अथ महामौद्गल्यायन सुदीपा देवी सखीहि संपरिवृता पद्मिनीये पुरिमपश्चिमवेदिहि विततवितानेहि विचित्रदुष्यपरिक्षिप्तेहि ओसक्तपट्टदामकलापेहि लेपनलेपितेहि धूपनधूपितेहि मुक्तपुष्पावकीर्णेहि वेदिकाजालसंप्रतिक्षिप्तेहि उच्छ्रितच्छत्रध्वजपताकेहि नावायानेहि प्रक्रीडिता ॥ अथ सुदीपाये देवीये नावायानेन कड्ढीयन्तिये किल चित्तं उत्पन्नं । नावातो ओतरिष्यामीति ॥ बोधिसत्वानुभावेन च मध्ये तडागस्य द्वीपो प्रादुर्भूतो समो अविषमो सुवर्णवालिकासंस्तृतो तृणानि च जातानि मृदूनि नीलानि तूलसंस्पर्शोपमानि मयूरग्रीवासन्निकाशानि चतुरङ्गुलं पृथिवीतो निक्षिप्ते पदे ओनमन्ति वृक्षाणि चात्र प्रादूर्भूतानि फलोपेतानि सुमनोज्ञानि ॥ देवी तम्हि द्वीपे प्रतिष्ठिता ॥ न खलु पुनर् महामौद्गल्यायन बोधिसत्वमाता शयाना निषण्णिका वा बोधिसत्वं जनेति । न खलु महामौद्गल्यायन बोधिसत्वमाता बोधिसत्वं पित्तेन वा श्लेष्मेण वा रुधिरेण वा अन्यतरान्यतरेण वा अशुचिनापरिशुद्धं जनेति अथ खलु उच्छादितस्नापितविशदगात्रं येव बोधिसत्वं जनेति ॥
सा परिकिलन्तकाया द्रुमस्य शाखां भुजाय अवलम्ब्य ।
प्रविजृम्भिता सलीला तस्य यशवतो जननकाले ॥
अथ विंशतिं सहस्रा मरुकन्या आशु-र्-एव सन्निपतिता ।
[_म्वु_1.218_] देवीं कृतांजलिपुटाः इदम् अवच प्रसन्नसंकल्पाः ॥
अद्य जराव्याधिमथनं जनयिष्यसि अमरगर्भसुकुमारं ।
देवी दिवि भुवि महितं हितं हितकरं नरमरूणां ॥
मा खु जनयी विषादं परिकर्म वयं तवं करिष्यामः ।
यं कर्तव्यम् उदीरय दृश्यतु कृतम् एव तत् सर्वं ॥
अथ चतुरि लोकपाला सपरिवारा आशु-र्-एव सन्निपतिता ।
दिव्यप्रवेणिहस्ता देविम् उपगता प्रदक्षिणतो ॥
सर्वे पि देवसंघा देवीं परिवारयित्व आकाशे ।
स्थिता माल्यगन्धहस्ता स्वपरिवारेणोपशोभन्ति ॥
बोधिसत्वो स्मृतो संप्रजानो मातरम् अबाधमानो दक्षिणेन पार्श्वेन प्रादुर्भवति ॥

दक्षिणेन हि पार्श्वेन जायन्ते पुरुषोत्तमाः ।
सर्वे पुरुषशार्दूला भवन्त्य् अत्रविहारिणः ॥
किन् तं न भिद्यते पार्श्वं तस्या जिनजनेत्रिये ।
जनेन्तिये नरश्रेष्ठं वेदना च न जायति ॥
मनोमयेन रूपेण प्रादुर्भोन्ति तथागता ।
एवं न भिद्यते पार्श्वं वेदना च न जायते ॥
गर्भावासपरिश्रान्तो सप्तधा विक्रमते भुवि ।
दिशां च प्रविलोकेति महाहासं च ऊहति ॥
अत्र किं कारणम् उक्तं यं सप्त क्रमते क्रमान्* ।
न च अष्ट न च षष्टि अत्र आगमनं शृणु ॥
[_म्वु_1.219_] गर्भावासपरिश्रान्तो सर्वलोकहितो मुनिः ।
पश्चिमो गर्भावासो यं अथ वेगेन प्रक्रमि ॥
भूमौ सप्तक्रमे न्यस्ते देवसंघा निलीयथ ।
सहसा लोकपालानाम् अंकेहि धरितो मुनिः ॥
अथ वर्षं समुत्पद्यि दिव्यकुसुमशीकरः ।
मन्दारवरजाकीर्णं दिव्यचन्दनसंकुलं ॥
दीर्घकालं उदग्राश् च सुरमुख्याग्रधूपनं ।
प्रमुंचिषु विभूषार्थं तस्य उत्तमबुद्धिनः ॥
यद् अर्थञ् च विलोकेति दिशां अप्रतिपुद्गलः ।
तत्राहम् आगमं वक्ष्ये उपदेशं मनोरमं ॥
न सो विद्यति सत्वानां देवेषु मनुजेषु च ।
यस्यैवं संभवो भवेत्* गर्भोक्रमणम् एव च ॥
खद्योतकनकनिर्भासं पार्श्वं जिनजनेत्रिये ।
जायते यदा सर्वज्ञः जायन्तो चरमे भवे ॥
जातमात्रस्य तच् चित्तं अभूत् प्रवरवादिनो ।
अस्ति कश्चित् समबुद्धि मे च्च्ऽ; एतं तर्कं निवर्तितुं ॥
केचित् संसारपाशेन अर्त्तियन्ते यथा अहं ।
इत्यर्थं पुरुषादित्यो दिशां सर्वां निरीक्षति ॥
अथ दिशा विलोकेन्तो पश्यति वदतां वरो ।
देवकोटिसहस्राणि तस्मात्* हासं प्रमुंचति ॥
[_म्वु_1.220_] तं जातमात्रम् इत्य् आहु देवता मारकायिका ।
चातुर्द्वीपो महाकोशो चक्रवर्ती भविष्यसि ॥
अथास्य हासो संभवति न मम सत्वाभिजानथ ।
सर्वज्ञो सर्वदर्शी च भविष्यं पुरुषोत्तमः ॥
एवम् एतं प्रशंसन्ति विशेषा उपदेशकाः ।
तथा हि नरसिंहानां शासनं संप्रकाशितं ॥
यं तिष्ठन्ती जनये वीरं संकुसुमितेषु शालेषु ।
शरीरम् अवलम्ब्यमाना तं अनतिवरं जिनं वन्दे ॥
संप्रतिजातो सुगतो समेहि पदेहि धरणिं अवतिष्ठेत्* ।
सप्त च पदानि अगमा सर्वां च दिशां विलोकेसि ॥

तं सामं चंक्रमन्तम् अन्वागमि वीजनं च च्छत्रं च ।
मा वरविदुनो काये दंशा मशका च निपतेन्सुः ॥
संप्रतिजातं सुगतं देवा प्रथमं जिनं प्रतिगृह्णे ।
पश्चाच् च तं मनुष्याः अनतिवरं अङ्के धारेन्सुः ॥
प्रत्यग्रहेन्सु देवाः सुगतं द्वात्रिंशलक्षणप्रदर्शिं ।
पश्चाच् च तं मनुष्या अनतिवरं अंके धारेन्सुः ॥
निर्वायेन्सु प्रदीपा मानुषका ओभासित ऽभूल् लोकं ।
संप्रतिजाते सुगते उल्काधारे नरमरूणां ॥
संप्रतिजाते सुगते उदकार्थिका प्रधाविन्सुः ।
अथ पुरतो उदुपाना पूरा मुखतो विष्यन्देन्सु ॥
[_म्वु_1.221_] द्वि वारिधारा उद्गमि एका शीतस्य एका उष्णस्य ।
यत्र स्नपयेन्सु सुगतं विग्रहं इव जातरूपस्य ॥
संप्रतिजाते सुगते बोधिसत्वमाता अक्षता चैव अभूषि अव्रणा बोधिसत्वस्यैव तेजेन ॥ सम्प्रतिजाते खलु पुनर् महामौद्गल्यायन बोधिसत्वे बोधिसत्वमातुः कुक्षि प्रतिपूर्णा येव अभूषि अनारब्धा च बोधिसत्वस्यैव तेजेन ॥ संप्रतिजाते खलु पुनर् महामौद्गल्यायन बोधिसत्वे अन्तरद्वीपे चन्दनवनं प्रादुर्भवे बोधिसत्वस्य उपभोगपरिभोगम् आगच्छे बोधिसत्वस्यैव तेजेन ॥ तत्र देवपुत्रशतसहस्राणि सह गच्छन्ति गन्धमाल्यहस्ता बोधिसत्वस्य पूजार्थं ॥ देवपुत्रो देवपुत्रं पृच्छति कहिं गमिष्यसीति ॥ सो तान् आह ॥
एषा प्रसूष्यति नरेन्द्रवधूत्तमं तं
वत्सं विबुद्धवरपुष्करगर्भगौरं ।
यो प्राप्स्यते धरणिमण्डगतोत्तमार्थं
मारं निहत्य सबलं तम् उपेमि वीरं ॥
अम्रक्षिता गर्भमलेन गात्रा
जातं जले पंकजम् उत्तमं वा ।
वपुष्मतो बालरविप्रकाशो
सब्रह्मकान् अमरान् अभिभोति ॥
ततो जातमात्रो कुले अर्चिमस्य
अतिक्रम्य धीरो पदानि इह सप्त ।
समोलोकयित्वा दिशां ऊहसासि
अयं दानिम् एको भवो पश्चिमो ति ॥
[_म्वु_1.222_] ततश् च च्छत्रं एकं विभ्राजमानं
मणीमुक्तश्रेष्ठं पराभाविभ्राजं ।
विधूतेन दामेन मन्दारवाणां
बहू देवपुत्रा नभे धारयेन्सुः ॥
सबालार्कशंखप्रतीकाशवर्णं
वरं हेमच्छत्रं नभे धारयेन्सुः ।
ततो वीजनीयो विसृष्टा भ्रमेन्सुः
करेण गृहीत्वा जिनं वीजयेन्सुः ॥
ततो पुण्यगन्धा सुखोष्णा प्रभूता
लहुं प्रेमणीया हिता मानुषाणां ।
शिवा नन्दनीया तुषारानुबद्धा
दुवे वारिधारा नभे उद्गतासुः ॥
ततो मेरुशृंगाद् अनेकप्रकारा
प्रमुक्तोत्तरीया समन्तोर्मिजाता ।
भृशं विश्वगन्धाधिवासानुवाता

दृढं षड्विकारं महीं कम्पयेन्सुः ॥
सुवर्णस्य रूप्यमणीनां शुभाना
विमानेषु देवा सतूर्याविघुष्टा ।
सुजातानुजातं जिनं प्रेक्षमाणा
सचन्द्रार्कतारं नभं शोभयेन्सुः ॥
अयं सो सदेवं सनागं सयक्षं
[_म्वु_1.223_] महोघं महर्षी जगं उत्तरित्वा ।
ततः क्षेमम् एकां दिशं प्राप्स्यतीति
प्रहृष्टा ऽस्य देवा नभे व्याहरेन्सुः ॥
राजा अर्चिमो आणापेसि ॥ कुमारं इमाये व देवीये पादवन्दनं नेथ ॥ कीदृशेन यानेन कुमारो अभिनिषीदतीति ॥ देवेहि रतनामयी शिविका निर्मिता ॥ को इमां शिविकां वहिष्यतीति ॥ चत्वारो महाराजा उपस्थिता ॥ वयं सत्वसारं वहिष्याम बोधिसत्वं सुदीपां च देवीं धात्रीं च बोधिसत्वस्य ॥ शिविकाम् आरूढा शक्रो च देवानाम् इन्द्रो महाब्रह्मा च उत्सारणं करोन्ति ॥ एवं बोधिसत्वो महतीये विभूषाये महतीये समृद्धीये महतीये देव-ऋद्धीये महतीये राज-ऋद्धीये पद्मिनीवनातो उद्यानातो दीपवतीं राजधानीं प्रवेशीयति देवीये कलम् उपनीतः ॥
नरो चेतियेषु प्रविष्टो अकामो
महालोकनाथो नरेन्द्राण शास्ता ।
यदा उत्तमांगेन वन्दापयेन्सुः
ततो अस्य पादानि प्रादुर्भवेन्सु ॥
ततो देवता देवतां इत्य् अवोचत्~
न एषो ऽनुरूपो ममं वन्दमानो ।
प्रणामं च एषो यद्य् अन्यस्य कुर्यात्*
दृढं सप्तधा अस्य मूर्ध्नं फलेया इति ॥
जातमात्रे कुमारे ऽर्थसिद्धी सुखी सर्वे सत्वा अभूद् यावद् अवीचिं । प्रणामं च कुर्वी देवाः । तस्य सर्वे प्रहृष्टाः ॥
[_म्वु_1.224_] राजकुलं च कुमारे प्रविष्टे उवाच पुरोहितं नृपतिः ।
लक्षणविधिगुणकुशलां विप्रान् पर्येषथ शीघ्रं ॥
तं विज्ञाय च देवा महेश्वरा नाम चित्तवशवर्ती ।
मा लक्षणा अकुशला विकल्पयिष्यन्ति द्विजसंघा ॥
विगतमदमानदर्पाः अष्ट सहस्रा महेश्वरवराणां ।
देवगणेहि गुरुकृतं संप्रतिजातं उपगमेन्सुः ॥
ते राजकुलद्वारे शुचिवसनवरस्थिता स्तिमितशब्दा ।
प्रतिहाररक्षम् अब्रवीत् सुमधुरकरविंकरुतघोषाः ॥
राजवरं उपगम्य ब्रूवीहि इमे लक्षणगुणविधिज्ञाः ।
तिष्ठन्ति अष्टसहस्रं प्रविशेन्सुः यदि अनुमतन् ते ॥
साधू ति प्रतिश्रुत्वा प्रतिहाररक्षो प्रविश्य राजकुलं ।
अब्रवीत् कृतांजलिपुटो प्रीतिमनसो पृथिवीपालं ॥
अतुलबल दीप्तयशसा कारय राज्यं चिरं निहतशत्रुः ।
द्वारे ते अमरसदृशास् तिष्ठन्ति प्रवेष्टुम् इच्छन्ति ॥
प्रतिपूर्णविमलनयना मधुरस्वरमत्तवारणविचारी ।
भवति मम तेषु संका न ते मनुजा देवपुत्रा ते ॥
परिचंक्रमतां तेषां धरणिरजो क्रमवरा न संकिरति ।
न च सान पश्यामि पदं पृथिव्याम् इदं अपि आश्चर्यं ॥
गम्भीरस्तिमितचेष्टा आर्याकारा प्रशान्तदृष्टिपथा ।
विपुलां जनेन्ति प्रीतिं जनस्य समुदीक्षमानस्य ॥
अन्यं च दानि अद्भुतं शरीरच्छाया न दृश्यते तेषां ।

[_म्वु_1.225_] न च तेषु सन्धिशब्दो चंक्रमतां श्रूयते कश्चित्* ॥
निःसंशयं उपगता पुत्रवरं तव नरवराधिप द्रष्टुं ।
अभिनन्द्य च अभिवन्द्य च पश्यासि अयोनिजां देवां ॥
वरमाल्यगन्धहस्ता लीलाचेष्टा मनोरमशारीरा ।
दीप्यन्ता इव शिरिये असंशयं प्रवरमरुतस् ते ॥
तं अर्चिमो निशाम्य वचनम् इदं हर्षकम्पितशरीरो ।
अब्रवीद् भणे सुचपलं प्रविशन्तु निवेशनम् उदारं ॥
किं कारणं न एदृशाः प्राकृतपुरुषाण भोन्ति आकाराः ।
न पि मानुषाण एदृशी ऋद्धि भवति यादृशीं भणसि ॥
अथ सो प्रतिहाररक्षो उपगम्य महेश्वरान् इदम् अवोचत्* ।
प्रह्वो कृतांजलिपुटो प्रणम्य हृष्टो मुदितचित्तो ॥
अभिनन्दते नरपतिः प्रविशन्तु भवन्तो देवपुरकल्पं ।
राजवृषभस्य वेश्मं नराधिपतिना अनुज्ञाताः ॥
एतं श्रुत्वा वचनं अष्टसहस्रं महेश्वरवराणां ।
प्रविशन्ति पार्थिवकुलं अनिहतकुलवंशमुख्यस्य ॥
अथ अर्चिमो पि राजा महेश्वरां दूरतो निशामेत्वा ।
प्रत्युत्थितो सपरिवारो गौरवबलभावितशरीरो ॥
तान् अवच राजवृषभो स्वागतम् अनुरागतं वः सर्वेषां ।
प्रीतो ऽस्मि दर्शनेन प्रशमदमबलेन च भवतां ॥
संविद्यन्ते इमानि अस्माकं आसनप्रधानानि ।
आस्तां ताव भवन्तो अस्माकम् अनुग्रहार्थाय ॥
अथ ते तेष्व् आसनेषु बहुरतनविशुद्धचित्रपादेषु ।
[_म्वु_1.226_] विगतमदमानदर्पा निषीदि अनवद्यकर्मान्ताः ॥
ते कंचिद् एव कालं आगमयित्वा नराधिपम् अवोचत्* ।
शृण्वतु भवां प्रयोजनं यं अस्माकम् इह गमनाये ॥
सर्वानवद्यगात्रः उत्पन्नो लोकसुन्दरो तुह्यं ।
पुत्रो किल मनुजपते लक्षणगुणपारमीप्राप्तो ॥
वयम् अपि लक्षणकुशलाः समर्था गुणदोषलक्षणं ज्ञातुं ।
यदि न गुरुत्वं भवतो पश्येम महापुरुषरूपं ॥
सो अवच हंत पश्यथ सुव्यपदेशक्षेमं मम पुत्रं ।
मरुमनुजहर्षजननं लक्षणगुणपारमिप्राप्तं ॥
अथ स मृदुकाचिलिन्दिकप्रवेणियं गुणधरं ग्रहेत्वान ।
अंकेन वादिचन्द्रं उपनामयति सुरवराणां ॥
आलोकयित्व दूरात्* महेश्वराः वरक्रमान् दशबलस्य ।
मूर्धनि विगलितमुकुटा निपतेन्सु महीतले हृष्टा ॥
ते दानि राजानम् आरोचेन्ति ॥ लाभा ते महाराज सुलब्धा यस्य ते यं महापुरुषो कुले उत्पन्नो द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागतो ॥ तद्यथा ॥
समा हेष्टा च दीर्घा च आयता च उच्छंग पंचमा ।
एणि वृहच् च तिष्ठन्तो कोश न्यग्रोध ते दशा ॥
मृदु जाला च प्रतिपूर्णा एका ऊर्ध्वाग्र पंचमा ।
श्लक्ष्णच्छवि हंसान्तरा च उत्सदा च ते दश ॥

[_म्वु_1.227_] रसं सुवर्ण सीहो च समा शुक्ला च पंचमा ।
समा प्रभूता ब्रह्मा च नीला गोपक्ष्म ते दश ॥
ऊर्णा उष्णीष शीर्षं च नाथो द्वात्रिंशलक्षणो ।
ते दानि ब्राह्मणा राज्ञा अर्चिमेन उच्यन्ति ॥ यं कुमारस्य नामं अनुरूपं तं करोथ ॥ ते ब्राह्मणा आहन्सु ॥ महाराज कुमारे जायमाने दीपो प्रादुर्भूतो महां ओभासो तस्मात् कुमारो दीपंकरो नाम भवतु ॥ एवं कुमारस्य शुद्धावासेहि देवेहि ब्राह्मणवेशं निर्मिणित्वा दीपंकरो ति नाम कृतं ॥
___तस्य सदृशीयो धात्रीयो कुमारं उपस्थिहन्ति संवर्धयन्ति ॥ यदा च बोधिसत्वो यौवनप्राप्तो राज्ञा त्रयो प्रासादा कारिता कुमारस्य क्रीडार्थं परिचारार्थं विस्तीर्णं च अन्तःपुरं उपस्थापितं ॥ बोधिसत्वो महता राजानुभावेन महता राज-ऋद्धीये महता राजविभूषाये सान्तःपुरो पद्मिनीवनम् उद्यानभूमिं निर्गतो क्रीडार्थं ॥ राज्ञा अर्चिमेनान्तःपुरम् आणत्तं ॥ सुष्ठु कुमारं क्रीडापेथ ॥ बोधिसत्वो नावायानेहि पुरिमपश्चिमवेदिहि वेदिकाजालेहि वेदिकाजालपरिक्षिप्तेहि विततवितानेहि चित्रदुष्यपरिक्षिप्तेहि ओसक्तपट्टदामकलापेहि धूपनधूपितेहि मुक्तपुष्पावकीर्णेहि हारार्धहारचन्द्रसुचित्रेहि उच्छ्रितच्छत्रध्वजपताकेहि नावायानेहि निष्पुरुषे तटे ओतरति ॥ किलान्तं अन्तःपुरम् आसुप्तं काचि हनुकाम् उप्रग्रहियाण काचित् पणवम् उपगुह्य काचिद् वेणुं काचिद् वीणां काचिद् वल्लकीं काचित् सुघोषकीं काचिन् नूपुरं काचित्* मृदंगं काचिल् लालाघरन् ति ॥ बोधिसत्वस्य तां दृष्ट्वा श्मशानसंज्ञा प्रादुर्भूता ॥ मध्ये पुष्करणीये पद्मं प्रादुर्भूतं रथचक्रमात्राहि कर्णिकाहि अपरेहि पद्मसहस्रेहि अनुपरिवारितं ॥
[_म्वु_1.228_] बोधिसत्वो तत् पदुमे पर्यङ्केन निषण्णो तं च पदुमं संकुचितं कूटागारे संस्थितं ॥ बोधिसत्वस्य सर्वं गृहिलिंगम् अन्तर्हितं काषायाणि प्रादुर्भूतानि ॥ अथ खलु महामौद्गल्यायन दीपंकरो बोधिसत्वो विविक्तं कामेहि विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरेसि ॥ सवितर्कविचाराणां व्युपसमाद् अध्यात्मसंप्रसादाच् चेतसः एकोतीभावाद् अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरेसि ॥ स प्रीतेर् विरागाद् उपेक्षकश् च विहरति स्मृतः संप्रजानं सुखं च कायेन प्रतिसंवेदयति । यत् तं आर्या आचक्षते उपेक्षकः स्मृतिमां सुखविहारी निष्प्रीतिकं तृतीयं ध्यानम् उपसंपद्य विहरति ॥ सुखस्य च प्रहाणा दुःखस्य च प्रहाणात् पूर्वं च सौमनस्यदौर्मनस्ययोर् अस्तंगमात्* अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य विहरेसि ॥ सो तथा समाहितेन चित्तेन परिशुद्धेन पर्यवदातेन अनंगणेन विगतोपकिलेशेन मृदुना कर्मण्येन स्थितेनानिंज्यप्राप्तेन रात्रीये पुरिमे यामे दिव्यचक्षुदर्शानप्रतिलाभाय चित्तम् अभिनिर्हरेसि निर्णामेसि ॥
___सो दिव्येन चक्षुषा सत्वान् पश्यति च्यवन्तां उपपद्यन्तां सुवर्णां दुर्वर्णां सुगतां दुर्गतान् यथाकर्मोपगान् सत्वान् प्रजानाति ॥ सो तथा समाहितेन चित्तेन परिशुद्धेन पर्यवदातेन अनंगणेन विगतोपक्लेशेन मृदुना कर्मण्येन स्थितेनानिंज्यप्राप्तेन रात्रीये मध्यमे यामे अनेकविधं पूर्वनिवासं समनुस्मरेत्* । सय्यथीदं एकां वा जातिं द्वौ वा जातिं त्रयो वा जातिं चत्वारि वा जातिं पंच वा जातिं दश वा विंशद् वा त्रिंशच् चत्वारिंशं वा पंचाशं वा जातीशतं वा जातीसहस्रं वा अनेकानि च जातीशतानि
[_म्वु_1.229_] अनेकानि जातीसहस्राणि अनेकान्य् अपि जातीशतसहस्राणि संवर्तकल्पां वा विवर्तकल्पां वा संवर्तविवर्तकल्पां वा अनेकां पि संवर्तां अनेकां पि विवर्तां अनेका पि संवर्तविवर्तानि कल्पानि ॥ अमुत्राहं आसिं एवंनामो एवंगोत्रो एवंजात्यो एवमाहारो एवमायुःपर्यन्तो एवंसुखदुःखप्रतिसंवेदी इति साकारं सोद्देशं अनेकविधं पूर्वनिवासं समनुस्मरति ॥ सो तथा समाहितेन चित्तेन परिशुद्धेन पर्यवदातेन अनंगणेन विगतोपकिलेशेन स्थितेन अनिंज्यप्राप्तेन रात्रीये पश्चिमे यामे नन्दीमुखायां रजन्यां अरुणोपघाटकालसमये यत् किंचित् पुरुषनागेन पुरुषसिंहेन पुरुषर्षभेण पुरुषपदुमेन पुरुषपुण्डरीकेण पुरुषधौरेयेण पुरुषेण सत्पुरुषेण पुरुषाजानेयेन अनुत्तरेण पुरुषदम्यसारथिना गतिमेन स्मृतिमेन धृतिमेन मतिमेन सर्वशो सर्वत्रताये ज्ञातव्यं प्राप्तव्यं बोद्धव्यं अभिसंबोद्धव्यं सर्वन्तम् एकचित्तक्षणसमायुक्तया प्रज्ञया अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो ॥ इयं च महापृथिवी षड्विकारं कम्पे संप्रकम्पे भूम्या च देवा घोषम् उदीरयेन्सुः शब्दं नभे श्रावयेन्सु ॥ एष मारिष भगवां दीपंकरो अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥ भूम्यानां देवानां घोषं श्रुत्वा अन्तरीक्षेचरा देवा त्रायस्त्रिंशा यामा तुषिता निर्माणरतयः परनिर्मितवशवर्तिन इति तत् क्षणं तन् मुहूर्तं यावद् ब्रह्मकायं घोषम् अभ्युद्गच्छेत्* ॥ एष मारिष भगवां दीपंकरो सम्यक्संबुद्धो भविष्यति तं भविष्यति बहुजन्हिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥ अप्रमेयस्य उदारस्य महतो ऽवभासस्य लोके प्रादुर्भावो अभूषि ॥ यावता लोके लोकान्तरिका अन्धकारा अन्धकारार्पिता तमिस्रा तमसार्पिता अघा
[_म्वु_1.230_] अघसंभूतपूर्वा यत्र इमे पि चन्द्रमसूर्या एवं महर्द्धिका एवं महानुभावा आभया आभां नाभिसंभुणन्ति आलोकेन वा आलोकं न स्फरन्ति ते पि तेन ओभासेन स्फुटा अभून्सुः ॥ ये पि तत्र सत्वा उपपन्ना ते पि अन्यमन्यं संजानेन्सुः अन्ये पि किल इह भो सत्वा उपपन्ना अन्ये पि किल भो सत्वा उपपन्ना अन्ये पि किल भो सत्वा उपपन्नाः ॥ एकान्तसुखसमर्पिता च पुनस् तत् क्षणं तं मुहूर्तं सर्वे सत्वा अभून्सु ॥ ये पि अवीचे महानरके उपपन्ना अतिक्रमे व देवानां देवानुभावं नागानां नागानुभावं यक्षाणां यक्षानुभावं ॥ ध्यामानि च अभून्सुः मारभवनानि निष्प्रभाणि निस्तेजानि निरभिरम्याणि ॥ क्रोशिकान्य् अपि तत्र खण्डानि प्रपतेन्सु द्विकोशिकान्य् अपि तत्र खण्डानि प्रपतेन्सु त्रिक्रोशिकान्य् अपि तत्र खण्डानि प्रपतेन्सु योजनिकान्य् अपि तत्र खण्डानि प्रपतेन्सु ध्वजाग्राण्य् अपि प्रपतेन्सु ॥ मारो च पापींआं दुःखी दुर्मनो विप्रतिसारी अन्तोशल्यपरिदाघजातो अभूषि ॥

___तत्रैव च मौद्गल्यायन पद्मकूटागारे भगवां दीपंकरो चतुर्हि महाराजेहि शक्रेण च देवानाम् इन्द्रेण सुयामेन च देवपुत्रेण संतुषितेन च देवपुत्रेण वशवर्तिना च देवपुत्रेण महाब्रह्मणा च अनेकदेवसंघपरिवारेहि संवृतो ॥ भगवतो दीपंकरस्य उदारा पूजा कृता ॥ दिव्येहि मन्दारवेहि कुसुमेहि महामन्दारवेहि कर्णिकारेहि रोचमानेहि भीष्मेहि महाभीष्मेहि समन्तगन्धेहि महासमन्तगन्धेहि चन्दनचूर्णेहि अगुरुचूर्णेहि केशरचूर्णेहि तमालपत्रचूर्णेहि भगवन्तं दीपंकरं ओकिरित्वा प्रकिरित्वा अभिप्रकिरित्वा दिव्येहि तूर्यसहस्रेहि संपूजयित्वा तत्रैव महाब्रह्मणा याचितो अनुत्तरं धर्मचक्रं प्रवर्तनाय ॥ अधिवासयति महामौद्गल्यायन भगवां दीपंकरो महाब्रह्मणो तुष्णीभवेन ॥ देवा अधिवासनां विदित्वा हृष्टा तुष्टा आत्तमना प्रमुदितप्रीतिसौमनस्यजाता
[_म्वु_1.231_] भगवतो दीपंकरस्य पादां शिरसा वन्दित्वा त्रिष्कृत्यो प्रदक्षिणीकृत्वा तत्रैवान्तर्हायेन्सु ॥
___भगवान् तस्यैव रात्र्या अत्ययेन प्रतिसंलयनाद् व्युत्थाय जनपदेषु चारिकां प्रक्रमेत्* ॥
आदित्यो वरवर्णो बालो अभ्युद्गतो यथाकाशे ।
योजनशतं प्रभाये दीपंकरो भरित्व अस्थासि ॥
भगवां दीपंकरो चारिकां चरमाणो महतो जनकायस्य देवानां मनुष्याणां च अर्थचर्यां चरमाणो अशीतिहि भिक्षुसहस्रेहि सार्धं दीपवतीं राजधानीं आगच्छति पितुः अर्चिमतो ज्ञातीनां च अनुकम्पार्थं ॥ राज्ञा अर्चिमेन श्रुतं ॥ भगवां दीपंकरो अशीतिहि भिक्षुसहस्रेहि सार्धं दीपवतीं राजधानीं आगच्छति ज्ञातीनाम् अनुकम्पाय्ःति ॥ ते च यावद् दीपवती याव च पद्मिनीवनम् उद्यानं दशक्रोशमार्गं प्रतिजागृहन्सुः अष्टापदसमं अविषमं पाणितलसमं सिक्तं संमृष्टं विततवितानं विचित्रदुष्यपरिक्षिप्तं ओसक्तपट्टदामकलापं धूपनधूपितं दशदिशेहि च नटनर्तक-ऋल्लमल्लपाणिस्वर्यालंकृतं चक्रवर्तिपुरं भूयस्य च शतपत्रालंकृतं ॥ राज्ञा अर्चिमेन प्रभूतं गन्धमाल्यं गृहीतं तथा गृहीतं महाजनकायेन समन्ताद् द्वादशयोजनातो गन्धमाल्यं समुदानीतं ॥ राजा अशीतिहि कोट्टराजसहस्रेहि सार्धं अन्याये च जनताये भगवन्तं दीपंकरं प्रत्युद्गतो ॥
___अपरो श्रोत्रियो षडङ्गवित् त्रयाणां वेदानां पारगो साक्षरप्रभेदानाम् इतिहासपंचमानां सनिघण्टकैटभानां माणवकानां आचार्यो कुशलो ब्राह्मणकेषु देवेषु पंच माणवकशतानि वेदमन्त्रा वाचयति ॥ तहिं द्वे माणवका संमोदिका प्रियमाणा
[_म्वु_1.232_] मेघो च नाम माणवको मेघदत्तो च ॥ मेघमाणवको पण्डितो धीरो मेधावी तीक्ष्णबुद्धिको ॥ तेन नचिरस्यैव सर्वे मन्त्रा अधीता ॥ सो दानि अधीतवेदाध्ययनो अनुहिमवन्ता जनपदं ओकस्तो आचार्यस्य आचार्यधनं पर्येषयिष्यामि इति ॥ यष्टिकमण्डलुच्छत्रं उपानहांश् च स्नानशाटिं आदाय यस्य ग्रामस्य वा नगरस्य वा निगमस्य वा सीमाम् आक्रामति तं निरीतिकं निरुपद्रवं च भवति मेघस्य माणवकस्य तेजोधातुभावेन ॥ तेन यायिना पुरुषो विज्ञप्तो ॥ तेनैवं पंच पुराणशतानि दिन्नानि ॥ तस्य दानि एतत् अभूषि ॥ यं नूनाहं आगतको येन दीपवती राजधानी चक्रवर्तिपुरं सप्तरतनामयं अभिरमणीयं पश्येयन् ति ॥ सो दानि दीपवतीं राजधनीं प्रविष्टो पश्यति च दीपवतीं राजधानीं अलंकृतां ॥ तस्यैतद् अभूषि ॥ किम् इदं अद्य दीपवतीये राजधानीये पर्वं वा प्रयोगं वा उत्सवं वा ॥ अथ राज्ञो अर्चिमस्य श्रुतं मेघो माणवको अधीतवेदाध्ययनो अनुहिमवन्तातो जनपदम् ओकस्तो सो दीपवतीं राजधानीं आगमिष्यति । ततो इमं नगरवरम् अलंकृतं ति ॥ सो पुरेगामी यो जनो प्रविशति सो तं कंचित् पृच्छति ॥ तहिं अपरा माणविका प्रासादिका दर्शनीय अचपला अनुद्धता अप्रगल्भा उदकघटम् आदाय सप्त च उत्पलानि गच्छति ॥ सा तेन पृच्छिता भवति ॥ अद्य नगरे उत्सवो ॥ अथ खलु प्रकृति माणविका मेघं माणवकं गाथाभिः अध्यभाषे ॥
अपि तु नासि माणवा इतो अन्यपुराद् असि त्वं इहागतो ।
यो लोकहितं प्रभंकरं दीपवतीं प्राप्तं न बुध्यसे ॥
[_म्वु_1.233_] दीपंकर लोकनायको अर्चिमतो तनयो महायशो ।
बुद्धो नगरं प्रवेक्ष्यति तस्य कृते नगरं अलंकृतं ॥
सा तेन पृच्छिता ॥ कथं भवति इमा उत्पलानि क्रीतानि ॥ सा तं आह ॥ पंचहि पुराणशतेहि पंच उत्पलानि क्रीतानि द्वे च मे मैत्राय लब्धानि ॥ मेघो माणवो आह ॥ अहन् ते पंच पुराणशतानि देमि देहि मे तानि पंच उत्पलानि । अहं एतेहि पंचहि उत्पलेहि भगवन्तं दीपंकरं पूजयिष्यामि । त्वं हि द्वीहि पि अर्चय ॥ सा आह ॥ समयतो ते पंच उत्पलानि ददेहं । यदि मम भार्याम् उपादियसि यत्र यत्र उपपद्यसि अहं च तव भार्या भवेयं त्वं च मम स्वामिको भवेसि ॥ मेघो माणवो आह ॥ अनुत्तराये सम्यक्सम्बोधये चित्तम् उत्पादयिष्यामि कथं संयोगे चित्तम् उत्पादयिष्यामि ॥ सा आह ॥ उत्पादेहि तुवं तव नान्तरायं करिष्यामि ॥ तेन मेघेन माणवकेनाभ्युपगता ॥ उपादियामि तव भार्या तेषाम् उत्पलानाम् अर्थाये ॥ भगवन्तं दीपंकरं पूजयिष्यामि अनुत्तराये च सम्यक्सम्बोधये चित्तम् उत्पादयिष्यामि ॥ तेन पंच पूराणशतानि दत्त्वा पंचोत्पलानि गृहीता उदारं च से प्रीतिप्रामोद्यं काये उत्पन्नं बुद्धशब्दं प्रकृतिये माणविकाये श्रुत्वा ॥
यद्ऽ; इच्छसि पूजितुं लोकनायकं
जलजेहि माल्येहि मनोरमेहि ।
उपादियाहि ममम् अद्य भार्यां
प्रेम्णानुरक्ता सततं ति भेष्यं ॥
उदुम्बरस्य यथ पुष्पं दुल्लभं
कदाचिद् उत्पद्यति लोके माणव ।
[_म्वु_1.234_] एम्ऽ; एव बुद्धान महायशान
कदाचिद् उत्पादं तथगतानां ॥
पूजेहि बुद्धं नरदम्यसारथिं
जलजेहि माल्येहि मनोरमेहि ।
बोधाय ते भेष्यति हेतुभूतं
भार्या च ते भेष्यि अहं तहिं तहिं ॥
मेघ आह ॥
उपादियामि तव अद्य भार्यां
जलजान अर्थाय मनोरमाणां ।
पूजेष्यि बुद्धं नरदम्यसारथिं
बोधाय मे भेष्यति हेतुभूतं ॥
सा हृष्टा संवृत्ता अदासि उत्पलां

स्नेहेन प्रेम्णानुगतं विदित्वा ।
गच्छन्तम् एनं अनुगच्छि चारिकां
शृंगाटके यत्र स्थितो हि माणवो ॥
भगवान् अशीतिहि भिक्षुसहस्रेहि परिवृतो राज्ञा च अर्चिमेन अशीतिहि च कोट्टराजान सहस्रेहि अनेकेहि च क्षत्रियमहाशालसहस्रेहि श्रमणब्राह्मणतीर्थकरेहि दीपवतीं राजधानीं संप्रस्थितो ॥
गमनसमये भगवतो देवसहस्राणि सन्निपतितानि ।
सप्तरतनामयानि च्छत्रसहस्राणि आदाय ॥
अथ सो महागुणधरो संप्रस्थितो अग्रतो गणवरस्य ।
मत्तगजखेलगामी मरीचिजालावततकायो ॥
[_म्वु_1.235_] वेरुलिकस्फाटिकमयकांचनघनकनकसुकृतदण्डानि ।
छत्राणि देवपुत्रा धारेन्ति विशुद्धदेवस्य ॥
देवाभिनिर्मितानि नभे तरुणादित्यमण्डलनिभानि ।
तपनीयकिंकिणीयारुचिरा वरनन्दिघोषाणि ॥
सप्तरतनामयं पि च दिव्यं दिव्यकुसुममण्डितच्छत्रं ।
छत्राधरस्य लोके धारयि च्छत्रं त्रिदशराजा ॥
त्रिसहस्राधिपतिं पि च कांचनघनकनकसुकृतदण्डाये ।
वरचामराये विरजं वीजेन्तिं नरेन्द्रं च अनुगताः ॥
अत्युन्नता च नमति नतापि अत्युन्नता भवति भूमिः ।
प्रविशन्तस्य भगवतो समं दशबलानुभावेन ॥
समनन्तरं च भगवां दक्षिणम् एव चरणं कनककमलं ।
परिहरति इन्द्रकीले तत्र भवति अद्भुतो घोषो ॥
आडम्बरा मृदङ्गा पटहा असंघट्टिता प्रवाद्यन्ति ।
शंखा पणवा च वेणु प्रविशन्तस्मिं नरवरस्मिं ॥
यानि रतनानि नगरे निहितानि पेटककरण्डगतानि ।
तानि पि संघट्टेन्सुः रतनवरविदुस्मिं प्रविशन्ते ॥
अथ महारहाणि मृदूनि वस्त्रयुगा मार्गे संस्तरयेन्सु ।
भगवतो नानाविधानि रंगरक्ता काशिकदुकूला ॥
अलंकृतो लोकनायको कोशिकारकं क्षौमं यं तूला काचिलिन्दिक अजिनप्रवेणिं
[_म्वु_1.236_] च वनरुस्ता तमकूटातपकोट्टवकसुभूमि तोषलकोलमचिरावोकोद्भव आमं रक्तक पंचविधा नय ल्लं ॥
याव च अग्रोद्यानं याव च अन्तःपुरं महिपतिस्य ।
शोभति नरेन्द्रमार्गो दुष्यशतसहस्रसंस्तीर्णो ॥
अथ च वनखण्डरगता प्रमदा अध्योकिरन्ति नरसिंहं ।
कुसुमनिकरकं ग्रहेत्व कनकगिरिनिभं अभिकिरन्ति ॥
यथयथ महानुभावो दीपवतीम् अभ्युपेति कारुणिको ।
तथातथा कुसुमनिकरं मुंचन्ति यशस्विनो भवतो ॥
तानि च करप्रमुक्ता सुरभीणि पंचवर्णो . . . . . ।
संस्थिहति पुष्पकंचुको भगवतो लोकनाथस्य ॥
गगनपथे निरालम्बे अभ्यन्तरकण्टकानि सुरभीणि ।
स्थातु प्रादक्षणिये अभिदक्षिणं कुर्वि कुसुमानि ॥ {प्रादक्षिणीये?}
गच्छति अनुगच्छन्ति तिष्ठन्ति स्थाति लोकप्रद्योते ।
ईर्यापथम् ऋद्धिमतो सर्वाभिभुनो न विजहन्ते ॥

संवर्तका पि वाता यदि विवहेन्सुः इमां त्रिसाहस्रां ।
न विकोपये कुतो पुन वहेन्सु तं पुष्पकंचुककं ॥
भगवन्तं कनकनिभं कनकवरम् उच्छुसमवर्णं दृष्ट्वा ।
दिवि मरूण गणा तद उदीरयेन्सुः अहो धर्मं ॥
[_म्वु_1.237_] प्रमुक्तपुष्पावकीर्णं च अम्बरं धरणियं च कुसुमोघा ।
शोभन्ति जानुमात्रा पुष्पं च कञ्चुकम् आकाशे ॥
हिक्कारा तूर्यमिश्रा समन्ततो वर्तन्ति अहो धर्मं ।
ओनादेन्ति पुरवरं नरवृषभस्मिं प्रविशन्तस्मिं ॥
हंसकरविंकवर्हिणपरभृतसुरवा च भृंगनिर्घोषा ।
दीपवतीये निशाम्यति निधिरतनध्वनितविमिश्रा ॥
अद्दशासि महामौद्गल्यायन मेघो माणवो भगवन्तं दीपंकरं दूरतो येव आगच्छन्तं द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागतम् अशीतिहि अनुव्यंजनेहि उपशोभितशरीरं अष्टादशेहि आवेणिकेहि बुद्धधर्मेहि समन्वागतं दशहि तथागतबलेहि बलवं चतुर्हि वैशारद्येहि समन्वागतं । नागो विय कारितकारणो अन्तोगतेहि इन्द्रियेहि अवहिर्गतमानसेन स्थितो धर्मावस्थाप्राप्तः शान्तेन्द्रियो शान्तमानसो उत्तमदमशमथपारमिप्राप्तो गुप्तो नागो जितेन्द्रियो ह्रदम् इव अच्छो अनाविलो विप्रसन्नो प्रासादिको दर्शनीयो आसेचनको अप्रतिकूलो दर्शनाये योजनगताये प्रभाये ओभासयन्तो ॥ दृष्ट्वा च पुनर् अस्य अद्वयसंज्ञा उदपासि ॥ अहम् अपि बुद्धो लोके भविष्यामि ॥ अथ खलु मौद्गल्यायन मेघो माणवो ताये वेलाये इमां गाथाम् अभाषि ॥
चिरस्य चक्षुं उदपासि लोके
चिरस्य उत्पादो तथागतानां ।
चिरस्य मह्यं प्रणिधिः समृद्धा
बुद्धो भविष्यामि न मे ऽत्र संशयः ॥
[_म्वु_1.238_] अथ महामौद्गल्यायन मेघो माणवो उदारं हर्षसंवेगं उदारं प्रीतिप्रामोद्यं संजनयित्वा तानि पंचोत्पलानि भगवतो दीपंकरस्य क्षिपि । तानि पि प्रभाजालं मुखमण्डलम् अनुपरिवारेत्वा अस्थासु ॥ प्रकृतिये पि माणविकाये तानि दुवे उत्पलानि क्षिप्तानि । तानि पि अन्तरीक्षे अस्थान्सु ॥ त्रीहि प्रातिहार्येहि बुद्धा भगवन्तो सत्वां विनेन्ति ऋद्धिप्रातिहार्येण आदेशनाप्रातिहार्येण अनुशासनीप्रातिहार्येण ॥ भगवतो दीपंकरस्य या च मेघेन माणवेन पंच उत्पलानि क्षिप्ता या च प्रकृतीये माणविकाये या च अन्याये जनताये क्षिप्ता तं भगवतो पुष्पवितानम् अधिष्ठितं सत्वानां वैनेयवशेन मेघस्य माणवस्य प्रीतिप्रामोद्यसंजननार्थं प्रासादिको दर्शनीयो चतुःस्थूणो चतुःद्वारो ओसक्तपट्टदामकलापो ॥
___मेघस्य तानि जलजानि भगवतो प्रभामण्डलस्योपरि समन्तेन स्थितानि दृष्ट्वा प्रासादिकानि प्रसदनियानि प्रीतिप्रामोद्यं काये उत्पद्ये उदारो च चेतनाप्रादुर्भावो ॥ सो कमण्डलुम् एकान्ते निक्षिपित्वा अजिनं च प्रज्ञपेत्वा भगवतो दीपंकरस्य क्रमेषु प्रणिपतित्वा केशेहि पादतलानि संपरिमार्जन्तो एवं चित्तम् उत्पादेति ॥ अहो पुनर् अहं पि भवेयं अनागतम् अध्वानं तथागतो ऽर्हं सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च यथायं भगवां दीपंकरो एतरहिं ॥ एवं द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागतो भवेयं अशीतिहि अनुव्यंजनेहि उपशोभितशरीरो अष्टादशाहि आवेणिकेहि बुद्धधर्मेहि समन्वागतो दशहि तथागतबलेहि बलवां चतुर्हि वैशारद्येहि सुविशारदो यथायं भगवां दीपंकरो एतरहिं ॥ एवं च अनुत्तरं धर्मचक्रं प्रवर्तेयं यथायं भगवां दीपंकरो एतरहिं ॥ एवं समग्रं श्रावकसंघं परिहरेयं ॥ एवं च देवमनुष्याः श्रोतव्यं
[_म्वु_1.239_] श्रद्धातव्यं मन्येन्सुः । एवं तीर्णो तारयेयं मुक्तो मोचयेयं आश्वस्तो आश्वासयेयं यथायं भगवां दीपंकरो एतरहि ॥ भवेयं बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय महतो जनकायस्य अर्थाय हिताय सुखाय देवानां च मषुष्याणां च ॥ अथ महामौद्गल्यायन भगवान् दीपंकरो मेघस्य माणवस्य अनुत्तरेण बुद्धज्ञानेन महासमुदागमनं च ज्ञात्वा कुशलमूलसम्भारं च चेतोप्रणिधानं ज्ञात्वा अखण्डम् अच्छिद्रम् अकल्माषम् अव्रणं अनुत्तराये सम्यक्संबोधये व्याकार्षीत्* ॥ भविष्यसि त्वं माणव अनागतम् अध्वानं अपरिमिते असंख्येये कल्पे शाक्यानां कपिलवस्तुस्मिं नगरे शाक्यमुनिः नाम तथागतो ऽर्हं सम्यक्सम्बुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च यथाप्य् अहम् एतर्हिं द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागतो अशीतिहि अनुव्यंजनेहि उपशोभितशरीरो अष्टादशेहि आवेणिकेहि बुद्धधर्मेहि समन्वागतो दशहि तथागतबलेहि बलवां चतुर्हि वैशारद्येहि सुविशारदो ॥ एवं तीर्णो तारयिष्यसि मुक्तो मोचयिष्यसि आश्वस्तो आश्वासयिष्यसि परिनिर्वृतो परिनिर्वापयिष्यसि यथापि अहम् एतर्हि । एवं चानुत्तरं धर्मचक्रं प्रवर्तयिष्यसि । एवं च समग्रं श्रावकसंघं परिहरिष्यसि । एवं च देवमनुष्या श्रोतव्यं श्रद्धातव्यं मनिष्यन्ति । यथापि अहम् एतर्हिं तं भविष्यसि बहुजनहिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्य अर्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥ समनन्तरव्याकृतो च महामौद्गल्यायन भगवता दीपंकरेण मेघो माणवो अनुत्तराये सम्यक्संबोधये तालमात्रं वैहायसम् अभ्युद्गम्य एकांशीकृतो प्राञ्जलीकृतो भगवन्तं दीपंकरं सश्रावकसंघं नमस्यमानो ॥ इयं च महापृथिवी तत्क्षणं तन्मुहूर्तं अतीव षड्विकारं कम्पे संकम्पे । भूम्या च देवा घोषम् उदीरयेन्सु शब्दम् अनुश्रावयेन्सुः ॥

[_म्वु_1.240_] एवं मेघो माणवो भगवता दीपंकरेण अनुत्तराये सम्यक्संबोधये व्याकृतो तद् भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥ भूम्यानां देवानां घोषं श्रुत्वा अन्तरीक्षेचरा देवा चातुर्महाराजिका देवा त्रायस्त्रिंशा यामा तुषिता निर्माणरतिनो परनिर्मितवशवर्तिनो इति हि तत्क्षणं तन्मुहूर्तं याव ब्रह्मकायं घोषम् अभ्युद्गमे ॥ एवं मार्ष मेघो माणवो भगवता दीपंकरेण अनुत्तराये सम्यक्संबोधये व्याकृतो तं भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च् ॥ अप्रमेयस्य च उदारस्य महतो ओभासस्य लोके प्रादुर्भावो आसि ॥ या पि ता लोके लोकान्तरिका अन्धकारा अन्धकारार्पिता तमिस्रा तमिसार्पिता अघा अघसंभूतपूर्वा यत्र इमे पि चन्द्रमसूर्या एवं महर्द्धिका एवं महानुभावा आभया आभां नाभिसंभुणन्ति आलोकेन वा आलोकं न स्फरन्ति ते पि तेन ओभासेन स्फुटा अभून्सुः । ये पि तत्र सत्वा उपपन्नाः ते पि अन्योन्यं संजानेन्सुः ॥ अन्ये पि किल भो इह सत्वा उपपन्नाः अन्ये पि किल भो सत्वाः इहोपपन्नाः ॥ एकान्तसुखसमर्पिता च तत्क्षणं तन्मुहूर्तं सर्वसत्वा अभून्सु । ये पि अवीचे महानरके उपपन्ना अतिक्रमे च देवानां देवानुभावं नागानां नागानुभावं यक्षाणां यक्षानुभावं ॥ ध्यामानि च अभून्सुः मारभवनानि निष्प्रभाणि निस्तेजानि निरभिरम्याणि । क्रोशिकान्य् अप्य् अस्य खण्डानि प्रपतेन्सु । द्विक्रोशिकान्य् अप्य् अस्य खण्डानि प्रपतेन्सु । त्रिक्रोशिकान्य् अप्य् अस्य खण्डानि प्रपतेन्सु । योजनिकान्य् अप्य् अस्य खण्डानि प्रपतेन्सु । ध्वजाग्राण्य् अप्य् अस्य प्रपतेन्सुः । मारो च पापीमां दुःखी दुर्मना विप्रतिसारी अन्तोशल्यपरिदाघजातो अभूषि ॥
[_म्वु_1.241_] अजिनं प्रज्ञपयित्वा कमण्डलुं निक्षिपयित्व एकान्ते ।
क्षिपियान्ऽ; उत्पलहस्तं निपते क्रमवरेहि चक्षुमतो ॥
तानि च करप्रमुक्ता सुरभीणि पंचवर्णो . . . . . . ।
संस्थिहति पुष्पकंचुको भगवतो लोकनाथस्य ॥
गगनपथे निरालम्बे अभ्यन्तरकण्टकानि सुरभीणि ।
स्थातु प्रादक्षिणिये अभिदक्षिणं कृत्व कुसुमानि ॥
गच्छति अनुगच्छन्ति तिष्ठन्ति स्थाति लोकप्रद्योते ।
ईर्यापथम् ऋद्धिमतो सर्वाभिभुनो न विजहन्ते ॥
संवर्तका पि वाता यदि विवहेन्सुः इमा त्रिसाहस्रां ।
न विकोपये कृतो पुन वहेन्सु तं पुष्पकंचुककं ॥ {सेनर्त्: कुतो पुन}
भगवन्तं कनकनिभं कनकवरम् उच्छुसमवर्णं दृष्ट्वा ।
दिवि मरूण गणा तद उदीरयेन्सुः अहो धर्मं ॥
अथ सागराम्बरमही संकम्पे च दिवि देवसंघेषु ।
व्याकरणस्मिं व्याकृते अभ्युद्गमि अद्भुतो घोषो ॥
एषो मेघो भवता एकान्तसुभाषितोच्छ्रितध्वजेन ।
दीपंकरेण मुनिना व्याकृतो भविष्यसि जिनो तुवं ॥
तं हितसुखाय काहसि सब्रह्मसुरासुरस्य लोकस्य ।
हायिष्यन्ति अपाया नरका मरु संविवर्धन्ति ॥
[_म्वु_1.242_] दीपं च लेनं च परायणं च
दीपंकरो नाम अभूषि शास्ता ।
इतो असंख्येयतरस्मिं कल्पे

स्वाख्यातधर्म्मो भगवां नरेशो ॥
सो उत्तमार्थं अभिगम्य पण्डितो
विशारदं वर्तयि धर्मचक्रं ।
सत्ये च धर्मे च स्मृतो प्रतिष्ठितो
महद्भयाद् विषमाद् उद्धरे प्रजां ॥
मेघो ऽद्दशा श्रमणगणस्य नायकं
दीपंकरं परमविचित्रलक्षणं ।
चित्तं प्रसादेत्व जिनं अवन्दि च
सो वन्दमानो प्रणिधिं अकासि ॥
एवं अहं लोकम् इमं चरेयं
यथा अयं चरति असंगमानसो ।
चक्रं प्रवर्तेयम् अनन्यसादृशं
सुसंस्कृतं देवमनुष्यपूजितं ॥
अर्थं चरेय लोके देवमनुष्या देशेयं धर्मं ।
एवं विनेय सत्वा यथा अयं लोकप्रद्योतो ॥
प्रणिधिं च ज्ञात्वान असंगसंगतं
सर्वेहि हेतूहि उपस्थितं जिनो ।
अखण्डम् अच्छिद्रम् अकल्माषाव्रणं
मतिमां . . . व्याकरे अर्थदर्शी ॥
[_म्वु_1.243_] बुद्धो तुवं भेष्यसि मेघ माणव
अनागते अपरिमितस्मिं कल्पे ।
कपिलाह्वये ऋषिभवनस्मिं शाकियो
तदा त्वं पि प्रणिधिविपाकम् एष्यसि ॥
तेन अपराणि पंच पुराणशतानि प्रेषितानि आचार्यस्य ॥ निर्यातेत्वा एवंविधं सर्वं मेघदत्तस्य आचिक्षति ॥ एवं मये भगवां दीपंकरः पूजितो अनुत्तराये सम्यक्संबोधये व्याकृतो ॥ गच्छाम तर्हिं भगवतो दीपंकरस्य सन्तिके ब्रह्मचर्यं चरिष्याम तां च समितिम् अनुभविष्यामः ॥ सो आह ॥ अहं ताव असमाप्तवेदो तत्र न शक्यामि गन्तुं ॥
यथा काष्ठं विवह्यते महन्ते उदकार्णवे ।
संघट्टितो विनश्यति एवं प्रियसमागमो ॥
मेघो गत्वा भगवतो दीपंकरस्य सन्तिके प्रव्रजितो ॥ ते तादृशा कल्याणमित्राण्य् आगम्य बुद्धसहस्रकोटियो अपरिमेयां असंख्येयां आराधेत्वा पूजयित्वा च सश्रावकसंघां अप्रमेयानि च प्रत्येकबुद्धकोटिनियुता पूजयित्वा दिव्यमानुषिकां संपत्तिम् अनुभवन्ति यावत् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा ॥ यो रूपं नरदम्यसारथिं श्रुत्वा न रूपं न उपादि गच्छे ऽहं उपादे ऽहं च ॥ सो त्व् आह ॥ शिरःप्रणामाये एष अतीव प्रवणो मेघो वर्तते ॥ मेघस्य माणवस्य सकाशातो बुद्धशब्दं श्रुणित्वा न हृष्टो । पापमित्रसमंगिताये पंचानन्तर्याणि कृतानि ॥ परदारे प्रसक्तो तत्र काले वा विकाले
[_म्वु_1.244_] वा गच्छति ॥ तं माता पुत्रस्नेहेन निवारेति मा तत्र पारदारिको ति कृत्वा घातयिष्यति ॥
रक्तो अर्थं न जानाति रक्तो धर्मं न पश्यति ।
अन्धकारे तदा भवति यं रागो सहते नरः ॥
सो तां मातरं घातयित्वा तस्या इस्त्रिकाये सकाशं गतो यत्र प्रसक्तो हस्यैव तां प्रकृतिम् आचिक्षति ॥ एवं त्वं मम इष्टा यं मया तव कारणा माता जीविताद् व्यपरोपिता ॥ सा स्त्री उद्विग्ना संवृत्ता ॥ ताय उक्तो ॥ मा मे भूयो आगच्छसि ॥ अपरमातरं प्रसक्तो ॥ ततो तं सा अपरमाता आह ॥ एथ पितरं जीविताद् व्यपरोपेहि त्वं च मे स्वामिको भविष्यसीति ॥ तेन दानि सो पिता जीविताद् व्यपरोपितो ॥ सो तत्र अधिष्ठाने जुगुप्सितो संवृत्तो ॥ मित्रज्ञातिका परिवर्जेन्ति ॥ सो ततो अधिष्ठानातो अन्यम् अधिष्ठानं संक्रान्तो अत्र मे न कोचि जानिष्यति ॥ तस्य यो मातापितॄणां भिक्षु कुलोपको आसि अरहा महानुभावो सो जनपदचारिकां चरमाणो तम् अधिष्ठानम् अनुप्राप्तो ॥ तेन दानि सो दानपतिपुत्रो भिक्षुणा तहिं अधिष्ठाने दृष्टो ॥ सो पि तं भिक्षुं दृष्ट्वा शंकी संवृत्तो मा मे भिक्षु इमंहि अधिष्ठानंहि दूषयतीति ॥ तेन दानि सो पि अरहा भिक्षु जीविताद् व्यपरोपितो ॥ सो दानि यो तदा आसि सम्यक्संबुद्धो तस्य शासने प्रव्रजितो ॥ तेन दानि शासने प्रव्रजित्वा संघो च भिन्नो बुद्धस्य रुधिरं उत्पादितं ॥ एतानि पंचानन्तर्याणि कर्माणि कृत्वा महानरकेषु उपपन्नो ॥
___सो अष्टसु महानरकेषु षोडशोत्सदेषु सुचिरं दीर्घम् अध्वानं संधावित्वा संसरित्वा
[_म्वु_1.245_] यदा भगवता शाक्यमुनिना अनुत्तरा सम्यक्संबोधिः अभिसंबुद्धा धर्मचक्रो प्रवृत्तः सो महासमुद्रे तिमितिमिंगिलो नाम मत्स्यजाति आयामतो भहुयोजनशतिकेन आत्मभावेन ॥ यदा थपकर्णि गृहपति सयानपात्रो पंचशतपरिवारो तेन महासमुद्रं ओकस्तो तदा तेन मकरभूतेन बुभुक्षितेन मुखं उच्छ्वासितं भोजनार्थिकेन ॥ ततो यानपात्राणि स्थपकर्णिकस्य गृहपतिस्य येन तं मकरमुखं तेन प्रधाविता ॥ निर्यातमुख आह ॥ गृहपति इमानि यानपात्राणि बडवामुखे पतितानि यं दानि करणीयं तं करोथ नास्ति दानि वो जीवितं ॥ ते दानि देवदेवतां नमस्यन्ति स्वकस्वकानि । केचिच् छिवं केचिद् वैश्रवणं केचित् स्कन्धं केचिद् वरुणं केचिद् यमं केचिद् धृतराष्ट्रं केचिद् विरूढकं केचिद् विरूपाक्षं केचिद् इन्द्रं केचिद् ब्रह्मं केचित् समुद्रदेवतां ॥ यावद् आयुष्मां पूर्णको समन्वाहरति पश्यति स्थपकर्णिकं गृहपतिं पंचशतपरिवारं संशयप्राप्तं ॥ सो तुण्डतुरिकातो पर्वतातो वैहायसम् अभ्युद्गम्य महासमुद्रे थपकर्णिकस्य यानपात्रं उपरि वैहायसम् अन्तरीक्षे अस्थासि ॥ ते सर्वे पंच वाणिजशतानि प्राञ्जलिं कृत्वा उत्थिता भगवं भगवं तव शरणगता स्म ॥ स्थविरो आह ॥ नाहं भगवां श्रावको ऽहम् अस्मि ॥ सर्वे एककण्ठा नमो बुद्धस्येति उदीरेथ ॥ तेहि सर्वेहि पञ्चेहि वणिजशतेहि नमो बुद्धस्येति विघुट्ठं ॥ तस्य तिमितिमिंगिलस्य बुद्धशब्दं कर्णपथं गतो ॥ तस्य तं शब्दं श्रुत्वा यो अप्रमेये असंख्येये कल्पे मेघस्य माणवस्य सकाशातो दीपंकरबुद्धशब्दो श्रुतो तं महासमुद्रे तिमितिमिंगिलभूतस्य आमुखीभूतो ॥ अमोघो बुद्धशब्दो ति ॥ तस्य दानि तिमितिमिंगिलस्य भूतस्य एतद् अभूषि ॥ बुद्धो लोके प्रादुर्भूतो वयं च अपायगता ॥ तेन दानि संविग्नेन पुनर् अपि मुखं संमीलितं ॥ अनाहारो कालगतो तं बुद्धशब्दं समनुस्मरन्तो समनन्तरकालगतो श्रावस्त्यां महानगर्यां
[_म्वु_1.246_] ब्राह्मणकुले उपपन्नो तेन कालेन तेन समयेन प्रजातो दारको जातो ॥ यथोक्तं भगवता नाहं भिक्षवो कर्मतो ऽन्यद् वदेमि इति ॥

___तस्य दानि दारकस्य धर्मरुचि नाम कृतं ॥ यदा महन्तो संवृत्तो तदा भगवतः शासने प्रव्रजितो ॥ प्रयुज्यन्तेन घटन्तेन व्यायमन्तेन तिस्रो विद्या षडभिज्ञा बलवशीभावं साक्षात्कृतं ॥ त्रिखुत्तो दिवसस्य भगवतः पादवन्दने उपसंक्रमति ॥ यत्तकम् उपसंक्रमति तत्तकं भगवां चोदेति स्मारेति चिरस्य धर्मरुचि सुचिरस्य धर्मरुचि ॥ सो पि आह ॥ एवम् एतं भगवं एवम् एतं सुगत । चिरस्य भगवं सुचिरस्य सुगत ॥ भिक्षु संशयेन भगवन्तं पृच्छन्ति ॥ त्रिखुत्तो दिवसस्य धर्मरुचिर् भगवन्तम् उपसंक्रमति भगवाञ् च तम् एवम् आह चिरस्य धर्मरुचि सुचिरस्य धर्मरुचीति भगवन्तम् एवम् आह एवम् एतं भगवं एवम् एतं सुगत चिरस्य भगवं सुचिरस्य सुगत न च पुनर् भगवं वयम् इमस्य भाषितस्य अर्थम् आजानाम ॥ तेषां भगवां भिक्षूणां एतां प्रकृतिं विस्तरेणारोचयति दीपंकरम् उपादाय ॥ अहं च मेघो माणवो नामेन आसि एषो च धर्मरुचि मेघदत्तो ॥ एवं भिक्षवो अमोघो बुद्धशब्दो यावद् दुःखक्षयाय संवर्तति ॥
तेन समयेन स्थविरो धर्मरुचि उपागमेसि शास्तारं ।
पादौ जिनस्य वन्दति आह पि सुचिरस्य धर्मरुचि ॥
सुचिरस्य लोकनायक धर्मरुचि प्रतिभणाति शास्तारं ।
जानन्तं पृच्छति जिनो किंकारणं ब्रुसि सुचिरस्य ॥
सो पुनर् आह पुरे अहं लवणजले तिमितिमिंगिलो आसि ।

क्षुधादौर्बल्यपरिगतो विपरिमुषं भोजनार्थाये ॥
[_म्वु_1.247_] तत्र बहु प्राणनयुता प्रविशेन्सुस् तद शरीरदेहं मे ।
वाणिजकशतानि पंच प्रविशेन्सु तथैव यानेन ॥
पात्रे च प्रविशमाने अत्राणभयार्दिता व्यसनप्राप्ता ।
सर्वे एकवाचम् अवचि नमो दशबलस्य बुद्धस्य ॥
बुद्धेति श्रुत्व घोषं अश्रुतपूर्वम् अभूषिम् अहं प्रीतो ।
हृष्टो उदग्रचित्तो त्वरितं संमीलयेसि मुखं ॥
सुनेन्सु प्राणनयुतानि तिर्यग्योनिगता वणिजशतान ।
घोषेण दशबलस्य व्युत्थितो तदाहम् अपायेषु ॥
तेन कुशलेन भगवं इदं मे आरोपितं मनुष्यत्वं ।
सुचरितफलेन तेन धर्मरुचीति मम समाज्ञा ॥
तेनैवाहं हेतुना प्रव्रजितो तव स्वयंभु प्रावचने ।
नचिरस्य प्रव्रजित्वा अभूषि अरहां धुतक्लेशो ॥
बहुकल्पकोटिनयुता संसारं संसरित्वान अनन्तं ।
अनुस्मारेन्तो सुगतं भणामि सुचिरस्य लोकहित ॥
सुचिरस्य धर्मचक्षुर् विशोधितं धर्मसंशयं छिन्नं
मोहतिमिरावनद्धं उषितो ऽस्मि चिरं अपायेषु ॥
तेन कुशलेन तिमिरं प्रहीनं रागद्वेषा च ऊहता ।
अशेषा भवनेत्रिसरिता उच्छोषिता अयम् इह जातिः ॥
अस्य पि तिमितिमिंगिलस्य बुद्धश्रवणं महत्फलं आसि ।
किं पुन इदानि भगवं इदं श्रुतं नावहेद् अमृतं ॥
[_म्वु_1.248_] तस्माद् विवर्जयित्वा नीवरणा पंच चेतसावरणा ।
श्रोतव्यं बुद्धवचनं दुल्लभसंज्ञाम् उपजनेत्वा ॥
कृच्छ्रो मनुष्यलाभो विवर्जना च असाररूपवनात्* ।
बुद्धान च उत्पादो श्रद्धा च भवेय च निर्वृतिः ॥
_____इति श्रीमहावस्तु-अवदाने दीपंकरवस्तु समाप्तं
इतो महामौद्गल्यायन भद्रकल्पातो अपरिमिते अप्रमेये असंख्येये कल्पे दीपंकरातो अनन्तरं मङ्गलो नाम तथागतो ऽर्हं सम्यक्सम्बुद्धो उदपासि ॥ मङ्गलस्य महामौद्गल्यायन सम्यक्संबुद्धस्य वर्षकोटीशतसहस्रं मनुष्याणाम् आयुःप्रमाणम् अभूषि ॥ मङ्गलस्य महामौद्गल्यायन सम्यक्संबुद्धस्य त्रयः श्रावकसन्निपाता अभून्सुः ॥ प्रथमे श्रावक्सन्निपाते कोटीशतसहस्रम् अभूषि सर्वेषाम् अर्हतां क्षीणाश्रवाणाम् उषितव्रतानां सम्यगाज्ञासुविमुक्तचित्तानां परिक्षीणभवसंयोजनानाम् अनुप्राप्तस्वकार्थानां । द्वितीयो श्रावकसन्निपातो नवति कोटीयो अभून्सुः सर्वेषां अर्हतां क्षीणाश्रवाणां उषितव्रतानां सम्यगाज्ञासुविमुक्तचित्तानां परिक्षीणभवसंयोजनानां अनुप्राप्तस्वकार्थानां । तृतीयो श्रावकसन्निपातो अशीति कोटीयो अभुन्सु सर्वेषाम् अर्हतां क्षीणाश्रवाणाम् उषितव्रतानां सम्यगाज्ञासुविमुक्तचित्तानां परिक्षीणभवसंयोजनानां अनुप्राप्तस्वकार्थानां ॥ मङ्गलस्य खलु पुनर् महामौद्गल्यायन सम्यक्सम्बुद्धस्य सुदेवो च धर्मदेवो च नाम श्रावकयुगो अभूषि अग्रयुगो च भद्रयुगो च । एको अग्रो प्रज्ञाये अपरो अग्रो ऋद्धीये ॥ मङ्गलस्य खलु पुनर् महामौद्गल्यायन सम्यक्संबुद्धस्य शीवाली च नाम भिक्षुणी अशोका च अग्रश्राविका अभून्सुः । एका अग्रा प्रज्ञाये अपरा ऋद्धीये ॥ मङ्गलस्य खलु महामौद्गल्यायन सम्यक्संबुद्धस्य पालितो नाम
[_म्वु_1.249_] भिक्षु उपस्थायको अभूषि ॥ मङ्गलस्य खलु पुनर् महामौद्गल्यायन सम्यक्संबुद्धस्य नागवृक्षो अभूषि बोधि ॥ मङ्गलस्य खलु महामौद्गल्यायन सम्यक्संबुद्धस्य उत्तरं नाम नगरं अभूषि । द्वादश योजनानि आयामेन पुरस्तिमेन पश्चिमेन च सप्त योजनानि विस्तारेण दक्षिणेन उत्तरेण च । सप्तहि प्राकारेहि परिक्षिप्तं सौवर्णेहि सौवर्णच्छदनेहि ॥ सप्तहि दीर्घिकाहि परिक्षिप्तं अभूषि चित्राहि दर्शनीयाहि सप्तानां वर्णानां सुवर्णस्य रूप्यस्य मुक्तायाः वैडूर्यस्य स्फटिकस्य मुसागल्वस्य लोहितिकाया ॥ तासां खलु पुनर् महामौद्गल्यायन दीर्घिकानां द्विन्नां वर्णानां सोपाना अभून्सुः सुवर्णस्य रूप्यस्य । चतूर्णां वर्णानां सोपानफलका अभून्सु सुवर्णस्य रूप्यस्य च मुक्ताया वैडूर्यस्य च ॥ तायो दीर्घिकायो छन्नायो अभून्सुः उत्पलपदुमकुमुदपुण्डरीकनलिनीसौगन्धिकेहि ॥ तायो दीर्घिकायो इमेहि एवंरूपेहि वृक्षेहि प्रच्छन्नायो अभुन्सुः । सय्यथीदं अम्रजम्बुपनसलकुचभव्यपालेवतप्रच्छन्नायो ॥ तासां खलु पुनर् दीर्घिकानां तीरेषु इमानि एवंरूपाणि स्थलजजलजानि माल्यानि अभुन्सु । सय्यथीदं अतिमुक्तकचम्पकवार्षिकावातुष्कार-इन्दीवरदमनकदेवोपसंहिता ॥ उत्तरं खलु पुनर् महामौद्गल्यायन नगरं सप्तहि तालपंक्तिहि परिक्षिप्तम् अभूषि ॥ विस्तरेण दीपवती राजधानी यथा वर्णयितव्यं ॥ मङ्गलस्य खलु पुनर् महामौद्गल्यायन सम्यक्संबुद्धस्य सुन्दरो नाम क्षत्रियो पिता अभूषि राजा चक्रवर्ती ॥ मङ्गलस्य खलु पुनर् महामौद्गल्यायन सम्यक्संबुद्धस्य शिरी नाम देवी माता अभूषि ॥ तदाहं महामौद्गल्यायन अतुलो नाम नागराजा कृतपुण्यो महेशाख्यो उत्सदकुशलसंचयो ॥
[_म्वु_1.250_] ततो मया सो भगवां मंगलो सश्रावकसंघो . . . . . . . . . . . . सत्कृत्वा गुरुकृत्वा मानयित्वा पूजयित्वा दुष्ययुगम् आच्छादं दत्त्वा बोधाय अनुप्रणिहितं ॥ तेनाप्य् अहं व्याकृतो भविष्यसि त्वम् अनागताध्वाने अपरिमिते असंख्येये कल्पे शाक्यमुनिर् नाम तथागतो ऽर्हं सम्यक्संबुद्धो ॥
दीपंकरस्य ओत्तरेण मङ्गलो नाम नायको ।
तमं लोके निहत्वान धर्मोल्काम् अभिज्वालयेत्* ॥
अतुला आसि प्रभा तस्य जिनेहि अन्येहि उत्तरा ।
कोटिसूर्यप्रभां हत्वा सहस्रारैः विरोचते ॥
सो च बुद्धो प्रकाशेति चत्वारि सत्या उत्तमां ।
ते तं सत्यरसं पीत्वा विनोदेन्सु महातमं ॥
बोधिं बुद्ध्वा अतुलां देवा प्रथमे धर्मदेशने ।
कोटिशतसहस्राणां प्रथमाभिसमयो अभूत्* ॥
यदा . . . . . . . . . . . . . . . . . . . . ।
तदा आहनि संबुद्धो धर्मभेरीं वरम् उत्तमां ॥
पुनर् अपि देवसमये यदा सत्यां प्रकाशयेत्* ।

द्वितीये नवति कोटी द्वितीयाभिसमयो अभूत्* ॥
यदा सुनन्दो चक्रवर्ती बुद्धधर्मम् उपागमि ।
तदा आहनि संबुद्धो धर्मभेरीं वरम् उत्तमां ॥
सुनन्दानुचरा जनता नवतिं आसि कोटियो ।
सर्वे ते निरवशेषा अभूद् बुद्धस्य श्रावका ॥
[_म्वु_1.251_] पुनर् अपि देवसमये यदा सत्यां प्रकाशयेत्* ।
अशीतिं तृतीये कोटी तृतीयाभिसमयो अभूत्* ॥
यदा उत्तरो गृहपति बुद्धदर्शनम् उपागमि ।
तदा आहनि संबुद्धो धर्मभेरीं वरम् उत्तमां ॥
उत्तरानुचरा जनता अशीतिं आसि कोटियो ।
सर्वे ते निरवशेषा अभूत् बुद्धस्य श्रावकाः ॥
सन्निपाताः त्रयो आसि मङ्गलस्य महर्षिणो ।
क्षीणाश्रवाणां विरजानां शान्तचित्तानुतापितां ॥
कोटीशतसहस्राणां प्रथमो आसि समागमो ।
द्वितीयो नवतिं कोटी अशीतिं तृतीयो अभूत्* ॥
अहं तेन समयेन नागराजा महर्द्धिको ।
अतुलो नाम नामेन उत्सदकुशलसंचयो ॥
नागानां दिव्येहि तूर्येहि मङ्गलस्य महर्षिणो ।
अर्चये दुष्याणि दत्त्वान शरणं तम् उपागमि ॥
सो मे बुद्धो वियाकार्षीत्* मङ्गलो लोकनायको ।
अपरिमेये इतो कल्पे बुद्धो लोके भविष्यसि ।
शाक्यानां नगरे रम्ये स्फीते कपिलवसाह्वये ॥
तस्य ते जननी माता माया नामेन भेष्यति ।
पिता शुद्धोदनो नाम तव भविष्यति गौतमः ॥
कोलितो उपतिष्यो च अग्रा भेष्यन्ति श्रावकाः ।
क्षेमा उत्पलवर्णा च अग्रा भेष्यन्ति श्राविका ॥
आनन्दो नाम नामेन उपस्थायको भविष्यति ।
[_म्वु_1.252_] बोधि भविष्यति तुह्यं अश्वत्थो वरपादपः ॥
तस्य व्याकरणं श्रुत्वा मङ्गलस्य महर्षिणः ।
विरियं प्रग्रहेत्वान दृढं कृत्वान मानसं ।
चरन्तो बोधिचर्याणि नाहं कंचित् परित्यजे ॥
उत्तरं नाम नगरं सुन्दरो नाम क्षत्रियो ।
शिरिका नाम जनिका मङ्गलस्य महर्षिणो ॥
सुदेवो धर्मदेवो च अभुन्सुः अग्रश्रावकाः ।
शीवाली च अशोका च भुन्सु अग्रश्राविका ॥
पालितो नाम उपस्थाको मंगलस्य महर्षिणो ।
बोधि तस्य नागवृक्षो बोधिवृक्षं सुपुष्पितं ॥
कोटीशतसहस्राणां संघो आसि महर्षिणो ।
तिष्ठमानो महावीरो तारेसि जनतां बहुं ॥
तारयि बहुजनतां वैस्तारिकं कृत्व शासनं ।

ज्वलितो अग्निस्कन्धो वा सुरियो वा समुद्गतो ॥
यथा सागरस्य ऊर्मियो न शकियं गणयितुं ।
तथैव भगवतो पुत्रा न शकियं गणयितुं ॥
सो च बुद्धो महाभागो सद्धर्मो च गणोत्तमो ।
सर्वे समनन्तर अतीता अनुरिक्ता एव संस्काराः ॥
_____इति श्रीमहावस्तु-अवदाने मंगलस्य वस्तुं समाप्तं
[_म्वु_1.253_] अथ छत्रवस्तुके आदि ॥ अनुहिमवन्ते कुण्डला नाम यक्षिणी प्रतिवसति ॥ सा दानि समं समं च पुत्रशता पंच प्रजायति । पुत्रसहस्रं प्रजाता सा कालं करोति ॥ ते पि वैशालिं ओजोहारका प्रेषिता ॥ वैशालिं गत्वा मनुष्याणाम् ओजं हरन्ति ॥ रोगजाता आर्द्धा मण्डलको च अधिवासो च । मण्डलको रोगजातो यहिं कुले निपतति न किंचि शेषेति सर्वं हरति । अधिवासो नाम रोगजातो प्रदेशं हरति ॥ तदानि वैशालिका अधिवासेन रोगजातेन स्पृष्टा मरन्ति ॥ ते देवदेवां नमस्यन्ति ॥ तेषाम् एतद् अभूषि ॥ कस्मिन् नु खल्व् आगते वैशालकानाम् आबाधो प्रतिप्रशाम्येया ॥ तेहि दानि काश्यपस्य पूरणस्य प्रेषितं ॥ आगच्छाहि वैशालकानाम् अमनुष्यव्याधि उत्पन्नो त्वयि आगते प्रतिप्रश्रब्धो भविष्यति ॥ काश्यपपूरणो वैशालिम् आगतो न च तं व्याधिं प्रतिप्रस्रभ्यति ॥ तेषाम् एतद् अभूषि ॥ आगतो काश्यपो नैव च वैशालकानाम् अमनुष्यव्याधिः प्रतिप्रस्रभ्यति ॥ तेहि दानि मस्करिस्य गोशालिपूत्रस्य प्रेषितं ॥ सो पि आगतो न च वैशालिकानाम् अमनुष्यव्याधिः प्रतिप्रस्रभ्यति ॥ तेहि दानि ककुदस्य कात्यायनस्य प्रेषितं ॥ सो पि आगतो न च वैशालिकानाम् अमनुष्यव्याधिः प्रतिप्रस्रभ्यति ॥ तेहि दानि अजितस्य केशकम्बलस्य प्रेषितं ॥ सो पि आगतो न च वैशालकानाम् अमनुष्यव्याधि प्रतिप्रस्रभ्यति ॥ तेहि दानि संजयिस्य वेरट्टिपुत्रस्य प्रेषितं ॥ सो पि आगतो न च वैशालकानाम् अमनुष्यव्याधि प्रतिप्रस्रभ्यति ॥ तेहि दानि निर्ग्रन्थस्य ज्ञातिपुत्रस्य प्रेषितं ॥ सो पि आगतो न च वैशालकानाम् अमनुष्यव्याधिः प्रतिप्रस्रभ्यति ॥ तेषां वैशालकानां ज्ञातिसालोहिता कालगता देवेहि उपपन्ना ॥ तेषाम् अन्यतरा देवता वैशालकानाम् आरोचयति ॥
[_म्वु_1.254_] ये एते तुभ्येहि आनीता अशास्तारो अशास्तारवादिनो नैते शक्ता वैशालकानाम् अमनुष्यव्याधिः प्रतिप्रस्रंभयितुं ॥ एष बुद्धो भगवां असंख्येहि कल्पेहि समुदागतो अर्हन् सम्यक्संबुद्धो अपरिशेषज्ञानदर्शनो महर्द्धिको महानुभावो सर्वज्ञो सर्वदर्शावी यत्र ग्रामक्षेत्रसीमायां प्रतिवसति सर्वं तत्र ईतिकलहं कलकलं उपद्रवा उपसर्गा प्रशाम्यन्ति ॥ तम् आनेथ । तेन आगतेन वैशालकानम् अमनुष्यव्याधिः प्रतिप्रस्रभ्यते इति ॥
राजगृहे मन्दिरपुरे विहरति वरकमलगर्भसुकुमारो ।
सर्वा कलिकलहानि प्रशमयितानि जितक्लेशेन ॥
सोपद्रवं काञ्चननिभो यं प्राप्तो ग्रामनिगम नगरं वा ।
शामयति तत्र ईतयो रजम् इव बलवां सलिलवृष्टिः ॥
पाण्डरवर्णं काञ्चननिभं दिनकरपरिपूर्णचारुमुखं ।
वरसुरभिशीलगन्धं आनेथ शाम्यति तु व्याधि ॥
वैशाल्यां तोमरो नाम लेच्छविमहत्तरको महापक्षो महापरिवारो पण्डितो च ॥ सो गणेन अध्येष्य प्रेषितो ॥ गच्छ राजगृहं तहिं बुद्धो भगवां प्रतिवसति ॥ श्रेणियस्य बिम्बिसारस्य याचितवासो प्रतिवसति ॥ तं गत्वा वैशालकानां लिच्छवीनां वचनेन वन्दनां वदेसि सपरिवारस्य अल्पाबाधतां च अल्पातंकतां च सुखस्पर्शविहारतां च पृच्छेसि एवं च वदेसि ॥ वैशालकानां भगवं लिच्छवीनाम् अमनुष्यव्याधि उत्पन्नो बहूनि प्राणसहस्राणि अनयव्यसनम् आपद्यन्ति । साधु भगवान् अर्थकामो हितैषी
[_म्वु_1.255_] वैशालिम् आगच्छेया अनुकम्पाम् उपादाय ॥ अथ तोमरो लेच्छविगणस्य प्रतिश्रुत्वा यथानुरूपेण परिवारेण सार्धं भद्राणि यानानि आरुहित्वा वैशालितो नगरातो निर्गम्य येन राजगृहं नगरं तेन प्रयासि ॥ अथ खलु तोमरो लेच्छवि राजगृहनगरं गत्वा प्रविशित्वा राजगृहनगरं येन वेणुवनं कलन्दकनिवापं तेन प्रक्रमि भगवन्तं दर्शानाय उपसंक्रमणाय पर्युपासनाय ॥ तेन खलु पुनः समयेन भगवान् तदहोपोषधे पंचदश्यां पूर्णायां पूर्णमास्यां पंचानां भिक्षुशतानां अन्याये च जनताये अनेकसहस्राये परिषाये धर्मं देशयति आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं स्वर्थं सुव्यञ्जनं केवलपरिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं प्रकाशयति ॥ अथ तोमरो लेच्छवी यावत्तका यानस्य भूमिस् तावद् यानेन गत्वा यानाद् अवतीर्य पद्भ्याम् एव येन भगवांस् तेनोपसंक्रमि ॥ सो दानि महेशाख्यां परिषां सन्निपतितां न शक्नोति प्रसह्य भगवन्तम् उपसंक्रमितुं ॥ सो दानि एकांसम् उत्तरासंगं कृत्वा येन भगवांस् तेनांजलिं प्रणामेत्वा भगवन्तं गाथाये अध्यभाषि ॥
उपोषधे पंचदशीविशुद्धये
उपासितुं ते ऋषयो समागता ।
शक्रो च देवो त्रिदशान इन्द्रो
पुरस्कृतो तेषु असह्यसाहि ॥
विरोचमानो भाषसि उत्तमं पदं
धर्मेण तर्पेसि बहुं इमां प्रजां ।
महां व मेघः सलिलेन मेदिनीं
ते तुह्य श्रुत्वा मधुराम् इमां गिरां ॥
अनेलिकां धारयतो महामुने
नमस्कृत्वा अंजलिं वन्दमाना ।
[_म्वु_1.256_] शरणं ते गच्छाम असह्यसाहि
तेषां सुलब्धं च सु-आगतं च ॥
स तोमराणाम् अहम् अन्तिके भवं
ये ते प्रसन्ना शरणं उपेन्ति ।
अथ अप्रमत्ता सुगतस्य शासने
काहिन्ति जातीमरणस्य अन्तं ॥
गाथापर्यवसाने महता जनकायेन अन्तरो दिन्नो ॥ अथ खलु तोमरो लेच्छवी येन भगवांस् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा भगवन्तम् एतद् अवोचत्* ॥ वैशालिका भगवं लेच्छवियो सम्वृद्धबाला अभ्यन्तरवैशालका च बाहिरकवैशालका च भगवतः पादा शिरसा वन्देन्ति सश्रावकसंघस्य सुखं च स्पर्शविहारतां च पृच्छेन्ति एवं च वदेन्ति ॥ वैशाल्यां भगवन्न् अमनुष्यव्याधि उत्पन्नः बहूनि प्राणिसहस्राणि अनयव्यसनम् आपद्यन्ति भगवां च अनुकम्पको कारुणिको सदेवकस्य ॥ साधु भगवां वैशालिम् आगच्छेय वैशालिकानाम् अनुकम्पाम् उपादाय ॥ भगवान् आह ॥ तथागतो तोमर राज्ञो श्रेणियस्य बिम्बिसारस्य याचितवासो वसति गच्छम् अनुजानापेहि ॥ अथ खलु तोमरो लेच्छवि भगवतो पादौ शिरसा वन्दित्वा भगवन्तं च त्रिष्खुत्तं प्रदक्षिणीकृत्वा भिक्षुसंघं च येन राजगृहं तेन प्रक्रामि ॥ अथ खलु तोमरो लेच्छवि येन राजा श्रेणियो बिम्बिसारस् तेनोपसंक्रमित्वा राजानं श्रेणियं बिम्बिसारं साधु च सुष्ठु च प्रतिसंमोदेत्वा एतद् उवाच ॥ वैशालीयं महाराज अमनुष्यव्याधि उत्पन्नो बहूनि प्राणिसहस्राणि अनयव्यसनम् आपद्यन्ति ॥ तहिं षच् छास्तारो संमता आनीता काश्यपो च पूरणो मस्करी च गोशाली अजितो च केशकम्बली ककुदो च कात्यायनो

[_म्वु_1.257_] संजयी च वेरट्टिकपुत्रो निर्ग्रन्थो च ज्ञातिपुत्रो ॥ एतेहि आगतेहि वैशालकानाम् अमनुष्यव्याधि नोपशाम्यति ॥ ततो महाराज लेच्छवीनां देवताहि आरोचितं ॥ एष बुद्धो भगवान् असंख्येये धर्मानुभावेन हि समुदागतो सदेवकस्य लोकस्य लेनो त्राणो शरणो परायणो देवातिदेवो शास्ता देवमनुष्याणां नागानाम् असुराणां यक्षाणां राक्षसानां पिशाचानां कुम्भाण्डानां ॥ सो यं ग्रामक्षेत्रसीमम् आक्रमति तत्र सर्वे ईतिकलिकालकर्णी प्रशाम्यन्ति बुद्धानुभावेन धर्मानुभावेन संघानुभावेन ॥ तम् आनेथ तेन आगतेन वैशाल्यानाम् अमनुष्यव्याधिः प्रशाम्यतीति ॥ साधु महाराज भगवन्तम् अनुजानाहि वैशालिं गमनाये अनुकम्पाम् उपादाय ॥ एवम् उक्तो राजा श्रेणियो बिम्बिसारो तोमरं लेच्छविम् एतद् उवाच ॥ सचे वासिष्ठ वैशलका लेच्छवयो भगवतो राजगृहातो वैशालिं गच्छन्तस्य एवं प्रत्युद्गमनं करोन्ति यावत् स्वकं विजितं यथाहम् अनुयानं करोमि यावत् स्वकविजितं एत्स्ये हं भगवन्तम् अनुजानये राजगृहातो वैशालिं गमनाय ॥ अथ खलु तोमरो लेच्छवी राज्ञो श्रेणियस्य बिम्बिसारस्य प्रतिश्रुत्वा वैशालिं गणस्य दूतां प्रेषयसि ॥ एवं वासिष्ठाहो राजा श्रेणियो बिम्बिसारो जल्पति ॥ अथ खलु ते दूता तोमरस्य लेच्छविस्य प्रतिश्रुत्वा वैशालिं गत्वा लेच्छविगणस्य आरोचेसि ॥ एवं वासिष्ठाहो राजा श्रेणिको बिम्बिसारो तोमरस्य लेच्छविस्य जल्पति । सचे वैशालका लेच्छवयो भगवतो राजगृहातो वैशालिं गच्छन्तस्य एवं प्रत्युद्गमनं करोन्ति यावत् स्वकं विजितं यथा अहम् अनुयानं करोमि यावत् स्वकं विजितं एत्स्ये हं भगवन्तम् अनुजानेयं राजगृहातो वैशालिं गमनाय ॥ एवम् उक्ते वैशालेयका लेच्छवयस् तान् दूतां . . . . . . . ॥ एतद् वक्तव्यो वासिष्ठाहो राजा श्रेणियो बिम्बिसारो लेच्छविगणस्य वचनेन ॥ करिष्यन्ति महाराज वैशालका लेच्छवयो
[_म्वु_1.258_] भगवतः प्रत्युद्गमनं यावल् लेच्छवीनां विजितं ॥ अथ खलु ते दूता लेच्छविगणस्य प्रतिश्रुत्वा राजगृहं गत्वा आरोचेन्सुः ॥ अथ खलु तोमरो लेच्छविः दूतानां वचनं प्रतिश्रुत्वा येन राजा श्रेणिको बिम्बिसारो तेन्ऽ; उपसंक्रमित्वा राजानं श्रेणियं बिम्बिसारम् एतद् उवाच ॥ करिष्यन्ति महाराज वैशालका लेच्छवयो भगवतः प्रत्युद्गमनं ॥ साधु भगवन्तम् अनुजानाहि वैशालिं गमनाय अनुकम्पाम् उपादाय ॥ भगवां दानि राज्ञा श्रेणियेन बिम्बिसारेण अनुज्ञातो वैशालिं गमनाय अमात्या च आणत्ता याव च राजगृहं याव च गंगायास् तीर्थं मार्गं प्रतिजागृथ अष्टपदसमम् अविषमं पाणितलजातं विततवितानं चित्रदुष्यपरिक्षिप्तं ओसक्तपट्टदामकलापं धूपितधूपनं सिक्तसंमृष्टं मुक्तपुष्पावकीर्णं । नावासंक्रमं बन्धापेथ येन भगवां सश्रावकसंघो गंगायां तरिष्यति वैशालिं गमनाय । अर्धयोजनिके च अन्तरे मण्डपसंविधानं का[रापेथ अन्नपान]संविधानं कारापेथ शय्यासनसंविधानं च भगवतः सश्रावकसंघस्य सर्वं सुखोपधानं यथा भगवां सश्रावकसंघो राजगृहातो सुखं वैशालिं गच्छेय भिक्षुसंघश् च ॥
मनसा देवानां वचसा पार्थिवानां ।
नचिरेणाढ्यानां कर्मणा दरिद्राणाम् इति ॥
राज्ञा च आणत्तं अमात्येहि च सर्वं प्रतिजागृतं यथा आणत्तं ॥
___भगवां संप्रस्थितो सार्धं भिक्षुसंघेन ॥ राजा श्रेणियो बिम्बिसारो सयुग्यबलवाहनो सदेवीकुमारामात्यपरिजनो राजार्हेहि पंचहि च्छत्रशतेहि धार्यमाणेहि ओसक्तपट्टदामकलापेहि सध्वजपताकेहि महता राजानुभावेन महता राज-ऋद्धीये महताये विभूषाये भगवन्तं वैशालिं गच्छन्तं समनुयाति अर्धयोजनिकेनान्तरावासेन यावत् स्वकं विषयं गंगायाः तीरं ॥ अश्रोषुः वैशालका लेच्छविका एदृशये विधीये
[_म्वु_1.259_] राजा श्रेणियो बिम्बिसारो भगवतो अनुयानं करोति राजगृहातो वैशालिम् आगच्छन्तस्येति ॥ श्रुत्वा च पुनः याव च वैशाली याव च गङ्गातीर्थं वैशालकानां लेच्छवीनां विजितम् अत्रान्तरे मार्गं प्रतिजाग्रंसु अष्टपदसमम् अविषमं पाणितलजातं सिक्तसंमृष्टं मुक्तपुष्पावकीर्णं विततवितानं चित्रदुष्यपरिक्षिप्तं ओसक्तपट्टदामकलापं धूपितधूपनं ॥ देशदेशेहि च नटनर्तन-ऋल्लमल्लपाणिस्वर्या स्थापयेन्सु । अर्धयोजनिकेन च अन्तरेण मण्डपसंविधानं च कारयेन्सु शय्यासनसंविधानं च पानीयसंविधानं च भक्तसंविधानं च भगवतः सश्रावकसंघस्य ॥ अभ्यन्तरवैशालीतो चतुरशीति रथसहस्राणि योजापयित्वा द्वेचतुरशीति रथसहस्राणि योजापयित्वा सवैजयन्तिकानि सनन्दिघोषाणि सपुष्पमालानि सच्छत्रध्वजपताकानि प्रभूतं च गन्धमाल्यम् आदाय स्वकस्वकानि भद्राणि यानान्य् अभिरुहित्वा महता राजानुभावेन महता राज-ऋद्धीये महतो जनकायस्य हक्कारहिक्कारभेरीमृदंगमरुपणवशंखसन्निनादेन वैशलीतो नगरातो निर्याता भगवन्तं प्रत्युद्गच्छेन्सु यावद् गङ्गातीर्थं भगवतः पूजार्थं ॥ तेषां पि तं एवं संविधानरूपं अभूषि ॥ सन्त्य् अत्र लेच्छवयः नीलाश्वा नीलरथा नीलरश्मिप्रतोदा नीलयष्टी नीलवस्त्रा नीलालंकारा नील-उष्णीषा नीलच्छत्रा नीलखड्गमणिपादुकवालव्यंजनाः ॥ तत्र इदम् इति उच्यते ॥

नीलाश्वा नीलरथा नीला रश्मिप्रतोद-म्-उष्णीषा ।
नीला च पंच ककुदा नीला वस्त्रा अलंकारा ॥
सन्त्य् अत्र लेच्छवयः पीताश्वाः पीतरथा पीतरश्मिप्रतोदयष्टी पीतवस्त्राः पीतालंकारा पीतोष्णीषा पीतच्छत्रा पीतखड्गमणिपादुका ॥ तत्रेदम् उच्यते ॥
[_म्वु_1.260_] पीताश्वा पीतरथा पीता रश्मिप्रतोद-म्-उष्णीषा ।
पीता च पंच ककुदा पीता वस्त्रा अलंकारा ॥
सन्त्य् अत्र लेच्छवयो मंजिष्ठाश्वा मंजिष्ठरथा मंजिष्ठप्रतोदयष्टी मंजिष्ठवस्त्रा मंजिष्ठ-अलंकारा मंजिष्ठ-उष्णीषा मंजिष्ठच्छत्राः मंजिष्ठमणिपादुकवालव्यंजनाः ॥ तत्रेदम् उच्यते ॥
मंजिष्ठा अश्वरथा मञ्जिष्ठ रश्मिप्रतोदयष्टी च ।
मंजिष्ठ पंच ककुदा मम्जिष्ठ वस्त्र-अलंकाराः ॥
सन्त्य् अत्र लेच्छवयो लोहिताश्वा लोहितरथा लोहितप्रतोदयष्टी लोहितवस्त्रा लोहितालंकारा लोहित-उष्णीषा लोहितच्छत्राः लोहितखड्गमणिपादुकवालव्यंजनाः ॥ तत्रेदम् उच्यते ॥
लोहिता अश्वा रथा च लोहित रश्मिप्रतोदयष्टी च ।
लोहित च पंच ककुदा लोहित वस्त्रा अलंकाराः ॥
सन्त्य् अत्र लेच्छवयो श्वेताश्वा श्वेतरथा श्वेतप्रतोदयष्टी श्वेतवस्त्राः श्वेतालंकाराः श्वेतोष्णीषाः श्वेतच्छत्राः श्वेतखड्गाः श्वेतमणिपादुकवालव्यंजनाः ॥ तत्रेदम् उच्यते ॥
श्वेताश्वा श्वेत रथा श्वेत रश्मिप्रतोदयष्टी च ।
श्वेता च पंच ककुदा श्वेता वस्त्रा अलंकाराः ॥
सन्त्य् अत्र लेच्छवयो हरिताश्वा हरितरथाः हरितरश्मिप्रतोदयष्टी च हरितवस्त्रा
[_म्वु_1.261_] हरितालंकारा हरितोष्णीषा हरितच्छत्रा हरितखड्गा हरितमणिपादुकवालव्यंजनाः ॥ तत्रेदम् उच्यते ॥
हरिताश्वा हरित रथा हरिता रश्मिप्रतोदयष्टी च ।
हरिता च पंच ककुदा हरिता वस्त्रा अलंकाराः ॥
सन्त्य् अत्र लेच्छवयो व्यायुक्ताश्वा व्यायुक्तरथा व्यायुक्तरश्मिप्रतोदयष्टी व्यायुक्तवस्त्रा व्यायुक्तालंकारा व्यायुक्त-उष्णीषा व्यायुक्तच्छत्रा व्यायुक्तखड्गा व्यायुक्तमणिपादुकवालव्यंजनाः ॥ तत्रेदम् उच्यते ॥
व्यायुक्ता अश्वरथा व्यायुक्त रश्मिप्रतोदयष्टी च ।
व्यायुक्त पंच ककुदा व्यायुक्त वस्त्र-अलंकाराः ॥
सन्त्य् अत्र लेच्छवयो सुवर्णच्छत्रेहि कुंजरेहि नानालंकारभूषितेहि ॥ सन्त्य् अत्र लेच्छवयो सुवर्णशिविकाहि सर्वरतनभुषिताहि ॥ सन्त्य् अत्र लेच्छवयो सुवर्णमयेहि रथेहि सवैजयन्तेहि सनन्दिघोषेहि सखुरप्रवाशीहि उच्छ्रीतच्छत्रध्वजपताकेहि ॥ एवंरूपेण अनुभावेन एवंरूपाये विधिये एवंरूपेण समुदयेन एवंरूपाये राज-ऋद्धीये एवंरूपाये समृद्धीये एवंरूपाये संवृत्ताये एदृशाये विभूषाये वैशालका लेच्छवयो द्वेचतुरशीतिहि यानसहस्रेहि गोशृङ्गी च आम्रपालिका च तद् यथा सो पि महाजनकायो भगवन्तं प्रत्युद्गता यावद् गङ्गाया तीर्थं ॥
___भगवां गंगाये पारिमे कूले राज्ञो श्रेणियस्य बिम्बिसारस्य मागधकानां ब्राह्मणकानां धर्मया कथया संदर्शयित्वा समुत्तेजयित्वा संप्रहर्षयित्वा मागधकानां ब्राह्मणकानां चतूरशीति सहस्राणि धर्माभिसमये प्रतिष्ठापेत्वा येन वैशालका लेच्छवयो
[_म्वु_1.262_] तेन विलोकेत्वा भिक्षूणां आमन्त्रेति ॥ भिक्षवो न दृष्टपूर्वा देवा त्रायस्त्रिंशाः सुदर्शनातो नगरातो उद्यानभूमिम् अभिनिष्क्रमन्ता ॥ ते एतरहि वैशालका लेच्छवयो पश्यथ ॥ तत् कस्य हेतोः ॥ तादृशाये च भिक्षवो ऋद्धिये देवा त्रायस्त्रिंशा सुदर्शनातो नगरातो उद्यानभूमिम् अभिनिष्क्रमन्ति ॥
स्फीतानि राज्यानि प्रशाम्यमाना
सम्यक्* राज्यानि करोन्ति ज्ञातयो ।
तथा इमे लेच्छविमध्ये सन्तो
देवेहि शास्ता उपमाम् अकासि ॥
त्रायस्त्रिंशा ये हि न दृष्टपूर्वा
उद्यानभूमिं अभिनिष्क्रमन्ता ।
एतादृशी समिति अभूषि तेषां
यथा इयं समृद्धि लेच्छवीनां ॥
सुवर्णच्छत्रेहि च कुंजरेहि
शिविकाहि सौवर्णमयीहि चान्ये ।
रथेहि सौवर्णमयेहि चान्ये
प्रत्युद्गमं लेच्छविनो करोन्ति ॥
सर्वे समेत्वा सह ज्ञातिबन्धवो
दहरा च मध्या च महल्लका च ।
अलंकृता लक्तकरक्तवस्त्रा
प्रत्युद्गता ते च विचित्रचारी ॥

तहिं दानि गंगायां राज्ञो श्रेणियस्य बिम्बिसारस्य नावासंक्रमं अभ्यन्तरवैशालकानां
[_म्वु_1.263_] नावासंक्रमं बाहिरवैशालकानां नावासंक्रमं गांगेयेहि नागेहि कम्बलाश्वतरेहि नावासंक्रमो कृतो ॥ भगवान् अस्मदीयेन उत्तरिष्यतीति ॥
___शुकेन गोशृंगीये वचनेन सश्रावकसंघो शुवेतनाय भक्तेन उपनिमन्त्रितो तस्य च भगवता तूष्णीभावेनाधिवासितं ॥ तेन शुकेन भगवतस् तूष्णीभावेनाधिवासना बुद्धाबुभावेन विज्ञाता ॥ सो भगवतः पादा शिरसा वन्दित्वा भगवन्तं भिक्षुसंघं च प्रदक्षिणीकृत्वा प्रत्यागतो ॥ येन गोशृंगी भगवती तेनोपसंक्रमित्वा आह ॥ निमन्त्रितो सो भगवां तथागतो ऽर्हं सम्यक्संबुद्धो सश्रावकसंघो शुवेतनाये भक्तेन त्वद् वचनेन अधिवासितं तेन भगवता तूष्णीभावेन ॥
___भगवां नावासंक्रमे आरूढो ॥ राजा श्रेणियो बिम्बिसारो स्वके नावासंक्रमे भगवन्तं पश्यति ॥ अभ्यन्तरवैशालका च स्वके नावासंक्रमे भगवन्तं पश्यन्ति सश्रावकसंघं ॥ बाहिरवैशालका स्वके नावासंक्रमे भगवन्तं पश्यन्ति सश्रावकसंघं ॥ कम्बलाश्वतरा पि गांगेयमहानागा स्वके नावासंक्रमे भगवन्तं पश्यन्ति सश्रावकसंघं ॥ तरमाणं तेहि कम्बलाश्वतरेहि गांगेयकेहि राज्ञो श्रेणियस्य बिम्बिसारस्य पंच च्छत्रशतानि दृष्ट्वा वैशालकानां पि पंच च्छत्रशता दृष्ट्वा तेहि भगवतो तरन्तस्य पंच च्छत्रशतानि प्रगृहीतानि । यक्षेहि पि पंच च्छत्रशतानि प्रगृहीतानि । चातुर्महाराजकेहि पि पंच च्छत्रशतानि प्रगृहीतानि । सुनिर्मितेनापि देवपुत्रेण ततो विशिष्टतरं छत्रं प्रगृहीतं । परनिर्मितवशवर्तिहि पि चतुर्हि पि महाराजेहि पंच च्छत्रशतानि प्रगृहीतानि । त्रायस्त्रिंशेहि पि देवेहि पंच च्छत्रशतानि प्रगृहीता । शक्रेणापि देवानाम् इन्द्रेण च्छत्रं प्रगृहीतं । सुयामेन अपि देवपुत्रेण च्छत्रं प्रगृहीतं । तुषितेहि देवेहि पंच च्छत्रशता प्रगृहीता । संतुषितेन देवपुत्रेण ततो विशिष्टतरं छत्रं प्रगृहीतं । ब्रह्मकायिकेहि देवेहि पंच च्छत्रशतानि प्रगृहीतानि । महाब्रह्मणापि ततो विशिष्टतरं
[_म्वु_1.264_] छत्रं प्रगृहीतं । शुद्धावासेहि देवेहि भगवतो गंगाये तरन्तस्य च्छत्रपंचशतानि प्रगृहीटानि । महेश्वरेणापि देवपुत्रेण च्छत्रं प्रगृहीतं भगवतो गंगाये तरन्तस्य ॥ केन तानि सर्वाणि देवमनुष्यकाणि च्छत्रसहस्राणि समभिभूतानि ॥
आह्निककर्मिकपार्थिवराजान वंशनिर्वृत्तार्हन्ति ।
अर्हति च महाभागो स एष पुरुषर्षभो छत्रं ॥
ये बाहिरा जयित्वा रिपुसंघा अश्नन्ति अजितराज्या ।
. . . . . . . संपन्ना ते पि नरा छत्रम् अर्हन्ति ॥
किं पुन येन समन्ता सर्वक्लेशा जिता निरवशेषा ।
अपि च नमुचि ससैन्यो न तु च्छत्रशतारहो भगवां ॥
तारकतरलप्रकाशान्तारकरूपानप्रतिभासां ।
वैडूर्यरतनदण्डां च्छत्रशतां पंच आदाय ॥
राजा बिम्बिसारो अण्वति पृष्ठतो दशबलस्य ।
संप्रस्थितो च भगवां वज्जि अभिमुखो सह गणेन ॥
नावाय समभिरूढो भगवां भवति भवौघं उत्तीर्णो ।
पारे च लेच्छविगणाः छत्रशतां पंच धारेन्सुः ॥
अथ पश्यिया महीपतिं महामहीधरमहाबलनिकेता ।
नागा पि गंगनिलया छत्रशता पंच धारेन्सुः ॥
ऋद्धिमन्तो द्युतिमन्तो धरणिपथगता महाबलनिकेता ।
यक्षा पि तत्र असुरा मुदिता छत्रशता पंच धारेन्सु ॥
आगलितमाल्यमुक्ता उडुपतिपरिपूर्णचारुचन्द्रमुखा ।
[_म्वु_1.265_] देवा पि तत्र मुदिता छत्रशतां पंच धारेन्सुः ॥
चतुरो पि लोकपाला प्रमुदितमनसा विगतमदनमाना ।
नटकरजविधमनकरा धारेन्सु धरणिधरसमस्य ॥
अथ सो त्रिदशाधिपतिः कांचनमणिरत्नसुकृतवरजालं ।
रक्तकुसुमसुकृतदामं छत्रं जगाग्रस्य धारेसि ॥
यमवरुणनागवन्दितं यामाधिपतिं उपेत्य वसुयामा ।
शरदजलाभ्रपाण्डरं धारयि घनपवनगतिस्य ॥
तुषितभवनाधिवासी पुन भगवतो उपगतो अप्रमोहो ।
संवर्तितखरसमवपु धारयि च्छत्रं प्रसन्नमनो ॥
वैडूर्यसुकृतदण्डं प्रावाडदशशतशलाकाचित्रं ।
फुल्लकुसुमास्थिततलं सुनिर्मितो धारये छत्रं ॥
परनिर्मितवशवर्ती निर्मिणे वरकनकभारसंछन्नं ।
रत्नहारलम्बदामं छत्रं त्रैलोक्यकीर्तिस्य ॥
ब्रह्मा प्रसन्नमनसो पवनपथविशुद्धहृदयस्य ।
धारेसि चन्द्रसन्निभं छत्रं परवादिमथनस्य ॥
सप्तरतनामयं पुन दिव्यकुसुमामयं दाममण्डितं ।
छत्रं छत्रारहस्य महेश्वरो धारये छत्रं ॥
इत्य् एष सुराधिपेन कामावचरो संघो सन्निपतितो ।

महा अभु महेश्वरेण अतुलबलधरस्य पूजार्थं ॥
[_म्वु_1.266_] भगवता यत्तकानि तानि च्छत्राणि तत्तका बुद्धा निर्मिता ॥ ते अन्यमन्यस्य न पश्यन्ति भगवन्तं ॥ तेषां प्रत्येकं प्रत्येकं एतद् अभूषि ॥ मम येव च्छत्रे नाथो तिष्ठति सुगतो तिष्ठति ध्वजो तिष्ठति ॥ देवा च मनुष्या च याव अकनिष्ठभवनं पश्यन्ति बुद्धानुभावेन ॥
अथ भगवां पुरुषचन्द्रो तान् अभिनिर्मिणे संबुद्धान् ऋद्धिं ।
भगवां विदर्शये न च अन्यमन्यस्य पश्यन्ति ॥
अकनिष्ठभवनगता तु दशबलबुद्धा अम्बरं प्रसदनियं ॥
शोभेन्ति गगणतलगता यूपम् इव यथा रतनचित्रं ॥
सर्वे सुवर्णवर्णा सर्वे द्वात्रिंशलक्षणसमंगी ।
सर्वे कनकगिरिनिभाः सर्वे वरवारणगतीकाः ॥
सर्वे मनापाकाराः सर्वेषां शोभते प्रभाजालं ।
सर्वे अमितगुणधराः सर्वे प्रामोद्यसंजननाः ॥
दृष्ट्वान देवमनुजा गगनतलं शोभन्तं दशबलेहि ।
अति-र्-इव उद्विल्यहर्षा हाहाकारं उदीरेन्सुः ॥
आस्फोटितप्रक्ष्वेडितकलकलसमाकुला अभिवर्तन्ति ।
मुंचेन्सुः अम्बरगता वरचूर्णरजाकुलं सुरभिं ॥
तं भगवतस् तादृशं बुद्धविकुर्वितं ऋद्धिप्रातिहार्यं दृष्ट्वा अतीव देवा भगवतः पूजां करेन्सुः मान्दारवेहि महामान्दारवेहि कर्कारवेहि महाकर्कारवेहि रोचमानेहि
[_म्वु_1.267_] महारोचमानेहि भीष्मेहि महाभीष्मेहि समन्तगन्धेहि महासमन्तगन्धेहि पारियात्रकपुष्पेहि सुवर्णपुष्पेहि रूप्यपुष्पेहि रजतपुष्पेहि चन्दनचूर्णेहि अगरुचूर्णेहि केशरचूर्णेहि भगवन्तम् ओकिरेन्सु अभ्योकिरेन्सु समन्तात् षष्टि योजनां दिव्येहि च गन्धचूर्णेहि जानुमात्रमोघो संवृत्तो ॥ भिक्षु भगवन्तम् आहन्सुः ॥ किम् अयं भगवन् देवानुभावो नागानुभावो यक्षानुभावो येन इमानि दानि च्छत्रसहस्राणि देवेहि च नागेहि च राजानेहि च प्रगृहीतानि ॥ भगवान् आह ॥ तथागतस्यैष भिक्षवः पौराणस्य कुशलधर्मस्य अनुभावो ॥ यदि तथागतो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो न भविष्यति संसारे संसरन्तो भगवन्तो यत्तका एतानि च्छत्राणि तत्तकानि चक्रवर्तिराज्यानि कारयिष्येत्* ॥ अथ च पुनस् तथागतस्य सर्वपुण्यपापक्षयतो परिनिर्वाणं भविष्यति ॥
___भगवान् दानि आयुष्मन्तं वगीशम् आमन्त्रेसि ॥ प्रतिभातु ते वागीश तथागतस्य पूर्वयोगो ॥ साधु भगवन् आयुष्मां वागीशो भगवतः प्रतिश्रुत्वा ताये वेलाये इमां गाथां बभाषे ॥
अभूच् छास्ता अतीतस्मिं ब्राह्मणो अकुतोभयो ।
प्रहीणजाति ब्राह्मणो ब्रह्मचर्यस्मिं केवली ॥
सत्वां दुःखितां दृष्ट्वान दुःखधर्मसमर्पितां ।
धर्मचक्रं प्रवर्तेसि आभां कासि अनुत्तरां ॥
धर्मचक्रं प्रवर्तित्वा आभां कृत्वा अनुत्तरां ।
संबुद्धो परिनिर्वायेत्* महर्षिः क्षीणपुनर्भवो ॥
तस्य स्तूपम् अकरेन्सुः श्रावका अकुतोभया ।
शैक्षा उत्तमा दान्ताश् च अकरेन्सु कीर्तिहेतवे ॥
क्षत्रियब्राह्मणवैश्या पूजां कासि महर्षिणो ।
[_म्वु_1.268_] नृत्यवादित्रगीतेन नानामाल्यसमागता ॥
ब्राह्मणो पि विचिन्तेति पिता बुद्धस्य पण्डितो ।
यं नूनं छत्रं कारेयं रत्नाकृतं शुभपाण्डरं ॥
विमलं छत्रं स्तूपस्मिं अधिरोपिय संचिते ।
अश्रूणि च प्रवर्तेन्तो पिता पुत्रम् अपूजयि ॥
सो तं कर्म करित्वान कल्याणं बुद्धवर्णितं ।
ब्राह्मणो अकरि कालं जातानाम् एव धर्मता ॥
संवर्ताञ् च विवर्ताञ् च अशीतिन् तेन कर्मणा ।
दुर्गतिं नोपलभते एतच् च्छत्रस्य तत्फलं ॥
मनुष्येषु तदा राज्यं धर्मेण अनुशासयं ।
पृथिव्यां चक्रवर्त्य् आसि विजितावी महाबलो ॥
चित्रा जनपदा आसि अनुयात्रासि क्षत्रिये ।
तम् एव अपचायेसि श्वेतच्छत्रं ददत् सुखं ॥
ततो चापि च्यवित्वान देवेषु उपपद्यिथ ।

मरूणां प्रवरो आसि देवकायान पूजितो ॥
पूजितो मरुसंघानाम् ऐश्वर्यकम्बलस्थितो ।
वसन्त ऽत्रापि वर्तेसि श्वेतच्छत्रस्य तत्फलं ॥
देवानाम् उत्तमो आसि मनुष्याणां पि उत्तमो ।
सर्वत्र उत्तमो आसि देवानां मनुजान च ॥
देवानाम् उत्तमः भूत्वा मनुष्याणां च उत्तमो ।
तं भवञ् च विजहित्वान आगत्वा पश्चिमं भवं ।
[_म्वु_1.269_] संबुद्धो पि प्रजायासि ऋषि क्षीणपुनर्भवो ॥
सो तं मार्गं वाभिज्ञाये दुःखप्रशमगामिनं ।
यस्य मार्गस्य प्रतिलाभा दुःखस्यान्तं करीयति ॥
तं चात्र अतीता बुद्धा तं च वीरो प्रतापवां ।
सर्वे समशीलप्रज्ञा नास्ति बुद्धान अन्तरं ॥
ये च ते हि काले काले संबुद्धा नात्र संशयं ।
सर्वे ते सुगतिं यान्ति आत्मकर्मफलोपगाः ॥
चक्षुमां ब्राह्मणो आसि अन्तेवासिश् च ते अहं ।
त्वयाहं चोदितो वीर पूर्वां जातिम् अनुस्मरेत्* ॥
एवम् एव एतद् आसि यथा भाषसि वागीश ।
ब्राह्मणो हं तदा आसि अन्तेवासि च मे भवं ॥
मया त्वं चोदितः सन्तो पूर्वां जातिम् अनुस्मरेत्* ।
तस्मा ध्वजपताकां च श्वेतच्छत्रं च कारयेत्* ॥
वेदिकां चैव स्तूपेषु कुर्यात् पंचांगुलानि च ।
साधु पुण्यवरं विपुलं दायकम् अधिवर्तति ॥
एषा चान्या च या पूजा बुद्धम् उद्दिश्य क्रियते ।
सर्वा अबन्ध्या सफला भवति अमृतोपगा ॥
न हि अर्चनां समां लोके पश्यामि विशिष्टतरां कुतो ।
यं च अन्यं पूजयन्तो पुण्यं यासि महत्तरं ॥
सचे कोचि-म्-अस्मिं लोकस्मिं सर्वा पि देवता सदा ।
[_म्वु_1.270_] पूजेय सर्वरतनैः नैवं से प्रतिकृतं सिया ॥
एवं महायशा महाकारुणिका अनुकम्पाहितामिता ।
ओदुम्बरम् इव कुसुमं न हि सुलभदर्शना संबुद्धाः ॥
अथ ये मे भणन्ति वर्णं समाधितो च शीलतो च प्रज्ञातो च अधिगमनतो च निष्क्रमणतो च प्रयोगतो च जात्यतो च भूततो च भवन्ति महेशाख्या च कृतपुण्या तासु तासु जातीषु आदेयवचना च भवन्ति कीर्तनीया च बहुजनस्य ॥
तेनैव कुशलमूलेनारोपितेन उत्तरिं ।
प्रावरणं अल्पकिसरं तेषां भवति कायिकं ॥
तस्मात् पुण्यानि कुरियात्* निचयं सांपरायिकं ।
पुण्यानि परलोकस्मिं निष्ठा भवति प्राणिनां ॥
भगवां गंगाम् उत्तीर्णो वैशालीये च सीमाम् आक्रान्तो ॥ भगवता ते अमनुष्यका पलाना ॥ मारेण पापीमता भगवतो गच्छन्तस्य यत् तं लेच्छवीहि मार्गं मुक्तपुष्पावकीर्णं सिक्तसंमृष्टं प्रतिजाग्रितं तं सर्वं प्राणकेहि स्फुटं ॥ निर्मितो कुण्डलो नाम परिव्राजको ॥ सो भगवतो तेन मार्गेण गच्छन्तस्य आह ॥ निवर्ताहि ॥
बहूहि प्राणेहि मही संवृता
अणूहि स्थूलेहि च मध्येहि च ।
बुद्धो यदा गच्छति भूतसंस्तृते
व्यथा ततो उपपद्यति आक्रमे ॥

[_म्वु_1.271_] भगवान् आह ॥
मृदु संस्पर्शः यो तथागतानां
तूर्णं यथा ओतरितमारुतानां ।
न हि बुद्धश्रेष्ठान तथागतानां
शरीरम् आगम्य वधो प्रजायति ॥
भयचेतना नास्ति विहेष्ठना वा
प्राणेषु सो गच्छति अप्रतिघो भगवान्* ।
सर्वेहि भूतेहि निवापषण्डं
भगवता हरितशाद्वलं निर्मितं ॥
भगवां उपविष्टो भिक्षुसंघो च ॥ ते लेच्छवयो भगवन्तं पृच्छन्ति ॥ कस्य भगवता शुवे आगारम् अधिवासितं अभ्यन्तरवैशालकानां बाहिरवैशालकानां वा ॥ भगवान् आह ॥ न हि वासिष्ठाहो अभ्यन्तरवैशालकानां तथागतेनाधिवासितं न बाहिरवैशालकानां ॥ गोशृंगीये मनुष्यालापिको शुको प्रेषितो गंगाये पारं । तेन तथागतो सश्रावकसंघो गोशृंगीये वचनेन शुवेतनाय भक्तेन उपनिमन्त्रितो ॥ तथागतेनाधिवासितं ॥ ते दानि लेच्छवयो अभ्यन्तरवैशालका च दुवेचतुरशीति राजान सहस्राणि अन्यो च महाजनकायो क्षत्रियमहाशाला गृहपतिमहाशाला विस्मयसम्पन्नाः कथं शुको जल्पतीति ॥ भगवान् आह ॥ किम् अत्राश्चर्यं गोशृंगीये शुको जल्पति मानुषिकाय वाचाय । अन्येहि पि वासिष्ठाहो पक्षिभूतेहि राज्यं व्यवहरितं ॥
___भूतपूर्वं वासिष्ठाहो अतीतम् अध्वाने नगरे वाराणसी काशिजनपदे ब्रह्मदत्तो नाम राजा राज्यं कारयति कृतपुण्यो महेशाख्यो महाबलो महाकोशो महावाहनो । तस्य च राज्यं ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णजनमनुष्यं च बहुजनमनुष्याकीर्णं
[_म्वु_1.272_] च सुखितजनमनुष्यं च प्रशान्तदण्डडमरं सुनिगृहीततस्करं व्यवहारसम्पन्नं ॥ विस्तीर्णो च अन्तःपुरो अपुत्रो च ॥ तस्य राज्ञो भवति ॥ कथं मे पुत्रो भवेया ॥ स शृणोति अमात्यानां ॥ अनुहिमवन्ते आश्रमे ऋषयो महानुभावा प्रतिवसन्ति पंचाभिज्ञा चतुर्ध्यानलाभिनो ते पृच्छितव्या कथं पुत्रो भवेय ॥ ते महानुभावा ऋषयो आचिक्षिष्यन्ति यथा देवस्य पुत्रो भविष्यति ॥ सो दानि राजा सान्तःपुरो सकुमारामात्यो सबलवाहनो येन तेषाम् ऋषीणाम् आश्रमस् तेन संप्रस्थितो ॥ अन्तरमार्गे वासम् उपगतो राजा सबलवाहनो सान्तःपुरो ॥ तेन तहिं दृष्टा साम्बलीकोटरातो त्रयो पक्षियो निर्यान्तायो उलूकी शारिका शुकी ॥ तस्य दानि राज्ञो दृष्ट्वा कौतूहलं संजातं ॥ तेन पुरुषो आणत्तो गच्छ जानाहि किम् अत्र कोटरे ॥ सो आरुह्य निध्यायति पश्यति त्रीणि अण्डकानि ॥ सो आह ॥ देव त्रीणि अण्डकानि ॥ राजा आह ॥ पृथक् पृथक् पुटके बन्धिय ओतारेहि यथा न विपद्यन्ते ॥ तेन पुरुषेण पुटकस्मिं पृथक् पृथग् बन्धिय ओतारिता अविपन्नाः ॥ अमात्या पृच्छीयन्ति ॥ कस्येमानि अण्डकानि ॥ अमात्या आहुः ॥ एतेषां खु शाकुन्तिका पृच्छीयन्ति। एतेषाम् अत्र विषयो ॥ शाकुन्तिका शब्दापिता ॥ शाकुन्तिका राज्ञा पृच्छीयन्ति ॥ राजा आह ॥ भो भणे जानाथ कस्य इमान्य् अण्डकानि ॥ ते तत्र चरिता शाकुन्तिकाः सर्वेषां पक्षीजातीनां अण्डकानां विधिज्ञा पक्षिणां पि विधिज्ञा यो यादृशो पक्षीति ॥ ते आहन्सु ॥ महाराज इमानि त्रीण्य् अण्डकानि एकम् उलूकीये द्वितीयं शारिकाये तृतीये शुकीये ॥ राजा आह ॥ किं भव्यान्य् एतानि अण्डकानि अभिनिर्भेदाय ॥ ते आहन्सुः ॥ भव्यानि महाराज ओतारितानि
[_म्वु_1.273_] अविपन्नानि ॥ राजा पृच्छति ॥ को एतेषाम् अण्डकानाम् उपचारो यथैते उपचीर्णा विद्येन्सुः स्वस्तिना च अभिनिर्भेदं गच्छन्ति ॥ शाकुन्तिका आहन्सुः ॥ महाराज विहतं कार्पासं उभयत्राश्रये संस्तरितव्यं ॥ तत्र एतानि अण्डकानि मधुसर्पिषा म्रक्षित्वा निक्षिप्तव्यानि उपरि विहतं कार्पासं तम् एते मातृकार्थं पोषिष्यति ॥ यथा तेहि शाकुन्तिकेहि आणत्तं तथा तानि अण्डकानि निक्षिप्तानि ॥ राजा तं ऋषीणाम् आश्रमम् अनुपूर्वेणानुप्राप्तो ॥ एकान्तेन बलवाहनं स्थापयित्वा सान्तःपुरो ऋषीणाम् आश्रमम् उपसंक्रान्तो ॥ ऋषयो राजानं दृष्ट्वा प्रत्युद्गताः यथा ऋषीणां समुदाचारो ॥ स्वागतं महाराज अनुरागतं महाराज निषीदतु महाराजा इमान्य् आसनानि ॥ राजा सान्तःपुरो ऋषीणां पादा वन्दित्वा निषण्णो ॥ ऋषीणां महत्तरको कुलपती ॥ सो तं राजानं प्रतिसंमोदेत्वा पृच्छति ॥ किं महाराज आत्मनो प्रयोजनं ऋषीणां सकाशातो ॥ राजा आह ॥ मम विस्तीर्णो अन्तःपुरो न कस्याचित् पुत्रो अपुत्रो स्मि यं इच्छामि संदिश्यतु यथा मे पुत्रो भवेय ॥ ऋषीणां महत्तरको आह ॥ महाराज यानि तानि त्रीणि अण्डकानि अमुकातो शाम्बलीकोटरतो ओतारितानि तानि वेष्टावेहि ततो ते पुत्रा भविष्यन्ति ॥ राजा विस्मितो ॥ महाभागा इमे ऋषयो यन् तं नाम यं इमानि अमुकातो शाम्बलीकोटरातो त्रीणि अण्डकानि ओतारापितानि इमेषाम् इह आश्रमे प्रतिवसन्तानां विदितं ॥ महाभागा इमे ऋषयो ॥ सो ऋषीणां पादा वन्दित्वा भूयो वाराणसीं संप्रस्थितो । अनुपूर्वेण वाराणसीं प्रविष्टो ॥ तानि अण्डकानि कालेन समयेन सर्वाणि त्रीणि प्रभिन्नानि ॥
[_म्वु_1.274_] एकतो उलूकपोतको जातो द्वितीयातो शारिकपोतको जातो तृतीयातो शुकपोतको जातो ॥ राजाणत्तीये उन्नीयन्ति वर्धीयन्ति ॥ यत्र वेलाये संवृद्धा सर्वे त्रयो पण्डिता मेघाविनो मनुष्यालापिनो मनुजाये वाचाये आलापसंलापं करोन्ति परस्परं ॥ सो दानि राजा ब्रह्मदत्तो तेषां बुद्धिबलं ज्ञात्वा पृथक् पृथक्* राजधर्मं पृच्छति ॥ ते च ज्ञात्वा व्याकरोन्ति ॥ तेषां व्याकरणं श्रुत्वा सर्वेषां त्रयाणां राजा ब्रह्मदत्तो प्रीतो संवृत्तो ॥
वाराणस्याम् अभूद् राजा ब्रह्मदत्तो प्रतापवान्* ।
तस्य राज्ञो अभूत् पुत्रा सकुना त्रीणि पण्डिताः ॥
प्रथमो कौशिको आसि द्वितीयो आसि शारिको ।
तृतीयो च शुको आसि सर्वे पण्डितजातिकाः ॥
तेषां बुद्धिबलं ज्ञात्वा तुष्टो राजा जनाधिपः ।
राजधर्माणि पृच्छेयं सर्वां प्रत्येकशो रहे ॥
कौशिकं ताव पृच्छामि शकुन्त भद्रम् अस्तु ते ।
राज्यं प्रशासमानस्य किं कृत्यं पुत्र मन्यसे ॥
कौशिको आह ॥
चिरस्य वत मां तातो राजधर्माणि पृच्छति ।
हन्त ते हं प्रवक्ष्यामि एकाग्रमनसो शृणु ॥
न क्रोधस्य वसं गच्छे स तु क्रोधं निवारयेत्* ।
न हि क्रुद्धस्य अर्थो वा धर्मो वाक्रमति पार्थिव ॥
अक्रुद्धस्य हि राजस्य अर्थो धर्मो जनाधिप ।
प्रज्ञाक्रमति सर्वत्र तस्मा क्रोधं निवारयेत्* ॥
[_म्वु_1.275_] ततो विवादे उत्पन्ने उभौ पक्षौ समाहितः ।
उभाभ्यां वचनं श्रुत्वा यथाधर्मं समाचरेत्* ॥
मा च च्छन्दा च दोषा च भया मोहा च पार्थिव ।
उभाभ्यां वचनं श्रुत्वा यथाधर्मं समाचरेत्* ॥
न च गच्छति सो हानिं पण्डितो हि अर्थकारणात्* ।
यशकीर्तिञ् च रक्षन्तो स्वर्गं मार्गेति पार्थिव ॥
ततो अधर्मं वर्जेत्वा राजधर्मेहि पार्थिव ।
अनुशास महीपाल एवं तत्र गमिष्यसि ॥
रञ्जनीयेषु कामेषु मातिवेलं प्रमोद्यहि ।
प्रमत्तस्य हि कामेहि परशत्रु बलीयति ॥
ततो नगरवृत्तानि सर्वाणि अनुवर्तये ।

अथ जानपदवृत्तं धर्मेण अनुवर्तयेत्* ॥
पौरजानपदं राष्ट्रं गुणेहि अभिधारयेत्* ।
भोगद्रव्यप्रदानेन कृत्यानां करणेन च ॥
ततः परिजनं सर्वं वट्टेन अभिधारयेत्* ।
भोगद्रव्यप्रदानेन अभेद्यपुरुषो भवे ॥
अनुरक्तं विरक्तं च सर्वं जानेसि पार्थिव ।
बलाग्रे उपजीविषु पौरजानपदेषु च ॥
प्रत्यवेक्षित्वा कर्मान्ता भूतां हर्षाणि दापयेत्* ।
सर्वेषु हिंसां वर्जेत्वा धर्मेण फलम् आदिशेत्* ॥
यथा पूर्वकेहि राजेहि आगतां जनतां बहुं ।
यथा राष्ट्रं निवेशेय तथा कुरुहि पार्थिव ॥
अनुग्रहं च दीनानां आढ्यानां परिपालनं ।
[_म्वु_1.276_] सदा विजितवासीनां करोहि मनुजाधिप ॥
धनक्रीडारतो राजा परदारनिरतस् सदा ।
राष्ट्रस्य अप्रियो भवति क्षिप्रं जहति जीवितं ॥
अलुब्धो पुनर् मेधावी परदारविरतः सदा ।
राष्ट्रस्य प्रियो भवति सुचिरं तात जीवति ॥
वैरबन्धं च मा कुर्या पाटिराजेहि पार्थिव ।
यो वैरी हि महीपाल वैरम् अर्पेन्ति वैरिणः ॥
मित्रबन्धं च कुर्यासि पाटिराजेहि पार्थिव ।
दृढमित्रां हि राजानो पूजेन्ति अपरा प्रजा ॥
प्रकीर्णोच्चारणो मासि सर्वार्थेहि जनाधिप ।
हेतुकारणसंयुक्तं मन्त्रं कालेन व्याहरे ॥
गुह्यम् अर्थं च धारेहि सदा वारेहि पार्थिव ।
भिन्नमन्त्रा हि राजेन्द्रा अनुभोन्ति व्यसनं बहुं ॥
गुह्यम् अर्थं धारयित्वा लभते विपुलां शिरिं ।
न चामित्रवसम् एति पश्चाच् च नानुतप्यति ॥
ये ऽमुढमन्त्रा अविकीर्णवाचा
युक्ताश् च कार्यार्थे जना नरेन्द्र ।
न तेषु शत्रू जनयन्ति क्रोधं
मणिविषाणां यथा शतघ्नीयो ॥
गुह्यकम् अर्थसंबन्धं संधारयति यो नरः ।
[_म्वु_1.277_] सत्रु भेदभयात् तस्य दासभूतो च वर्तति ॥
धर्मस्थितेषु आरक्षां सदा कुर्यासि पार्थिव ।
बलचक्रं हि निश्राय धर्मचक्रं प्रवर्तते ॥
धर्मस्थितानां तेजेन सर्वा शाम्यन्ति ईतयो ।
समयेन वर्षन्ति देवा शस्यं निवर्तते तहिं ॥
दृष्टधर्मे हितार्थं च संपराये सुखानि च ।
एवं भोति महाराज गुणवन्तेषु यत् कृतं ॥
तस्मात् तं परिरक्षेया राजा धर्मेण पार्थिव ।

तं हि राज हितं तुह्यं राष्ट्रस्यापि च तं हितं ॥
समीक्षाकारी अस्या हि सर्वार्थेहि जनाधिप ।
कोष्ठागारे च कोष्ठे च अप्रमत्तश् च संभव ॥
एतावती अर्थवती एषा मह्यानुशासनी ।
तं सर्वम् ओगृहीत्वान एवं कुरुहि पार्थिव ॥
एवं ते प्रतिपन्नस्य यशो कीर्तिश् च भेष्यति ।
क्षेमं भविष्यते राष्ट्रं ऋद्धं स्फीतं जनाकुलं ॥
कौशिकस्य श्रुत्वा वाक्यं श्रेष्ठं धर्मार्थसंहितं ।
तथा शारिकं पृच्छामि राजधर्मा ब्रवीहि मे ॥
सारिकपोतो आह ॥
चिरस्य वत मां तात राजधर्माणि पृच्छसि ।
हन्त ते हं प्रवक्ष्यामि एकाग्रमनसो शृणु ॥
द्विभिस् तु पादकैस् तात अत्र लोकः प्रतिष्ठितः ।
अलब्धलाभो अर्थस्य लब्धस्य परिरक्षणं ॥
तस्माद् अर्थस्य लाभार्थं लब्धस्य परिरक्षणे ।
[_म्वु_1.278_] दृढं कुर्यासि व्यायामं धर्मेण मनुजाधिप ॥
यो वै भूमिपतिर् देव अधर्मेणानुशासति ।
राष्ट्रं स्य दुब्बलं भोति च्छिद्रभूतं समन्ततः ॥
यो च भूमिपतिर् देव धर्मेणानुशासति ।
राष्ट्रं स्य स्थावरं भवति ऋद्धं स्फीतं जनाकुलं ॥
निगृह्णे निगृहीतव्यं प्रग्रहार्हां च प्रगृह्णे ।
संगृह्णे संगृहीतव्यां अनुग्रहरुचिर् भव ॥
यो निग्रहं न जानाति प्रग्रहं वा जनाधिपः ।
संग्रहानुग्रहं चापि सो अर्था परिहायति ॥
पुत्रांश् च भ्रातरां चापि शुरां साहसिकां छवां ।
मा त्वन् ते ईश्वरां कासि ग्रामे जनपदेषु वा ॥
अनुग्रहं कुर्या भूपो मातापितार्थं पार्थिव ।
विमानिता हि दायद्या उद्भ्रान्ता भोन्ति शत्रवः ॥
पंच राष्ट्रा भवे राज्यं कुटिलशत्रुसेवितं ।
मा तां च विश्वसे तत्र मा च प्रतिपद्ये उत्पथे ॥
उत्पथे च प्रतिपन्नो क्षत्रियो च वसानुगो ।
अमित्राणां वसम् एति पश्चाच् च अनुतप्यति ॥
आत्मना बललाभार्थं अमित्राणां पि निग्रहे ।
राष्ट्रस्य अनुकम्पार्थं संतुलेहि जनाधिप ॥
समीक्षियान कथय रात्रौ वा यदि वा दिवा ।
उपश्रोता हि तिष्ठन्ति ते श्रुत्वा विकरेन्सु ते ॥
[_म्वु_1.279_] शूरो व्यावर्त्यते क्षिप्रं आढ्यः संगृह्णते बलं ।
अर्थवशी मन्त्रबली कुपितो करे ऽर्थं न ते ॥
तस्माद् अर्थवसं विप्रं सपुत्रदारं प्रवासयेत्* ।
आढ्यं मन्त्रवरं वैश्यं तनुं वापि शठंशठं ॥

मूल पाठ: Mahāvastu-avādana · Edition: Émile Senart, 3 vols., Paris 1882-1897. Cf. also : Emmanuel Faure, B. Oguibénine, M. Yamazaki, and Y. Ousaka Mahāvastu-avādana, vol.I: word index and reverse word index Tokyo 2003 (Philologica Asiatica, Monograph Series 20) The Chuo Academic Research Institute (Tokyo, 2003 (July)) · Data entry Emmanuel Fauré · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc