महावस्तु-अवादन · भाग 341347
___अथ खलु तेषां मागधकानां ब्राह्मणगृहपतिकानां एतद् अभूषि ॥ यतो किल भो रूपम् अनात्मा वेदना संज्ञा संस्कारा विज्ञानम् अनात्मा अथ को तर्हि कारको वा कारापको वा उत्थापको वा समुत्थापको वा निक्षेपको वा यो इमां संस्कारां आदीयति वा निक्षिपति वा यस्यिमे संस्कारा शून्या अनात्मनीया आत्मेन वा आत्मनीयेन वा ॥ अथ खलु भगवां तेषां मागधकानां ब्राह्मणगृहपतिकानां इमम् एवरूपं चेतसो परिवितर्कम् आज्ञाय भिक्षून् आमन्त्रयति ॥ प्रज्ञपेति भिक्षवो बालो अभ्युपगतो अनात्मा वेदना संज्ञा संस्कारा विज्ञानो मे आत्मा न च पुनर् अहं एवं वदेमि । अहं सो अत्र कारको वा कारापको वा उत्थापको वा आदीयको वा निक्षेपको वा यो इमां च संस्कारान् निक्षिपति अन्यां च उपादीयति अन्यत्र ॥ अथ खलु संस्कारा एव उत्पद्यन्ति संस्कारा एव निरुध्यन्ति ते च सहेतुका उत्पद्यन्ति सहेतुका एव निरुध्यन्ति ॥ सहेतुका संस्कारप्रतिसंधिर् भिक्षवस् तथागतो आत्मा ति
[_म्वु_3.448_] आदीयको ति ॥ सत्वानां च्युतोपपादं प्रज्ञपयामि ॥ पश्याम्य् अहं भिक्षवः दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेन सत्वां च्यवन्तां उपपद्यन्तां सुवर्णां दुर्ववर्णां सुगतां दुर्गतां हीनां प्रणीतां यथाकर्मोपगां सत्वां प्रजानामि न च पुनः अहं एवं वदामि । अहं सो अत्र कारको वा कारापको वा उत्थापको वा समुत्थापको वा आदीयको वा निक्षेपको वा यो इमां च संस्कारा निक्षिपति अन्यां च उपादीयति अन्यत्र । अथ खलु संस्कारा एव उत्पद्यन्ति संस्कारा एव निरुध्यन्ति ॥ ते च सहेतुप्रत्यया उत्पद्यन्ति सहेतुप्रत्यया निरुध्यन्ति ॥ सहेतुदृष्टी भवाभवदृष्टी ॥ सहेतुसंस्कारसमुदयं भिक्षवो यथाभूतं सम्यक्प्रज्ञया पश्यतो या भवदृष्टि शाश्वतदृष्टि सा न भवति । सहेतुसंस्कारनिरोधं च भिक्षवः यथाभूतं सम्यक्प्रज्ञया पश्यतो या विभवदृष्टि उच्छेददृष्टि सापि न भवति । तेन भिक्षवो उभौ अन्तौ अनुगम्य मध्येन तथागतो धर्मं देशयति ॥
___अविद्याप्रत्यया संस्कारा संस्कारप्रत्ययं विज्ञानं विज्ञानप्रत्ययं नामरूपं नामरूपप्रत्ययं षडायतनं षडायतनप्रत्ययं स्पर्शः स्पर्शप्रत्यया वेदना वेदनाप्रत्यया तृष्णा तृष्णाप्रत्ययम् उपादानं उपादानप्रत्ययो भवो भवप्रत्यया जातिर् जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपयासा । एवम् अस्य महतो दुःखस्कंधस्य समुदयो भवति ॥ इति पि अविद्यानिरोधात् संस्कारनिरोधः संस्कारनिरोधाद् विज्ञाननिरोधो विज्ञाननिरोधान् नामरूपनिरोधो नामरूपनिरोधात्* षडायतननिरोधः षडायतननिरोधात् स्पर्शनिरोधः स्पर्शनिरोधाद् वेदनानिरोधो वेदनानिरोधात्
[_म्वु_3.449_] तृष्णानिरोधः तृष्णानिरोधाद् उपादाननिरोधः उपादाननिरोधः भवनिरोधाज् जातिनिरोधो जातिनिरोधाज् जरामरणनिरोधो जरामरणनिरोधा शोकपरिदेवदुःखदौर्मनस्योपयासा निरोध्यन्ते । एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवदि ॥
___इदम् अवोचद् भ्गवान् राजगृहे विहरन्तो अन्तगिरिस्मिं यष्टीवने इमस्मिंश् च पुनर् व्याकरणे भाष्यमाणे राज्ञो श्रेण्यस्य बिम्बिसारस्य तत्रैवासने निषण्णस्य विरजं विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धं एकादशानां च नयुतानां विरजं विगतमलं धर्मेषु धर्मचक्षुं विशुद्धं ॥ ये पि ते द्वादशनयुता युग्यपाला यानपाला ते पि ततो पश्चाद् बुद्धं शरणं गता धर्मं शरणं गताः संघं शरणं गता ॥ आत्तमना ते भिक्षू राजा श्रेण्यो बिम्बिसारो मागधका च ब्राह्मणगृहपतिका भगवतो भाषितम् अभिनन्दे ॥
___भिक्षू भगवन्तम् आहन्सुः ॥ किस्य भगवं कथं इमेन राज्ञा श्रेणियेन बिम्बिसारेण इमस्य पुरोहितस्य सकाशातो भगवतो श्रवणगतेन विपुलो आच्छायो दिन्नो ॥ भगवान् आह ॥ न भिक्षवो एतरहिम् एव एतेन राज्ञा श्रेण्येन बिंबिसारेण पुरोहितस्य सकाशातो मम श्रवणगतेन विपुलो आच्छायो दिन्नो अन्यदापि दिन्नो ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवन्* ॥ भगवान् आह ॥ अन्यदापि भिक्षवो ॥
___भूतपूर्व भिक्षवः अतीतम् अध्वानं नगरे मिथिलायां विदेहजनपदे महाराजधान्यां राजा अरिन्दमो राज्यं कारेसि धार्मिको धर्मराजा सुसंगृहीतपरिजनो दानसंविभागशीलो महाबलो महावाहनो । तस्य षष्टिं नागसहस्राणि सर्वालंकारविभूषितानि षष्टिं अश्वसहस्राणि सर्वालंकारविभूषितानि षष्टिं रथसहस्राणि द्वीपिचर्मपरिवाराणि सिंहचर्मपरिवाराणि सवैजयन्तिकानि सनन्दिघोषाणि
[_म्वु_3.450_] महाप्रवाराणि उच्छ्रितध्वजपताकानि षष्टिं धेनुसहस्राणि वत्सदोहिनी । तस्य षष्टिं कन्यासहस्राणि षष्टिं पर्यंकसहस्राणि सौवर्णमयानि रूप्यमयानि दन्तमयानि ॥ अरिन्दमस्य खलु पुनर् भिक्षवो राज्ञो षष्टिं सुवर्णपारिसहस्राणि षष्टिं रूप्यपारिसहस्राणि अभून्सुः ॥ अरिंदमस्य खलु पुनर् भिक्षवो राज्ञो पितृपितामहानि षष्टिं निधिसहस्राणि षष्टिं नगरसहस्राणि ऋद्धिस्फीतानि अकण्टकानि ॥ अरिंदमस्य राज्ञो श्रोणो नाम पुरोहितपुत्रो अभूषि त्रयाणां वेदानां पारगो अक्षरप्रभेदानां इतिहासपंचमानां सनिघण्टुकैटभानां अनुपदकव्याकरणकुशलो ब्राह्मणवेदेषु दश कुशलां कर्मपथां समादायवर्ती कामेषु आदीनवं दृष्ट्वा अनुहिमवन्तं गत्वा ऋषिप्रव्रज्यां प्रव्रजितो ॥ तेन दानि बाहिरकेण मार्गेण युज्यन्तेन घटन्तेन व्यायमन्तेन चत्वारि ध्यानान्य् उत्पादितानि पंचाभिज्ञा च साक्षीकृता महर्द्धिको महानुभावो ऋषी संवृत्तो ॥
___अथ खलु भिक्षवो श्रोणस्य ऋषिस्य दीर्घस्याध्वनो त्ययेन एतद् अभूषि ॥ राजा अरिन्दमो मम दारकवयस्यो सहपांशुक्रीडितो तस्य चाद्य चतुराशीति वर्षसहस्राणि महाराज्यं कारयन्तस्य समयो खलु राज्ञो अरिन्दमस्य प्रव्रज्याये यं नूनम् अस्याहं संचोदयेयं ॥ अथ खलु भिक्षवो श्रोणको ऋषिस् तद्यथापि नाम बलवां पुरुषो संमिञ्जितां वा बाहां प्रसारये प्रसारितां वा बाहां संमिंजये एत्तकेन क्षणवीतिहारेणानुहिमवंतातो आश्रमातो वैहायसम् अभ्युद्गम्य महादेवाम्रवने प्रत्यस्थासि ॥ अद्राक्षीद् भिक्षवो अरिन्दमस्य ब्राह्मणपुरोहितो राजाचार्यः श्रोणकं ऋषिं महादेवाम्रवने अन्यतमस्मिं आम्रमूले निषण्णं दृष्ट्वा च पुनर् येन श्रोणको ऋषी तेनोपसंक्रमित्वा श्रोणकम् ऋषिं साधु च सुष्ठु च प्रतिसंमोदित्वा श्रोणकं ऋषिं अभिवादेत्वा येन
[_म्वु_3.451_] मिथिला तेन प्रक्रमे राज्ञो अरिन्दमस्य वेदनाय ॥ तदहो एव च भिक्षवः राज्ञो अरिन्दमस्य कामेषु व्याकुत्सना उत्पद्ये योनिशो मनसिकारो श्रोणकस्य ऋषिस्य दर्शनकामता उदपासि ॥ अथ खलु भिक्षवो राजा अरिन्दमस् ताये वेलाये इमां गाथाम् अध्यभाषेत्* ॥
तस्य ग्रामवरं देमि नारियो च अलंकृता ।
यो मे श्रोणकम् आख्यासि सहायं पान्सुक्रीडकं ॥
तस्य च ब्राह्मणो आसि कुलीनो अध्यापको ।
सुदुःखिदुर्मनं दृष्ट्वा इदं वचनम् अब्रवीत्* ॥
मह्यं ग्रामवरं देहि नारीयो च स्वलंकृता ।
अहं श्रोणकम् आख्यास्यं सहायं पान्सुक्रीडकं ॥
तुह्यं हि ताव विजिते तुह्यं उद्यानभूमिये ।
पुष्पिता फलिता आम्रा तत्र सो आसते ऋषी ॥
ततो स राजा त्वरमानो अमात्यम् अध्यभाषति ॥
क्षिप्रम् अस्माकं योजय कृत्स्ना नागां अलंकृता ।
भेरीपटहा वाद्यन्तु एको शंखो च मध्यमः ॥
वयस्यं द्रष्टुम् इच्छामि श्रोणकं पर्युपासितुं ।
नानावृक्षफलोपेतं प्रयासि . . . वनं ॥
राजा . . . . . . . . . . . . . . ।
. . . . . . . . श्रोणको यत्र ध्यायते ॥
तं च सो ऋषिं अद्दर्शि सहायं पान्सुक्रीडकं ।
दृष्ट्वा च श्रोणकं तस्मिं इदं वचनम् अब्रवीत्* ॥
[_म्वु_3.452_] कृपणो व कथं भिक्षो मुण्डसंघाटिको धनो ।
समातापितृको ध्यायं वृक्षमूले पि तिष्ठसि ॥
अथ खलु भिक्षवो श्रोणको ऋषि राजानम् अरिन्दमं गाथाये प्रत्यभाषे ॥
न राज कृपणो भवति धर्मकायस्य श्रियापि च ।
यो च धर्मं समुपक्रम्य तद्धर्मे न रतो नरो ।
स राज कृपणो भवति ज्योतिष्टोमपरायणो ॥
अथ खलु भिक्षवो राजा अरिन्दमो श्रोणकं ऋषिं गाथाये प्रत्यभाषे ॥
कथं भवां सुखं शयति वनप्रान्तस्मिं श्रोणक ।
कथं अरण्ये विहरन्तो एकाकी रमसे कथं ॥
कथं भगवं कायस्य परितापो न विद्यते ।
रक्षां व ते संविधेमि अथ नगरं नयामि ते ॥
अथ खलु भिक्षवः श्रोणको ऋषि राजानम् अरिन्दमं गाथाये प्रत्यभाषे ॥
एकस्य चरतो राज किं मे राष्ट्रं करिष्यति ।
प्रथमं खु भद्रम् अधनस्य अनागारस्य भिक्षुणो ॥
यो हं ग्रामातो प्रक्रमामि राष्ट्राणि निगमा तथा ।
अनपेक्षो व प्रक्रमामि न कोचिद् उपरुध्यति ।
द्वितीयं खु भद्रम् अधनस्य अनागारस्य भिक्षुणो ॥
पन्थेन गच्छमानस्य ये भोन्ति परिपन्थका ।
पात्रचीवरम् आदाय सुखं गच्छति सर्वतो ।
तृतीयं खु भद्रम् अधनस्य अनागारस्य भिक्षुणो ॥
[_म्वु_3.453_] मिथिलायां दह्यमानायां नास्य दह्यति किंचन ।
चतुर्थं खु भद्रम् अधनस्य अनागारस्य भिक्षुणो ॥
नते कोष्ठस्मिं ओसरन्ति न कुंभेन कुलोपकं ।
परितिष्ठति एषाणो तेन यायन्ति सुव्रता ।
पंचमं भद्रम् अधनस्य अनागारस्य भिक्षुणो ॥
नानाकुले प्रव्रजिता नानाजनपदाश्रिता ।
अन्यमन्यं प्रियायन्ति पश्य धर्मस्य धर्मतां ॥
अथ खलु भिक्षवः राजा अरिन्दमो श्रोणकं ऋषिं गाथाये प्रत्यभाषे ॥
नित्यं खलु तेषां भद्रं येषां कीर्तेसि श्रोणक ।
वयन् तु गृद्धा कामेषु किं करिष्यामि श्रोणक ॥
अथ खलु भिक्षवः श्रोणको ऋषी राजानं अरिन्दमं गाथाये प्रत्यभाषे ॥
उपमान् ते महाराज करिष्यन् तं शृणोहि मे ।
उपमाये इहैकत्या अर्थं जानन्ति पण्डिता ॥
भूतपूर्वं महाराज कुंजरो षष्टिहायनो ।
पतितो गिरिदुर्गेषु गंगावेगेन वुह्यते ॥
तत्र कालो विचिन्तेति अल्पप्रज्ञो अचेतसो ।
यानं इमं लब्धं भद्रं भद्रो व्यायाम अल्पको ॥
तस्य रात्रिं दिवं वापि तत्रासि नियतो मनो ।
खादन्तो नागमान्सानि पिबन्तो भागीरथीजलं ।
पश्यन्तो वरचित्राणि उपयाति विहंगमो ।
[_म्वु_3.454_] सा तं भागीरथी गंगा प्रमत्तं कुणपाश्रितं ।
समुद्रं अभिसारेति अगती यत्र पक्षिणां ॥
मकरा (तिमि)तिमिंगिला बालं नं वधित्वान खादति ।
कामापेक्षा एवम् एव राज प्रपद्यन्ति पुद्गला ॥
तं ते राज अहं ब्रूमि मा राज धर्मे प्रमादय ।
अथ घोररूपं नरकं प्रपतिष्ये अवाक्शिरो ॥
संजीवं कालसूत्रं च संघातं द्वौ च रौरवौ ।
अथापरं महावीचिं तपनं संप्रतापनं ॥
इत्य् एते अष्ट महानरका आख्याता दुरतिक्रमा ।
आकीर्णा रौद्रसत्वेहि प्रत्येकं षोडशोत्सदा ॥
चतुकर्णा चतुर्द्वारा विभक्ता भागशो मिता ।
उद्गता योजनशतं समन्ता योजनशतं ॥
अथ ये नरकप्रक्षिप्ता अयसा प्रतिकुब्जिता ।
तेषाम् अयोमया भूमि प्रज्वलिता तेजसंयुता ॥
कदर्यतपना घोरा अर्चिमन्तो दुरासदा ।
रोमहर्षणरूपा च भीष्मप्रतिभया दुःखा ॥
महद्भयंकरा सर्वे अर्चिशतसमाकुला ।
एकैकं योजनशतं आभाये संप्रभासति ॥
यत्र सत्वा बहू रौद्रा महाकिल्विषकारका ।
चिरं कालं प्रतप्यंति अपि वर्षशतान्य् अपि ॥
अयोमयेहि दण्डेहि स्थूलेहि नरकपालका ।
हनन्ति प्रत्यमित्राणि ये भोन्ति कतकिल्विषा ॥
[_म्वु_3.455_] तन् ते हं कीर्तयिष्यामि गाथाये अनुपूर्वशः ।
श्रोत्रं मो दत्त्वा सक्तृत्यं शृणोहि मम भाषतो ॥
संजीवस्मिं च निरये ऊर्धपादां अधोशिरां ।
प्रलंबयित्वा तक्षन्ति वासीहि परशूहि च ॥
ततो नखेहि तीक्ष्णेहि आयसेहि स्वयंभुहि ।
अन्यमन्यं पि पाटेन्ति क्रुद्धा क्रोधवसानुगा ॥
असिनो चायसा तेषां तीक्ष्णा हस्तेषु जायिथा ।
येहि च्छिन्दन्ति अन्योन्यं प्रदुष्टमानसा नराः ॥
तेषां संछिन्नगात्राणां शीतो वायुः प्रवायति ।
सर्वाङ्गजनितो तेषां पूर्वकर्मविपाकशः ॥
एवं तेषाम् अभिज्ञाय श्रोणको तस्य राजिनो ।
संजीवकन् ति आख्यासि आवासं पापकर्मणां ॥
संजीवतश् च निर्मुक्ता कुक्कुलम् अवगाहथ ।
अन्यमन्यं समागम्य दीर्घायतनविस्तरा ॥
सर्वे ते खु प्रधावन्ति योजनानि अनेकशः ।
दह्यमाना कुक्कुलेषु दुःखां वेदन्ति वेदनां ॥
कुक्कुलातो च निर्मुक्ता कुणपं अवगाहिथ ।
दीर्घं महन्तं विस्तीर्णं उद्विद्धं शतपौरुषं ॥
तम् एनं कृपया तत्र तीक्ष्णशक्तिमुखा खरा ।
छविं भित्त्वान खादन्ति मान्सशोणितभोजना ॥
कुणपातो समुत्तीर्णा द्रुमां पश्यन्ति शोभनां ।
हरितपत्रसंछन्नान् ते उपेन्ति सुखार्थिनः ॥
[_म्वु_3.456_] तम् एनं कुलला गृद्धा काकोलूका अयोमुखा ।
ऊर्धवृक्षे व नां दृष्ट्वा खादन्ति रुधिरम्रक्षिता ॥
यदा च खादिता भोन्ति अस्थीनि अवशेषिता ।
अथ तेषां छविमान्सं रुधिरं चोपजायते ॥
ते च भीत्वा उत्पत्तित्वान अलेना लेनसंज्ञिनो ।
असिपत्रवनं घोरं क्षण्यमाना उपागमि ॥
ततो क्षता च आर्त्ता च बहुरुधिरम्रक्षिता ।
असिपत्रवना मुक्ता यान्ति वैतरणीं नदीं ॥
ते तां च अवगाहन्ति तत्र क्षारोदकां नदीं ।
तेषां च अङ्गमङ्गानि वर्धिता प्रतिविध्यति ॥
ततो अंकुशेहि विज्झित्वा आयसेहि यमपौरुषा ।
उत्क्षिपित्वा नदीतीरे भुंजावेन्ति अयोगुडां ॥
ताम्रलोहं च संतप्तं पायायन्ति विलीनकं ।
तन् तेषां अन्त्रम् आदाय अधोभागेन गच्छति ॥
एवं पापीयकर्मान्ता निरयं प्रतिपद्यथ ।
अकृत्वा कुशलं कर्म काममार्गानुसारिणः ॥
ये च पापानि कर्माणि परिवर्जेन्ति मानुषाः ।
एकान्तकुशलाकारा न ते गच्छन्ति दुर्गतिं ॥
तस्मा दुरूपम् आगम्य कर्म कल्याणपापकं ।
पापानि परिवर्जेत्वा कल्याणं आचरे शुभं ॥
अथ वा पुनर् भावेय आर्यं अष्टांगिकं शुभं ।
सर्वदुःखप्रहाणाय ज्ञात्वा धर्मं निरोपधिं ॥
[_म्वु_3.457_] एवंरूपां महाराज सत्वा वेदन्ति वेदनां ।
नरकेषु पापकर्मान्ता प्रमत्ता बालबुद्धिनो ॥
तन् ते राज अहं ब्रूमि मा राज धर्मे प्रमादय ।
मा घोररूपं नरकं प्रपतिष्ये अवाक्शरो ॥
संविग्नमनसो राजा श्रोणकस्य सुभाषितं ।
श्रुत्वा संवेगम् आपद्ये अद्भुतरोमहर्षणं ॥
ततो राजा त्वरमाणो अमात्यं अध्यभाषत ।
क्षिप्रं कुमारम् आनेथ दीर्घायुं राष्ट्रवर्धनं ॥
अस्ति मे दहरः पुत्रो दीर्घायु राष्ट्रवर्धनः ।
तं राज्ये स्थापयिष्यामि सो वो राजा भविष्यति ॥
ततो च राजदूता च अमात्या चानुकंपका ।
क्षिप्रं कुमारम् आनेन्ति दीर्घायुं राष्ट्रवर्धनं ॥
अथ खलु भिक्षवो राजा अरिन्दमो दीर्घायुं कुमारं गाथाये ध्यभाषे ॥
आमन्त्रेमि भवन् तव प्रव्रज्या मम रोचति ।
अहं काको व दुर्मेधो मा कामानां वशम् अन्वगा ॥
षष्टिं नगरसहस्राणि स्फीतं राज्यम् अकण्टकं ।
तत् पुत्र प्रतिपद्याहि राज्यं निर्यातयामि ते ॥
अद्यैव प्रव्रजिष्यामि को जाने मरणं शुवे ।
न हि न संगमन् तेन महासैन्येन मृत्युना ।
माहं काको व दुर्मेधो कामानां वशम् अन्वगा ॥
षष्टि नागसहस्राणि अत्र सर्वे स्वलंकृता ।
[_म्वु_3.458_] दन्तिनो बलसंपन्ना हेमकल्पितवाससो ॥
आरूढा प्रासशूलयष्टीतोमरनिगडायुधा ।
तां पुत्र प्रतिपद्यस्व राज्यं निर्यातयामि ते ॥
अद्यैव प्रव्रजिष्यामि को जाने मरणं शुवे ।
न हि न संगतं तेन महासैन्येन मृत्युना ।
माहं काको व दुर्मेधो कामानां वशम् अन्वगात्* ॥
षष्टिम् अश्वसहस्राणि सैन्धवा शीघ्रवाहिनो ।
सर्वालंकारभूषितानि शूरारूढा च सर्वशो ॥
. . . . . . . . . . . . . . . . .
माहं काको वा सुर्मेधो कामानां वशम् अन्वगा ॥
षष्टिं धेनुसहस्राणि सर्वे वत्सोपदोहिनी ।
तां पुत्र प्रतिपद्याहि राज्यं निर्यातयामि ते ॥
अद्यैव प्रव्रजिष्यामि को जाने मरणं शुवे ।
माहं काको व दुर्मेधो कामानां वशम् अन्वगा ॥
षष्टि कन्यासहस्राणि आमुक्तमणिकुण्डला ।
तां पुत्र प्रतिपद्याहि राज्यं निर्यातयामि ते ॥
अद्यैव प्रव्रजिष्यामि को जाने मरणं शुवे ।
माहं काको व दुर्मेधो कामानां वशम् अन्वगा ॥
षष्टिं पर्यंकसहस्राणि सौवर्णरूप्यमयानि च ।
तां पुत्र प्रतिपद्याहि राज्यं निर्यातयामि ते ॥
अद्यैव प्रव्रजिष्यामि को जाने मरणं शुवे ।
[_म्वु_3.459_] न हि न संगतं तेन महासैन्येन मृत्युना ।
माहं काको व दुर्मेधो कामानां वसम् अन्वगा ॥
षष्टि पारिसहस्राणि सौवर्णरूप्यमयानि च ।
तां पुत्र प्रतिपद्याहि राज्यं निर्यातयामि ते ॥
अद्यैव प्रव्रजिष्यामि को जाने मरणं शुवे ।
न हि न संगतं तेन महासैन्येन मृत्युना ।
माहं काको व दुर्मेधो कामानां वशम् अन्वगा ॥
षष्टि निधानसहस्राणि जातरूपमनल्पकं ।
तां पुत्र प्रतिपद्याहि राज्यं निर्यातयामि ते ॥
अद्यैव प्रव्रजिष्यामि को जाने मरणं शुवे ।
न हि न संगतं तेन महासैन्येन मृत्युना ।
माहं काको व दुर्मेधो कामानां वशम् अन्वगा ॥
षष्टिं निधिसहस्राणि सप्तरत्नम् अनल्पकं ।
तां पुत्र प्रतिपद्याहि राज्यं निर्यातयामि ते ॥
अद्यैव प्रव्रजिष्यामि को जाने मरणं शुवे ।
न हि न संगतं तेन महासैन्येन मृत्युना ।
माहं काको व दुर्मेधो कामानां वसम् अन्वगा ॥
अथ खलु दीर्घायु कुमारो राजानं गाथाये प्रत्यभाषे ॥
पुरे श्रुतं मया एतं माता कालगता मम ।
नैवाहं शक्तो भेष्यामि देवेन विना जीवितुं ॥
यथा आरण्यकं नागं पृष्ठतो न्वेति पायको ।
एवं ते अन्वयिष्यामि आदाय तव सुंभकं ॥
[_म्वु_3.460_] अथ खलु भिक्षवो राजा अरिन्दमो अमात्यपारिषद्यां गाथाये अध्यभाषे ॥
यथा सामुद्रिकां नावां वाणिजान धनार्थिनां ।
मकरो तत्र पाटेय वाणिजा व्यसनं गता ॥
मा वयं अन्तरायं करोम . . . . . . मम ।
. . . . . . . . . . . . . . . . . ॥
इमं कुमारं गृह्णीत्वा दीर्घायुं राष्ट्रवर्धनं ।
क्षिप्रम् अन्तःपुरं नेथ प्रासादं रतिवर्धनं ।
तत्र तं च रमेष्यन्ति देवकन्योपमा शुभा ॥
ततो कुमारं गृह्णित्वा महामात्रा यशस्विनः ।
महता राजानुभावेन प्रविशेन्सु मिथिलां पुरीं ॥
ततो खु एका उत्थाय राजकन्या अलंकृता ।
आमुक्तमाल्याभरणा राजानम् एतम् अब्रवीत्* ॥
तं नो ब्रवीहि गन्धर्वो शक्रो वासि पुरंदरः ।
राजाणत्तीं ते पृच्छामि . . . . . . . . ॥
कथं त्वम् अस्माञ् जहासि राज्यं स्फीतम् अकण्टकं ।
दीर्घायुं कुमारं तथा सामात्यं सधनधान्यकं ॥
अथ राजा तां राजकन्यां आह ॥
देवो न नागो न गन्धर्वो न शक्रो न पुरन्दरः ।
मानुषो हं उत्रस्तो कामेषु श्रुत्वा ऋषेर् अनुशासनीं ॥
माहं काको व दुर्मेधो कामानां वशम् अन्वगा ।
[_म्वु_3.461_] अद्यैव च कुर्याद् इष्तं को जाने मरणं शुवे ।
न हि न संगतं तेन बहुसैन्येन मृत्युना ॥
इत्य् उक्त्वा स च राजा तस्यैव श्रोणकस्य ऋषेर् अन्तिकात् प्रव्रजितः ॥
___भगवान् आह ॥ तत् किं मन्यध्वं भिक्षवो अन्यो सो तेन कालेन तेन समयेन श्रोणको नाम ऋषिर् अभूषि न खल्व् एतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । अहं स तेन कालेन तेन समयेन श्रोणको नाम र्षि अभुषि । नान्यो राजा अरिन्दमो द्रष्टव्यो । अयं सो राजा श्रेणियो बिम्बिसारो ॥ तदापि एषो यो अस्य श्रोणकं कथेसि तस्य विपुलो दायो दिन्नो । इदानीं पि एतेन पुरोहितपुत्रस्य विपुलो दायो दिन्नो मम बुद्धस्य वर्णं कथेसि इति ॥
_____अरिन्दमराजजातकं समाप्तं ॥
___इदम् अवोचद् भगवान् आत्तमना च देवासुरगरुडकिन्नरमहोरगा सा च सर्वावती वर्षत् ते च भिक्षवो भगवतो भाषितम् अभ्यनन्दन् ॥
___इति आर्यमहासांघिकानां लोकोत्तरवादिनां पाठेन इति श्रीमहावस्तु-अवदानं समाप्तं ॥
ये धर्मा हेतुप्रभावा हेतुन् तेषां तथागतो ।
ह्य् अवदत् तेषां च यो निरोधो एवंवादी महाश्रमणः ॥
___[_म्वु_3.462_] (लेस् मनुस्च्रित्स् अजोउतेन्त् ले चोलोफोन सुइवन्त्:)
यः शृणोति मुनेर् धर्मं श्रुत्वा चाभिनिवेशति ।
सर्वपापविनिर्मुक्तो स गच्छति सुखावतीं ॥
श्रद्धया श्रोतव्यं तस्मात् सुगत्स्यायं सुभाषितः ।
नानाविदर्शनैः तैस् तैः जिनेन भाषितः पुरा ॥
सो यं सुभाषितं भक्त्या सुगतस्यानुभावतः ।
मया संपूर्णलिखितं कैवल्यवर्त्मदेशकः ॥
अतो यं मम पुण्यं स्यात् सर्वकिल्विषनाशनं ।
अपायद्वारनाशार्हं बोधिमार्गोपदेशकं ॥
तेन पुण्यानुभावेन सर्वभूतानि सर्वशः ।
सर्वक्लेशविनिर्मुक्ता प्रयान्तु हि सुखावतीं ॥
ये सत्वाः अन्धा काणा च तथा कुब्जा विचित्रका ।
अन्ये पिपासिताः क्षुद्धाः सर्वदुःखनिपीडिताः ॥
तेन पुण्येन ते सर्वे सर्वसुखसमन्विता ।
विविधा भोगा संभुक्ता लभन्तु मोक्षम् अव्ययं ॥
षट्सु गतीषु ये सत्वाः मग्नाः जातिजराकुला ।
ते सर्वे मम पुण्येन भवन्तु बोधिमार्गगाः ॥
ये सत्वाः बालजातीयाः सद्धर्मेण विवर्जिताः ।
पापेषु सततं सक्ताः रागदोषेण मोहिताः ॥
ते सर्वे मम पुण्येन भूयो जातिस्मरास् तदा ।
दानशीलादिसंयुक्ता चरन्तु बोधिचारिकां ॥
राजा भवतु क्षेमावान्* चरन्तु मन्त्रिणो नये ।
वीरा भवन्तु सततं संग्रामे जितशत्रवः ॥
[_म्वु_3.463_] काले वर्षन्तु मेघाश् च शस्यपूर्णा मही सदा ।
एतन् मे प्रणिधानेन यत् पुण्यं जायते शुभं ॥
तेन पुण्यानुभावेन भवेयं बोधिपारगः ।
संसारार्णवतीर्णाय देहिनां कुशलाय च ॥
__शुभमस्तु सर्वदा ॥
श्रीमन् नैपालिके वर्षे विन्दुस् तनग्रहगते ।
मासे आषाढे शुक्लपक्षे पूर्णिमातिथिसंगमे ॥
उत्तराषाढसंयुक्ते योगे इन्द्रसमागमे ।
रवे वासरसंयोगे तस्मिं एव शुभे दिने ॥
श्रीनन्दाचार्येण स्वार्थं लिखितो यं सुभाषितः ।
श्रीमत् महामुने भक्त्या संपूर्णम् अगमच् छुभं ॥
_____ग्रन्थप्रमाणं श्लोक 25000 ॥
संवत्* 842 आषाढमासे शुक्लपक्षे पूर्णमास्यां तिथौ उत्तराषाढानक्षत्रे इन्द्रयोगे आदित्यवासरेः थ्वकुह्नुसिधयकाजुरो ॥ ललितपत्तनमहानगरेः जशोधरमहाविहारावासितवज्राचार्यकुलिसश्रीनन्दवेदेन स्वहस्तेन लिखितं शुभं ॥ सकोयावजाचार्य श्रीगजेन्द्रवज्रयात चोस्यंविया ॥
__शुभम् अस्तु सर्वदा ॥
यादृशी पुस्तकं दृष्ट्वा तादृशी लिखितं मया ।
यदि शुद्धम् अशुद्धं वा शोधनीयं महद्बुधैः ॥
_____शुभम् अस्तु सर्वदाकालं ॥
मूल पाठ: Mahāvastu-avādana · Edition: Émile Senart, 3 vols., Paris 1882-1897. Cf. also : Emmanuel Faure, B. Oguibénine, M. Yamazaki, and Y. Ousaka Mahāvastu-avādana, vol.I: word index and reverse word index Tokyo 2003 (Philologica Asiatica, Monograph Series 20) The Chuo Academic Research Institute (Tokyo, 2003 (July)) · Data entry Emmanuel Fauré · GRETIL (Göttingen) · CC BY-NC-SA 4.0