भाषा

ENहिગુ
ग्रंथ पाठ

महावस्तु-अवादन · भाग 101120

प्रह्लादिता च नरका ज्वलनाग्निकल्पाः ॥
सो दानि आह ॥
ये तत्र तत्र जनतां प्रतिपालयन्ति
संसारपंजरगतां मदनाभिभूतां ।
तेषां विमोक्षकरणेन महायशेन
आमन्त्रणार्थम् अनघेन प्रभा प्रमुक्ता ॥
बोधिसत्व आह ॥
मुञ्चथ अमरा पुराणि न किल प्रामोद्यस्य अयं कालो ।
जरामरणपुरं भेत्तुं कालो ज्ञानप्रहारेण ॥
बोधिसत्वो स्मृतो संप्रजानो प्रदक्षिणचित्तो मातुः कुक्षिं ओक्रान्तो ॥
इति स नदिय सिंहनादं नरसिंहो च्यवनकालसमयस्मिं ।
अन्तरहितो क्षणेन नरेन्द्रभवने समुपपद्यि ॥
[_म्वु_2.10_] यो सो तुषितं कायं ओभासेति शुभेन वर्णेन ।
देवपुराच् च्यवमानो तं अनतिवरं जिनं वन्दे ॥
सब्रह्मकं च लोकं सश्रमणब्राह्मणीं प्रजां सर्वां ।
वर्णेन्ऽ; ओभासयति अनतिवरो लोकप्रद्योतो ॥
आश्चर्यम् अद्भुतम् इदं पश्यथ यावत् महर्द्धिकः शास्ता ।
स्मृतिमां सुसंप्रजानो मातुः कुक्षिस्मिं ओक्रान्तो ॥
यावच् च नरप्रवरो उत्तमलक्षणसमङ्गि अस्थासि ।
माताये कुक्षिस्मिं स्मृतिमतिमां संप्रजानो च ॥
समनन्तर्ऽ; ओक्रान्ते च बोधिसत्वे इयं महापृथिवी अतीव षड्विकारं कम्पे संकम्पे प्रकम्पे संहर्षणीयं च कम्पयति मोदनीयं च प्रह्लादितं च निर्वर्णनीयं च उल्लोकनीयं च आसेचनकं च अप्रतिकूलं च प्रामोदिकं च प्रसादनीयं च निरुद्वेगं च निरुत्त्रस्तं च । कम्पमाना च पुनर् न कंचित् सत्वं व्यापादयति यम् इदं चलं वा स्थावरं वा ॥
ततो अयं सागरमेरुमण्डला
प्रकम्पिता षड्विधम् आसि मेदिनी ।
कृता लोका विमला मनोरमा
महान्धकारापनुदस्य तेजसा ॥
यावत्तका नागराजानो नागाधिपतयो रक्षावरणगुप्तये औत्सुक्यं समापद्येन्सु ॥
चतुरो पि लोकपाला रक्षाम् अकरेन्सु लोकनाथस्य ।
मा कोची अहितेषी नमुचिबलनुदं विहिंसेया ॥
[_म्वु_2.11_] शक्रो पि देवानाम् इन्द्रो सुयामो पि देवपुत्रो संतुषितो पि देवपुत्रो सुनिर्मितो पि देवपुत्रो वशवर्ती पि देवपुत्रो महाब्रह्मा पि शुद्धावासा पि देवा बोधिसत्वस्य मातुः कुक्षिगतस्य रक्षावरणगुप्तये औत्सुक्यं समापद्येन्सुः ॥
ततो कोटिसहस्राणि देवानां कपिलाह्वयं ।
उपगतानि तुष्टानि आरक्षं वरबुद्धिनो ॥
देवनगरं इव कपिलपुरम् उत्तमं कृतम् अनुविशन्तेहि ।
मनोमयविक्रमगतेहि अमरगणेहि अभिविरोचति ॥
मायां परिवारेत्वा महेश्वरगणानां किल सहस्राणि ।
आशु विगतमल-म्-अखिला आकाशगता अभिनिषण्णाः ॥
तेषां दानिं पृष्ठतो इन्द्रसहस्राणि विमलशिखराणि ।
सुबहूनि बहुगुणस्य आरक्षार्थं निषण्णानि ॥
तेषां दानिं पृष्ठतो देवेन्द्राणां सहस्रनयुतानि ।
कामावचरा देवा निषण्णा गगने निरलम्बे ॥
देवगणानां पृष्ठतो असुरा असुराणां च द्विजिह्वगणाः ।

यक्षाश् च विकृतरूपाः राक्षससंघाश् च संनिषण्णाः ॥
एताये विधिये गगनम् अमरशतसहस्रसंकुलं श्रीमद्* ।
अत्यन्तसुपरिशुद्धं कुशलम् उपचितं हि वरदेन ॥
सो यं महानुभावो स्मृतिमां तुषितभवना च्यवित्वान ।
पाण्डरवराहकनिभो भवित्व गजरूपि षड्डन्तो ॥
वीरशयने शयन्तिये पोषधिकाये विशुद्धवसनाये ।
स्मृतसंप्रजानकुशलो मातुः कुक्षिस्मिं ओक्रान्तो ॥
[_म्वु_2.12_] सा च रजनीप्रभाते आख्यासि भर्तुनो मनापस्य ।
राजवर पाण्डरो मे गजराजो कुक्षिम् ओक्रान्तो ॥
तं च श्रुणित्वान राजा वैपंचनिकां समागतां अवच ।
सुपिनस्मिं अस्य सर्वे भणाथ भूतं फलविपाकं ॥
ते तत्र चावचिंसू नैमित्तिका पृच्छिता स्वयं राज्ञा ।
द्वात्रिंशलक्षणधरो कुक्षिं देवीये ओक्रान्तो ॥
हृष्टो भवाहि नरवर यस्य तव कुलस्मिं प्रत्युत्पन्नो ।
पृथिवीधर वीरगर्भो अनोपमसत्वो महासत्वो ॥
यथ मय पौराणानाम् आचर्याणां स्वयं समुपाहृतं ।
द्वे स्य गतयो अनन्त्या भवन्ति नरवीरशार्दूल ॥
यदि आसिष्यति अगारे महिपति होति सरतनो महर्द्धिको ।
नित्यानुबद्धविजयो राजशतसहस्रपरिवारो ॥
अथ खलु प्रव्रजिष्यति चातुर्द्वीपां महीं विजहियान ।
होहिति अनन्यनेयो बुद्धो नेता नरमरूणां ॥
[सुपिनं पि शाकियानी आख्यासि भर्तुनो मनापस्य ।
श्वेतो गजनाथो मे कुक्षिं भेत्त्वान ओक्रान्तो ॥
एतं श्रुणित्व राजा वैपंचनिकां समागतां अवच ।
सुपिनस्मिं अस्य सर्वं भणाथ भूतं फलविपाकं ॥
ते तत्र चावचिंसू नैमित्तिक पृच्छिता स्वयं राज्ञा ।
द्वात्रिंशलक्षणधरो कुक्षिं देवीये ओक्रान्तो ॥
यदि पुनर् अगारमध्ये वसति पृथिवीं अभिजेष्यते सर्वां ।
[_म्वु_2.13_] शूरां पुत्रसहस्रं लभेत एतादृशां वीरां ॥
अथ रतन-अनन्ताकरं पूर्णां महीम् उज्झियान प्रव्रजति ।
बुद्धो होहिति लोके सर्वज्ञो सर्वदर्शावी ॥]
महाब्रह्मा आह ॥
स्वप्नान्तरे प्रमदा अदर्शि
सूर्यं नभा कुक्षिम् अनुप्रविष्टं ।
प्रसूयति स्त्रीरतनं सुभागं
भर्तास्य भोति नृपो चक्रवर्ती ॥
स्वप्नान्तरे या प्रमदा अदर्शि
चन्द्रं नभा कुक्षिम् अनुप्रविष्टं ।
प्रसूयते सा नरदेवगर्भं
सो भवति राजा बलचक्रवर्ती ॥

स्वप्नान्तरे या प्रमदा अदर्शि
सूर्यं नभा कुक्षिम् अनुप्रविष्टं ।
प्रसूयते सा वरलक्षितांगं
सो भवति राजा बलचक्रवर्ती ॥
स्वप्नान्तरे या प्रमदा अदर्शि
श्वेतं गजं कुक्षिम् अनुप्रविष्टं ।
प्रसूयते सा गजसत्त्वसारं
सो भवति बुद्धो बोधितार्थधर्मो ॥
देवी पृच्छीयति ॥ किं धरेसि ॥ सा आह ॥ चक्रवर्तिन् ति ॥
[_म्वु_2.14_] कुक्षिं प्रभासयन्तं कनकवपुं प्रवरलक्षणसमङ्गिं ।
धारेमि चक्रवर्तिं वरपुरुषं राजशार्दूलं ॥
देवा नभे भगवतो घोषम् उदीरयेन्सुः ॥ बुद्धो भविष्यति न राजा चक्रवर्ती ॥ महाब्रह्मा गाथां भाषति ॥
गजं रत्नश्रेष्ठं मदनबलवेगापनयनं
प्रदीपं लोकस्य तमतिमिरमोहापनयनं ।
गुणानां कोषं त्वं अपरिमितरत्नाकरधरं
धरेसि राजर्षिं अप्रतिहतचक्रं समरुचिं ॥
देवी आह ॥
यथा मम न रागदोषा प्रसहन्ति नरेन्द्रगर्भम् उपलभ्य ।
निःसंशयं भविष्यति समरुचि यथ निश्चरति वाचा ॥
बोधिसत्वे खलु पुनर् मातुः कुक्षिगते मातु सुखं गच्छति पि तिष्ठति पि सुखं निषीदति पि शय्यां कल्पयति बोधिसत्वस्यैव तेजेन ॥ बोधिसत्वे खलु पुनः मातुः कुक्षिगते बोधिसत्वमातुः काये शस्त्रं न क्रामति ॥ न विषं नाग्नि न अशनी प्रसहति बोधिसत्वस्यैव तेजेन ॥ बोधिसत्वे खलु पुन मातुः कुक्षिगते बोधिसत्वमातरं देवकन्या दिव्येहि उच्छादनपरिमर्दनपरिशेषेहि परिजागरन्ति बोधिसत्वस्यैव तेजेन ॥ बोधिसत्वे खलु पुनर् मातुः कुक्षिगते बोधिसत्वमाता दिव्यवस्त्रसंवृतशरीरा भवति दिव्याभरणधारिणी बोधिसत्वस्यैव तेजेन ॥ बोधिसत्वे खलु पुनः मातुः कुक्षिगते माता लाभिनी भवति दिव्यानां गन्धानां दिव्यानां माल्यानां दिव्यानां विलेपानां दिव्यानाम् ओजानां बोधिसत्वस्यैव तेजेन ॥ बोधिसत्वे खलु पुनर् महामौद्गल्यायन
[_म्वु_2.15_] मातुः कुक्षिगते बोधिसत्वमातुः खलु पुनः यो अस्या अभ्यन्तरपरिवारो सो से अतीव श्रोतव्यं श्रद्धातव्यं मन्यन्ति बोधिसत्वस्यैव तेजेन ॥ किंकरणीयकप्रतिसंयुक्तेहि निमन्त्रेन्ति बोधिसत्वस्यैव तेजेन ॥ बोधिसत्वे खलु पुनर् मातुः कुक्षिगते बोधिसत्वमातरं बोधिसत्वो पश्यति ॥ बोधिसत्वे खलु पुनर् मातुः कुक्षिगते बोधिसत्वमातुर् न कोचिद् उपरिमेन गच्छति अन्तसो पक्षी पि । अल्पाबाधा भवति अल्पातङ्का । समाये विपाकनीयग्रहणीये समन्वागता । नाप्य् अतिशीताये नाप्य् अति-उष्णाये ऋतुपरिणामाये बोधिसत्वस्यैव तेजेन ॥ बोधिसत्वे खलु पुनर् मातुः कुक्षिगते बोधिसत्वमाता लाभिनी भवति प्रणीतानां खादनीयभोजनीयानां अग्ररसानां उत्तमरसानां अधिगतरसानां प्रत्यग्ररसानां बोधिसत्वस्यैव तेजेन ॥ बोधिसत्वे खलु पुनर् मातुः कुक्षिगते बोधिसत्वमाता विगतरागा भवति अखण्डम् अच्छिद्रम् अशबलम् अकल्माषं परिशुद्धं परिपूर्णं ब्रह्मचर्यं चरति । मनसापि ताये प्रमदोत्तमाये रागो न उत्पद्यति सर्वपुरुषेहि अन्तमसतो राज्ञापि शुद्धोदनेन बोधिसत्वस्यैव तेजेन ॥ बोधिसत्वे खलु पुन मातुः कुक्षिगते बोधिसत्वमाता पंच शिक्षापदानि समादाय वर्तति तानि च सपूर्वसमादिन्नानि भवन्ति बोधिसत्वस्यैव तेजेन ॥ बोधिसत्वे खलु पुनर् मातुः कुक्षिगते यवत्ता नागराजानो नागाधिपतयो अण्डजा वा जरायुजा वा संस्वेदजा वा औपपादुका वा ते सर्वे निवेशनम् उपसंक्रमित्वा दिव्यानि चन्दनचूर्णानि दिव्यानि तमालपत्रचूर्णानि प्रकिरन्ति अगुरुचूर्णानि प्रकिरन्ति दिव्यानि केशरचूर्णानि प्रकिरन्ति दिव्यानि कुसुमानि प्रकिरन्ति । समाप्ताये च नं अर्चनाये अर्चयन्ति परिपूर्णाये च नं अर्चनाये अर्चयेन्सुः ॥ ते दिव्यानि चन्दनचूर्णानि च प्रकिरित्वा दिव्यानि अगुरुचूर्णानि प्रकिरन्ति दिव्यानि च केशरचूर्णानि दिव्यानि च तमालचूर्णानि प्रकिरन्ति ॥ दिव्यानि मुक्तकुसुमानि प्रकिरित्वा समाप्ताये च नं
[_म्वु_2.16_] अर्चनाये अर्चयित्वा परिपूर्णाये च नं अर्चनाये अर्चयित्वा बोधिसत्वमातरं त्रिष्कृत्यो प्रदक्षिणीकृत्वा येनकामं प्रक्रमेन्सुः बोधिसत्वस्यैव तेजेन ॥ बोधिसत्वे पुनर् मातुः कुक्षिगते यावन्तो सुवर्णराजानो सुवर्णाधिपतयो एवं चतुर्महारजकायिका देवास् त्रायस्त्रिंशा यामा तुषिता निर्माणरतिनो परनिर्मितवसवर्तिनो ब्रह्मकायिका देवा ते सर्वे निवेशनं उपसंक्रमित्वा दिव्यानि चन्दनचूर्णानि प्रकिरित्वा दिव्यानि अगुरुचूर्णानि प्रकिरन्ति । दिव्यानि तमालपत्रचूर्णानि दिव्यानि मुक्तकुसुमानि प्रकिरित्वा समाप्ताये च नं अर्चनाये अर्चयित्वा परिपूर्णाये च नं अर्चनाये अर्चयित्वा परिशुद्धाये च नं अर्चनाये अर्चयित्वा बोधिसत्वमातरं त्रिष्कृत्यो प्रदक्षिणीकृत्वा येनकामं प्रक्रमेन्सुः बोधिसत्वस्यैव तेजेन ॥
___बोधिसत्वो खलु पुनर् मतुः कुक्षिगतो न चातिनीचं तिष्ठति न चाति-उच्चं तिष्ठति न चावकुब्जको न ओत्तानको न वामेन पार्श्वेन तिष्ठति न उत्कुटुको ॥ अथ खलु दक्षिणे पार्श्वे पर्यंकम् आभुञ्जित्वा तिष्ठति ॥ बोधिसत्वो खलु पुनर् मातुः कुक्षिगतो न पित्तेन न श्लेष्मेण वा न रुधिरेण वा अन्येन वा केनचिद् अशुचिना उपलिप्तो ऽविशुद्धो तिष्ठति ॥ अथ खलु उच्छादितस्नापितविशदगात्रो बोधिसत्वो मातुः कुक्षिस्मिं तिष्ठति ॥ बोधिसत्वो खलु पुनर् मातुः कुक्षिगतो मातरं पश्यति बोधिसत्वमातापि तं कुक्षिगतं बोधिसत्वं पश्यति विग्रहम् इव जातरूपस्य दृष्ट्वा च भोति आत्तमना [कुक्षिं ओभासेन्तं विग्रहम् इव जातरूपस्य ] ।
यथ वैडूर्यस्य मणि स्फाटिकसमुद्गे कटि-उत्संगस्मिं ।
निहितो स्या एवम् एव बोधिसत्वं पश्यति माता ।
कुक्षिं ओभासेन्तं विग्रहं इव जातरूपस्य ॥
[_म्वु_2.17_] बोधिसत्वं देवसंघाः सुखरात्रिं सुखदिवसं पृच्छका आगच्छन्ति प्रीतमनसो तां च देवसंघां तथा पृच्छमानां बोधिसत्वो प्रत्यभिनन्दति दक्षिणं करम् उत्क्षिप्य मातरं च न बाधति ॥ बोधिसत्वं मातुः कुक्षिगतं देवा नागा यक्षा मारुता राक्षसा पिशाचा न जहन्ति दिवा चा रात्रौ च न चात्र आसंगकथा कथीयति कामोपसहिता वा अन्या वा असत्या कथा । नान्यत्र बोधिसत्ववर्णम् एव भाषन्ति रूपतः सत्त्वतः तेजतः वर्णतः यशतः कुशलमूलातो ॥ बोधिसत्वस्य मातुः कुक्षिगतस्य प्रतिपूजा नोपरमति । दिव्यानि तूर्याणि दिव्यानि अगुरुधूपानि दिव्यं पुष्पवर्षं दिव्यं चूर्णवर्षं ॥ अप्सरसहस्राणि च उपगायन्ति उपनृत्यन्ति ॥ बोधिसत्वमातां देवकन्यासहस्रेहि सार्धं अभ्याभवति हास्यं च कथा च । प्रसुप्तां च बोधिसत्वमातरं देवकन्या मन्दारवदामेन चपला परिवीजेन्ति बोधिसत्वस्यैव तेजेन ॥ अयं च पुनः त्रिसाहस्रमहासाहस्रायां लोकधातूयं अनुत्तरा गर्भावक्रान्तिपारमिता ॥
अन्यं च दानि पश्यथ आश्चर्यं तस्य देवपर्षाये ।
ताव विपुलाये या कथा अभूत् परमहर्षसंजननी ॥
न पि कामकथा तेषां न पि अप्सरसां कथा न गीतकथा ।
न पि वाद्यकथा तेषां न पि भक्षकथा न पानकथा ॥

नाभरणकथा तेषां न पि वस्त्रकथा प्रवर्तति काचित्* ।
यानोद्यानकथा वा मनसापि न जायते तेषां ॥
साधू पुण्यबलवतो द्युति . . . . . सा सदेवकं लोकं ।
अभिभवति नायकस्य विकसति एषा कथा तत्र ॥
[_म्वु_2.18_] साधुं गर्भोक्रमणं कर्मण अनुरूपं पारमिगतस्य ।
इति विकसति बहुविधा कथा परिषामध्ये एतस्मिं ॥
साधू ति निरामिषेहि संज्ञापदेहि क्षपेन्ति तत्कालं ।
वरबुद्धिनो अयं अपि कथा विकसति परिषामध्ये ॥
एवं बहुप्रकारां कथां कथयन्ता रमन्ति देवगणाः ।

रूपं वर्णं तेजं वरं च वीरचर्यं कथयन्ता ॥
सर्वेषां बोधिसत्वानां माता प्रतिपूर्णे दशमे मासे प्रजायति ॥ सुभूतिना शाक्येन प्रेषितं राज्ञो । आगच्छतु देवी इह प्रजायिष्यति ॥ राजा प्रतिबोधयति ॥ आगमिष्यति सालभंजकं च करिष्यति ॥
लुम्बिनिवनं सुचपलं अपगततृणखाण्डपत्रसंखारं ।
वरसुरभिकुसुमनिकरं करोथ गन्धोदकसुगन्धं ॥
लुम्बिनिवने व वाता तमालपत्रगन्धवासितशरीरा ।
वायन्तु अमृतगन्धां मदजनना च पलायन्तु ॥
अगरुवरधूपगन्धा समोनमन्तु नभतो जलधरा तं ।
लुम्बिनिवनं छादेतुं वरचूर्णरसाकुलं क्षिप्रं ॥
एकैकं चङ्क्रमवरं दुकूलपट्टोर्णाकोशिकारेहि ।
कल्पयथ कल्पवृक्षां यथ दिवि देवप्रधानस्य ॥
देवा च देवकन्या च गन्धमाल्यं गृह्य लुंबिनीवनम् आगच्छन्ति ॥
[_म्वु_2.19_] स्फटिकमणिकुण्डलधरा विगलितवसना प्रलम्बमणिहारा ।
आदाय गन्धमाल्यं गगनपथगता प्रडीयन्ति ॥
मन्दारवान भरिता काचित्* शंगेरियो गृहीत्वान ।
हरिचन्दनस्य काचित् काचि पुनः कल्पदुष्याणां ॥
स्थलजजलजं च माल्यं गृहीत्वा अप्सरा मुदितचित्ताः ।
रतना आभरणानि च जम्बुद्वीपे अभिमुखीयो ॥
चतुराशीतिम् अनूना छत्रसहस्राणि देवकन्यायो ।
कनकरतनामयानि आदाय नभे प्रडीयन्ति ॥
कूटागारसमेहि च स्फटिकमणिमुसालगल्वेहि चित्रेहि ।
भरितम् अपि अन्तरीक्षं दुष्यशतसमुच्छ्रितपताकं ॥
गजश्वसनसन्निकाशा शारदमेघा खगपथे विरोचन्ति ।
वरसुरभिकुसुमगन्धा कमलोत्पलचम्पकविमिश्राः ॥
भुजगपतिनो प्रमुदिता मेघेहि सुगन्धतोयभरितेहि ।
अभ्योकिरन्ति नगरं अन्यानि च अद्भुतशतानि ॥
अवगाह्य तं वनवरं माया सखिसंवृता जिनजिनेत्री ।
विचरति चित्तरथे देवि अमरवधू यथ रतिविधिज्ञा ॥
सा क्रीडार्थम् उपगता पिलक्षशखां भुजाय अवलम्ब्य ।
प्रविजृम्भिता सलीला तस्य यशवतो जननकाले ॥
अथ वा नवति सहस्रा मरुकन्या आशुर् एव सन्निपतिता । {आशु-र्-एव}
मायां कृतांजलिपुटा इदम् अवच प्रसन्नसंकल्पा ॥
[_म्वु_2.20_] अद्य जराव्याधिमथनं जनयिष्यसि अमरगर्भसुकुमारं ।
देवी दिवि भुवि महितं हितं हितकरं नरमरूणां ॥
मा खलु जनय विषादं परिकर्म वयं तवं करिष्यामः ।
यं कर्तव्यम् उदीरय दृश्यतु कृतम् एव तत्सर्वं ॥
अथ चतुरि लोकपाला सपरिवारा आशु-र्-एव सन्निपतिता ।
दिव्यप्रवेणिहस्ता देविम् उपगता प्रदक्षिणतो ॥
सर्वे पि देवसंघा मायां परिचारयित्व आकाशे ।
स्थिता माल्यगन्धहस्ता स्वपरिवारेण उपशोभन्ति ॥
न खलु पुनर् बोधिसत्वामाता बोधिसत्वं जनेति शयाना निषण्णिका वा यथान्याः स्त्रियो ॥ अथ खलु बोधिसत्वमाता स्थितिका एव बोधिसत्वं संजनेति ॥ बोधिसत्वो स्मृतो संप्रजानो मातरम् अबाधयमानो दक्षिणपार्श्वेन प्रादुर्भवति ॥

दक्षिणेन हि पार्श्वेन जायन्ते पुरुषोत्तमाः ।
सर्वे पुरुषशार्दूला भवन्त्य् अत्रविहारिणः ॥
किं तन् न भिद्यते पार्श्वं वेदना च न जायते ।
तस्या जिनजनेत्रीये जनेत्वा पुरुषोत्तमं ॥
मनोमयेन रूपेण प्रादुर्भोन्ति तथागता ।
एवं न भिद्यते पार्श्वं वेदना न च जायति ॥
बोधिसत्वो गर्भावासपरिश्रान्तो सप्त पदानि क्रमति ॥
जातमात्रो च विक्रमे सप्त विक्रमते भुवि ।
दिशां च प्रविलोकेति महाहासं च ऊहति ॥
[_म्वु_2.21_] अत्र किं कारणं उक्तं यं सप्त क्रमते क्रमान्* ।
न च अष्ट न च षष्टि अत्र आगमनं शृणु ॥
गर्भावासपरिश्रान्तो सर्वलोकहितो मुनिः ।
पश्चिमो गर्भावासो यं अथ वेगेन प्रक्रमि ॥
तं तु सप्तपदे न्यस्ते देवसंघाभिलीयत ।
सहसा लोकपालेभ्यो अंकेन धारिये मुनिः ॥
अथ वर्षो समुत्पद्ये दिव्यकुसुमशीकरो ।
मन्दारवरजाकीर्ण्णो दिव्यचन्दनसंकुलो ॥
दीर्घकालम् उदग्राश् च सुरमुख्या अग्रधूपनं ।
प्रमुंचिषु विभूषार्थं तस्य उत्तमबुद्धिनो ॥
यद् अर्थं च विलोकेति दिशां अप्रतिपुद्गलो ।
तत्रापि आगमं वक्ष्ये उपदेशं मनोरमं ॥
न सो विद्यते सत्वानां देवेषु मनुजेषु वा ।
यस्यैवं संभवो भवति गर्भोक्रमणम् एव च ॥
खद्योतकनकनिर्भासं पार्श्वं जिनजनेत्रिये ।
आयते यदा सर्वज्ञः आयते चरमे भवे ॥
जातमात्रस्य तच्चित्तं आसि प्रवरवादिनो ।
अस्ति कश्चित् समबुद्धि मे इदं तर्कं निवर्तितुं ॥
केचित् संसारचारेण अर्तीयन्ति यथा अहं ।
इत्यर्थं पुरुषादित्यः दिशां सर्वां निरीक्षति ॥
अथ दिशां विलोकेन्तो दृश्यति वदतां वरः ।
[_म्वु_2.22_] देवकोटिसहस्राणि तस्मिं हासं प्रमुञ्चति ॥
जातमात्रस्य मे चाहुः देवता मारकायिकाः ।
चतुर्द्वीपो महाकोशो चक्रवर्ती भविष्यसि ॥
अथास्य हासो संभवति न मे सत्वा विजानथ ।
सर्वज्ञो सर्वदर्शावी भविष्यं पुरुषोत्तमः ॥
एवम् एतं प्रशंसन्ति विपाकम् उपदेशकाः ।
तथा हि नरसिंहानां शासनं सुप्रकाशितं ॥
यं तिष्ठन्ती जनये वीरं संकुसुमितेहि शालेहि ।
शरीरम् अवलम्ब्यमाना तं अनतिवरं जिनं वन्दे ॥
संप्रतिजातो सुगतो समेहि पादेहि धरणिम् अवतिष्ठे ।

सप्त च पदानि अगमा सर्वां च दिशां विलोकेति ॥
तं चास्य चंक्रमन्तं अन्वागमि वीजनं च च्छत्रं च ।
मा वरविदुनो काये दंशा मशका च निपतेन्सुः ॥
संप्रतिजाते सुगते देवा प्रथमं जिनं प्रतिगृह्णे ।
पश्चाच् चैनं मनुष्या अनतिवरं अङ्के धारेन्सुः ॥
प्रत्यग्रहेन्सु देवा सुगतं द्वात्रिंशलक्षणसमंगिं ।
[_म्वु_2.23_] पश्चाच् चैनं मनुष्या अनतिवरं अंके धारेन्सुः ॥
निर्वायेन्सु प्रदीपा मानुषका ओभासित्ऽ; अभूल् लोकं ।
संप्रतिजाते सुगते उल्काधारे नरमरूणां ॥
संप्रतिजाते सुगते ज्ञाती उदकार्थिका विधावेन्सुः ।
अथ पुरतो उदुपाना पूरा मुखतो विष्यन्देन्सुः ॥
दुवे वारिधारा उद्गमि एका शीतस्य एका उष्णस्य ।
यत्र स्नपयेन्सु सुगतं विग्रहं इव जातरूपस्य ॥
संप्रतिजाते खलु पुनः सुगते बोधिसत्वमाता अक्षता चैव अभूषि अव्रणा च बोधिसत्वस्यैव तेजेन । बोधिसत्वमातुः कुक्षि प्रतिपूर्णा एव अभूषि अनोनद्धा च ॥ संप्रतिजाते खलु पुनर् बोधिसत्वे चतुर्ण्णां द्वीपकोटिशतानां मध्ये पृथिवीमण्डप्रधाना अश्वत्थयष्टि प्रादुर्भवेत्* । अन्तरद्वीपे चन्दनवनं प्रादुर्भवेत्* । बोधिसत्वस्य उपभोगपरिभोगम् आगच्छे बोधिसत्वस्यैव तेजेन ॥ तत्र देवपुत्रसहस्राणि अप्सरसहस्राणि गन्धमाल्यम् आदाय आगच्छन्ति बोधिसत्वस्य पूजार्थं ॥ देवपुत्रो देवपुत्रं पृच्छति ॥ कहिं गमिष्यसि ॥ सो आह ॥
एषा प्रसूष्यति नरेन्द्रवधूत्तमं तं
वत्सं विबुद्धवरपुष्करगौरगर्भं ।
यो प्राप्स्यते धरणिमण्डगतोत्तमार्थं
मारं निहत्य सबलं तम् उपेमि वीरं ॥
[_म्वु_2.24_] अम्रक्षिता गर्भमलेन गात्रा
जातं जले पंकजम् उत्तमं वा ।
वपुष्मन्तो बालरविप्रकाशो
सब्रह्मकान् अमरान् अभिभोति ॥
ततो जातमात्रो कुले शाकियानां
अतिक्रम्य धीरो पदानीह सप्त ।
समोलोकयित्वा दिशा ऊहसासि
अयं दानिम् एको भवो पश्चिमो त्ति ॥
नभे तु च्छत्रम् एव विभ्राजमानं
मणिमुक्तिश्रेष्ठं पराभाविभ्राजं ।
विधूतदामेन मन्दारवानां
बहू देवपुत्रा नभे धारयेन्सुः ॥
सबालार्कशंखप्रतीकाशवर्णं
वरं हेमच्छत्रं नभे धारयेन्सुः ।
ततो वीजनीयो विसृष्टा भ्रमेन्सुः
करेण ग्रहेत्वा जिनं वीजयेन्सुः ॥
ततः पुण्यगन्धा सुखोष्णा प्रभूता
लघुप्रेमणीया हिता मानुषाणां ।
शिवा नन्दनीया तुषारानुबद्धा
दुवे वारिधारा नभे उद्गमेन्सु ॥
ततो मेरुशृङ्गाद् अनेकप्रकारा
प्रमुक्तोत्तरीया समन्तोर्मिजाता ॥

[_म्वु_2.25_] भृशं विश्वगन्धाधिवासानुवाता
दृढां षड्विधानं महीं कंपयेन्सुः ॥
सुवर्णस्य रूप्यमणीनां शुभाना
विमानेषु देवा सतूर्या विघुष्टा ।
सुजातेन जातं जिनं प्रेक्षमाणा
सचन्द्रार्कतारं नभं शोभयेन्सु ॥
अयं सो सदेवं सनागं सयक्षं
महोघं महर्षी जगं उत्तरित्वा ।
ततः क्षेमम् एकां दिशां प्राप्स्यतीति
प्रहृष्टा स्य देवा नभे व्याहरेन्सुः ॥
संप्रतिजाते बोधिसत्वे शाक्यानां पंच कुमारशतानि सुन्दरनन्दप्रमुखानि । पंच कन्याशतानि यशोधराप्रमुखानि । पंच दासकशतानि च्छन्दकप्रमुखानि । पंच अश्वशतानि कण्ठकप्रमुखानि । पंच हस्तिपोतशतानि चन्दनहस्तिपोतकप्रमुखानि । पंच निधिशतानि प्रादुर्भूतानि ॥ पंचहि राजशतेहि जयसंवृद्धये प्रेषिता ॥
___राजा शुद्धोदनो आणापेति ॥ इतो एव देवीं निवर्तयथ ॥ केनचिद् बोधिसत्वो अभिवहिष्यतीति ॥ विश्वकर्मेण देवपुत्रेण रत्नामयी शिविका निर्मिता ॥ को इमां शिविकां वहिष्यतीति ॥ चत्वारो महाराजा उपस्थिता । वयं सत्त्वसारं वहिष्यामः ।
[_म्वु_2.26_] बोधिसत्वो च मायाय मातुः सार्धं शिविकासमारूढो । शक्रो देवानाम् इन्द्रो महाब्रह्मा च उत्सारणं करोन्ति ॥
___राज्ञा शुद्धोदनेन अमात्या आणत्ता ॥ इत एव कुमारं शाक्यवर्धनं देवकुलं नेथ अभयाये देवीये पादवन्दनं ॥ तेहि अमात्येहि राज्ञो वचनेन कुमारो ततो एव शाक्यवर्धनो देवकुलं नीतो अभयाय देवीये पादवन्दे ॥ ते दानि अभयाये देवीये मूर्धेन पादा वन्दापयिष्यामो ति । येन चाभया देवी तेन कुमारस्य पादा प्रादुर्भूता । अभया देवी कुमारस्य मूर्धेन पादेषु प्रणता ॥
नरो चेतियेषु प्रविष्टो अकामो महालोकनाथो नरेन्द्राण शास्ता ।
यदा उत्तमाङ्गेन वन्दापयेन्सुः ततो तस्य पादानि प्रादुर्भवेन्सु ॥
ततो देवता चाभया इत्य् अवोचत्* न एषो नुरूपो ममं वन्दमामो ।
प्रणामं च एषो यद् अन्यस्य कुर्याद् दृढं सप्तधा अस्य मूर्धं स्फटेयाति ॥
जातमात्रे कुमारे अर्थसिद्धी सुखी सर्वसत्वा अभू यावद् अवीचिं । प्रणामं च कुर्वी देवा अभया च तस्य देवी प्रहृष्टा प्रणामं करोति ॥ उत्थापनीया गाथा ॥
जाते जगप्रधाने सर्वे अर्था प्रदक्षिणा राज्ञो ।
तेन नरलम्बकस्य नामं सर्वार्थसिद्ध इति ॥
[_म्वु_2.27_] राजकुलं कुमारस्मिं प्रविष्ते अवचत् पुरोहितं नृपतिः ।
लक्षणविधिगुणकुशलां विप्रां परियेषथ शीघ्रं ॥
तं विज्ञाय च देवा महेश्वरा नाम चित्तवसवर्त्ती ।
मा लक्षणा अकुशला विकल्पयिष्यन्ति द्विजसंघा ॥
विगतमदमानदर्पा अष्ट सहस्रा महेश्वरवराणां ।
देवनरगुरुं कृताञ्जली संप्रतिजातं उपगमेन्सुः ॥
ते राजकुलद्वारे शुचिवस्त्राम्बरस्थिता स्तिमितशब्दाः ।
प्रतिहाररक्षम् अब्रवीत् सुमधुरकरविंकरुतघोषाः ॥
शुद्धोदनं उपगम्य ब्रूवीहि इमे लक्षणगुणविधिज्ञा ।
तिष्ठन्ति अष्ट सहस्रा प्रविशेन्सुः यदि अनुमतन् ते ॥
साधू ति प्रतिश्रुत्वा प्रतिहाररक्षो प्रविश्य राजकुलं ।
अब्रवीत् कृतांजलिपुटो प्रीतमनसो पृथिवीपालं ॥
अतुलवरदीप्तयशसा कारय राज्यं चिरं निहतशत्रु ।
द्वारे ते ऽमरसदृशा तिष्ठन्ति प्रवेष्टुम् इच्छन्ति ॥
प्रतिपूर्णविमलनयना मधुरस्वर मत्तवारणविचारी ।
भवति मम तेषु शंका न ते मनुजा देवपुत्रास् ते ॥
परिचंक्रमतां तेषां धरणीरजो क्रमवरां न स्पृशाति ।
न च सानं पश्यति पदं पृथिव्यां इदं अपि आश्चर्यं ॥
गम्भीरस्तिमितचेष्टा आर्याकारा प्रशान्तदृष्टिपथा ।

विपुलां जनेन्ति प्रीतिं जनस्य समुदीक्षमाणस्य ॥
[_म्वु_2.28_] अन्यं च दानि अद्भुतं शरीरच्छाया न दृश्यते तेषां ।
तेषां च सन्धिशब्दो चंक्रमतां न श्रुयते कश्चित्* ॥
निःसंशयं उपगता पुत्रवरं नरवराधिप द्रष्टुं ।
अभिनन्दं अभिवादय पश्याहि अयोनिजां देवां ॥
वरमाल्यगन्धहस्तां लीलाचेष्टां मनोरमशरीरां ।
दीप्यन्तां इव शिरीये असंशयं प्रवरमरुतस् ते ॥
शुद्धोदनो निशाम्य वचनम् इदं हर्षकम्पितशरीरो ।
अब्रवीत्* भणहि सुचपलं प्रविशन्तु निवेशनम् उदारं ॥
किंकारणं न एदृशा प्राकृतपुरुषाण भोन्ति आकाराः ।
न पि मानुषाण ईदृशी ऋद्धि भवति यादृशीं भणसि ॥
अथ सो प्रतिहाररक्षो उपगम्य महेश्वरां इदम् अवोचत्* ।
प्रह्वो कृतांजलिपुटो प्रणम्य हृष्टो मुदितचित्तो ॥
अभिनन्दतो नरपतिः प्रविशन्तु भवन्तो दिव्यपुरकल्पं ।
राजवृषभस्य वेश्मं नराधिपतिना अनुज्ञाताः ॥
एतं श्रुत्वा वचनं अष्टसहस्रं महेश्वरवराणां ।
प्रविशन्ति पार्थिवकुलं अनिहतकुलवंशमुख्यस्य ॥
शुद्धोदनो पि राजा महेश्वरां दूरतो निशामेत्वा ।
प्रत्युत्थितो सपरिवारो गौरवबलभावितशरीरो ॥
तां अवच राजवृषभो स्वागतम् अनुरागं भवि सर्वेषां ।
प्रीता स्म दर्शनेन प्रशमदमबलेन च भवतां ॥
[_म्वु_2.29_] संविद्यन्ते इमानि अस्माकं आसनप्रधानानि ।
आस्तां ताव भवन्तो अस्माकम् अनुग्रहार्थाये ॥
अथ ते तेष्व् आसनेषु बहुरत्नविशुद्धचित्रपादेषु ।
विगतमदमानदर्पा निषीदि अनवद्यकर्मान्ताः ॥
ते कंचिद् एव कालं आगमयित्वा नराधिपम् अवोचत्* ।
शृण्वतु भवान् प्रयोजनं यं अस्माकम् इह गमनाये ॥
सर्व-म्-अनवद्यगात्रो उत्पन्नो लोकसुन्दरो तुह्यं ।
पुत्रो किल मनुजपते लक्षणगुणपारमीप्राप्तो ॥
वयम् अपि लक्षणकुशलास् समर्था गुणदोषलक्षणं ज्ञातुं ।
यदि न गुरुत्वं भवतो पश्येम महापुरुषरूपं ॥
सो अवच हन्त पश्यथ सुव्यपदेशक्षेमं मम पुत्रं ।
मरुमनुजहर्षजननं लक्षणगुणपारमीप्राप्तं ॥
अथ स मृदुकाचलिन्दिकप्रवेणिये गुणधरं ग्रहेत्वान ।
अंकेन वादिचन्द्रं उपनामयति सुरवराणां ॥
आलोकयित्व दूरा महेश्वरा पराक्रमं दशबलस्य ।
मूर्धनि विगलितमकुटा निपतन्ति महीतले हृष्टाः ॥
ते दानि राजानम् आरोचेन्ति । लाभा ते महाराज सुलब्धा यस्य ते यं महापुरुषो कुले उत्पन्नो द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागतो ॥ तद्यथा ॥
समा हेष्टा च दीर्घा च आयता उत्संगपंचमा ।
[_म्वु_2.30_] एणि बृहत्प्रतिष्ठितो कोश न्यग्रोध ते दश ॥

मृदुजाला च प्रतिपूर्णा एका ऊर्ध्वाग्रपंचंआः ।
श्लक्स्णच्छवि हंसान्तरा च उत्सदा च ते दश ॥
रसं सुवर्णसीहो च समा शुक्ला च पंचंआ ।
समा प्रभूता ब्रह्ंआ च नीलगोपक्ष ते दश ।
ऊर्णा उष्णीषशीर्षं च नाथो द्वात्रिंशलक्षणो ॥
दक्षिणापथे अपरो ब्राह्मणकुमारो उज्जेनीयं ब्राह्मणमहाशालस्य पुत्रो श्यामो असितो वर्णेन पण्डितो निपुणो मेघवी । तेन गुरुकुलातो देवा च मन्त्रा च शास्त्रा च अधीटा ॥ सो दानि अधीतवेदाध्ययनो गृःआतो निष्क्रम्य विन्ध्यपर्वतं गत्वा ऋषिप्रव्रज्यां प्रव्रजितो मूलफलपत्रभक्षो रुच्छवृत्तिः ॥ तेन तहिं विन्ध्यपर्वते आश्रमं मापयित्वा वाहितकेन मार्गेण युज्यन्तेन घटन्तेन व्यायामन्तेन चत्वारि ध्यानानि निष्पादितानि पञ्चाभिज्ञा च साक्षात्कृता ॥ सो चतुर्ध्यानलाभी पंचाभिज्ञो बहुश्रुतो वेदपारगो असितो ऋषि समन्तेन अभिज्ञातो परिज्ञातो । असितो ऋषि दिवि परिघुष्टो अन्तरीक्षचरो महर्द्धिको च महानुभावो पंचमात्रेहि शिष्यशतेहि सार्धं नालकेन च तहिं आश्रमे प्रतिवसति ॥ सो तं बोधिसत्वस्य जातमात्रस्य पृथिवीचालं च दृष्ट्वा महान्तं च ओभासं दृष्ट्वा मनोज्ञानि च अमानुष्याणि च गीतवाद्यशब्दानि श्रुत्वा दिव्यानि पुष्पवर्षाणि पतन्तानि दृष्ट्वा देवकोटीसहस्राणी च अप्सरसहस्राणि च दिव्यमाल्यगन्धहस्तानि खगपथेन पूर्वामुखम् अभिपतन्तानि अन्यानि च अद्भुतशतानि दृष्ट्वा उद्धर्षितरोमसंजातो ॥ किम् इदं अद्य जंबुद्वीपस्य । इयं अद्य कस्यानुभावेन पृथिवी च
[_म्वु_2.31_] कम्पति अद्भुतशतानि च प्रादुर्भूतानि ॥ सो दानि ऋषिः दिव्येन चक्षुषा सर्वजंबुद्वीपं प्रत्यवेक्षति कस्य इमं तेजानुभावं एदृशं मनोज्ञानि च गीतवादितशब्दा निश्चरन्ति दिव्यानि तूर्यशतानि श्रुयन्ति देवाश् च देवकन्याश् च दृश्यन्ति दिव्यानि च पुष्पवर्षाणि प्रवर्षन्ति चन्द्रादित्यसहस्राणि च दृश्यन्ति नरकसहस्रेषु नाग्निः प्रज्वलति । एकान्तसुखसमर्पिता च सत्वा संजाता ॥ सो तथा दिव्येन चक्षुषा अद्राक्षीत्* ॥ पुरस्तिमेन कपिलवस्तुस्मिं नगरे राज्ञो शुद्धोदनस्य पुत्रो जाता कृतपुण्यो महेशाख्यो महानुभावो यस्य तेजानुभावेन जम्बुद्वीपे एवंरूपाणि अद्भुतशतानि प्रादुर्भूतानि ॥ देशकालेन कुमारं द्रक्ष्यामि ॥ सो दानि कालं च समयं च ज्ञात्वा कुमारस्य दर्शनाय संबहुलेहि शिष्येहि संपरिवृतो वैहायसेन ऋद्धिये कपिलवस्तुम् अनुप्राप्तो राज्ञो शुद्धोदनस्य अन्तःपुरद्वारे ॥ अमात्या च प्रतिहारो च ऋषिं दृष्ट्वा प्रत्युत्थिता । किम् आज्ञापेति भगवां केनार्थं किम् आगमनप्रयोजनं ॥ ऋषि आह ॥ शुद्धोदनस्य प्रतिहारेथ असितो ऋषि दर्शनकामो ॥ प्रतिहारेण राज्ञो निवेदितं ॥ असितो ऋषि दर्शनकामः ॥ राजा शुद्धोदनो असितस्य ऋषिस्य आगमनं श्रुत्वा अभिज्ञातस्य विश्रुतस्य महाभागस्य प्रतिहाररक्षम् आह ॥ प्रविशतु ऋषीति ॥ प्रतिहाररक्षेण निर्धाविय ऋषिस्य निवेदितं । प्रविशतु भवां ॥
___ऋषि प्रविष्टो । राजा सान्तःपुरो ऋषिं दृष्ट्वा प्रत्युत्थितो ॥ अभिवादेम भगवन्तं निषीदतु भगवां ॥ ऋषि राज्ञो जयेन वर्धापयित्वा निषण्णो ॥ राजा पृच्छति ॥ किं भगवं आगमनप्रयोजनं ॥ ऋषि आह ॥ कुमारन् ते द्रष्टुकामो ॥ तस्मिंश् च काले कुमारो अन्यतरं शान्तसमाधिं समापन्नो ॥ तेषाम् एतद् अभवत्* । प्रसुप्तो कुमारो ॥ ततो राजा ऋषिं आह ॥ भगवं आगमेहि मुहुर्तं कुंआरो संप्रति ओसुप्तो ॥ ऋषि आह ॥ महाराज न कुमारो ओसोपति ॥ राजा कुमारस्य
[_म्वु_2.32_] मूलं अल्लीनो पश्यति च कुमारं जाग्रितं ॥ राजा ऋषिस्य विस्मितो । महाभागो ऋषिः ॥ राज्ञा आणत्तं । उपनामेथ कुमारं ऋषिस्य ॥ कुमारो सूक्ष्मायां अजिनप्रवेणियं गृह्य ऋषिस्य उपनामितो ॥ ऋषि कुमारस्य दूरतो एव कायेन महापुरुषलक्षणानि दृष्ट्वा अंजलिं मूर्धनि कृत्वा प्रत्युस्थितो ॥ नमस्कृत्वा कुमारो ऋषिणा प्रतिगृहीतो ॥ ऋषिः कुमारस्य द्वात्रिंशत्मःआपुरुषलक्षणानि प्रत्यवेक्षति ॥
___ऋषिश् च तत्र राजकुले कुमारस्य चक्रवर्तिशब्दं शृणोति । नैमित्तिकेहि कुमारो व्याकृतः राजा चक्रवर्ती भविष्यति ॥ ऋषिस्य भवति ॥ नायं चक्रवर्ती भविष्यति । बुद्धो अयं लोके भविष्यति ॥ ऋषिस् तानि लक्षणानि दृष्ट्वा न एदृशानि राज्ञो चक्रवर्तिस्य लक्षणानि बुद्धानाम् एदृशानि लक्षणानि भवन्ति । बुद्धो अयं लोके भविष्यति । अहं च नचिरेण कालेन कालक्रियां करिष्यामि । इदं च रत्नं न द्रक्ष्यामि । इमस्य धर्मं न श्रोष्यामि गणोत्तमं च न द्रक्ष्यामि ॥ ऋषि प्ररोदी अश्रूणि च प्रवर्तयति ॥ राजा शुद्धोदनो असितं ऋषिं रुदन्तं दृष्ट्वा सान्तःपुरो उद्विग्नो जातो ॥ किं भगवन्तं कुमारं दृष्ट्वा रोदसि । मा कुमारस्य कांचिद् विपत्तिं पश्यसि ॥ कुमारस्य जातमात्रस्य पृथिवी कम्पिता षड्विकारं ओभासः लोके प्रादुर्भूतः देवसहस्रेहि पूजितो दिव्यानि कुसुमवर्षाणि दिव्यानि च तूर्यसहस्राणि संप्रवादितानि शब्दा निश्चरेन्सुः ॥ कुमारे जातमात्रे कपिलवस्तुस्मिं पंच कुमारशतानि जातानि पंच कन्याशतानि पंच दासशतानि पंच दासीशतानि संजातानि पंच हस्तिपोतशतानि पंच अश्वशतानि पंच निधानशतानि प्रादुर्भूतानि पंचहि राजशतेहि जयवृद्धीये प्रेषिटायो अन्यानि पि च आश्चर्याद्भुतानि । भगवां च कुमारं दृष्ट्वा रोदिति । एवं मे भगवं आख्याहि मा कुमारस्य कांचिद् विपत्तिं पश्यसि ॥ ऋषिर् आह ॥ महाराज
[_म्वु_2.33_] कुमारस्य न कांचिद् विपत्तिं पश्यामि । एदृशानां महाराज महापुरुषाणां कदाचित् कहिंचिल् लोके प्रादुर्भावो भवति । अयं महापुरुषो प्रादुर्भूतः बुद्धो लोके भविष्यति । अहं च वृद्धो न द्रक्ष्यामि । धर्मं च देशयिष्यति औपसमिकं चार्यं च निर्वाणिकं च तं च न श्रोष्यामि । गणवरं चास्य न द्रक्ष्यामि बुद्धविकुर्वितानि न द्रक्ष्यामि । तद् एतां महाराज आत्मनो महाविपत्तिं दृष्ट्वा रोदामि ॥ ऋषिः बोधिसत्वं चतुर्हि कारणेहि एकांशेन व्याकरित्वा बुद्धो यं लोके भविष्यतीति प्रक्रान्तो ॥
नीवरणानि विजहित्व एकाग्रेण मनसा मम शृणोथ ।
यथा असितो परिदेवे उत्पन्ने शाकियकुमारे ॥
असितो नाम महर्षिः अभूषि यो वसति विन्ध्यविषयस्मिं ।
नियतनिचयो महात्मा महाकपिल-उत्तमांगरुहः ॥
आरण्यशास्त्रकुशलो लाभी पञ्चान सो अभिज्ञान ।
कैलासशिखरवासी धनपतिर् इव गुह्यकाधिपति ॥
सो वसति काननमूर्ध्नि मूलफलम् अकृष्टं रुच्छां वृत्तिं ।
शिष्येण नालकेन सार्धं अन्येहि च बहूहि ॥
दशकुशलकर्मसेवी प्रशमदमरतो परे च ओवदति ।
देवगुणपारमिगतो ऋषिः परमशीलसंपन्नो ॥
ओभासो च सुविपुलो प्रीती लोकोत्तर असंमुह्यन्ती ।
सत्वा चैकान्तसुखी अभुन्सु पृथिवी च कम्पेसि ॥
सो तत्र संनिषण्णो पश्यति मन्दारवाणि कुसुमानि ।
धरणीतले पतितानि दिव्यानि च कल्पपुष्पाणि ॥
[_म्वु_2.34_] पश्यति असितो च नभे आभरणशटानि विप्रकीर्णानि ।
सहस्रा प्रधावितानां गगनतले देवकन्यानां ॥

मधुरं च किंनरीणां शृणोति गीतस्वरं गिरिगुहासु ।
गिरिनदियो कूलवहां शमयति कुसुमाकुलजलोघां ॥
ओभासं पि च विपुलं समन्ततो पश्यति दशदिशासु ।
सहसा समुत्पतन्तं रवितरुणमरीचिसंकाशं ॥
एतानि च अन्यानि च बहूनि आश्चर्यकानि दृष्ट्वान ।
उद्धर्षितरोमकूपो असितो चिन्तामनो आसि ॥
किन् तु खु मही प्रचलिता गगनतले दुन्दुभिनो च नदन्ति ।
ओभासितो च लोको प्रवर्षति च पुष्पवर्षाणि ॥
न विभान्ति चन्द्रसूर्या लवणजलो क्षुभ्यते असिततोयो ।
पद्मोत्तरीयपटला दृश्यन्ति कुसुमाकुलजलौघा ॥
सर्वे च्ऽ; इमे द्रुमवरा अकालकुसुमेहि . . . . च्छादिता ।
अद्य फलकुसुमभरिता सुरभी गन्धा प्रवायन्ति ॥
न च प्रज्वलते अग्निः निरयसहस्रेषु अद्य दिवसेन ।

न च वेदयन्ति दुःखं लोकान्तरिका विपद्यमाना ॥
न चापि क्षुधापिपासा यथा पुरे जायते शरीरस्मिं ।
हृदयं च मे प्रमुदितं किन् तु खलु भविष्यति अद्य ॥
अतिबलम् उदीर्णहासा किं तु खलु पुरस्तिमे दिशाभागे ।
धावन्ति देवकन्या चन्दनचूर्णं ग्रहेत्वान ॥
[_म्वु_2.35_] को न खलु महानुभावो उत्पन्नो अद्य जंबुद्वीपस्मिं ।
कस्य यशेन यशवतो अयम् एदृशको महाभावो ॥
तहिम् एदृशं निमित्तं लोकस्मिं यस्य कस्यचिद् भोति ।
बुद्धानाम् उत्पादे एदृशका भोन्ति आकाराः ॥
पृथिवीय पतन्तानां शृणोति आकाशे अमरसंघानां ।
उत्पन्नो लोकनाथो बुद्धो होहिष्यति अनेयो ॥
सो दानि प्रमुदितमनो गगनतले श्रुणिय देवसंघानां ।
अद्य नरवीरगर्भो बुद्धो लोकस्मिं उत्पन्नो ॥
सो सर्वं जम्बुद्वीपं ओलोकयि दिव्यलोचनेहि ऋषि ।
अद्दस शाक्यान कुले जातो शुद्धोदनसुतो यं ॥
तस्यापि एवं दृष्ट्वा जातो दिशासु बोधिय कौलीनो ।
तत्रैष बुद्धशब्दो चरति द्रक्ष्यामि तं काले ॥
ते चापि कुठारिहस्ता कृष्णाजिनसुकृत-उत्तरासंगा ।
वल्कलचीरांबरधरा आदाय फलोदकम् आगमि ॥
आकाशे निरालम्बे वायुपथे . . . . प्रक्रामि ऋषिः ।
ऋद्धिं संजनयित्वा क्षणेन आगमि कपिलवस्तुं ॥
हिमवतमूले अदर्शि नगरं रम्यं आदित्यबन्धुगुप्तं ।
दुर्धर्षं परशत्रुभिः तं च सुरमणीयं त्रिदशान इव ।
देवानां प्रविशे ऋषि पुरं शाकियदर्शनार्थाये ॥
सुसन्निभन्तं प्रविशे आपणपण्यक्रयप्रसक्तं पूर्णं ।
[_म्वु_2.36_] हृष्टजनेहि प्रमुदितहयगजरथपत्तिसंघेहि ॥
सो मनसा उपगच्छन्तो द्वारे प्रविष्टो शुद्धान्ते . . . . ।
शुद्धोदनस्य निलयं निलयं यथा देवराजस्य ॥
प्रासादहर्मियं तं गवाक्षवरशरणपंजरविबुद्धं ।
गिरिकूटं इव गलितं पश्यति गगने विरोचेन्तं ॥
तस्मिं विमानमुख्ये कूटागाराणि रजतश्रीमाणि ।
शोभन्ति कर्णिकायो हुताशनहुतार्चिसंकाशा ॥
गर्भगृहाणी शुभानि च सन्ति विशदशंखहारकसंनिभा ।
विमलरविसंप्रकाशा द्योतन्ति कृता व चन्द्राणि ॥
दृश्यन्ति तत्र उप्ता वेरुलियस्य सुकृतेहि फलकेहि ।
गृहसूचीकावलीहि विद्युघनप्रसेकवर्णानि ॥
पश्यन्ति तोरणानि कनकमया अग्निज्वालसदृशानि ।
विमलरविसंप्रकाशा द्योतन्ति कृता च चन्द्राणि ॥
क्वचित्क्वचित् कालमेघसदृशसमदा पि सृजन्ति विय तोयं ।
क्वचि* निश्रितार्कसदृशा सतारका निश्चरन्ति क्वचित्* ॥

मार्जारपोतका पि च क्वचित्क्वचित् सहसावपतन्ति तहिं ।
त्रस्यन्ति च वर्हिणेहि क्वचित्क्वचित् संपतन्तेहि ॥
मधुरं च पंजरगता क्वचित्क्वचित् कोकिला निकूजन्ति ।
शुकसारिका क्वचित्क्वचिद् आभरणनिदानविभ्रान्ता ॥
[_म्वु_2.37_] शुद्धं दशसु विदिशासु चतुरस्रं निर्मितं सु-आविद्धं ।
दुर्घर्षियं अरीभिः सूत्रग्रहस्य समुपचीर्णं ॥
बहुविधरत्नसंचयायं अनेकविचित्रसंघातभूमियां ।
सीहो निषद्यति विष्टं त्रसति च उदेन्तम् आदित्यं ॥
तं युग्ययानकविगतं चेटीवेलासिकाहि च उपेतं ।
काषायकर्बुरवर्णं वर्षवरसमाकुलं प्रविशे ॥
प्रेष्यशतयानकलिलं आर्यजनसमाकुलं शुचिसुगन्धं ।
प्रविशे भवनदुवारं प्राप्तो जटिलो न्यसंरोधं ॥
ओसरणे च भरिता अद्दशि प्रमदा स्थितसंभ्रान्तेन ।
प्रगृहीतखड्गहस्ता अति-र्-इव प्रियदर्शनप्रलापा ॥
असितो चासौ व्यक्तो गम्भीरो सर्वशास्त्रसुविधिज्ञो ।
प्रतिहाररक्षम् अवोच निवेदये शाक्यराजस्य ॥
कालो स्मि विख्यातो भारद्वाजो हम् अस्मि गोत्रेण ।
जातो स्मि आर्य ति विषये सिखरे विन्ध्यस्मिं विहरामि ॥
साध्व् आर्य त्ति श्रुतधरो प्रतिश्रुणिय प्रापये महीपतिनो ।
तद् वचनं अनवशेषं श्रुत्वा च प्रवेशयित्वा च ॥
प्रतिभाणितो प्रविष्टो सिंहहनुस्य स्वर्गसदृशनिलयं ।
इन्द्र इव नन्दनं गतो संकीर्णं अप्सरगणेहि ॥
[_म्वु_2.38_] वर्धापये जयेन फलानि उपनामये असितनामो ।
प्रत्यग्रहेसि राजा स्वागतं भगवतो ति च अवोचत्* ॥
अथ कनकम् अष्टपादं सुविचित्रकिलञ्जकं मणिविचित्रं ।
प्रक्षप्तम् आसनवरं तत्र निषीदे अनुज्ञातो ॥
पर्यंकस्मिं निषण्णो पंचाभिज्ञो ऋषी महर्द्धीको ।
भक्तेन निमन्त्रेति स्वामं शुद्धोदनो राजा ॥
भक्तं कृतं प्रभूतं प्रतिश्रुणु तं अनामयन् तु ते भगवन्* ।
इच्छाम ते कुमारं द्रष्टुं यदि ते अनुमतं स्यात ॥
स्वागतम् अनुरागतं ते सुप्तो तावत् प्रियदर्शि कुमारो ।
द्रक्ष्यसि त्वं प्रतिविबुद्धं विग्रहं इव जातरूपस्य ॥
प्रतिबुद्धं च कुमारं प्रवेणियं अष्टमंगलकृतायं ।
उपनामयि मातुस्मा घनविवरकृतं च आदित्यं ॥
दृष्ट्वान तं ऋषिवरो कुण्डलम् इव पट्टकम्बलन्यस्तं ।
अभ्युत्थहित्व त्वरितं अंकेन प्रतीच्छति कुमारं ॥
अङ्केन गृह्य निशाम्य द्वात्रिंशल्लक्षणेषु उपागतं ।
तथा अनुव्यंजनेहि प्ररोदि आखण्डलसमानो ॥
तं अश्रुपूर्णनयनं राजा शुद्धोदनो इदम् अवोचत्* ।
किं दानि ते कुमारं दृष्ट्वा दौर्मनस्यम् उत्पन्नं ॥

यो तदहो जातमात्रो सप्त पदान् उत्तरामुखो अगमि ।
तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुम् इच्छामि ॥
[_म्वु_2.39_] यस्मिं तदहो जातो छत्रं च वीजनीं च ग्रहेत्वान ।
अस्थान्सु अन्तरीक्षे दृष्ट्वा किं रोदिषि ब्रह्म ॥
यस्मिं तदहो जाते सर्वो ओभासितो अभूल् लोको ।
तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुम् इच्छामि ॥
यस्मिं तदहो जाते उदुपाना दुवे नभे उद्गच्छेन्सुः ।
तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुम् इच्छामि ॥
यस्मिं तदहो जाते देवा छत्रं नभस्मिं धारेन्सुः ।
तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुम् इच्छामि ॥
यस्मिं तदहो जाते देवा मन्दारवाणि प्रकिरेन्सुः ।
तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुम् इच्छामि ॥
यस्मिं तदहो जाते अचेतना संप्रकम्पिता वसुधा ।
तं तुव्ं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुम् इच्छामि ॥
यस्मिं तदहो जाते लवणजलो क्षोभितो असिततोयो ।
तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुम् इच्छामि ॥
यस्मिं तदहो जाते नभसि गता दुन्दुभियो वाद्यन्ति ।
तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुम् इच्छामि ॥
यस्मिं तदहो जाते पंच शता जाता शाक्यपुत्राणां ।
तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुम् इच्छामि ॥
यस्मिं तदहो जाते पंच शता जाता शाक्यकन्यानां ॥
तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुम् इच्छामि ।
यस्मिं तदहो जाते पंच शता जाता मह्य दासानां ।
तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुम् इच्छामि ॥
[_म्वु_2.40_] यस्मिं तदहो जाते पंच शता जाता मह्य दासीनां ।
तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुम् इच्छामि ॥
यस्मिं तदहो जाते मह्य तुरगाणां पंच शता जाता ।
तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुम् इच्छामि ॥
यस्मिं तदहो जाते पंच शता गजपोतानां जाता ।
तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुम् इच्छामि ॥
यस्मिं तदहो जाते पंच निधिशता मुखानि दर्शेन्ति ।
तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुमिच्च्ःआमि ॥
यस्मिं तदहो जाते मण्डलिनो राजानो प्रणत मह्यं ।
तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुमिच्च्ःआमि ॥
यस्य राजाचार्या ब्राह्मण संदर्शनाय उपयान्ति ।
तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुम् इच्छामि ॥
यं पश्यित्वा मनुजा भवन्ति हृष्टा सुखी उदग्रा च ।
तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुम् इच्छामि ॥
व्यपनय ब्राह्मण शोकं भव मुदितमनो सुखं प्रतिलभाहि ।
एषो भविष्यति नृपो सप्तरतनवा पृथिविपालो ॥

एवं उक्ते अवची असितो सितसाह्वयं इदम् अवोचत्* ।
अश्रूणि प्रमार्जन्तो . . . . . . व्याकृतो ऋषिभिः ॥
आनन्दहुतासनबहुतरुणार्कनिभो न सो पुरुषसिंहो ।
होहिति नरपति राजा होहिति शास्ता अनभिभूतो ॥
एषो हि त्रीहि क्रमेहि त्रैधातुकं लंघिया अनवशेषं ।
[_म्वु_2.41_] शिवम् अमरं निरन्तरायं अधिगमिष्यति उत्तमं धर्मं ॥
जीर्णो अहं गतवयो दहरो च नरोत्तमो अचिरजातो ।
कालगतो भविष्यं अहं यद बोधिं प्राप्स्यति कुमारो ॥
बुद्धो अयं भविष्यति सर्वज्ञो सर्वधर्मवशवर्ती ।
स्वाख्यातधर्मविनये अहं च जीर्णो ति रोदामि ॥
नापि मह्यं मरणभयं कहिं तु जातो न म्रीयते मनुजो ।
बुद्धं तु अप्रतिसमं न द्रक्ष्यन् तेन रोदामि ॥
न खु मह्यं मरणभयं कहिं तु जातो न म्रीयते मनुजः ।
धर्मं तु ओपसमिकं न श्रोष्यं तेन रोदामि ॥
न खु मह्यं मरणभयं कहिं तु जातो न म्रीयते मर्त्यो ।
संघं गुणसागरम् अहं न द्रक्ष्यन् तेन रोदामि ॥
यो बुद्धो बोधयिष्यति प्रजाम् इमां भोगेहि चिरप्रसुप्तां ।
सो यं प्रादुर्भूतो अहन् तु जीर्णो ति रोदामि ॥
यो मुक्तो मोचयिष्यति प्रजाम् इमां रागबन्धनैर् बद्धां ।
सो यं प्रादुर्भूतो अहन् तु जीर्णो ति रोदामि ॥
यो मुक्तो मोचयिष्यति प्रजाम् इमां मोहबन्धनैर् बद्धां ।
सो यं प्रादुर्भूतो अहन् तु जीर्णो ति रोदामि ॥
यो मुक्तो मोचयिष्यति प्रजाम् इमां रागदोषमोहेषु ।
सो यं प्रादुर्भूतो अहन् तु जीर्णो ति रोदामि ॥
यो आत्मना अरोगो भूत्वा अन्यां अपि काहिति अरोगां ।
सो यं प्रादुर्भूतो अहन् तु जीर्णो ति रोदामि ॥
[_म्वु_2.42_] यो आत्मना अशोको भूत्वा अन्यां अपि काहिति अशोकां ।
सो यं प्रादुर्भूतो अहन् तु जीर्णो ति रोदामि ॥
यो आत्मना विशल्यो भूत्वा अन्यां अपि काहिति विशल्यां ।
सो यं प्रादुर्भूतो अहन् तु जीर्णो ति रोदामि ॥
सुखिता इमे नरमरू काशिपुरे धर्मराजं द्रक्ष्यन्ति ।
चक्रं प्रवर्तयन्तं अहन् तु जीर्णो ति रोदामि ॥
सुखिता इमे नरमरू द्रक्ष्यन्ते गणवरस्य मध्यगतं ।
अमृतं प्रतिभजमानं अहन् तु जीर्णो ति रोदामि ॥
व्याधि जरा च मरणं अन्तरायकरा बहू मनुष्याणां ।
आश्वास्ता उत्पन्नो अहं अनाश्वस्तो रोदामि ॥
तथा ऋषि आलपित्वा बहूनि करुणायन्तो वेपित्वा ।
अनुशंसे वाचाये नरवरदमकं तदा दृष्ट्वा ॥
प्राचीनदिशं अवोच इहागतो नरुत्तमं गवेषन्तो ।
न हि सुलभो उत्पादो बुद्धान अदान्तदमकानां ॥

सो दानि बोधिसत्वं बहुशो अभिप्रदक्षिणं चरित्वान ।
आमन्त्रये नरपतिं गच्छामि स्निग्धवतीं भवान् देतु ॥
बुद्धनिर्घोषं श्रुत्वा गच्छेसि विनायकोत्तमसकाशं ।
चरयेसि ब्रह्मचर्यं वचनपरिकरो च तस्य स्यात्* ॥
साधु इति प्रतिश्रुत्वा असितस्य नारदो इदं वचनं ।
[_म्वु_2.43_] प्रव्रजिय गणज्येष्ठो अभूषि अरहा विधुतक्लेशो ॥
कात्यायनस्य सगोत्रं नामेन नारदं जिनस्य सुतं ।
वनेवासिनं . . . . वन्दथ परिनिर्वृतं स्थविरं ॥
तं निर्वृतं समशान्तं निरुपधिं सर्वोपधिक्षयविमुक्तं ।
सर्वप्रपञ्चातीतं वन्दथ परिनिर्वृतं स्थविरं ॥
चतुर्हि कारणेहि असितेन बोधिसत्वो एकांशेन व्याकृतो बुद्धो भविष्यतीति ॥ कतमेहि चतुर्हि ॥ लक्षणानां व्यक्ततायै सुविभक्तततायै गम्भीरतायै अखण्डश्रेष्ठतायै ॥ बुद्धानां भगवताम् अशीत्य् अनुव्यंजनानि आसि ॥ बुद्धानां भगवतां तुङ्गनखा ताम्रनखा स्निग्धनखा वृत्तांगुली च चित्रांगुली च अनुपूर्वचित्रांगुली च । निर्ग्रन्थिशिरा च गूढशिरा च गूढगुल्फा घनसन्धी च अविषमसमपादा च । बुद्धा भगवन्तो प्रतिपूर्णव्यंजना च समन्तप्रभा च मृदुगात्रा च विसदगात्रा च अदीनगात्रा च । अनुसन्धिगात्रा च । सुसंहतगात्रा च । सुविभक्तांगप्रत्यंगा च । निखिलादुष्टशरीरा च । व्यपगततिलकालकगात्रा च पुनर् बुद्धा भगवन्तो तूलमृदुपाणयश् च । गम्भीरपाणिलेखा अभग्नपाणिलेखा च अच्छिन्नपाणिलेखा च । अनुपूर्वपाणिलेखा च । बिम्बोष्ठा च । नाभ्यायतनवचना च । मृदुतनुकरक्तजिह्वा च । गजगर्जितस्तनितस्वरा च । सुखरवरगिरा मञ्जुघोषा च बुद्धा भगवन्तो । नागविक्रान्तगामी च । ऋषभविक्रान्तगामी च । सिंहविक्रान्तगामी च । अभिदक्षिणगामी
[_म्वु_2.44_] च । उत्सदसमा च समन्तप्रासादिका च । शुचिसमाचारा च । परमशुचिविशुद्धलोमा च । वितिमिरसमन्तप्रभा च । बुद्धा भगवन्तो ऋजुगात्रा च । मृदुगात्रा च अनुपूर्वगात्रा च । चापोदरा चारूक्षाभग्नोदरा च । गम्भीरनाभी च । अभग्ननाभी च । अच्छिन्ननाभी च । अभिदक्षिणावर्तनाभी च । परिणतजानुमण्डला च । बुद्धा भगवन्तो वट्टितदाठा च । तीक्ष्णदाठा च । अभग्नदाठा च । अच्छिन्नदाठा च । अविषमदाठा च । तुंगनासा च । नात्यायतनासा च । असितनयना च । असितसितकमलसदृशनयना च । बुद्धा भगवन्तो असितभ्रमू च स्निग्धलोमभ्रमू च । अपरीत्तकर्णा च । अविषमकर्णा च । व्यपगतकर्णदोषा च । अनुपहता अनुपक्लिष्टा शान्तेन्द्रिया च उत्तमश्रेष्ठसंमितमुखललाटा च बुद्धा भगवन्तो ॥ असितकेशा च । सहितकेशा च । चित्रकेशा च । विवृत्तकेशा च अभग्नकेशा च । अच्छिन्नकेशा च अपरुषकेशा च । स्निग्धकेशा च सुरभिकेशा च । वल्लिताग्रकेशा सुशिरसो स्वस्तिकनन्द्यावतमुक्तिकश्रेष्ठसंनिकासा च बुद्धानां भगवन्तानां केशा ॥
एतानि बुद्धस्य अमेयबुद्धिनो
काये अशीतिं अनुव्यंजनानि ।
येहि स्य कायो सततं अलंकृतो
देवातिदेवस्य नरोत्तमस्य ॥
प्रशस्तानि यस्य दुवे त्रिंशतिं च
अशीतिं च काये अनुव्यंजनानि ।
समन्ता च व्यामप्रभा निश्चरेन्सुः
[_म्वु_2.45_] कथं नाम विज्ञू जिने न प्रसीदे ॥
शतखुत्तो समादाय यं पुण्यं सर्वसत्त्वनां ।
तेनास्य लक्षणवरं काये एकं निवर्तये ॥
राजा शुद्धोदनो सान्तःपुरो शार्धं कुमारेण उद्यानभूमिं निर्धावितो ॥ बोधिसत्वो उद्यानभूमीये अनुचंक्रमन्तो कृषिग्रामम् अनुप्राप्तो ॥ तत्र पश्यति हलानि वहन्तानि । तेहि हलेहि दीर्घको च मण्डूको च उत्क्षिप्ता । मण्डूको गृहीतो भोजनार्थं । सो पि दीर्घको कुमारेण क्षिप्तो ॥ तं च बोधिसत्वेन दृष्टं । दृष्ट्वा च बोधिसत्वस्य महान्तं संवेगम् उत्पन्नं ॥
कामं शरीरं समं तप्यति जीवितं च
प्राप्स्यामि अद्य अमृतं भवविप्रमोक्षं ।
वीर्यं मया हि प्रतिसंहरितुं न शक्यं
वेलाय च सलिलवेगं यथाणर्वस्य ॥
जम्बुच्छायायां बोधिसत्वो निषण्णो पूर्वाह्णे परिवृत्ते दिवसकरे छाया बोधिसत्वं न जहाति । सवितर्कं सविचारं प्रथमं ध्यानम् उपसंपद्य विहरति ॥ हिमवन्तपार्श्वतो पंच ऋषयो वैहायसेन विन्ध्यं गच्छन्ति । ते तत्र बोधिसत्वस्य न शक्नोन्ति उपरिगन्तुं ॥
वयम् इह मणिवज्रकूटं गिरिं मेरुम् अभ्युद्गतं तिर्यगत्यर्थविस्तारिकं ।
[_म्वु_2.46_] गज इव सहकारशाखाकुलां वृक्षवृन्दां प्रदारेत्वा निर्धाविता नैकशः ॥
वयम् अमरपुरे पि शक्ता गता देवगन्धर्वेश्मानि चोर्ध्वं नभे निश्रिताः ।
वयम् अपि वनषण्डम् आसाद्य सीदाम भो कस्य लक्ष्मी निवर्तेति ऋद्धेर् बलं ॥
देवा गाथां भाषन्ति ॥
नृपतिपतिकुलोदितो शाक्यराजात्मजो बालसूर्यप्रकाशो विदू ।
रवितरुणप्रभातिरेकेहि वर्णप्रभैः लक्षणैर् लक्षितांगो वरैः ॥
अयम् इह वनमाश्रितो ध्यानचिन्तापरः . . . . . . . . . . पार्थिवः ।
गुणशतसमकोटिसंवर्धितस् तस्य लक्ष्मी निवर्तेति ऋद्धेर् बलं ॥
सो हि तिमिरान्धकारे प्रादुर्भूतो प्रदीपकः ।
अयं तं प्राप्स्यते धर्मं यज् जगं श्वासयिष्यति ॥
लोके क्लेशाग्निसंतप्ते प्रादुर्भूतः महामुनिः ।

अयन् तं प्राप्स्यते धर्मं यज् जगं ह्लादयिष्यति ॥
शोकसागरकान्तारे यानश्रेष्ठम् उपस्थितं ।
अयं तं प्राप्स्यते धर्मं यज् जगं तारयिष्यति ॥
महासन्सारकान्तारे विप्रनष्टं जगत्त्रयं ।
अयं मार्गवरं श्रेष्ठं देशयिष्यति चक्षुंआन्* ॥
संसारचारके बद्धा दीर्घरात्रम् इयं प्रजा ।
अयं बन्धनमोक्षं च धर्मराजा करिष्यति ॥
[_म्वु_2.47_] आक्रुष्टे शूरम् इच्छन्ति मन्त्रेषु कुशलं सदा ।
सहायं अर्चयन्ते खु अन्नपानेन सुप्रियं ॥
राजा भक्तवेलायां कुमारं पृच्छति । कहिं कुमारो आहारं करिष्यति ॥ राज्ञो श्रुत्वा कंचुकीया च वर्षवरा च किराता च वामनका च समन्तेन प्रधाविता कुमारं मार्गन्ता ॥ कुमारो जम्बुच्छायायां ध्यायन्तो कंचुकीयेन दृष्टो परिवृत्ते दिवसकरे जम्बुच्छाया कुमारं न जहाति ॥ कंचुकीयो दृष्ट्वा विस्मितो महाभागो कुमारो यस्य अचेतना छाया न जहाति ॥ कंचुकीयेन राज्ञो शुद्धोदनस्य निवेदितं ॥
व्यावृत्ते तिमिरनुदस्य मण्डलस्मिं
ध्यामाभं शुभवरलक्षणाग्रधारिं ।
ध्यायन्तं गिरिम् इव निश्चलं नरेन्द्र
सिद्धार्थं न जहति जम्बुच्छाया ॥
राजा कंचुकीयस्य श्रुत्वा येन कुमारस् तेनोपसंक्रमन्तो पश्यति जम्बुच्छायान्तां । राजा विस्मितो आह ॥
हुतासनो वा गिरिमूर्धनस्मिं
शशीव नक्षत्रगणावकीर्णो ।
ह्लादेति गात्राणि निरीक्ष्यमाणो
ध्यानस्थितो तैलप्रदीपकल्पो ॥
राजा आह ॥ महाभागो अयं यस्य अचेतनवन्ता पि तावा संनमन्ति ॥ राज्ञा शुद्धोदनेन बोधिसत्वस्य जम्बुच्छायागतस्य पादा वन्दिता ॥
[_म्वु_2.48_] राज्ञो शुद्धोदनस्य एतद् अभूषि ॥ यथा कुमारस्य शान्तेषु ध्यानेषु चित्तं रमति सो खल्व् एव असितस्य ऋषिस्य सत्यो व्याकरणो भविष्यति ॥ तेन राज्ञा कुमारस्य विस्तीर्णम् अन्तःपुरम् उपस्थापितं तथा कुमारो गृहे अभिरमेय ॥ राज्ञा कन्यानाम् अर्थाय विविधं नानाप्रकारं अशोकभाण्डं कारापितं ॥ कपिलवस्तुस्मिं च नगरे घोषणा कारापिता । सर्वाहि कन्याहि राजक्यं उद्यानं निर्धावितव्यं सर्वार्थसिद्धो कुमारो कन्यानाम् आभरणानि विश्राणेष्यति ॥ तहिं उद्याने राजाणत्तीये कपिलवस्तुतो बहूनि कन्यासहस्राणि निर्धावितानि ॥ महानामस्य शाक्यस्य यशोधरा नाम धीता महतीये समृद्धीये निर्धाविता ह्रियायन्ती कुमारम् अल्लीना ॥ यदा भगवान् अभिनिष्क्रान्तो अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो प्रवृत्तप्रवरधर्मचक्रो तं भिक्षुहि श्रुतं ॥ भगवतो कुमारभूतस्य उद्यानवनगतस्य कन्यानाम् आभरणानि विश्राणेन्तस्य यशोधरा ह्रियायन्ती कुमारस्य अल्लीना ॥ भिक्षु भगवन्तं पृच्छति ॥ कथं भगवं यशोधरा भगवतो कुमारभूतस्य ह्रियायन्ती अल्लीना ॥ भगवान् आह ॥ न हि भिक्षवः इदानीम् एव यशोधरा मम ह्रियायान्ती अल्लीना । अन्यदापि एषा मम ह्रियायन्ती अल्लीना ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवं ॥ भगवान् आह ॥ अन्यदापि भिक्षवो ॥
___भूतपूर्वं भिक्षवो ऽतीतम् अध्वानं नगरे वाराणसी काशिजनपदे ब्राह्मणो कौशिकसगोत्रो । सो कामेषु आदीनवं दृष्ट्वा अनुहिमवन्तं ऋषिप्रव्रज्यां प्रव्रजितो ॥ तेन तहिं अनुहिमवन्ते गंगाकूले आश्रमं मापेत्वा पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्तेन विहरन्तेन वाहितकेन मार्गेण चत्वारि ध्यानान्य् उत्पादितानि पंचाभिज्ञा साक्षात्कृता ।
[_म्वु_2.49_] चन्द्रमसूर्यपरिमार्जको महर्द्धिको महानुभावो ऋषि संवृत्तो न च संविभागशीलो ॥ तस्य दानि ज्ञातिको कायस्य भेदाद् गन्धर्वकायिकेषु देवेषूपपन्नो पंचशिखो नाम गन्धर्वपुत्रो ॥ सो देवभूतो तं कौशिकं स्मरति । कहिं कौशिक आकाशे प्रवृत्तजीवो ति मृतो ति ॥ सो समन्वाहरति । पश्यति तं कौशिकं ऋषिप्रव्रज्यां प्रव्रजितं । अनुहिमवन्ते गंगाकूले स आश्रमे प्रतिवसति असंविभागशीलो ॥ तेन शक्रस्य देवानाम् इन्द्रस्य आरोचितं ॥ यो मम मनुष्यभूतस्य ज्ञाति प्रियो मनापो सो ऋषिप्रव्रज्यां प्रव्रजितो अनुहिमवन्ते गंगाकूले आश्रमपदे प्रतिवसति सो च असंविभागशीलो । तस्य अनुग्रहार्थाय उपसंक्रमेम संविभागस्मिं नियोजेम ॥
___शक्रो दानि कौशिकस्य ऋषिस्य अनुग्रहार्थं आहारदेशकाले चन्द्रमसूर्येहि सार्धं मातलिना च संग्राहकेन पंचशिखेन च देवपुत्रेण ब्राह्मणवेशम् अभिनिर्मिणित्वा . . . . . . कौशिकस्य ऋषिस्य आश्रमं आहारदेशकाले एकम् एको उपसंक्रान्तो । स च सुनखो नानाप्रकाराणि उच्चावचानि वर्णानि उपदर्शेति ॥ कौशिक आह ॥
नाहं क्रिणामि नापि विक्रिणामि
न चापि मे सन्निधि अस्ति किंचित्* ।
परीत्तरूपं मम भोजनं इमं
स्यामाकप्रस्थं नलम् एषो दुविन्नं ॥
शुनख आह ॥
अल्पातो अल्पकं दद्यात्* अनुमध्यातो मध्यिमं ।
[_म्वु_2.50_] बहुकातो बहुकं दद्यात्* अदानं नोपपद्यति ॥
नत्वाहं कौशिक ब्रूमि भुंजाहि च ददाहि च ।
आर्यमार्गसमापन्नो एकांशं विन्दते सुखं ॥
चन्द्रो पि उपसंक्रान्तो ॥ कौशिको आह ॥
नाहं क्रिणामि नापि विक्रिणामि
न चापि मे सन्निधि अस्ति किंचित्* ।
परीत्तरूपं मम भोजनं इमं
स्यामाकप्रस्थं नलमेषो त्रयाणां ॥
चन्द्र आह
वडिशं सो संगिलति दीर्घसूत्रं अयोमयं ।

यो अतिथिस्मिं आसीने अदत्त्वा भुंजति भोजनं ॥
नत्वाहं कौशिक ब्रूमि भुंजाहि च ददाहि च ।
आर्यमार्गसमापन्नो एकांशं विन्दते सुखं ॥
सूर्यो पि उपसंक्रान्तो ॥क् औशिक आह ॥
नाहं क्रिणामि नापि विक्रिणामि
न चापि मे संनिधि अस्ति किंचित्* ।
परीत्तरूपं मम भोजनं इमं
स्यामाकप्रस्थं नलमेषो चतुर्णां ॥
सूर्य आह ॥
मोघं तस्य हुतं भोति मोघं चापि समाहितं ।
[_म्वु_2.51_] यो अतिथिस्मिं आसीने अदत्त्वा भुंजति भोजनं ॥
नत्वाहं कौशिक ब्रूमि भुंजाहि च ददाहि च ।
आर्यमार्गसमापन्नो एकांशं विन्दते सुखं ॥
मातलि पि उपसंक्रान्तो ॥ कौशिक आह ॥
नाहं क्रिणामि नापि विक्रिणामि
न चापि मे संनिधि अस्ति किंचि ।
परीत्तरूपं मम भोजनं इमं
स्यामाकप्रस्थं नलमेषो पंचानां ॥
मातलि आह ॥
सत्यं तस्य हुतं भोति सत्यं चापि समाहितं ।
यो अतिथिस्मिं आसीने दत्त्वा भुंजति भोजनं ॥
नत्वाहं कौशिक ब्रूमि भुंजाहि च ददाहि च ।
आर्यमार्गसमापन्नो एकांशं विन्दते सुखं ॥
शक्रो पि उपसंक्रान्तो ॥ कौशिक आह ॥
नाहं क्रिणामि नापि विक्रिणामि
न चापि मे सन्निधि अस्ति किंचित्* ।
परीत्तरूपं मम भोजनं इमं
स्यामाकप्रस्थं नलमेषो षणां ॥
शक्रो आह ॥
सरस्वतीं सो जुहोति चाहुतां गमये अपि ।
[_म्वु_2.52_] यो अतिथिस्मिं आसीने दत्त्वा भुंजति भोजनं ॥
नत्वाहं कौशिक ब्रूमि भुंजाहि च ददाहि च ।
आर्यमार्गसमापन्नो एकांशं विन्दते सुखं ॥
कोशिक आह ॥
उदारवर्णा इति ब्राह्मणा इमे
अयं च वो सुनखो किस्य हेतु ।
उच्चावचां वर्णनिभां निदर्शये
आख्याथ मे को नु भवे भवन्तो ॥
शक्र आह ॥
चन्द्रो च सूर्यो च इहागता ते

अयं च सो मातलि देवसारथिः ।
अहं च शक्रो त्रिदशान ईश्वरो
अयं च सो पंचशिखो . . . . . ति ॥
यस्यैष प्रतिगृह्णाति अन्नं च पानं च कौशिक ।
पाणिस्वरं कुम्भथूनं मृदंगानां स्वराणि च ।
सुप्तं न प्रतिबोधेन्ति प्रतिबुद्धो च नन्दति ॥
. . . . . . . . . . . . . . . . . . . . . . . .
तुवं नो ज्ञाती पुरिमासु जातिषु
त्वं कौशिका मत्सरिपापधर्मः ।
तुह्यानुकंपाय इहागता स्म
मा पापधर्मो निरथं व्रजेसि ॥
ये मत्सरी रोषकपापधर्मा
[_म्वु_2.53_] प्रद्वेषका श्रमणब्राह्मणानां ।
पापानि कर्माणि समाचरित्वा
इतो च्युताः ते निरयं व्रजन्ति ॥
ये चेह दानानि ददन्ति पण्डिता
प्रसन्नचित्ताः श्रमणब्राह्मणेषु ।
पुण्यानि कृत्वा इह जीवलोके
इतो च्युतास्ते सुगतिं व्रजन्ति ॥
कौशिक आह ॥
एषो अद्यैवं करिष्यामि पुण्यं
दास्यामि दानं श्रमणब्राह्मणेषु ।
एतेहि दद्याद् अहम् अन्नपानं
नाहं अदत्त्वा अमृतं पि पास्ये ॥
एवं च मे ददतो सर्वकालं
भोगा च मे च सर्वा क्षिपिहन्ति ।
ततो अहं सुगतिं प्रव्रजिष्यं
प्रहाय कामानि तथाधिकानि ॥
नगोत्तमे गिरिवरगन्धमादने
मोदेन्ति देववराधिपात्मजा ।
उपागता ऋषिवर सर्वि पूजितुं
सुपुष्पितां द्रुमवरशाखां गृह्णिय ॥
शुचिं सुगन्धां त्रिदशेहि सत्कृतां
सुपुष्पितां अमरवरेहि सेवितां ।
[_म्वु_2.54_] शाखां ददेन्सुर् नम अस्तु मारिष
यथैव मो शक्र तथैव सो तुवं ॥
तां याचमानां अनुद्रक्षि ब्राह्मण
इत्यब्रीषि कलहं उदीरये ।
न मह्यं पुष्पेहि इहार्थ विद्यति
या येव वो श्रेयतरा (गृह्णातु) ॥

तदियं त्वं एव समीक्ष ब्राह्मण
जानाहि मो मारिष या नु श्रेया ।
यस्यैव नो मारिष तां दयिष्यसि
सा एव नो श्रेयतरा भविष्यति ॥
अकार्यम् एतं वचनं सुगात्रिका
स ब्राह्मणो क्रोधशब्दं वियाहरे ।
गत्वान भूताधिपतिं हि पृच्छथ
सो एव वो ज्ञास्यति या नु श्रेया ॥
तदापि तायो परमार्थदर्शिनो
उदारिका वर्णवरेण अर्थिका ।
गत्वान वोचन्त्रिदशाधिपस्य
जानाहि मो मारिष का नु श्रेया ॥
तान् दृष्ट्वा अणात्तमना पुरंदरो
इत्यब्रवीत्* आत्तमनो सर्वेषु ।
. . . . . युष्मे सदृशा सुगात्रिका
[_म्वु_2.55_] को थेहपूर्वं कलहं उदीरये ॥
यो सर्वलोके चरति महामुनिः
नामेन सो नारदो सत्यविक्रमो ।
सो अब्रवीत् पर्वते गन्धमादने
गत्वान भूताधिपतिं हि पृच्छथ ॥
इतो सो उत्तरतो दिशायां
गंगाय कूले हिमवन्तपार्श्वे ।
सो कौशिको दुल्लभपानभोजनो
तस्य सुधां प्रेषयि देवसारथिः ॥
अग्निं जुहन्तस्य प्रतिष्ठतो मम
प्रभंकरो लोकतमोनुदो यथा ।
आदित्यलोकस्मिं तथेव ईर्यसि
का देवता किस्य इहागतो सि ॥
शंखोपमं श्वेत-अतुल्यसन्निभं
मनोज्ञगन्धं प्रियरूपदर्शनं ।
न दृष्टपूर्वं मय चक्षुषेदृशं
का देवता किन् तु ददासिदं मम ॥
अहं महेन्द्रेण महर्षि प्रेषितो
सुधाहरिं त्वां त्वरितं उपागमि ।
जानाहि मां मातलिं देवसारथिं
भुंजाहिमां कांक्षिषु भोगमुत्तमं ॥
भुक्त्वा हिमां द्वादश . . . . हि पापका
क्षुधापिपासां अरतिं ज्वरं क्रमा ।
[_म्वु_2.56_] क्रोधोपनाहं च विवादपैशून्यं
शीतोष्णतन्द्रीतरसं च उत्तमं ॥

न मातले कल्पति मह्य भुंजितुं
पूर्वे अदत्त्वा इति ब्रुवन् अनुत्तमं ।
न चापि एकस्य न मह्य वर्णितं
असंविभागो हि सुखं न विन्दति ॥
मित्रं ओपायिकं पारिपन्थिका
स्त्रीघातका ये पहरन्ति अर्थं ।
सर्वे पि ते मत्सरिने समा मता
प्राप्तं अदत्त्वा अमृतं पि नासे ॥
ता प्रेषिता देवराजेन आत्मजा
कन्या चतस्रो तपनीयसन्निभा ।
सुधां पि आदाय प्रतिग्रहार्हां
तं आश्रमं यत्र अभूषि कौशिकः ॥
दृष्ट्वा तु ताः अर्थदर्शो मतीमां
प्रभासयन्तीयो अनन्तराश्रिताः ।
स्थिता चतस्रो प्रमदा चतुर्दिशं
सो दानि कौशिक अध्यभाषिथ ॥
पुरिमां दिशन् तिष्ठसि देवते त्वं
अलंकृता तारवरा च ओषधी ।
पृच्छामि ते कांचनवेदिविग्रहे
[_म्वु_2.57_] आख्याहि मे त्वं कतमासि देवता ॥
शिरो हम् अस्मि मनुजेषु संमता
अक्षुद्रसत्त्वा परिसेविनो सदा ।
सुखेषिणी तुह्य सुकाशमागता
तं मां सुधाये वरप्रज्ञ भागय ॥
शीलेनुपेतं चरणेन बुद्धिये
उपेतसत्त्वं प्रगुणेन कर्मणा ।
त्वया उपेतो शिरिजातिमन्तिया
प्रेषेति दासं विय भोगवां सुखी ॥
अथो पि दासे अलसो अशिल्पको
सुदुर्गतो वापि नरो अरूपवां ।
त्वया उपेतो शिरिजातिमन्तिया
तद् इदम् असाधु यद् इदं त्वया कृतं ॥
प्रभासयन्ती यशसा यशस्विनी
मनोरमेशाहूयनां दिशां प्रति ।
पृच्छामि त्वां कांचनवेदिविग्रहे
आचिक्ष मे त्वं कतमासि देवता ॥
श्रद्धाहम् अस्मि मनुजेषु सम्मता
अक्षुद्रसत्त्वा प्रतिसेविनी सदा ।
सुखेषिणी तुह्य सकाशम् आगता
तं मां सुधाये वरप्रज्ञ भागय ॥

भार्यापि मे खो सदृशा हि सत्कृता
[_म्वु_2.58_] कल्याणधर्मा च पतिव्रता च ।
प्रहाय स्वकुलं धीतरा च
करोति श्रद्धां पुन कुम्भकाशिये ॥
शीलं श्रुतं चापि अथापि संयमं
श्रद्धा सती यत्र . . . . एकदा ।
नैषा सावद्येन विघातदर्शना
तद् इदम् असाधु यद् इदं त्वया कृतं ॥
सा मे व सन्तिके अपि च वद्यसे
विजाने मूढासि धूर्तानुवर्तिनी ।
न एदृशी अर्हति आसनोदकं
कुतो सुधां गच्छ न मे त्वं रोचसि ॥
जहाति रात्री अरुणस्मिं उद्गते
सा तिष्ठसे तारवरा व ओषधी ।
पृच्छामि ते कांचनवेदिविग्रहे
आचिक्ष मे त्वं कतमासि देवता ॥
मृगीव भ्रान्ता सरभाय वर्जिता
निराकृता मन्दं ममं अवेक्षसे ।
का ते सहाया मृदुगात्रि लक्षते
न भायसे एकिका तुवं देवता ॥
न मे सहाया इह आगता कौशिक
. . . . . प्रवरास्मि देवता ।
आशा सुधाये इह आगतास्मि
[_म्वु_2.59_] तन् मे सुधाये वरप्रज्ञ भागय ॥
आशाय क्षेत्राणि कृषन्ति कर्षका
सपुत्रदारा संघटन्ति एकतो ।
नं वर्ष हरति असनी च उत्थिता
तद् इदम् असाधु यद् इदं त्वया कृतं ॥
आशाये एके मनुजा धनार्थिका
नावां समारुह्य तरन्ति (सागरं) ।
आलम्बने तत्र सीदन्ति अथापि च
दुःखं निगच्छन्ति विनष्टपुण्याः ॥
सा मे व सन्तिके अपि च वद्यसे
विजाने मूढासि धूर्तानुवर्तिनी ।
न एदृशी अर्हति आसनोदकं
कुतो सुधां गच्छ न मे त्वं रोचसि ॥
का दृष्टासि . . . . . पिनद्धमञ्जरी ॥
सीहांगदा कांचिप्रमृष्टधारणी ।
कुशाग्ररक्ता सुपिनद्धकुण्डला
उशीरवर्णा प्रतिभाय शोभसि ॥

मूल पाठ: Mahāvastu-avādana · Edition: Émile Senart, 3 vols., Paris 1882-1897. Cf. also : Emmanuel Faure, B. Oguibénine, M. Yamazaki, and Y. Ousaka Mahāvastu-avādana, vol.I: word index and reverse word index Tokyo 2003 (Philologica Asiatica, Monograph Series 20) The Chuo Academic Research Institute (Tokyo, 2003 (July)) · Data entry Emmanuel Fauré · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc