महावस्तु-अवादन · भाग 241260
वारिपूर्णेहि नेत्रेहि इदं वचनम् अब्रवीत्* ॥
सचेत्* माम् अम्ब घातेन्सुः क्षत्रिया दूरगामिनो ।
अस्थीनि मे समानेत्वा एकमन्ते दहापये ॥
एकमन्ते दहापेत्वा एलूकं मम कारये ।
एलूकं मे करित्वान कर्णिकारम् आरोपये ॥
ततो च पुष्पिते सन्ते वसन्तस्मिं हिमान्तके ।
ततो मे अम्बे स्मरेयासि एवंवर्णा ममात्मजा ॥
ततो च सो राजपुत्रो युद्धस्मि कोविदो कुशो ।
संरूढप्रज्ञानो अस्ति समादाप्य इति स्थिता ॥
इमां बन्धित्वान भागभागं करित्वान क्षत्रिया ।
संग्रामं च ददित्वान ततः क्षेमं भविष्यति ॥
[_म्वु_3.21_] ततः च (सा राजपुत्रं) क्षत्रियाणी यशस्विनी ।
वेपमानेहि गात्रेहि इदं वचनम् अब्रवीत्* ॥
सत्यन् ते प्रतिजानामि राजपुत्र महाबल ।
यदि ते कोचिद् अपराध्ये आचरे व नराधिपः ॥
कुशो आह ॥
अहं पि ते प्रजानामि शुद्धदन्ति प्रजापति ॥
यदि ते कदाचिद् भूयो पि आचरेयं इतो परं ॥
ततो प्रजापतीमाता अश्रुकण्ठी रुदन्मुखी ।
वारिपूर्णेहि नेत्रेहि इदं वचनम् अब्रवीत्* ॥
को नु वेणो वा पाणो वा अथ वा पुनर् पुक्कसो ।
किस्य राजकुले जातो किं स्य कुर्वन्ततो मुखं ॥
सुदर्शना मातरम् आह ॥
न एष वेणो न चण्डालो अथ न पुनः पुक्कसो ।
पुत्रो इक्ष्वाकुराजस्य तं त्वं दासो ति मन्यसि ॥
मयूरक्रोंचाभिरुतं वादित्रध्वनिनिषेवितं ।
क्षत्रियस्य कुलं स्फीतं तं त्वं दासो ति मन्यसि ॥
शंखपाण्डरसंकाशं नारीसंघनिषेवितं ।
क्ष्त्रियस्य कुलं स्फीतं तं त्वं दासो ति मन्यसि ॥
सुवर्णभाजनप्रत्युप्तं नारीसंघसमाकुलं ।
क्षत्रियस्य कुलं स्फीतं तं त्वं दासो ति मन्यसि ॥
[_म्वु_3.22_] षष्टि नगरसहस्राणि स्फीतं राज्यम् अकण्ठकं ।
क्षत्रियस्य कुलं स्फीतं तं त्वं दासो ति मन्यसि ॥
षष्टि नागसहस्राणि सुवर्णालंकारभूषिता ।
सुवर्णच्छदमातंगा इषादन्ता समुद्गताः ॥
आरूढा ग्रामणीयेहि खड्गतोमरपाणिभिः ।
क्षत्रियस्य कुलं स्फीतं तं त्वं दासो ति मन्यसि ॥
षष्टि रथसहस्राणी सनन्दिघोषालंकृता ।
अयोसुबद्धनेमिका द्वीपिचर्मपरिच्छदा ॥
आरूढा ग्रामणीयेहि चापहस्तेहि वर्मिहि ।
क्षत्रियस्य कुलं स्फीतं तं त्वं दासो ति मन्यसि ॥
षष्टि अश्वसहस्राणि आजानेया हयोत्तमाः ।
सुवर्णमेखलाधरा खलीनरतनामया ॥
आरूढा ग्रामणीयेहि कशाहस्तेहि वर्मिभिः ।
क्षत्रियस्य कुलं स्फीतं तं त्वं दासो ति मन्यसि ॥
विंश ब्राह्मणसहस्राणी राज्ञो भुंजन्ति नित्यकं ।
दिवा वा यदि वा रात्रौ सदा सत्कृतपूजिता ।
क्षत्रियस्य कुलं स्फीतं तं त्वं दासो ति मन्यसि ॥
कुमाराणां शता पंच उपेता मातृपितृतो ।
क्षत्रियस्य कुलं स्फीतं तं त्वं दासो ति मन्यसि ॥
राजा दानि शृणोति देवीये जामाता आगतो त्ति इहैव अन्तःपुरे ति ॥ सो दानि भीतो च यं वाहिरे राजेहि भयं भवेया इमं अभ्यन्तरे भयं जातं । कुशो किं करिष्यति ॥
[_म्वु_3.23_] किं त्वम् उन्मत्तरूपा व विक्षिप्तचित्ता च भाषसि ।
कीदृशो सो कुशो कस्माद् अनुपश्येमथ वयं ॥
देवी आह ॥
एष देव अभ्यन्तरतो वेश्म-अन्तरे तिष्ठति ।
आगच्छति राजपुत्रः अभिनिष्क्रम्य तिष्ठति ॥
तस्यासौ वचनं श्रुत्वा भीतो संविग्नमानसो ।
प्रिय-अनुमतैकांसो कृत्वा अंजलिं तिष्ठति ॥
त्वं क्षमाहि महाराज त्वं क्षमाहि नरर्षभ ।
न वयम् एवं जानाम सिंहस्वर इहागतः ॥
त्वं क्षमाहि महाराज त्वं क्षमाहि नरर्षभ ।
न वयम् एवं जानाम महास्वर इहागतो ॥
त्वं क्षमाहि महाराज त्वं क्षमाहि महारथ ।
न वयम् एवं जानाम मंजुस्वर इहागतो ॥
राजा दानि पुनर् धीतरं परिभाषति ॥ एत्तको कालो मम जामातु आगतस्य न च त्वं मम निवेदेसि ॥ सो दानि तत् क्षणं शतपाकेहि सहस्रपाकेहि च तैलेहि अभ्यञ्चित्वा स्नापितो महारहेहि विलेपनेहि विलिप्तो महारहेहि आच्छादनेहि आच्छादितो आमुक्तमकुटो पंचाङ्गिकेन तूर्येणोपस्थिहीयति ॥ कुशो श्वशुरं आह ॥
यत्तका ते हस्ती अश्वा च सर्वेषां कर्णा पिधीयन्तु ।
मा मम सिंहनादेन स्वकं सैन्यं भजिष्यति ॥
क्षिप्रं च अश्वा योजेथ सुवर्ण-उच्छ्रितध्वजां ।
[_म्वु_3.24_] अन्तेपुरातो निर्यासि राज्ञो महेन्द्रस्य पश्चतो ॥
सो सिंहनादं ननदे शूरो युद्धस्मिं ईश्वरो ।
सिंहनादं नदित्वान परिगृह्णति क्षत्रिया ॥
ते दानि सप्त क्षत्रिया जीवग्राहं गृह्य श्वशुरस्य अल्लीपिता ॥ ते राजा आहन्सुः ॥ किं करोमीति ॥ कुशो आह ॥ पादेहि मम श्वशुरं अल्लीयथ वृद्धिं च करोथ ॥ ते दानि पादेहि च महेन्द्रकस्य राज्ञो अभिगता जयवुद्धि च से कृता ॥ मद्रकराजा आह ॥ किं करोमि त्ति ॥ कुशो आह ॥ करिष्यसि मम वचनं ॥ श्वशुरो आह ॥ करिष्यन् ति ॥ अस्ति ते धीतरो सुवर्णसहस्रमण्डितां कृत्वा एकमेकस्य राज्ञो एकमेकां धीतरं देहि जामातरो भोन्तु । सुखं अनुद्विग्नं वसिष्यसीति ॥ राज्ञा महेन्द्रकेन तेषां क्षत्रियाणां सर्वेषाम् एकमेका सुवर्णसहस्रप्रतिमण्डिता धीता दिन्ना सुवर्णसन्धीव पुत्रपौत्रा ॥ ते दानि स्वकानि राज्यानि विसर्जिता ॥
___गतेषु सप्तराजानेषु श्वशुरं कुशो आमन्त्रयति ॥ अहम् अपि गमिष्यामीति ॥ मद्रकराजा आह ॥ पुत्रि सुदर्शने त्वं एवं पराक्रमयुक्तं राजानं शुरं दीर्घदर्शिनं इक्ष्वाकुपुत्रं महाबलं महाकुलीनं अरहसे प्रेम्नेन च गौरवेन च उपस्थिहितुं । यं नूनाहं सपरिवारो सर्वो च अधिस्थानो संशयानो मोक्षितो ॥ साधू ति धीता पितुः वचनम् अश्रोषीत्* ॥ राजा दानि महेन्द्रको महता सत्कारेण प्रभूतं रत्नदानं दत्त्वा जामातुकस्य सुदर्शनाये च चतुरंगबलकायं संनाहयित्वा विसर्जिता ॥
___सो दानि यर्थेछिते जनपदे आवासितो । तत्र पद्मसरे स्नानाय ओकस्तो ॥
[_म्वु_3.25_] तत्र स्नापयन्तेन आत्मनो प्रतिबिम्बं दृष्टः । स तं दुर्वर्णं दुर्दृशं आत्मनो प्रतिबिम्बं दृष्ट्वा दुर्मनो आसि । तेन हि मे महेन्द्रकराजधीता परिभवति । आत्मानं उपक्रमिष्यामि ॥ सो दानि शक्रेण देवेन्द्रेण समन्वाहृतो ॥ अयं कुशो बोधिसत्वो दुर्वर्णताये आत्मानम् उपक्रमितुकामः तेन तस्य ज्योतीरस-एकावलिका मणिरत्नं दिन्नं । इमम् आबन्धाहि ततः ते रूपेण सर्वजम्बुद्वीपे समसमो न भविष्यति । यत्र काले पौराणिकं रूपं अभिकांक्षसि तद् एतं मणिं पाणिना पिधिययासि ॥ सो दानि तेन मणिरत्नेन आबद्धेन राजकुलं प्रविशति दिव्येन रूपेण प्रतिहाररक्षेण च वारि मा प्रविशाहीति ॥ सो दानि आह ॥ अहं कुशो ति ॥ प्रतिहाररक्षो आह ॥ भद्रं कुशो राजा एदृशो रूपेण भवेया ति ॥ राज्ञा कुशेन तं मणिरत्नकं हस्तेनापिहितं । तस्य यथापौराणं वर्णरूपं संवृत्तं ॥ प्रतिहाररक्षो दृष्ट्वा मूर्धेन प्रणिपतितो ॥ सो दानि प्रविष्टो देवीय मूले ॥ देवी आह ॥ मा राजकुलं अवमर्दाहीति । किस्य त्वं राजकुलं प्रविष्टो ॥ सो आह ॥ अहं कुशो ॥ देवी आह ॥ कुशो राजा एदृशेन रूपेण भवेया ॥ राज्ञा तं मणिं हस्तेन अपिहितं । सो दानि यथापौराणो संवृत्तो ॥ देवी आह ॥ अतो मणितो हस्तम् अपनेहि ॥ राज्ञा मणितो हस्तो अपनीतो दिव्यं चास्य पुनः रूपं संवृत्तं ॥ आत्मानम् एव उपसंक्रमितुकामो । ततो मे इमं ज्योतीरसं नाम मणिरत्नं शक्रेण दिन्नं ॥ कुशो राजा आगच्छतीति श्रुत्वा एकूना पंच कुमारशतानि अमात्या च भटबलाग्रं च सर्वे प्रत्युद्गता । पश्यन्ति कुशं राजं हस्तिस्कंधवरगतं दिव्येन रूपेण आदित्यम् इव प्रतपन्तं चतुरंगेन बलकायेन संपरिवृतं आगच्छन्तं । ते दानि न प्रत्यभिजानन्ति ।
[_म्वु_3.26_] तेन दानि राज्ञा मणि हस्तेन पिहितो यथापौराणं च रूपं संवृत्तं ततः च सर्वे प्रणिपतिता ॥ एवं महता समुदयेन कुशो राजा देवीये सुदर्शनाय सार्धम् अन्तःपुरं प्रविष्टो ॥
एवं पुण्यवतो अर्था सर्वे भोन्ति प्रदक्षिणाः ।
यथा नाम कुशो भार्याय ज्ञातीहि च समागतो ॥
पूर्वेनिवासं भगवान् पूर्वेजातिम् अनुस्मरन्* ।
जातकम् इदम् आख्यासि शास्ता भिक्षूणम् अन्तिके ॥
ते च स्कन्धा ते धातवः तानि आयतनानि च ।
आत्मनो र्थं च भगवान् एतम् अर्थं वियाकरे ॥
अनवराग्रस्मिं संसारे यत्र मे उषितं पुरा ।
कुशो अहं तदा आसि सुदर्शना यशोधरा ॥
माया माता तदा आसि महानामो महेन्द्रको ।
मारो अन्यतरो राजा एवं धारेथ जातकं ॥
एवम् इदम् अपरिमितं बहुदुःखं
उच्चनीचचरितं पुराणं ।
विगतज्वरो विगतभयो अशोको
स्वजातकं भाषति भिक्षुसंघमध्ये ॥
भिक्षू भगवन्तम् आहन्सुः ॥ तस्य भगवन् कर्मस्य विपाकेन कुशो राजा दुर्वऋणो दुर्दृशो प्रतिकूलदर्शनो अभूषि ॥ भगवान् आह ॥
___भूतपूर्वं भिक्षवः अतीतमध्वानं नगरे कम्पिल्ले पंचालजनपदे दुवे जायपतिका तरुणाभिरूपा परस्परानुरक्ता भवेन्सुः । ताये इस्त्रिये सादृशं तत्र गृहं निःशल्यकं
[_म्वु_3.27_] सिद्धं ॥ बुद्धानाम् अनुत्पादे प्रत्येकबुद्धा लोके उत्पद्यन्ति तूष्णीकशोभना खड्गविषाणकल्पा । एकम् आत्मानं दमेन्ति शमेन्ति परिनिर्वायन्ति ॥ ताये स्त्रियाये तत्राहारं सिद्धं ॥ प्रत्येकबुद्धो च तं गृहं पर्विष्टो पिण्डाय तरुणाभिरूपो प्रासादिकेन ईर्यापथेन ॥ प्रासादिकाभिप्रसन्ना देवमनुष्याः ॥ तस्या स्त्रियाये प्रत्येकबुद्धं दृष्ट्वा प्रसादम् उत्पन्नं ॥ ताये तस्य प्रत्येकबुद्धस्य पिण्डपात्रो च दिन्नो ॥ सो चास्या कुटुम्बिको प्रविष्टो पश्यति तं च प्रत्येकबुद्धं गृहे भार्यां च ॥ तस्य दानि शंका उत्पन्ना । तरुणो यं प्रव्रजितो मा हैव मे कलत्रा ओलोकिता भविष्यति ॥ सो ताये भार्याये परुषवाचाये आह ॥ भुक्तपूर्वो ते एषो यथा त्वम् एतस्य भोजनं देसि ॥ सा आह ॥ शान्तं पापं प्रव्रजितो एषो महाभागः अपूर्वो एषो अद्य गृहं प्रविष्टः प्रसादेन मे एतस्य भिक्षा दिन्ना ॥ ततो सो प्रत्येकबुद्धो तस्य पुरुषस्य अकुशलं चित्तोत्पादं ज्ञात्वा अनुग्रहार्थं ततो येव गृहातो हंसराजा विय वैहायसं क्रान्तो ॥ तस्य दानि पुरुषस्य तं प्रत्येकबुद्धं वैहायसगतं दृष्ट्वा प्रसादम् उत्पन्नं महाभागो अयं ऋषि इति ॥ तेन सा भार्या अनुक्षमापिता प्रणिधानं च उत्पादितं । अन्ये पि मे जाति त्वं भार्या भवेसीति अन्यराष्ट्रं पि गता नान्यस्य वशे वर्तेसि नान्यस्य मम येव त्ति ॥
___भगवान् आह ॥ स्यात् खलु पुनर् भिक्षवो युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन कंपिल्ले नगरे पुरुषो अभूषि येन भार्याये ईर्ष्याप्रकृतेन दुष्टचित्तेन प्रत्येकबुद्धो अभ्याचिक्षितो । कुशो राजा तेन कालेन तेन समयेन कंपिल्लनगरे सो पुरुषो अभूषि ॥ अन्या सा भार्या अभूषि । सा सुदर्शना महेन्द्रनाथधीता ॥ तस्य भिक्षवः कर्मणो विपाकेन कुशो राजा विरूपो अभूषि ॥
_____कुशजातकं समाप्तं ॥
[_म्वु_3.28_] भिक्षू भगवन्तम् आहन्सुः ॥ कथं भगवं मारो पापीमां भगवतो दुष्करं चरन्तस्य पृष्ठिमेन पृष्ठिमं समनुबद्धो अवतारार्थी अवतारं गवेषी अलभमानो निर्विद्य प्रत्यवक्रान्तो ॥ भगवान् आह ॥ अन्यदापि मम एषो पृष्ठिमेन पृष्ठिमं समनुबद्धो अवतारार्थी अवतारं गवेषी अलभन्तो अवतारं निर्विद्य प्रत्यवक्रान्तो ॥ भिक्षू भगवन्तम् आहन्सुः ॥ अन्यदापि भगवन्* ॥ भगवान् आह ॥ अन्यदापि भिक्षवो ॥ भूतपूर्वं भिक्षवः अतीतम् अध्वानं ऋषभो गवांपतिः गोगणसमनुबद्धो ॥ तस्य दानि वृषभस्य वृषणा लंबा शिथिला च सो वृषभो लंबितेहि वृषणेहि गोगणस्य पृष्ठिमेन पृष्ठिमं अण्वति ॥ तहिं च अरण्यायतने गिरिको नाम शृगालः प्रतिवसति ॥ तेन सो वृषभो दृष्टो गोगणेन सार्धं अण्वन्तो लम्बेहि वृषणेहि ॥ सो तस्य पृष्ठिमेन पृष्ठिमं बहूनि वर्षाणि समनुबद्धो ॥ तस्य अपरो शृगालो वयस्यो । तेन सो गिरिको दृष्टो तस्य वृषभस्य पृष्ठिमेन पृष्ठिमं समनुबद्धो दृष्ट्वा च पुनस् तं गिरिकं गाथाये अध्यभाषति ॥
कति वर्षाणि गिरिक अनुबद्धो सि गवांपतिं ।
मुहुर् मुहुश् च त्रससि भीतभीतं च पश्यसि ॥
इमे स्थूला च लम्बा च सुनिबद्धा शिथिला चिमे ।
इमा न पि पतिष्यन्ति ततो ऽभक्षो भविष्यसि ॥
मयापि समनुबद्धो दश वर्षाणि पंच च ।
शिथिला व सुबद्धा च नास्ति सानं पततां भयं ॥
[_म्वु_3.29_] भगवान् आह ॥ स्यात् खलु पुनर् भिक्षवो युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन वृषभो अभूत्* ॥ सो हं वृषभो ऽभूषी ॥ यः गिरिको नाम शृगालो ऽयम् एव मारो अभूषि ॥ तदापि अवतारार्थी अवतारम् अलभन्तो निर्विद्यापक्रान्तः ॥
_____समाप्तं वृषभजातकं ॥
भिक्षू भगवन्तम् आहन्सुः ॥ कथं भगवन् मारो पापीमां न शक्नोति भगवतो वतारम् अधिगन्तुं ॥ भगवान् आह ॥ न भिक्षवो एतर्हि एव मारो पापीमां न शक्नोति ममावतारं अधिगन्तुं । अन्यदापि एषो मम न शक्नोति अवतारम् अधिगन्तुं ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवन्* ॥ भगवान् आह ॥ अन्यदापि भिक्षवो ॥ भूतपूर्वं भिक्षवो अतीतम् अध्वानं अनुहिमवन्ते प्रत्युद्देशे वानरो महान्तं वानरयूथं परिहरति । तहिं च अनुहिमवन्तप्रत्युद्देशे महन्तो उदकह्रदो यत्र वानरयूथं अभीक्ष्णं पानीयं पायको ओतरति । तत्र च उदकह्रदे उदकराक्षसो प्रतिवसति ॥ यो तत्रोदकह्रदे ओतरति पानीयपायो मृगो वा पक्षी वा वानरो वा मनुष्यो वा तं तत्रोदकराक्षसो ओकड्ढति ॥ सो पि वानरयूथो तम् उदह्रदं पानीयपायो ओतरति ॥ सो दकराक्षसो दकगतो तानि वानराणि निध्यायित्वा अदृष्टो तेहि वानरेहि ततो वानरम् एकम् आकड्ढति ॥ एवं सो दकराक्षसो पुनपुनः यं वेलं ते वानरा उदकपाया ओकस्ता भवन्ति ततो निध्यायित्वा अदृष्टो ओकड्ढति ॥ सो दानि वानराधिपतिः यानि वानराणि तत्रोदकह्रदे ओकड्ढितानि तानि न पश्यति । तस्यैवं भवति । कहिं ते वानराणि मा अन्यहिं गता भवेन्सु ति । समन्ततोलोकेति न च पश्यति ॥ सो पण्डितो यूथपतिः तेषां वानराणां [उदकह्रदम् ओतरन्तानां]
[_म्वु_3.30_] येन देशेन तं उदकह्रदं पानीयपाया ओतरन्ति तत्र ओतरन्तानां उत्तरन्तानां पादानि प्रत्यवेक्षति ओतरन्तानां वर्धन्ति उत्तरन्तानां परिहीयन्ति । तस्य बुद्धिर् उत्पन्ना । अत्र एते ओकड्ढियन्ति दकराक्षसेन ततो न पश्यामि एतेषां । अलं मुखेन स्वयम् उदकं पिबितुं ॥ यं च तेन दृष्टा ओकड्ढियन्ति तत्रोदके दकराक्षसेन वानरा आणत्ता ॥ गच्छथ अतो नलवनातो नलप्रान्तानि गृह्णथ येनोदकं पास्यथ । ततः दकराक्षसो न शक्यति अवकड्ढितुं ॥ तेहि गच्छिय नलवनातो स्वकस्वका नलप्रान्ता गृहीता दीर्घदीर्घा यथा दूरतो स्थितका उदकं पिबमाना च न दकराक्षसः ओकड्ढेया ति ॥ यं वेलं उदकपाया गच्छन्ति ततो स्वकस्वकानि नलान्य् आदाय ओतरन्ति ततः दूरतो भोन्ता तेन नलेन उदकं पिबन्ति । न शक्नोति दकराक्षसो भूयो वानरम् ओकड्ढितुं ॥
ओतरन्तस्य दृश्यन्ति पादानि उत्तरंतस्य न ।
नलेन पानं पातव्यं नास्ति जागरतो भयं ॥
भगवान् आह ॥ स्यात् खलु भिक्षवो युष्माकम् एवम् अन्यः स तेन कालेन तेन समयेन यो वानराधिपतिः । अहम् एव तदा अभूत्* ॥ यो दकराक्षसो अभूद् अयम् एव मारो ऽभूत्* ॥ तदापि न शक्नोति स्मावतारम् अधिगन्तुं ॥
_____समाप्तं वानरजातकं ॥
[_म्वु_3.31_] भिक्षू भगवन्तम् आहन्सुः ॥ कथं भगवान् अनुत्तराये सम्यक्संबोधिये प्रज्ञाविशेषेण मारस्य विषयातो अतिक्रान्तो ॥ भगवान् आह ॥ न भिक्षवो एतरहिम् एवाहं प्रज्ञाविशेषेण स्वस्तिना मारस्य विषयातो अतिक्रान्तो अन्यदापि अहं वानरभूतो सन्तो प्रज्ञाविशेषेण एतस्य मारस्य विषयातो मूर्धे पादां कृत्वा स्वस्तिना अतिक्रान्तो ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवन्* ॥ भगवान् आह ॥ अन्यदापि भिक्षवः ॥
___भूतपूर्वं भिक्षवो अतीतम् अध्वानं अनुहिमवन्ते वानरो महान्तं वानरयूथं परिहरति ॥ सो दानि ग्रीष्माणां पश्चिमे मासे तेन वानरयूथेन सार्धं ततो हिमवन्तातो नानाप्रकाराणि फलानि परिभुंजित्वा तृषितो उदकह्रदं पानीयपायो आगतो ॥ सो च उदकह्रदो श्वभ्रितकूलो नास्ति ओकाशो ओतरितुं नत्थितुं ॥ सो यूथपतिः तस्य उदकह्रदस्य समन्तेन विकाशं मार्गन्तो अनुक्रमन्तो पानीयतृषाये ततः उपलानां पटां छित्त्वा तहिं उदकह्रदे पतितो ॥ तस्य च उदकस्य अभ्यन्तरे अजगरस्य बिलं । तत्र बिले महान्तो अजगरो प्रतिवसति ॥ तत्र तस्य प्रतिवसन्तस्य अल्पकिसरेण आहारो उत्पद्यति । यो तत्र उदकपायो आगच्छति मृगो वा पक्षी वा वानरो वा तं सो भक्षयति ॥ तेन सो वानराधिपो तहिं उदके पतन्तो दृष्टो । तेन ततो बिलातो ग्रीवा निक्कालिता एतं वानरं ग्रहीष्यामीति । तं वानरं गाथाये अध्यभाषे ॥
उत्पन्नो पुनर् अयं भक्ष्यो वानरो वनगोचरो ।
यो यं बिलान्ते कूलस्मिं पानीयं पातुम् इच्छति ॥
सो दानि वानराधिपो तहिं उदके न किंचित् प्रतिष्ठां लभति यत्र पादं प्रतिष्ठापेत्वा
[_म्वु_3.32_] उदकातो स्थलं क्रमेय । तस्यैवं भवति । यद्य् एष अजगरो ग्रीवां पराङ्मुखां परिवर्तेय एतस्य एवाजगरस्य मूर्ध्ने पादं कृत्वा थलं क्रमेयं ॥ सो दानि अजगरं गाथाये अध्यभाषे ॥
अहम् एव न ते भक्ष्यो इमा न पश्यसे पृथू ।
यो माम् अभिमुखं तर्जे यं भाषसि गिराम् इमां ॥
तेन दानि अजगरेण येन ते वानरा यूथपतिना उपदर्शिता ततःमुखं से ग्रीवा परिवर्तिता तानि वानराणि द्रष्टुं । समन्तरं तेनाजगरेण पराङ्मुखी ग्रीवा परिवर्तिता सो च वानराधिपो तस्य अजगरस्य पराङ्मुखस्य मूर्ध्ने पादं कृत्वा ततः उदकातो स्वस्तिना स्थलं प्रक्रान्तो ॥ सो दानि अजगरो तस्य वानरस्य बुद्धिविशेषेण विस्मितो ॥ एतस्य वानरस्य इह उदकह्रदे पादस्य प्रतिष्ठानं नास्ति यत्र पादं प्रतिष्ठापेत्वा इतो उदकातो थलं प्रक्रमेय । ततो तेन मम एते वानरा उपदर्शिता । तथा एष अतो मुखं परिवर्तेति मम च ग्रीवा येन एते वानरा तेन परिवृत्ता । एषो च बुद्धिविशेषेण मम एव मूर्ध्ने पादां कृत्वा स्थले प्रक्रान्तो ॥ सो तं वानराधिपतिं गाथाये प्रत्यभाषे ॥
लहुं च त्वये क्षिप्रं च निरुद्धं पुनर्* चिन्ततं ।
यो मां पराङ्मुखं ज्ञात्वा शूरो वीरो अजायिथा ॥
यस्येमे चतुरो धर्मा वानरेन्द्र यथा तव ।
वीर्यं बुद्धिं स्मृतिः प्रज्ञा सो दुःखम् अपवर्तति ॥
स्यात् खलु पुनः भिक्षवः युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन अनुहिमवन्ते
[_म्वु_3.33_] वानराधिपो अभूषि । सो हं तेन कालेन तेन समयेन वानराधिपो अभूषि ॥ अन्यः स तत्र उदकह्रदे अजगरो अभूषि । न खल्व् एतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । एष भिक्षवः पापीमां मारो तेन कालेन तेन समयेन तहिं उदकह्रदे अजगरो नैवासिको अभूषि ॥ तदापि अहं एतस्य उदकह्रदातो बुद्धिविशेषेण मूर्ध्ने पादं कृत्वा स्थलम् अतिक्रान्तः । एतरहि पि अहं एतस्य मारस्य विषयातो बुद्धिविशेषेणातिक्रान्तः ॥
_____वानरजातकं समाप्तं ॥
भिक्षू भगवन्तम् आहन्सुः ॥ पश्य भगवान् कथं पुण्यानां वर्णवादी ॥ भगवान् आह ॥ न हि भिक्षवः एतरहिम् एवाहं पुण्यानां वर्णवादी । अन्यदाप्य् अहं भिक्षवो पुण्यानां वर्णवादी ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवन्* ॥ भगवान् आह ॥ अन्यदापि भिक्षवः ॥ भूतपूर्वं भिक्ष्वओ अतीतम् अध्वानं नगरे वाराणसी काशिजनपदे अंजनको नाम राजा राज्यं कारयति कृतपुण्यो महेशाख्यो सुसंगृहीतपरिजनो दानसंविभागशीलो महाबलो महाकोशो महावाहनो । तस्य राज्यं ऋद्धं च स्फीतं च सुभिक्षं चाकीर्णजनमनुष्यं च सुखितजनमनुष्यं च ॥ तस्य दानि राज्ञो अंजनस्य पुत्रो पुण्यवन्तो नाम कुमारो सर्वकालं पुण्यानां वर्णवादी । तस्य दानि कुमारस्य चत्वार अमात्यपुत्रा वयस्या ॥ एको अमात्यपुत्रो वीर्यवन्तो नाम सर्वकालं वीर्यस्य व वर्णवादी वीर्यं लोके अनुत्तरं ति ॥ द्वितीयो अमात्यपुत्रो शिल्पवन्तो नाम सर्वकालं शिल्पस्य व वर्णवादी शिल्पं लोके अनुत्तरं ॥ तृतीयो अमात्यपुत्रो रूपवन्तो नाम रूपस्य वर्णवादी रूपं व लोके अनुत्तरं ॥ चतुर्थो अमात्यपुत्रो प्रज्ञावन्तो नाम सर्वकालं प्रज्ञाये वर्णवादी प्रज्ञा व लोके अनुत्तरं ॥ ते दानि तेन कुमारेण पुण्यवन्तेन उच्यन्ति ॥ नास्ति पुण्येहि समं पुण्यं लोके अनुत्तरं
[_म्वु_3.34_] ति । यदि वो जानितुं न शक्यथ परराष्ट्रं गच्छाम तत्र ज्ञास्यामः को विशेष्यति पुण्यवां वीर्यवां शिल्पवां रूपवां प्रज्ञावान् इति ॥ ते दानि वाराणसीतो कम्पिल्लं नगरं गता यावत्* ज्ञास्याम को लोके विशिष्यति पुण्यवां वीर्यवां शिल्पवां रूपवां प्रज्ञावां ॥
___ते दानि कं॥पिल्लतो निर्गम्य गंगायां स्नापनाय गता पश्यन्ति च नदीये गंगाये स्रोतेन महान्तं दारुस्कन्धं ओरुह्यन्तं ॥ ते दानि अमात्यपुत्राः सो च पुण्यवन्तो राजपुत्रो तं वीर्यवन्तम् अमात्यपुत्रम् आहन्सुः ॥ वीर्यवन्त अत्र त्वया दारुस्कंधे वीर्यं दर्शयितव्यं यं शक्नोसि इदं दारुस्कन्धं नदीये गंगाये ओरुह्यन्तं ओकड्ढितुं ॥ ततः सो वीर्यवन्तो तेन दानि महाबलस्थाम संजनित्वा तं दारुस्कन्धं नदीये गंगाये ओरुह्यन्तं स्थले ओकड्ढितं ॥ ते दानि तं प्रत्यवेक्षन्ति पश्यन्ति च महारहं चन्दनद्रुमं ॥ सो दानि तेन वीर्यवन्तेन अमात्यपुत्रेण गन्धिकानां हस्ते पुराणानां शतसहस्रेण विक्रीतो ॥ तेन तं पुराणानां शतसहस्रम् आनेत्वा तेषां वयस्यकानां दत्तं । तां वयस्यकां गाथाय अध्यभाषे ॥
वीर्यं लोके प्रशंसन्ति वीर्यं लोके अनुत्तरं ।
पश्य वीर्यप्रभावेन धनस्कन्धो मे आहृतो ॥
ते दानि आहन्सुः ॥ दृष्टं वीर्यस्य फलं । शिल्पवन्तस्य शिल्पफलं पश्यामः ॥ सो दानि शिल्पवन्तो वीणाम् आदाय वयस्यकानां मूलातो निर्धावित्वा अमात्यपुत्रेहि च श्रेष्ठिपुत्रेहि च सार्धं वीणाये कुशलेहि वीणां प्रवादितो ॥ तत्र महाजनकायो सन्निपतितः यत्तका पि कंपिल्ले नगरे वीणावाद्येषु शिक्षिता ते पि सर्वे
[_म्वु_3.35_] श्रुत्वा सन्निपतिता ॥ तेनामात्यपुत्रेण सार्धं परस्परस्य विस्पर्धं वीणां वादयन्ति । न च कोचिश् शक्नोति तस्य अमात्यपुत्रस्य वीणाये अभिभवितुं ॥ अथ खलु अमात्यपुत्रो सो शिल्पवन्तो सर्वेषां वीणावाद्येन विशिष्यति ॥ तेन दानि शिल्पवन्तेन तां वीणां वादयन्तेन तस्य वीणाये एका तन्त्री छिन्ना तादृशो एवं च ताये वीणाये स्वरो निश्चरति । तस्य द्वितीया तन्त्री छिन्ना तादृशो एवं च वीणाये स्वरो निश्चरति । तस्य तृतीया तन्त्री छिन्ना तादृशो एवं च ताये वीणाये स्वरो निश्चरति । एवम् एकमेका षट्टन्त्रीयो छिन्ना एका तन्त्री अवशिष्टा । ततस् ताये एकाये तन्त्रीये तादृशो एव स्वरो निश्चरति ॥ सर्वा परिषा तस्य शिल्पवन्तस्य अमात्यपुत्रस्य वीणावाद्येन विस्मयम् आपन्ना ॥ तेन दानि प्रभूतं हिरण्यसुवर्णं आच्छादो च लब्धो । तेन तं हिरण्यसुवर्णं आहरित्वा तेषां वयस्यकानां दिन्नं । अयं पि मम शिल्पस्य फलं ॥ सो दानि तां वयस्यकां गाथाये अध्यभाषे ॥
शिल्पं लोके प्रशंसन्ति शिल्पं लोके अनुत्तरं ।
सुशिक्षितेन वीणायां धनस्कन्धो मे आहृतो ॥
ते दानि आहन्सुः ॥ दृष्टं इमस्य शिल्पवन्तस्यापि अमात्यपुत्रस्य शिल्पस्य फलं । रूपवन्तस्य पि रूपस्य फलं पश्यामः ॥
___सो दानि रूपवन्तो अमात्यपुत्रो ततो वयस्यानां मूलातो निर्धावित्वा अन्तरापणवीथीम् ओकस्तो ॥ सो दानि अन्तरापणे वीथीयं अण्वन्तो अग्रगणिकाये दृष्टो प्रासादिको दर्शनीयो अक्षुद्रावकाशो परमाये शुभाये वर्णपुष्कलताये
[_म्वु_3.36_] समन्वागतो । तस्या तत्र दुष्टमात्रे अत्यर्थं प्रेम्नं संजातं । ताये चेटी प्रेषिता ॥ गच्छाहि एतं पुरुषं मम वचनेन शब्दापेहि ॥ सो दानि ताये चेटीये शब्दावितो आर्यधीता तव आर्यपुत्र पश्यितुकामा ॥ सो दानि ताये चेटीये सार्धं तस्या अग्रगणिकाये गृहं प्रविष्टो । अग्रगणिकाये अमात्यपुत्रो अभिनन्दितो । स्वागतम् आर्यपुत्रस्य इमन् ते गृहम् अनुत्तरव्यसनं तं कल्याणं मया सार्धं पंचहि कामगुणेहि समर्पितो क्रीडाहि रमाहि परिचारेहि ॥ सो ताये अग्रगणिकाये एकपर्यंकेन उपविशापितो बहुप्रकारं च अर्थेन लोभितो । तस्य स्नानगृहं प्रवेशित्वा गंधतैलेन अभ्यंगो दिन्नो उदारेहि स्नानचूर्णेहि स्नापितो उदारेहि च आलेपनेहि अनुलेपितो महारहाणि च काशिकवस्त्राणि परिधापितो ॥ ताये अग्रगणिकाये सार्धम् उपविष्टस्य महारहं भोजनम् उपनामितं ॥ सो दानि ताये सार्धं आसन्तो आह ॥ अमुकत्र मे गृहे मम चत्वारो वयस्य आसन्ति तेषां शब्दावित्वा अर्थमात्रा दातव्या यथा ते न विहन्येन्सु ॥ अग्रगणिकाये वचनमात्रेण शतसहस्रं पुरतो थपितो इमन् तेषां वयस्यानां देहि ॥ तेन दानि ते वयस्या शब्दाविता । ते दानि ताये अग्रगणिकाये गृहम् आगताः पश्यन्ति रूपवन्तं अमात्यपुत्रं महतीये श्रियाये अग्रगणिकाये अंकगतम् आसन्तं ॥ सो दानि रूपवन्तो तां वयस्यां दृष्ट्वा गाथाये अध्यभाषे ॥
रूपं लोके प्रशंसन्ति रूपं लोके अनुत्तरं ।
गणिकाय च अंकगतो धनस्कंधो मे आहृतो ॥
इमं शतसहस्रं गृह्णथ व्ययं करोथ ॥ ते दानि शतसहस्रं गृह्य स्वकम् ओहारं गता ॥
___[_म्वु_3.37_]___ते दानि आहन्सुः ॥ दृष्टं रूपवन्तस्यापि अमात्यपुत्रस्य रूपफलं । प्रज्ञावन्तस्यापि प्रज्ञाये फलं द्रष्टव्यं ॥
___प्रज्ञावन्तो पि ततो ओहारातो निर्गम्य अन्तरापणवीथिम् ओकस्तो । तत्र पश्यति श्रेष्ठिपुत्रं अग्रगणिकाये सार्धं विवदन्तं महतो जनकायस्य मध्ये । श्रेष्ठिपुत्रेण सा अग्रगणिका उक्ता । आगच्छ मम अद्य रात्रिम् उपस्थापनकारि । अहन् ते शतसहस्रं दास्यामि ॥ अग्रगणिका आह ॥ आर्यपुत्र नास्ति मम अद्य रात्रीं क्षणो अन्यस्याहम् अद्य रात्रीये गृहीतवेतना । अद्य तं उपस्थिहिष्यामः शुवे आर्यपुत्र आर्यपुत्रस्य सकाशम् आगमिष्यं ॥ सा दानि तस्य पुरुषस्य तां रात्रिम् उपस्थापनकारि गता ॥ श्रेष्ठिपुत्रो पि ताम् एव अग्रगणिकां संकीयन्तो शयितो ॥ तेन दानि ताये अग्रगणिकाये सार्धं स्वप्नान्तरे सर्वरात्रीं यथाभिप्रायं क्रीडितं रमितं प्रविचारितं ॥ सा दानि अग्रगणिका तां रात्रीं तेन पुरुषेण क्रीडित्वा रमित्वा प्रविचारित्वा प्रभाताये रात्रीये तस्य श्रेष्ठिपुत्रस्य सकाशं गता । एषाहम् आगता आर्यपुत्रस्य उपस्थापनकारिका ॥ श्रेष्ठिपुत्रो आह ॥ अद्याहं स्वप्नान्तरे त्वया सार्धं सर्वां रात्रिं यथाभिप्रायं क्रीडितो रमितो परिचारितो गच्छ न मे त्वया कार्यं ॥ यदि आर्यपुत्रो मया सार्धं स्वप्नान्तरे सर्वरात्रिं यथाभिप्रायं क्रीदितो रमितो प्रविचारितो देहि मे शतसहस्रं ॥ श्रेष्ठी आह ॥ या दानि त्वम् अन्येन पुरुषेण सार्धं सर्वरात्रिम् आश्रिता किस्य तवाहं शतसहस्रं दास्यामि ॥ सा आह ॥ आर्यपुत्र स्वयं जल्पसि यथा सर्वरात्रिं एव त्वया सार्धं स्वप्नान्तरे यथाभिप्रायं क्रीडितं रमितं प्रविचारितं दातव्यं आर्यपुत्रेण शतसहस्रं भाटकं ॥ तत्र तेषां तं विवादं ॥ महाजनकायो
[_म्वु_3.38_] समागतो न च तं कोचित् तेषां विवादं विच्छिन्दितुं समर्थो ॥ सो तत्र स्थितको प्रज्ञावन्तो अमात्यपुत्रो । एतेहि कंपिल्लेहि नैगमेहि वुच्चति ॥ जल्प कुमार त्वं पि यन् ते अत्र प्रतिभायति किं दातव्यं एतेन श्रेष्ठिपुत्रेण एतस्या अग्रगणिकाये शतसहस्रं अथ न दातव्यम् इति ॥ प्रज्ञावन्तो आह ॥ यथापि श्रेष्ठिपुत्रस्य एताये गणिकाये समागमः आसि तथापि श्रेष्ठिपुत्रेण एताये गणिकाये भाटकं दातव्यं ॥ ते आहन्सु ॥ निर्दिशतु कुमारो यथा दातव्यं ॥ तेन प्रज्ञावन्तेन महन्तो आदर्शमण्डलो आनापितो शतसहस्रं च । श्रेष्ठिपुत्रो वुच्चति । गृह्ण एतं शतसहस्रकं करण्डकं एतस्य आदर्शमण्डलस्य अभिमुखं धारेहि ॥ श्रेष्ठिपुत्रेण तं शतसहस्रिकं करण्डकं उत्क्षिपित्वा एतस्य आदर्शमण्डलस्य अभिमुखं स्थापितं । आगच्छ भद्रे यो इमस्य शतसाहस्रिकस्य करण्डकस्य अत्र आदर्शमण्डले प्रतिबिम्बं एतं गृह्णाहि । एषो ते भाटको ॥ एवं तस्य प्रज्ञावन्तस्य अमात्यपुत्रस्य निर्दिशिते महाजनकायेन हक्कारो दिन्नो प्रभूतं च हिरण्यसुवर्णम् आच्छादयन्ति ॥ तेन तं हिरण्यसुवर्णं तेषां वयस्यानां दिन्नो ॥ सो तां वयस्यां गाथाये अध्यभाषे ॥
प्रज्ञां लोके प्रशंसन्ति प्रज्ञा लोके अनुत्तरा ।
सुचिन्तिताये प्रज्ञाये धनस्कन्धो मे आहृतो ॥
ते दानि अमात्यपुत्रा आहन्सुः ॥ दृष्टं वीर्यवन्तस्य अमात्यपुत्रस्य वीर्यप्रभावो शिल्पवन्तस्य शिल्पप्रभावो रूपवन्तस्य रूपप्रभावो प्रज्ञावन्तस्य प्रज्ञाप्रभावो । अधुना कुमारस्य पुण्यवन्तस्य पुण्यप्रभावं पश्येमः ॥
___सो दानि पुण्यवन्तो राजपुत्रो तेषां वयस्यानां मूलातो निर्धावित्वा येन राजकुलं
[_म्वु_3.39_] तेन प्रणतो । सो तत्र राजकुलसमीपे आसति च ॥ अपरेण अमात्यपुत्रेण दृष्टो । सह दर्शनेन तस्य अमात्यपुत्रस्य पुण्यवन्तस्य राजपुत्रस्य मूले प्रेम्नं निपतितं । सो तेन भक्तेन निमन्त्रितो स्वकं गृहं नीतो व्यायामशाले प्रवेशितो ॥ व्यायामं कृत्वा स्नानोपलिप्तो भक्तखज्जम् उपविष्टो ॥ तत्र सो राजपुत्रो तेनामात्यपुत्रेण सार्धं तं दिवसम् उपस्थितो प्रणीतेन राजार्हेण अन्नपानेन ॥ सो च अमात्यपुत्रो राजक्यां यानशालाम् अभिरुहापयित्वा शयायितो । ताये च राज्ञो ब्रह्मदत्तस्य धीताये दृष्टो ॥ तस्या एवं भवति । एषो अमात्यपुत्रो आगतः ॥ सा दानि विकाले राजकुलातो निर्धावित्वा निर्गम्य यानशालां प्रविशित्वा तत्र एव यानम् अभिरुहित्वा यत्र सो पुण्यवन्तो राजपुत्रो शयितो । जानाति इदानीं मुहूर्तं पि विबुद्धिष्यति । ततो मया सार्धं रमिष्यति ॥ कुमारो पि खादितपीतो सुखं शयितो । सापि राजधीता कामवितर्केहि विद्यमाना इदानिं विबुद्धिष्यति मुहूर्तं पि विबुद्धिष्यति इति बहुकेन रात्रीविभवाक्रान्ता ओसुप्ता ॥ सा दानि सूर्ये उद्गते ततो यानातो ओतरित्वा राजकुलं प्रविष्टा अमात्येहि च दृष्टा ॥ तेषाम् एतद् अभूषि ॥ इयं राजधीता यानशालातो ओतरित्वा विनिद्रा राजकुलं प्रविष्टा मा अत्र याने केनचित् पुरुषेण सार्धं आसितं भवेया ॥ ते च तथा विचिनन्ति पुण्यवन्तो च कुमारो ततः यानातो ओकस्तो ॥ तेषाम् अमात्यानां एवं भवति । कुतो अयं पुरुषो ति राज्ञो ब्रह्मदत्तस्य धीतरेण सार्धं अत्र यानशालायाम् आसितो ॥ सो तेहि अमात्येहि गृहीतो गृह्णिय राज्ञो ब्रह्मदत्तस्य उपनामितो । अयं महाराज पुरुषो राजधीताये सार्धं यानशालायां शयितो ॥ सो पृच्छियति ॥ कथम् इदं ति ॥ सो आह ॥ महाराज अमुकेन अमात्यपुत्रेण गृहे निमन्त्रितो हं खादितपीतो
[_म्वु_3.40_] विकाले निक्कासित्वा ओहारं प्रस्थितो । सो तेन विकालदोषेण अत्र यानशालायाम् अभिरुहित्वा शयायितो खादितपीतो नाप्य् एव तत्र अन्यो को चि द्वितीयो विदितो ॥ राज्ञापि धीता पृच्छिता । कथम् एतन् ति ॥ ताये पि तु ब्रह्मदत्तस्य यथाभूतं आचिक्षितं । यथैव जल्पति पुरुषो तथा एव नान्यथा जल्पति ॥ राजा ब्रह्मदत्तो पुण्यवन्तस्य राजकुमारस्य प्रीतो संवृत्तो पश्यति च तं कुमारं प्रासादिकं दर्शनीयं बुद्धिमन्तं च सुस्थितं च । तस्य एतद् अभूषि । न एतेन प्राकृतपुरुषेण भवितव्यं महाकुलीनेन एतेन कुमारेण भवितव्यं ॥ सो दानि तं कुमारं पृच्छति ॥ कुमार कुतः त्वन् ति ॥ कुमारो आह ॥ वाराणसीतो अंजनस्य काशिराज्ञो पुत्रो ॥ तस्यापि कंपिल्लस्य राज्ञो ब्रह्मदत्तस्य सह दर्शनेन पुण्यवन्तस्य कुमारस्य पुत्रप्रेमं निपतितं तस्य च राज्ञो पुत्रो नास्ति । तेन सा धीता सुवर्णसहस्रमण्डितां कृत्वा महता राजानुभावेन महता राजर्द्धीये सर्वस्य अधिष्ठानस्य पुरतो पुण्यवन्तस्य कुमारस्य दिन्ना राज्ये च प्रतिष्ठापितो अमात्यानां च नैगमजानपदानां च राजाह ॥ एषो मे पुत्रो जातो ताव एषो भवे राअजा अहं वृद्धो ॥ तेन दानि पुण्यवन्तेन राज्यप्राप्तेन ते वयस्या शब्दाविता गाथाये अध्यभाषे ॥
पुण्यं लोके प्रशंसन्ति पुण्यं लोके अनुत्तरं ।
राज्यं च राजकन्या च पुण्येहि मम आगता ॥
भगवान् आह ॥ स्यात् खलु पुनर् भिक्षवः युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन वीर्यवन्तो नाम अमात्यपुत्रो अभूषि । नैतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । एष भिक्षवो श्रोणकोटिविंशो तेन कालेन तेन समयेन वीर्यवन्तो अमात्यपुत्रो अभूषि ॥ अन्यः स तेन कालेन तेन समयेन शिल्पवन्तो अमात्यपुत्रो अभूषि ।
[_म्वु_3.41_] नैतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । एष भिक्षवः राष्ट्रपालो कुलपुत्रः तेन कालेन तेन समयेन शिल्पवन्तो अमात्यपुत्रो अभूषि ॥ अन्यः स तेन कालेन तेन समयेन रूपवन्तो अमात्यपुत्रो अभूषि । नैतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । एषः स भिक्षवः सुन्दरनन्दः स्थविरो तेन कालेन तेन समयेन रूपवन्तो अमात्यपुत्रो अभूषि ॥ अन्यः स तेन कालेन तेन समयेन प्रज्ञावन्तो अमात्यपुत्रो अभूषि । नैतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । एष स भिक्षवो शारिपुत्रो स्थविरः तेन कालेन तेन समयेन प्रज्नावन्तो अमात्यपुत्रो अभूषि ॥ अन्यः स तेन कालेन तेन समयेन अंजनस्य काशिराज्ञो पुण्यवन्तो नाम काशिराजपुत्रो आभूषि । नैतद् एवं द्रष्टव्यं । तत् कस्य हेतोः ॥ अहं स भिक्षवः तेन कालेन तेन समयेन अंजनस्य काशिराज्ञो पुण्यवन्तो नाम राजपुत्रो अभूषि ॥ तदापि अहं पुण्यानां वर्णवादी ॥ एतरहिं पि अहं पुण्यानां वर्णवादी ॥
_____समाप्तं पुण्यवन्तजातकं ॥
अपि च भिक्षवः न एतरहिं एवाहं पुण्यानां वर्णवादी । अन्यदापि अहं पुण्यानां वर्णवादी ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवन्* ॥ भगवान् आह ॥ अन्यदापि भिक्षवः ॥ भूतपूर्वं भिक्षवो अतीतम् अध्वानं मिथिलायां राजा विजितावी नाम राज्यं कारयति कृतपुण्यो महेशाख्यो सुसंगृहीतपरिजनो दानसंविभागशीलो ॥ तस्य न किंचिद् अपरित्यक्तं श्रमणेहि ब्राह्मणेहि कृपणेहि वनीपकेहि । यस्य हस्तिना अर्थो तस्य हस्तिं देति । यस्याश्वेनार्थो तस्याश्वं देति । यस्य रथेनार्थो तस्य रथं देति । यस्य यादृशेहि यानेहि अर्थो तस्य तादृशानि यानानि देति । यस्य नारीहि अर्थो तस्य सर्वालंकारविभूषितां नारिं देति । यस्य दासीहि अर्थो तस्य
[_म्वु_3.42_] दासीयो देति । यस्य दासेहि अर्थो तस्य दासानि देति । यस्य वस्त्रेहि अर्थो तस्य वस्त्राणि देति । यस्य यादृशेहि भाजनेहि अर्थो तस्य तादृशानि भाजनानि देति । यस्य धेनुहि अर्थो तस्य धेनुयो देति । यस्य बलिवर्देहि अर्थो तस्य बलिवर्दं देति । यस्य हिरण्येनार्थो तस्य हिरण्यं देति । यस्य सुवर्णार्थो तस्य सुवर्णं देति । यस्य रूप्येण कार्यं तस्य रूप्यं देति । यस्य यस्य येन येनार्थो तस्य तस्य तं तं देति । न च स किंचिद् अपरित्यज्यं न चास्य अन्यथाभावो भवति ॥ अथ खलु ददन्तो परित्यजन्तो आत्तमनो भवति न च दत्त्वा पश्चाद् अनुतप्यति । अथ खलु प्रीतिप्रामोद्यबहुलो भवति ॥
___सो दानि अतिदानं ददाति कोशानि क्षीयन्तीति । गणकेहि च महापात्रेहि च कुमारामात्येहि च नैगमजानपदेहि च महाजनकायेन च संनिपतित्वान ततो राज्यतो विप्रवासितो समानो अनुहिमवन्ते महावनषण्डे ॥ तत्र गतो तत्र वनषण्डे आश्रमं मापेत्वा तृणकुटिपर्णकुटीनि कृत्वा वासं कल्पेसि ॥ तत्रापि आश्रमे प्रतिवसन्तो मूलानि च पत्त्राणि च पुष्पाणि च नानाप्रकाराणि च फलानि संहरित्वा प्रथमं ऋषीणि भोजेति पश्चाद् आत्मनाहारं करोति सर्वकालं धर्मकामः ॥ अथ शक्रो देवानाम् इन्द्रो राज्ञो जिज्ञासनार्थं वनषण्डम् उपसंक्रान्तो दिव्येन वर्णेन अन्तरीक्षे स्थिहित्वा वैदेहराजं दानातो विवेचेति ॥ महाराज न एतं दानं पण्डितेहि वर्णितं सर्वकालं दानं पण्डितेहि विगर्हितं ॥ यो दानं ददाति सो दृष्ट एव धर्मे दुःखितो भवति । मनुष्येषु चवित्वा नरकेषूपपद्यति । यथा महाराजो एतेन दानेन राज्यतो विप्रवासितो दृष्टधर्मेषु राज्यहीनो दुःखेन संयुक्तो परत्र पि एतेन दानप्रभावेन नरकेषूपपद्यिष्यति ॥ यदि मे महाराज मम श्रद्दधासि यथा
[_म्वु_3.43_] इह दानं दत्त्वा परलोके नरकेषूपपद्यिष्यसि तम् अहं महाराजस्य प्रत्यक्षं उपदर्शयिष्यं यत्र दायकदानपतियो उपपद्यन्ति ॥ शक्रेण आदीप्तो संप्रज्वलितो सजोतीभूतो महानरको निर्मितो । तत्र बहूनि प्राणसहस्राणि संपच्चमाना संदर्शिता भीष्मस्वरं क्रन्दमानाः ॥ सो दानि राज्ञो आह ॥ महाराज गच्छ एतान् नरके सत्वान् उपपन्नां क्रन्दन्तां पृच्छाहि केन कर्मेण अत्र नरके उपपन्ना ति ॥ राजा तानि नैरयिकानि पृच्छति ॥ किं युष्माभिर् मनुष्यभूतेहि पापकर्म कृतं येन भीष्मस्वरं क्रन्दमाना एदृशानि नरके दुःखानि अनुभवथ ॥ ते दानि निर्मिता आहन्सुः ॥ महाराज वयं मनुष्यलोके दायकदानपतियो आसी अस्माभिः श्रमणब्राह्मणेषु कृपणवनीपकेषु च उदाराणि दानानि दिन्नानि विपुलानि विस्तीर्णानि । ते वयं तस्य प्रभावेन मनुष्येषु चवित्वा इह नरकेषूपपन्ना ॥ राजा आह ॥ न मार्ष एवं एतं यथा यूयं जल्पथ । न हेतु न प्रत्ययो यं दायकदानपतिर् दानं दत्त्वा नरकेषूपपद्येय ॥ अथ खलु दायकदानपति दानं दत्त्वा दानप्रभावेन कायस्य भेदात् स्वर्गेषूपपद्यन्ति । ते तत्र नानाप्रकाराणि दिव्यानि सुखानि अनुभवन्ति । ते देवेषु सुखानि दिव्यानि अनुभवित्वा आयुक्षया देवेषु चवित्वा मनुष्येषु आढ्येषु कुलेषूपपद्यन्ति । अपि च कौशिक यदा ते च याचनका मम सकाशातो लब्धलाभा परिपूर्णसंकल्पा प्रतिगच्छन्ति तेन मम उदारो प्रीतिप्रामोद्यो भवति ते च प्रीता भवन्ति । अहं यदि नरकेषूपपद्यामि ततः उत्सहामि दानं दातुं ॥ एवं शक्रो देवानाम् इन्द्रो तं वैदेहराजं विज्ञासित्वा संराधितो ॥ शोभना महाराज उदारा ते चेतना जिज्ञासनार्थं
[_म्वु_3.44_] महाराजस्य इहागतो ॥ एवम् उक्त्वा शक्रो देवानाम् इन्द्रो ततः वनषण्डातो न्तर्हितो त्रयस्त्रिंशभवने प्रत्यस्थासि ॥
___तस्य दानिं तहिं राज्ये मिथिलायां यद् उपादाय राजा विप्रवासितो तद् उपादाय देवो न वर्षति दुर्भिक्षं संवृत्तं चौरेहि च प्रतिराजानेहि च उपद्रुतं ॥ तेहि दानि कुमारामात्येहि गणकमहामात्रेहि च नैगमजानपदेहि च तं वनषण्डं गत्वा तं वैदेहराजं अनुक्षमापेत्वा महता राजर्द्धीये महता राजानुभावेन पुनः मिथिलायां प्रतिष्ठापितो तदा सुभिक्षम् आसि ॥
___भगवान् आह ॥ स्यात् खलु पुनर् भिक्षवो युष्माकम् एवम स्याद् अन्यः स तेन कालेन तेन समयेन मिथिलायां विजितावी नाम वैदेहराजा अभूषि । न खल्व् एतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । अहं स भिक्षवः तेन कालेन तेन समयेन मिथिलायां विजितावी नाम वैदेहराजा अभूषि ॥ तदापि अहं पुण्यानां वर्णवादी एतरहिं पि अहं पुण्यानां वर्णवादी ॥
अभूषि राजा विजितावी वैदेहो मिथिलाधिपः ।
दिशासु विश्रुतो दाने मुक्तत्यागो अमत्सरी ॥
हस्त्यश्वरथयानं नारीयो च अलंकृता ।
जातरूपं हिरण्यं च न किंचिद् न परित्यजेत्* ॥
प्रीतिप्रामोद्यबहुलो जनेय सौमनस्यतां ।
दत्त्वा आत्तमनो भोति दत्त्वा च नानुतप्यति ॥
श्रमणं ब्राह्मणं दृष्ट्वा कृपणम् अथ वनीपकं ।
तर्पितो अन्नपानेन वस्त्रशय्यासनेन च ॥
गणका महामात्रा च कुमारामात्या च नैगमा ।
जनकायो समागत्वा राज्यातो विप्रवासयेत्* ॥
[_म्वु_3.45_] सो च विप्रवासितो सन्तो वनषण्डम् उपागमे ।
आश्रमं मापयित्वान तत्र वासं प्रकल्पये ॥
तस्मिं च वनषण्डस्मिं संहरित्वा फलाफलं ।
सन्तर्पयित्वा ऋषयो पश्चाद् भुंजति आत्मना ॥
शक्रो दिव्येन वर्णेन राजानम् उपसंक्रमे ।
अन्तरीक्षे स्थिहित्वान इदं वचनम् अब्रवीत्* ॥
न पण्डिता प्रशंसन्ति दानं विगर्हितं सदा ।
एतेन अतिदानेन राज्यातो सि प्रवासितो ॥
दृष्टधर्मे सि दुःखितो राज्यहीनो सि क्षत्रिय ।
परलोकं गतो सन्तो नरकं गन्सि पार्थिव ॥
सचे मम न श्रद्दधासि यत्र गच्छति दायको ।
संदर्शयिष्यं तान्तुह्यं दायकानान्तु या गतिः ॥
सज्योतीभूतं ज्वलितं निरयं शक्रो च निर्मिणि ।
बहुप्राणसहस्राणि पच्चमानानि दर्शये ॥
स्वयं पृच्छ महाराज दह्यमानां इमां प्रजां ।
केन ते व्यसनं प्राप्ता दुःखां वेदथ वेदनां ॥
भीष्मस्वरा क्रन्दमाना दुःखां वेदथ वेदनां ।
एतम् अर्थं हि पृच्छाहि किं पापं अकरे पुरा ॥
ते कथयन्ति ॥
वयं दानपती आसि मनुष्येषु जनाधिप ।
बहु दानं ददित्वान अनुभोम इदं दुःखं ॥
[_म्वु_3.46_] राजा कथयति ॥
न एषो अस्ति प्रत्ययो न एतं स्थानं विद्यति ।
यत्र दानपति सन्तो च्युतो गच्छेय दुर्गतिं ॥
मनुष्येषु च्यवित्वान स्वर्गं गच्छन्ति दायका ।
तत्र अमानुषां ऋद्धिं अनुभोन्ति स्वयंकृतां ॥
कामं पि दुःखं नरकेषु . .
अनल्परूपम् ईदृशं . . . ।
. . . . . . नरेन्द्र
दृष्ट्वा न तं याचनकं प्रभोमि ॥
कथं गिरां वियाहरन्तो दास्यं
संपूर्णसंकल्पमनोरथो स ।
मां प्राप्य प्रीतो कथं प्रतिक्रमे ति
सा मे रतिर् भवतु सहस्रनेत्र ॥
न तं भवे यं न ददेह दानं
अहरहं व पूरये तर्पये हं ।
परायणं अहं स कल्पवृक्षो
. . . . पर्णफलोपपेतो ॥
न मे मनो कुप्यति याचितस्य
दत्त्वा न सोचामि नानुतप्यामि ।
न तं उपश्रुतं यन् न प्रयच्छे
यं च श्रुतं क्षिप्रम् उपानयामि ॥
. . . . . . . . . . .
[_म्वु_3.47_] एकक्षणे सर्वमनोरथा मे
पूर्णा मह्यं संजितो च स तत्त्वं ।
सप्ताहं पर्यंके सुखोपविष्टो
स्थितः मुनि शैल इवाप्रकंप्यो ॥
सप्तमे दिवसे नाथो निर्गतो व्याहरे गिरां ।
लोकधातुसहस्राणि विज्ञपेन्तो महामुनिः ॥
सुखो विपाको पुण्यानां अभिप्रायश् च ऋध्यति
क्षिप्रं च परमां शान्तिं निर्वृत्तिं चाधिगच्छति ॥
_____समाप्तं विजिताविस्य वैदेहराज्ञो जातकं ॥
एवं मया श्रुतम् एकस्मिं समये भगवतो शिष्यो आयुष्मान् आनन्दो मगधेषु चारिकां चरमाणो महता भिक्षुसंघेन सार्धं पंचहि भिक्षुशतेहि येन मगधानां राजगृहं नगरं तद् अवसारि तद् अनुप्राप्तः तत्रैव विहरति वेणुवने कलन्दकनिवापे ॥ तेन खलु पुनः समयेन आयुष्मतो आनन्दस्य त्रिंश सार्धंविहारिका शिक्षां प्रत्याख्याय दौर्बल्यम् आविष्कृत्वा हीनायावर्तन्ति कामेहि ॥ अश्रोषी आयुष्मां महाकाश्यपो आयुष्मतो आनन्दस्य त्रिंश सार्धविहारिका शिक्षां प्रत्याख्याय दौर्बल्यम् आविष्कृत्वा हीनायावर्तप्रवृत्ता कामेहि ॥ अथ खल्व् आयुष्मान् महाकाश्यपो येनायुष्मान् आनन्दस् तेनोपसंक्रमित्वा आयुष्मता आनन्देन सार्धं संमोदनीयां कथां संमोदयित्वा सारायणीयां कथां वीतिसारयित्वा एकान्ते निषीदि । एकान्तनिषण्णो आयुष्मां महाकाश्यपो आनन्दम् एतद् अवोचत्* ॥ पृच्छेम वयम् आयुष्मन्तम् आनन्दं किंचिद् एव प्रदेशं
[_म्वु_3.48_] सचेत् मो आयुष्मान् आनन्दो वकाशं करोति प्रश्नव्याकरणाये ॥ एवम् उक्त आयुष्मान् आनन्दो आयुष्मन्तं महाकाश्यपं एतद् अवोचत्* ॥ पृच्छायुष्मं काश्यप यदाकांक्षसि श्रुत्वा प्रवेदयिष्यामि ॥
___एवम् उक्ते आयुष्मान् महाकाश्यपः आयुष्मन्तम् आनन्दम् एतद् अवोचत्* ॥ सचेद् मन्यसि आयुष्मन् आनन्द कति अर्थवशां संपश्यमानेन तथागतेनार्हता सम्यक्संबुद्धेन श्रावकाणां गणभोजनं प्रतिक्षिप्तं त्रिकभोजनं च अनुज्ञातं ॥ एवम् उक्ते आयुष्मान् आनन्दो आयुष्मन्तं महाकाश्यपम् एतद् अवोचत्* ॥ दूरतो खलु वयं आयुष्मन् महाकाश्यप आगच्छेम आयुष्मन्तो येन महाकाश्यप एतम् अर्थं परिपृच्छनाय ॥ साधु पुनर् आयुष्मतो एव महाकाश्यपस्य एषो अर्थो प्रतिभायतु ॥ एवम् उक्ते आयुष्मान् महाकाश्यपो आयुष्मन्तम् आनन्दम् एतद् अवोचत्* ॥ द्वे आयुष्मन् आनन्द अर्थवशां संपश्यमानेन तथागतेनार्हता सम्यक्संबुद्धेन श्रावकाणां गणभोजनं च प्रतिक्षिप्तं त्रिकभोजनं च अनुज्ञातं ॥ कतमे द्वे । यावद् एव कुलानां च रक्षाये गुप्तीये फासुविहाराये पापानां च पक्षपरिच्छेदाये मा पापा आमिषेण गणं बन्धित्वा संघे कलहभण्डनविग्रहविवादं अधिकरणं कौकृत्यं उत्पादेन्सुः ॥ इमे खल्व् आयुष्मन् आनन्द द्वे अर्थवशां संपश्यमानेन तथागतेनार्हता सम्यक्संबुद्धेन श्रावकाणां गणभोजनं च प्रतिक्षिप्तं त्रिकभोजनं च अनुज्ञातं ॥ सो त्वं आयुष्मन् आनन्द इमाये पर्षाये नवाये दहराये तरुणाये इन्द्रियेष्व् अगुप्तद्वाराये भोजने अमात्रज्ञाताये पूर्वरात्रापररात्रं जागरिकायोगम् अननुयुक्ताये अगौरवाये सब्रह्मचारिषु स्थविरेषु नवकेषु मध्यमेषु कुलेषु चारिकां चरसि शस्यघातं विय मन्ये करोन्तो नायं कुमारको मात्रम् आज्ञासि ॥ एवम् उक्ते आयुष्मान् आनन्दो आयुष्मन्तं महाकाश्यपम् एतद् अवोचत्* ॥ अपि हि मे आयुष्मन्
[_म्वु_3.49_] महाकाश्यप शिरसि पि पलितानि जातानि अथ च मे पुनः आयुष्मान् महाकाश्यपो कुमारवादेन समुदाचरितव्यं मन्यति ॥ द्वितीयकं तृतीयकं पि आयुष्मां महाकाश्यपो आयुष्मन्तं आनन्दम् एतद् अवोचत्* ॥ तथा त्वम् आयुष्मन् आनन्द इमाये परिषाये इन्द्रियेष्व् अगुप्तद्वाराये भोजने अमात्रज्ञाताये पूर्वरात्रापररात्रं जागरिकायोगम् अननुयुक्ताये अगौरवाये सब्रह्मचारीहि स्थविरेहि नवकेहि मध्यमेहि कुलेहि चारिकां चरसि शस्यघातं विय मन्ये करोन्तो न चाहं कुमारको मात्रम् आज्ञासीत्* ॥ द्वितीयकं तृतीयकं पि आयुष्मान् आनन्दो आयुष्मन्तं महाकाश्यपम् एतद् अवोचत्* ॥ अपि हि मे आयुष्मन् महाकाश्यप शिरसि पलितानि जातानि अथ च पुनर् मे महाकाश्यपो यावत् तृतीयकं पि कुमारकवादेन समुदाचरितव्यं मन्यति ॥
___तेन खलु पुनः समयेन स्थूलनन्दा भिक्षुणी आयुष्मतः आनन्दस्य अनतिदूरे स्थिता अभूषि ॥ अथ खलु स्थूलनन्दा भिक्षूणी आयुष्मन्तं महाकाश्यपम् एतद् अवोचत्* ॥ किं पुनर् आर्यमहाकाश्यपो अन्यतीर्थिकपूर्वो समानो आर्यम् आनन्दं वैदेहमुनिं भगवतो उपस्थायकं भगवतः सन्तिकावचरं भगवतो संमुखं धर्माणां प्रतिग्रहेतारं यावतृतीयकं पि कुमारवादेन समुदाचरितव्यं मन्यति ॥ एवम् उक्ते आयुष्मान् महाकाश्यपो आयुष्मन्तं आनन्दम् एतद् अवोचत्* ॥ सा हि नूनायं आयुष्मन् आनन्द भगिनी अस्मरमाणरूपा भाषति । किं पुनः आर्यो महाकाश्यपो अन्यतीर्थिकपूर्वो समानो आर्यानन्दं वैदेहकमुनिं भगवतो उपस्थायकं भगवतो सन्तिकावचरं भगवतो संमुखं धर्माणां प्रतिग्रहेतारं यावतृतीयकं पि कुमारकवादेन समुदाचरितव्यं मन्यति ॥ एवम् उक्ते आयुष्मान् आनन्दो आयुष्मन्तं महाकाश्यपम् एतद् अवोचत्* ॥ क्षम आयुष्मन्त महाकाश्यप बालो मातृग्रामो अव्यक्तो अकुशलो अक्षेत्रज्ञो ॥ एवं यावत् तृतीयं पि आयुष्मान् महाकाश्यपो आयुष्मन्तम् आनन्दम् एतद् उवाच ॥ सा हि नूनायम्
[_म्वु_3.50_] आयुष्मन् आनन्द भगिनी अस्मरमाणरूपा एवम् आह । किं पुनर् आर्यो महाकाश्यपो आर्यानन्दं वैदेहमुनिं भगवतो उपस्थायकं भगवतो सन्तिकावचरं भगवतो संमुखं धर्माणां प्रतिग्रहेतारं संमुखा येव यावतृतीयं पि कुमारकवादेन समुदाचरितव्यं मन्यति ॥ तृतीयकं पि आयुष्मान् आनन्दो आयुष्मन्तं महाकाश्यपम् एतद् उवाच ॥ क्षम आयुष्मन् महाकाश्यप बालो मातृग्रामो अव्यक्तो अकुशलो अक्षेत्रज्ञो ॥
___एवम् उक्ते आयुष्मान् महाकाश्यपो आयुष्मन्तम् आनन्दम् एतद् अवोचत्* ॥ न खलु पुअन्र् अहम् आयुष्मन् आनन्द अभिजानामि पूर्वं प्रव्रज्यायां प्रव्रजितो इति वहिर्धा अन्यं शास्तारं व्यवदिशितुम् अन्यत्रैव तेन भगवता तथागतेनार्हता सम्यक्संबुद्धेन । मह्यं खल्व् आयुष्मन् आनन्द पूर्वं प्रव्रज्यायाम् अप्रव्रजितस्य एतद् अभूषि । संबाधो पुनर् अयं गृहावासो रजसामावासो अभ्यवकाशं प्रव्रज्या । तं न लभ्यं अगारम् अध्यावसन्तेन एकान्तसंलिखितम् एकान्तम् अनवद्यं परिशुद्धं एकान्तपर्यवदातं ब्रह्मचर्यं चरितुं । यन् नूनाहं अगारस्यानगारियं प्रव्रजेयं ॥ स खल्व् अहम् आयुष्मं आनन्द अलूखं गृहावासं प्रहाय अशीतिं हिरण्यसुवर्णस्य शकटवाहानवहाय पंच च दासशतानि पंच च दासीशतानि पंच च पशुशतानि पंच च ग्रामक्षेत्रशतानि एकूनं च हलसहस्रं भद्रां कापिलेयां सुवर्णसीरकां अवहाय एकं कर्पासिकं पटपिलोतिकम् आदाय ये लोके अरहंतो तेषाम् उद्दिश्य अनुप्रव्रजेहं ॥ तेन खलु आयुष्मन् आनन्द समयेन न कोचिद् अन्यो लोके अर्हन्तो अभूषि अन्यत्रैव तेन भगवता सम्यक्संबुद्धेन ॥ स चाहम् आयुष्मन् आनन्द तथा प्रव्रजितो समानो संवत्सरपरमाये रात्रीये अद्राक्षीद् भगवन्तम् अन्तराय राजगृहस्य बहुपुत्रके चेतिये । दृष्ट्वा च पुनर् मे अद्वयसंज्ञा उदपासि सम्यक्संबुद्धं पश्येयं भगवन्तम् एव पश्येयं सर्वज्ञं च पश्येयं भगवन्तम् एव पश्येयं सर्वदर्शिं च पश्येयं भगवन्तम् एव पश्येयं अपरिशेषज्ञानदर्शनं च पश्येयं भगवन्तम् एव पश्येयं ॥
[_म्वु_3.51_]___स खल्व् अहम् आयुष्मन् आनन्द येन भगवांस् तेनोपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थासि एकान्ते स्थितो हम् आयुष्मन् आनन्द भगवन्तम् एतद् अवोचत्* ॥ शास्ता मे भगवां श्रावको ऽहम् अस्मि सुगते ॥ एवम् उक्ते आयुष्मन् आनन्द भगवां मम एतद् उवाच ॥ एवम् एव काश्यप अहं काश्यप शास्ता त्वं च मे श्रावको । यो हि कोचित् काश्यप एवं सर्वचेतोसमन्वागतं श्रावकं लभित्वासम्यक्संबुद्धो एव समानो सम्यक्संबुद्धो ति प्रतिजानेय असर्वज्ञो येव समानो सर्वज्ञो ति प्रतिजानेय असर्वदर्शावी येव समानो सर्वदर्शावीति परिशेषज्ञानदर्शनो येव समानो अपरिशेषज्ञानदर्शनो ति प्रतिजानेय सप्तधा वास्य मूर्धा भवेया ॥ अहं खलु पुनः काश्यप सम्यक्संबुद्धो इति येव समानो सम्यक्संबुद्धो ति प्रतिजानामि सर्वज्ञो येव समानो सर्वज्ञो ति प्रतिजानामि सर्वदर्शावी येव समानो सर्वदर्शावीति प्रतिजानामि अपरिशेषज्ञानदर्शनो येव समानो अपरिशेषज्ञानदर्शनो ति प्रतिजानामि ॥ अभिज्ञाय अहं काश्यप श्रावकाणां धर्मं देशयामि न अनभिज्ञाय । सनिदानं अहं काश्यप श्रावकाणां धर्मं देशयामि न अनिदानं । सप्रातिहार्यं अहं काश्यप श्रावकाणां धर्मं देशयामि न अप्रातिहार्यं ॥ तस्य मे काश्यप अभिज्ञाय श्रावकाणां धर्मं देशयतो न अनभिज्ञाय सनिदानं श्रावकाणां धर्मं देशयतो न अनिदानं सप्रातिहार्यं श्रावकाणां धर्मं देशयतो नाप्रातिहार्यं करणीयो ओवादो करणीया अनुशासनीति वदेमि ॥ तस्माद् इह ते काश्यप शिक्षितव्यं ॥ किं त्व् अहं प्रातिमोक्षसंवरसंवृत्तो
[_म्वु_3.52_] विहरिष्यं आचारगोचरसम्पन्नो अणुमात्रेष्व् आवद्येषु भयदर्शावी समादाय शिक्षिष्यं ति शिक्षापदेषु कायकर्मवाचाकर्ममनोकर्मेण समन्वागतः परिशुद्धेन परिशुद्धाजीवो ॥ एवं ते काश्यप शिक्षितव्यं ॥ तस्माद् इह ते काश्यप एवं शिक्षितव्यं ॥ किं त्व् अहं षट्सु इन्द्रियेषु गुप्तद्वारो विहरिष्यामीति आरक्षास्मृति निध्यापनस्मृतिः समवस्थाविहारी आदीनवदर्शावी निःशरणः प्राज्ञो अरक्तेन चेतसा समन्वागतः । सो चक्षुषा रूपं दृष्ट्वा न च निमित्तग्राही भविष्यन् न चानुव्यंजनग्राही । यतो अधिकरणं च मे चक्ष्विन्द्रियेण असंवृतस्य विहरन्तस्य अभिध्या दौर्मनस्यम् अनेके पापकाः अकुशला धर्माः चित्तं अनुप्रावेन्सुः तेषां संवराय प्रतिपदिष्यामि रक्षिष्यामि चक्ष्विन्द्रियेण संवरम् आपदिष्यामि इति ॥ एवन् ते काश्यप शिक्षितव्यं ॥ श्रोत्रेण शब्दां श्रुत्वा घ्राणेन गन्धां घ्रायित्वा जिह्वया रसा स्वादयित्वा कायेन प्रष्टव्यां स्पृशित्वा मनसा धर्मां विज्ञाय न च निमित्तग्राही विहरिष्यामि न चानुव्यंजनग्राही विहरिष्यामि । यतो अधिकरणं च मे भवेन्द्रियेण असंवृतस्य विहरतो अभिध्या दौर्मनस्य अनेके पापकाः अकुशला धर्मा चित्तम् अनुप्रावेन्सुः तेषां संवराय प्रतिपदिष्यामीति रक्षिष्यामि मनिन्द्रियं मनिन्द्रियेण संवरम् आपद्यिष्यामीति ॥ एवन् ते काश्यप शिक्षितव्यं ॥ तस्माद् इह काश्यप एवं शिक्षितव्यं ॥ किन् ति मे कायगता स्मृतिः सुखसहगता सततसमितं कायं न जहिष्यामीति ॥ एवं ते काश्यप शिक्षितव्यं ॥ तस्माद् इह ते काश्यप एवं शिक्षितव्यं ॥ किन् ति अहं ये केचित् कुशला धर्मा पर्यापुणिष्यन्ति सर्वन्तं आत्मदमथशमथपरिनिर्वाणार्थं ति । एवं ते काश्यप शिक्षितव्यं ॥ तस्माद् इह ते काश्यप एवं शिक्षितव्यं । किन् ति मे
[_म्वु_3.53_] चतुहि परिषाहि भविष्यति अधिमात्रं प्रेम्नं च गौरवं च ह्री चापत्रप्यं च भावना च प्रत्युपस्थिता ति ॥ एवन् ते काश्यप शिक्षितव्यं ॥ तस्माद् इह ते काश्यप शिक्षितव्यं ॥ किन् त्व् अहं पंचसु उपादानस्कन्धेषु समुदयास्तंगमान् पश्यी विहरिष्यं । इति रूपं इति रूपसमुदयो इति रूपस्यास्तंगमो इति वेदना इति वेदनासमुदयो इति वेदनास्तंगमो इति संज्ञा इति संज्ञासमुदयो इति संज्ञास्तंगमो इति संस्कारा इति संस्कारसमुदयो इति संस्काराणाम् अस्तंगमो इति विज्ञानं इति विज्ञानसमुदयो इति विज्ञानास्तंगमो इति ॥ एवन् ते काश्यप शिक्षितव्यं ॥ स खल्व् अहम् आयुष्मन्न् आनन्द भगवता इमिना ओवादेन ओवादितो अष्टाहम् एवाभूषि शैक्षो सकरणीयो नवमे येवाज्ञाम् आरागये ॥
___तस्य मे आयुष्मन् आनन्द भगवां इमिना ओवादेन ओवादित्वा उत्थायासनातो प्रक्रामि ॥ स खल्व् अहम् आयुष्मन् आनन्द भगवन्तं गच्छन्तं पृष्ठिमेन पृष्ठिमं समनुबद्धो हं ॥ तस्य मे आयुष्मन्न् आनन्द भगवन्तं पृष्ठिमेन पृष्ठिमं समनुबद्धस्य एतद् अभूषि । अहो भगवां पुनर् मार्गाद् अपक्रम्यान्यतरं वृक्षमूलं निश्राय तिष्ठे । प्रज्ञापयेयं अहं भगवतो कर्पासिकपटपिलोतिकसंघाटीं ॥ तस्य मे आयुष्मन्न् आनन्द भगवान् इदम् एवरूपं चेतसो परिवितर्कम् आज्ञाय मार्गाद् अपक्रम्यान्यतरं वृक्षमूलं निश्राय अधिष्ठासि ॥ प्रज्ञापयेद् अहम् आयुष्मन् आनन्द भगवतो कर्पासानां पटपिलोतिकसंघाटीं निषीदे भगवां प्रज्ञप्त एवासने ॥ निषद्य खल्व् आयुष्मन् आनन्द भगवां एतद् उवाच ॥ सखिला
[_म्वु_3.54_] खुदयं काश्यप कर्पासानं पटपिलोतिकसंघाटी मृदुकादयं कास्यप कर्पासानां पटपिलोतिकसंघाटी मसिनादयं काश्यप कर्पासानां पटपिलोकसंघाटी सुखम् आदयं काश्यप कर्पासानां पटपिलोतिकसंघाटी तनुकादयं काश्यप कर्पासानां पटपिलोतिकसंघाटी लहुकादयं काश्यप कर्पासानां पटपिलोतिकसंघाटी सुकृतिकादयं काश्यप कर्पासानां पटपिलोतिकसंघाटी श्लक्ष्णादयं काश्यप कर्पासानां पटपिलोतिकसंघाटी शोभनादयं काश्यप कर्पासानां पटपिलोतिकसंघाटी स्पर्शवन्तादयं काश्यप कर्पासानां पटपिलोतिकसंघाटी ॥ स खल्व् अहम् आयुष्मन् आनन्द भगवन्तम् एतद् उवाच ॥ लाभा मे भगवन् सुलब्धा भवेत्* यन् मे भगवान् कर्पासानां पटपिलोतिकसंघाटी प्रतिगृह्णेय ॥ एवम् उक्ते आयुष्मन् आनन्द भगवान् मम एतद् उवाच ॥ इच्छसि पुनः त्वं काश्यप तथागतस्य सन्तिके शाणानां पांशुकूलानां संघाटीं धारयितुं ॥ एवम् उक्ते हं आयुष्मन् आनन्द भगवन्तम् एतद् उवाच ॥ लभा मे भगवन् सुलब्धा भवेत्* यन् मे भगवां शाणानां पांशुकूलानां संघाटीं ददेय ॥ अदासि खलु मे आयुष्मन्न् आनन्द भगवां शाणानां पांशुकूलानां संघाटीं प्रतिगृह्णे अहम् आयुष्मन्न् आनन्द भगवतो शाणानां पांशुकूलानां संघाटीं ॥ सचे खल्व् आयुष्मन्न् आनन्द सम्यग्वदमाना वदेन्सुः भगवतो श्रावको शास्तु संमुखं शाणं पांशुकूलं प्रतिग्रहे एवम् एव ते सम्यग्वदमाना वदेन्सुः । तत् कस्य हेतोः । अहम् आयुष्मन्न् आनन्द शास्तु संमुखं शाणपांशुकूलानां प्रतिग्रहेतारो श्रावको ॥ यत् तद् आनन्द सम्यग्वदमाना वदेन्सुः भगवतो पुत्रो
[_म्वु_3.55_] ओरसो मुखतो जातो धर्मजो धर्मनिर्मितो धर्मदायादो न आमिषदायादो एवम् एव ते सम्यग्वदमाना वदेन्सुः । तत् कस्य हेतोः । अहम् आयुष्मन् आनन्द भगवतो पुत्रो ओरसो मुखतो जातो धर्मजो धर्मनिर्मितो धर्मदायादो न आमिषदायादो ॥ कुंजरं पि सो आयुष्मन् आनन्द षष्टिहायनं बलशक्तिकाये छादितव्यं मन्येय यो मे तिस्रो विद्यां षड्वाभिज्ञा बलवशीभावं छादयितव्यं मन्येया । नदीयो पि सो आयुष्मन् गंगाये स्रोतं रजमुष्टिना आवरितव्यं मन्ये यो मे तिस्रो विद्यां षड्वाभिज्ञां बलवशीभावं छादयितव्यं मन्ये । वातं पि सो आयुष्मन्न् आनन्द जालेन बन्धितव्यं मन्ये यो मे तिस्रो विद्यां षड्वाभिज्ञां बलवशीभावं छादयितव्यं मन्ये । आकाशं पि सो आयुष्मन् आनन्द पंचांगुलं कर्तव्यं मन्ये यो मे तिस्रो विद्या षड्वाभिज्ञा बलवशीभावं छादयितव्यं मन्ये ॥ यस्य पुनः खलु आयुष्मन्न् आनन्द इमेषां पंचानां भिक्षुशतानां स्यात् मयि कांक्षा विचिकित्सा वा सो प्रश्नं पृच्छतु अहं प्रश्नस्य व्याकरणेन एवम् एतं सम्यक्सिंहनादं नदामि ॥ एवम् उक्ते ते भिक्षू आयुष्मन्तं महाकाश्यपम् एतद् उवाच ॥ यस्य खलु पुनर् आयुष्मन् महाकाश्यप स्यात् कांक्षा वा विचिकित्सा वा सो आयुष्मन् महाकाश्यप प्रश्नं पृच्छेया संभावेम च वयम् आयुष्मन् महाकाश्यप एवं च अनुवृत्ता अतो च उत्तरि भूयो अतो च श्रेयो ॥ अथ खलु आयुष्मां महाकाश्यपस् तां भिक्षूं धर्म्या कथया संदर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्षयित्वा उत्थायासनातो प्रक्रमे ॥
___अचिरप्रक्रान्तो च आयुष्मान् महाकाश्यपो सर्वावन्तेन कालेन नागावलोकितेन स्थूलनन्दां भिक्षुणीं अवलोकेति अपि नाम चित्तं प्रसादेय तस्य चेदं शकटचक्रमात्रा
[_म्वु_3.56_] पृथिवी अनुपरिवर्त्ते न च सा स्थूलनन्दा भिक्षूणी चित्तं प्रसादेसि । प्रदुष्टचित्ता स्थूलनन्दा भिक्षूणी आयुष्मतो महाकाश्यपस्य सन्तिके विवरम् अदासि समनन्तरं कालगता च पुनर् आयुष्मन्ते महाकाश्यपे चित्तम् आघातेत्वा अन्यतरस्मिं महानरके उपपन्ना एवम् एतं श्रुयति ॥
_____समाप्तं महाकाश्यपस्य वस्तुप्रव्रज्यासूत्रं ॥
राजगृहस्य अर्धयोजने नालन्दग्रामकं नाम ग्रामं ऋद्धो च स्फीतो च समृद्धो च । तत्र ब्राह्मणो महाशालो आढ्यो महाधनो महाभोगो प्रभूतचित्रस्वापतेयो प्रभूतधनधान्यकोशकोष्ठागारो प्रभूतजातरूपरजतवित्तोपकरणो प्रभूतहस्त्यश्वगजगवेडको प्रभूतदासीदासकर्मकरपौरुषेयो ॥ तस्य दानि ब्राह्मणमहाशालस्य शारी नाम ब्राह्मणी भार्या प्रासादिका दर्शनीया । तस्य दानि शारीये ब्राह्मणीये पुत्रा धर्मो उपधर्मो शतधर्मो सहस्रधर्मो तिष्यो उपतिष्यो एते सप्त पुत्राः षट्* निविष्टाः सप्तमो उपतिष्यो कनीयसो अनिविष्टको गुरुकुले वेदमन्त्रान् अधीयति ॥ राजगृहस्य अर्धयोजनेन कोलितग्रामकं नाम ऋद्धो व स्फीतो च समृद्धो च बहुजनाकीर्णो च । तत्रापि ब्राह्मणमहाशालो आढ्यो महाधनो महाभोगो प्रभूतधनधान्यकोशकोष्ठागारो प्रभूतजातरूपरजतवित्तोपकरणो प्रभूतहस्त्यश्वगजगवेडको प्रभूतदासीदासकर्मकरपौरुषेयो मौद्गल्यायनगोत्रेण ॥ तस्य कोलितो नाम पुत्रो प्रासादिको दर्शनीयो पण्डितो निपुणो मेधावी । तत्रैव गुरुकुले वेदमन्त्रान् अधीयति । तत्रैव उपतिष्यो अन्यानि च पंचमात्राणि माणवकशतानि ॥ सर्वप्रथमं
[_म्वु_3.57_] कोलितेन उपतिष्येण च वेदमन्त्रा अधीता अनुयोगो च दिन्नो आचार्यस्य च आचार्यशुश्रूषा कृताचार्यधनो च निर्यातितो छत्त्रं उपानहा यष्टि कमण्डलूखा शाणशाटं ॥
___ते दानि उभये संमोदिका प्रियमाणा अभीष्टचित्ता । उपतिष्यो पि नालन्दग्रामातो कोलितग्रामकं गच्छति कोलितस्य दर्शनाये । कोलितग्रामातो पि कोलितो नालन्दग्रामकं गच्छति उपतिष्यस्य दर्शनाये ॥ राजगृहे समसमं गिरियग्रसमाजं नाम पर्वं वर्तति पंचानां तपोशतानां ॥ तत्र दानि पंचहि तपोशतेहि पंच उद्यानशतानि । सर्वाणि पंच उद्यानशतानि अनेकेहि जनसहस्रेहि भरितानि भवन्ति दर्शनशतानि वर्तन्ति संगीतिशतानि वर्तन्ति अपराणि च नटनर्तक-ऋल्लमल्लपाणिस्वरकानि डिम्बरवलञ्जककुम्भथूनिकशतानि ॥ ते दानि ब्राह्मणमहाशालपुत्रा उपतिष्यो च कोलितो च चतुर्घोटेहि अश्वरथेहि युक्तेहि चेटसहस्रेहि संपरिवारिता गिरियग्रसमाजं प्रेक्षका गता ॥ ते दानि सत्वा सकुशलमूलपुण्या वरपरीत्तगृहा कृताधिकारा पुरिमकेषु सम्यक्संबुद्धेषु प्रत्येकबुद्धश्रावकमहेशाख्येषु च उप्तसत्याधिकारा छिन्नबन्धना भव्योत्पत्तिका आर्यधर्माणां आराधनाये चरमभविकाये हेतुप्रत्ययचारिका सत्वा ॥ तेषाम् उभयेषां तत्र गिरियग्रसमाजं प्रेक्षन्तानां पौराणेन कुशलमूलेन हेतुम् उपदर्शितं ॥ शारिपुत्रस्य तं जनकायं दृष्ट्वा अनित्यसंज्ञा उत्पन्ना इमं एत्तकं जनकायम् अभ्यन्तरा वर्षशतस्य अनित्यताय सर्वं न भविष्यति ॥ मौद्गल्यायनस्यापि जनकायस्य तस्य हसन्तानां हक्कारं च क्षिपन्तानां दन्तमालानि
[_म्वु_3.58_] दृष्ट्वा अस्थिसंज्ञा उत्पन्ना । सो दानि मौद्गल्यायनो शारिपुत्रं परिदीनमुखवण दृष्ट्वा आह ॥
मनोज्ञ तन्त्रीस्वरगीतघोषा
त्रिपुष्करस्फोटिकसार्यमाणाः ।
श्रुयन्ति शब्दा मधुरा मनोज्ञा
रंगे भवां किं परिदीनवक्त्रो ॥
हृष्टस्य कालो न हि शोचितस्य
रमितस्य कालो अरतिं जहाहि ।
शृणोहि संगीतिम् इवाप्सराणां
हृष्टाननो अस्मिं मनुष्यनन्दने ॥
अथ खलु शारिपुत्रो माणवो मौद्गल्यायनं माणवम् एतद् उवाच ॥
एते विषयसंरक्ता विषयाश् च चलाचला ।
भवेषु च द्रव्येषु च का रतिर् बालबुद्धिनां ॥
अचिरं मुनिसा सर्वे अतृप्ता कामलोलुपाः ।
व्यस्तगात्रा गमिष्यन्ति मृता भस्मपरायणाः ॥
तन् मे संज्ञा न रमेति मौद्गल्यायन न मे रती ।
विपुला प्रतिमा चैव भाविता मतिया रतिः ॥
समयो खु धर्मं चरितुं नरकिन्नरा सुरासुरसुचरा पि ।
कामरतीभिर् लोलिता अतृप्तमनसा गता विलयं ॥
यो वने कायविवेकं रतो अधिगच्छे मदकालोपगतो ।
[_म्वु_3.59_] स्पृहयन्ति तस्य देवा पि मरुचीर्णं हि दुष्करं चरितं ॥
समानं सुखदुःखेषु रतीषु अरतीषु च ।
यं नैमित्ता प्रशंसन्ति सो हं शारिसुतो भवे ॥
सो दानि शारिपुत्रमाणवको तं मौद्गल्यायनमाणवकम् आमन्त्रयति ॥ प्रव्रज्या मे अभिप्रेता प्रव्रजिष्यामि ॥ मौद्गल्यायनो आह ॥ यं भवतो इष्टं तन् ममापि इष्टं अहम् अपि प्रव्रजिष्यामि ॥ मौद्गल्यायनो आह ॥
या गती भवतो इष्टा अस्माकम् अपि रोचति ।
त्वया सार्धं मृतं श्रेयं न च जीवितं त्वया विना ॥
तेन खलु पुन समयेन राजगृहे नगरे संजयी नाम वैरटीपुत्रो परिव्राजको पंचाशपरिवारो परिव्राजकारामे प्रतिवसति ॥ ते दानि शारिपुत्रमौद्गल्यायनमाणवका परिव्राजकारामं गत्वा संजयिस्य वैरटिकापुत्रस्य परिव्राजकस्य सकाशे परिव्राजकप्रव्रज्यां प्रव्रजिता ॥ शारिपुत्रेण सप्ताहप्रव्रजितेन सर्वाणि परिव्राजकशास्त्राणि अधीतानि मौद्गल्यायनेनाप्य् अर्धमासेन सर्वाणि परिव्राजकशास्त्राणि अधीतानि ॥ ते दानि आहन्सुः ॥ नायं धर्मो नैर्याणिको तत्करस्य सुःखक्षयाय संवर्तति गच्छाम पृथक्पृथक्स्वाख्यातं धर्मविनयं पर्येष्यामः यत्र दुःखस्य अन्तक्रिया प्रवर्तति । यो मं प्रथमतरं स्वाख्यातं धर्मविनयं . . . . . तेन अपरस्य आख्यातव्यं । ततः सहिता आर्यधर्मविनये प्रव्रजिष्यामः ॥ ते दानि तानि परिव्राजकशास्त्राणि संगीतीकृत्वा राजगृहं प्रविष्टा अन्येन शारिपुत्रो परिव्राजको अन्येन मौद्गल्यायनो ॥
[_म्वु_3.60_]___तेन खलु पुनः समयेन भगवान् अन्तरागिरिस्मिं यष्टीवने उद्याने यथाभिरम्यं विहरित्वा वेणुवनम् अनुप्राप्तो तत्रैव विहरति वेणुवने कलन्दकनिवापे महता भिक्षुसंघेन सार्धम् अर्धत्रयोदशभिर् भिक्षुशतैः ॥ अथ खल्व् आयुष्मान् उपसेनो कल्यस्यैव निवासयित्वा पात्रचीवरम् आदाय राजगृहनगरे पिण्डाय प्रक्रमे ॥ अद्राक्षीत्* शारिपुत्रः परिव्राजको आयुष्मन्तं उपसेनं दूरत एवागच्छन्तं प्रासादिकेन अभिक्रान्तप्रतिक्रान्तेन आलोकितविलोकितेन संमिञ्जितप्रसारितेन संघाटीपात्रचीवरधारणेन नागो विय कारितकारणो अन्तर्गतेहि इन्द्रियेहि अवहिर्गतेन मानसेन स्थितेन धर्मताप्राप्तेन युगमात्रं प्रेक्षमाणो दृष्ट्वा च पुनः अतिरिव मानसं प्रसीदे ॥ कल्याणा पुनर् इयं प्रव्रजितस्य ईर्या । यन् नूनाहं तस्य उपसंक्रमेयं ॥ अथ खलु शारिपुत्रो परिव्राजको येनायुष्मान् उपसेनस् तेनोपसंक्रमित्वा आयुष्मता उपसेनेन सार्धं संमोदनीयां कथां संमोदयित्वा सारायणीयां कथां व्यतिसारेत्वा एकान्ते अस्थासि । एकान्तस्थितः शारिपुत्रः परिव्राजको आयुष्मन्तम् उपसेनम् एतद् उवाच ॥ शास्ता भगवान् उत श्रावको ॥ एवम् उक्ते आयुष्मान् उपसेनो शारिपुत्रं परिव्राजकम् एतद् उवाच ॥ श्रावको हं आयुष्मं ॥ एवम् उक्ते आयुष्मान् शारिपुत्रो परिव्राजको आयुष्मन्तम् उपसेनम् एतद् उवाच ॥ किंवादी भवतो शास्ता किमाख्यायी कथं पुनः श्रावकाणां धर्मं देशयति केवरूपा चास्य श्रावकेषु ओवादानुशासनी बहुलं प्रवर्तनीयं भवति ॥ एवम् उक्ते आयुष्मान् उपसेनो शारिपुत्रं परिव्राजकम् एतद् उवाच ॥ अल्पश्रुतो इमस्मि आयुष्मन्तं अर्थमात्रं कल्पेयं ॥ एवम् उक्ते शारिपुत्रो परिव्राजको आयुष्मन्तम् उपसेनम् एतद् उवाच ॥
अर्थेन मह्यं कारियं किं भोति व्यंजनं बहु ।
अर्थगुरुको ह्य् अर्थविज्ञो अर्थेनार्थं चिकीर्षति ॥
[_म्वु_3.61_] वयम् अपि एत्तसंभार ं वाचाग्रन्थं निरर्थकं ।
आगृह्य बहुभिर् दिवसैः वञ्चिताः पूर्वं वञ्चिता ॥
एवम् उक्ते आयुष्मान् उपसेनो शारिपुत्रं परिव्राजकम् एतद् उवाच ॥ प्रतीत्यसमुत्पन्नां धर्मां खल्व् आयुष्मन् शास्ता उपादाय प्रतिनिःसर्गं विज्ञपेति ॥ अथ खलु शारिपुत्रस्य परिव्राजकस्य तत्रैव पृथिवीप्रदेशे स्थितस्य विरजं विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धं ॥
___अथ खलु शारिपुत्रो परिव्राजको प्राप्तधर्मो प्रहीणदृष्टिः तीर्णकांक्षो विगतकथंकथो ऋजुचित्तो मृदुचित्तो कर्मणीयचित्तो निर्वाणप्रवणो निर्वाणप्राग्भारो आयुष्मन्तम् उपसेनम् एतम् उवाच ॥ कहिं आयुष्मं उपसेन शास्ता विहरति । एवम् उक्ते आयुष्मान् उपसेनो शारिपुत्रं परिव्राजकम् एतद् अवोचत्* ॥ शास्ता वेणुवने कलन्दकनिवापे ॥ इत्थं वदित्वान आयुष्मान् उपसेनो राजगृहे नगरे पिण्डाय प्रविचरे ॥
___शारिपुत्रो परिव्राजको येन मौद्गल्यायनः परिव्राजकस् तेनोपसंक्रमे । अद्राक्षीत्* मौद्गल्यायनो परिव्राजको शारिपुत्रं परिव्राजकं दूरतो एवागच्छन्तं परिशुद्धेन मुखवर्णेन पद्मवर्णेन विप्रसन्नेहि च इन्द्रियेहि दृष्ट्वा च पुनः शरिपुत्रं परिव्राजकम् एतद् अवोचत्* ॥ परिशुद्धो भवतो शारिपुत्रस्य मुखवर्णो पर्यवदातो विप्रसन्नानि च इन्द्रियाणि । अथ खलु ते आयुष्मं शारिपुत्र अमृतम् अधिगतं अमृतगामी च मार्गो विकसितम् इव पद्मं शुद्धं प्रावृतस्य वक्त्रं प्रसन्नम् उपशान्तानि इन्द्रियाणि अमृतं समाप्तं क्वचित् ते येन ते तं द्विगुणशुभचित्ररश्मिजालं विस्तीर्णं ॥
[_म्वु_3.62_] एवम् उक्ते शारिपुत्रो परिव्राजको मौद्गल्यायनम् एतद् उवाच ॥ अमृतं मे आयुष्मन् महामौद्गल्यायन अधिगतं अमृतगामी च मार्गो ।
यो सो श्रुय्यति शास्त्रे पुष्पम् इव उदुम्बरं वने बुद्धा ।
उत्पद्यन्ति शिरिघना उत्पन्नो लोकप्रद्योतो ॥
एवम् उक्ते मौद्गल्यायनो परिव्राजको शारिपुत्रं परिव्राजकम् एतद् अवोचत्* ॥ किंवादी आयुष्मं शारिपुत्र शास्ता किमाख्यायी ॥ एवम् उक्ते शारिपुत्रो परिव्राजको मौद्गल्यायनम् एतद् अवोचत्* ॥
ये धर्मा हेतुप्रभावा हेतुन् तेषां तथागतो आह ॥
तेषां च यो निरोध एवंवादी महाश्रमणः ॥
अथ खलु मौद्गल्यायनस्य परिव्राजकस्य तत्रैव पृथिवीप्रदेशे स्थितस्य विरजं विगतमलं धर्मेषु धर्मचक्षु विशुद्धं ॥ अथ खलु मौद्गल्यायनो परिव्राजको प्राप्तधर्मो प्रहीणदृष्टिः तीर्णकांक्षो विगतकथंकथो उदग्रमानसचित्तो मृदुचित्तो कर्मणीयचित्तो निर्वाणनिम्नो निर्वाणप्रवणो निर्वाणप्रग्भारो ॥
___अथ खलु मौद्गल्यायनो परिव्राजको शारिपुत्रं परिव्राजकम् एतद् अवोचत्* ॥ कहिं आयुष्मं शारिपुत्र शास्ता विहरति ॥ एवम् उक्ते शारिपुत्रो प्रिव्राजको मौद्गल्यायनं परिव्राजकम् एतद् अवोचत्* ॥ एष आयुष्मं शास्ता वेणुवने विहरति कलन्दकनिवापे महता भिक्षुसंघेन सार्धम् अर्धत्रयोदशभिर् भिक्षुशतैः गच्छाम संजयिम् आमन्त्रेत्वा शास्तारं वेणुवने भगवतो सन्तिके ब्रह्मचर्यं चरिष्यामः ॥ एवम् उक्ते मौद्गल्यायनो
[_म्वु_3.63_] परिव्राजको शारिपुत्रं परिव्राजकम् एतद् अवोचत्* ॥ गच्छ आयुष्मं शारिपुत्र इतो वेणुवनं किं मं संजयिना कुदृष्टिना दृष्टेन ॥ शारिपुत्रो तम् आह ॥ न हि आयुष्मं मौद्गल्यायन सो पि अस्माकं संजयी बहूपकरो यं आगम्य वयं गृहातो भिनिष्क्रान्ता ॥
___ते दानि परिव्राजकारामं गत्वा संजयिं आमन्त्रेन्ति ॥ गच्छाम भगवति महाश्रमणे ब्रह्मचर्यं चरिष्यामः ॥ एवम् उक्ते संजयी परिव्राजको शारिपुत्रमौद्गल्यायनां परिव्राजकान् एतद् उवाच ॥ मा भवन्तो श्रमणस्य गौतमस्य ब्रह्मचर्यं चरथ । इमानि मम पंच परिव्राजकशतानि तेषां भवन्तो अर्धपरिहारा ॥ ते आहन्सुः ॥ न हि गच्छाम वयं भगवति महाश्रमणे ब्रह्मचर्यं चरिष्यामः । स्वाख्यातो भगवता धर्मविनयो विवृतोदयो छिन्ना पिलोतिका अलम् अर्थिकस्य अप्रमादेन ॥ ते दानि संजयिम् आमन्त्रेत्वा परिव्राजकारामातो येन वेणुवनन् तेन प्रणता तानि पि पंच परिव्राजकशतानि शारिपुत्रमौद्गल्यायनेहि परिव्राजकेहि सार्धं गच्छन्ति ॥ संजयी शरिपुत्रम् आह ॥ एकं न दानि तेहि दुवे वा त्रीणि वा अथ वा चत्वारि अथ सर्वे पंचशता उपतिष्यो आदाय प्रक्रमति ॥
___भगवां वेणुवने भिक्षुणाम् आमन्त्रयति ॥ प्रज्ञपेथ भिक्षवः आसनानि एते शारिपुत्रमौद्गल्यायना परिव्राजका पंचशतपरिवारा आगच्छन्ति तथागतस्यान्तिके ब्रह्मचर्यं चरितुं यो मे भविष्यति श्रावकाणाम् अग्रयुगो भद्रयुगो एको अग्रो महाप्रज्ञानां अपरो अग्रो महर्द्धिकानां ॥ अद्राक्षीच् छारिपुत्रो परिव्राजको भगवन्तं
[_म्वु_3.64_] दूरतो एवागच्छन्तं वेणुवने महतीये परिषाये पुरस्कृतः परिवृतो धर्मन् देशयन्तं आदौ कल्याणं मध्ये कल्याणं पर्यवसाणे स्वर्थं सुव्यंजनं केवलपरिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं संप्रकाशयन्तं द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागतं आशीतीहि अनुव्यंजनेहि उपशोभितशरीरं अष्टादशेहि आवेणिकेहि बुद्धधर्मेहि समन्वागतं दशहि तथागतबलेहि बलवाञ् चतुर्हि वैशारद्येहि विशारदो शान्तेन्द्रियो शान्तमानसो उत्तमदमथशमथपारमिताप्राप्तो नागो यथा कारितकारणो अन्तर्गतेहि इन्द्रियेहि अवहिर्गतेन मानसेन सुस्थितेन धर्मताप्राप्तेन ऋजुना युगमात्रं प्रेक्षमाणः गुप्तो नागो जितेन्द्रियो ह्रदम् इव अच्छो अनाविलो विप्रसन्नो रतनयूपम् इव अभ्युद्गतो सुवर्णबिम्बम् इव भासमानं तेजराशिम् इव श्रिया ज्वलमानं द्वितीयं आदित्यम् इव उदयन्तं असेचनकं अप्रतिकूलं दर्शनाये मुक्तो मुक्तपरिवारो दान्तो दान्तपरिवारो तीर्णो तीर्णपरिवारो पारगतो पारगतपरिवारो स्थलगतो स्थलगतपरिवारो क्षेमप्राप्तो क्षेमप्राप्तपरिवारः श्रमणो श्रमणपरिवारः बाहितपापो बाहितपापपरिवारो ब्राह्मणो ब्राह्मणपरिवारः श्रोत्रियो श्रोत्रियपरिवारः स्नातको स्नातकपरिवारः बाहितपापधर्मो बाहितपापधर्मपरिवारः ॥
___अथ खलु शारिपुत्रमौद्गल्यायना परिव्राजका पंचशतपरिवारा येन भगवांस् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थान्सुः ॥ एकमन्ते स्थितो शारिपुत्रो परिव्राजको भगवन्तम् एतद् अवोचत्* ॥
उषितं सागरसलिले उषितं गिरिगहनकाननवनेषु ।
अदर्शनात् तुह्यं मुने उषिता स्म चिरं कुतीर्थेषु ॥
कुमार्गा निवृत्ता पथे ते प्रसन्ना महासार्थवाह प्रतीर्णा ।
तं संसारकान्तारम् उत्तीर्य धीराः विरक्ता न रज्यन्ति भूयः ॥
अथ खलु शारिपुत्रमौद्गल्यायना परिव्राजका भगवन्तम् एतद् उवाच ॥ प्रव्राजेतु
[_म्वु_3.65_] मां भगवान् उपसंपादेतु मां सुगतो ॥ अथ खलु भगवां शारिपुत्रमौद्गल्यायनप्रमुखां पंच परिव्राजकशतां एहिभिक्षुकाये आभाषे ॥ एथ भिक्षवश् चरथ तथागते ब्रह्मचर्यं ॥ तेषां दानि भगवता एहिभिक्षुकाये आभाष्टानां यं किंचि परिव्राजकलिंगं परिव्राजकगुप्तं परिव्राजकध्वजं परिव्राजककल्पं सर्वेषां समन्तरहितं त्रिचीवरा सानं प्रादुर्भवेन्सुः सुम्भका च पात्रा प्रकृतिस्वभावसंस्थितका च केशा ईर्यापथो सानं संस्थिहे सय्यथापि नाम वर्षशतोपसंपन्नानां भिक्षूणां । एष आयुष्मन्तानां शारिपुत्रमौद्गल्यायनप्रमुखानां पञ्चशतानां प्रव्रज्या उपसंपदा भिक्षुभावो ॥
___अथ खल्व् आयुष्मां शारिपुत्रो भगवन्तम् एतद् उवाच ॥ किं भगवं प्रज्ञपेन्तो प्रज्ञपेति किं तिष्ठमानं तिष्ठति किं विभज्यमानं भज्जति किं पटिसंधेन्तं पटिसंधेति ॥ एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्* ॥ चत्वारो शारिपुत्र धातवः प्रज्ञपेन्ता प्रज्ञपेन्ति चत्वारो धातवः तिष्ठमानावो तिष्ठन्ति चत्वारि धातवो भज्यमानीयो भज्यन्ति चत्वारो पटिसंधेन्ता पटिसंधेन्ति ॥ एवम् उक्ते आयुष्मां शारिपुत्रो भगवन्तम् एतद् अवोचत्* ॥ किंप्रत्यया भगवं तिष्ठति किंप्रत्यया भज्यति किंप्रत्यया सन्धेति किंप्रत्यया न प्रतिसंधेति ॥ एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्* ॥ किंप्रत्यया शारिपुत्र जायतीति अवद्याप्रत्यया तृष्णाप्रत्यया कर्मप्रत्यया इदंप्रत्यया शारिपुत्र जायति ॥ किंप्रत्यया शरिपुत्र तिष्ठति ॥ आयुःकर्मप्रत्यया आहारप्रत्यया शारिपुत्र तिष्ठति ॥ किंप्रत्यया शारिपुत्र भज्यतीति ॥ आयुष्क्षया कर्मक्षया आहारोपच्छेदा इदंप्रत्यया शारिपुत्र भज्यति ॥ किंप्रत्यया शारिपुत्र प्रतिसंधेति ॥ अविद्याये अप्रहीणत्वात् तृष्णाये वशीकृतत्वात् कर्मं चास्य भवति
[_म्वु_3.66_] पक्वं अस्ति इदंप्रत्यया शारिपुत्र प्रतिसंधेति ॥ किंप्रत्यया शारिपुत्र न प्रतिसंधेतीति । अविद्याये प्रहीणत्वात् तृष्णाये व्यन्तीकृतत्वात् कर्मं नास्य भवति पक्वं नास्ति इदंप्रत्यया शारिपुत्र न प्रतिसंधेति ॥ चक्षुश् च शारिपुत्र आध्यात्मिकम् आयतनं अपरिभिन्नं भवति रूपो च बाहिरं आयतनं चक्षुषः आभासमागतं भवति । मनापासेचनसमुत्थानकं तस्य निदानं उत्पद्यति प्रीतिसुखसौमनस्यं इन्द्रियाणि च प्रीणयति । ये पि शारिपुत्र धर्मा प्रतीत्य उत्पादयंते प्रीतिसुखसौमनस्यं इन्द्रियाणि च प्रीणयन्ति ते पि शारिपुत्र धर्मा जाता भूता संस्कृता वेदयिता प्रतीत्य समुत्पन्ना नैवात्मा नैवात्मनीया शून्या आत्मेन वा आत्मनीयेन वा ॥ अथ एवम् अन्यत्र कर्म चैव कर्मविपाकं च हेतुं चैव हेतुसमुत्पन्ना च धर्मा ॥ एवं श्रोत्रं घ्राणं जिह्वा कायो मनश् च शारिपुत्र आध्यात्मिकम् आयतनं अपरिभिन्नं भवति धर्मा च बाहिरम् आयतनं मनस्य आभासम् आगता भवन्ति । मनापासेचनसमुत्थानं तस्य ततोनिदानम् उत्पद्यति प्रीतिसौमनस्यं इन्द्रियाणि च प्रीणयति ॥ ये शारिपुत्र धर्मा प्रतीत्य उत्पादयन्ति प्रीतिसुखसौमनस्यं इन्द्रियाणि च प्रीणयन्ति ते शारिपुत्र धर्मा जाता भूता संस्कृता वेदयिता प्रतीत्य समुत्पन्ना नैवात्मा नैवात्मनीया शून्या आत्मेन वा आत्मनीयेन वा । अथ एवं अन्यत्र कर्मं चैवं कर्मविपाकं च हेतुश् चैव हेतुसमुत्पन्ना च धर्माः ॥
___इदम् अवोचद् भगवान् इमस्मिं पुनर् व्याकरणे भाष्यमाणे सर्वेषां शारिपुत्रमौद्गल्यायनप्रमुखानां
[_म्वु_3.67_] भिक्षुशतानां अनुपादायाश्रवेभ्यश् चित्तानि विमुक्तानि । आयुष्मांश् च महामौद्गल्यायनो सप्ताहोपसम्पन्नो ऋद्धिबलतां ऋद्धिवशितं च अनुप्रापुणे चत्वारि च प्रतिसंविदानि साक्षीकरे । आयुष्मां च शारिपुत्रो अर्धमासं प्रव्रजितो अर्धमासोपसंपन्नो अभिज्ञावशितां प्रज्ञापारमितां च अनुप्रापुणे चत्वारि च प्रतिसंविदानि साक्षीकरे । आयुष्मां च मौद्गल्यायनो अचिरप्रव्रजितो अचिरोपसंपन्नो तिस्रो विद्या साक्षीकरे दिव्यं चक्षुः पूर्वनिवासं आश्रवक्षयं ॥ इत्थम् एतं श्रुयति ॥ दीर्घनखस्य परिव्राजकस्य सूत्रं कर्तव्यं ॥
___भिक्षू भगवन्तम् आहन्सुः ॥ पश्य भगवं कथं भगवता आयुष्मत्शारिपुत्रमौद्गल्यायनप्रमुखानि पञ्च भिक्षुशतानि संजयिपरिव्राजकस्य दारुणेषु दृष्टिगतेषु विनिवर्तयित्वा अनवराग्रातो जातिजरामरणसंसारगहनकान्तारातो तारिता ॥ भगवान् आह ॥ न भिक्षवो एतरहिं एव मम एते शारिपुत्रमौद्गल्यायनप्रमुखा पंच भिक्षुशता संजयिस्य परिव्राजकस्य दारुणेषु दृष्टिगतेषु विनिवर्तयित्वा अनवराग्रातो जातीजरामरणसंसारगहनकान्तारातो तारिता ॥ अन्यदापि एते मया दारुणातो राक्षसीद्वीपातो राक्षसीनां हस्तगता विनिवर्तयित्वा क्षेमेण महासमुद्रातो उत्तारयित्वा जंबुद्वीपे प्रतिष्ठापिता ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवन्* ॥ भगवान् आह ॥ अन्यदापि भिक्षवः ॥
___भूतपूर्वं भिक्षव अतीतम् अध्वानं जंबुद्वीपातो पंच वाणिजशतानि समुद्रनावाये महन्तं समुद्रम् अवगाढा धनस्य अर्थं । तेषां तं यानपात्रं समुद्रमध्ये गतं मकरेण
[_म्वु_3.68_] मत्स्यजातेन भिन्नं ॥ ते दानि तेन यानपात्रेण विपन्नेन देवदेवां नमस्यन्ति यो यहिं देवे अभिप्रसन्नो । केचिच् छिवं नमस्यन्ति केचिद् वैश्रवणं नमस्यन्ति केचित् स्कन्दं केचिद् वरुणं केचिद् यमं केचित् कुवेरं केचिच् छक्रं केचिद् ब्रह्मं केचिद् दश दिशां नमस्यन्ति यथा इतो महासमुद्रातो जीवन्ता उत्तरेम ॥ ते दानि तेन यानपात्रेण विपन्नेन नानाप्रकाराणि प्लवानि आदाय समुद्रमध्ये पतिता केचिद् घटिम् आदाय केचित् फलकं केचिद् अलाबुश्रेणियं । केचित् परस्परस्य जीविताद् व्यपरोपेत्वा तं कुणपं आलम्बन्ति न महासमुद्रो मृतकुणपेन सार्धं संवसति अथ खलु तं कुणपं क्षिप्रम् एव स्थलं वा द्वीपं वा क्षिपति ततः वयं पि एतेन कुणपेन सार्धं द्वीपं वा स्थलं वा उत्तरिष्यामः ॥ ते दानि वाणिजका तत्र महासमुद्रे प्लवन्ता वातेन राक्षसीद्वीपं क्षिप्ता ॥ ते तहिं राक्षसीद्वीपे नानाप्रकाराणि नानाद्रुमसहस्राणि पश्यन्ति । यथा यथा च वातेन तन् तीरम् अल्लीपियन्ति ततो ततो प्रमदाशतानि पश्यन्ति मानापिकानि दर्शनीयानि नानारंगरक्तवसनानि सालंकारभूषितानि आमुक्तमणिकुण्डलानि विचरन्त्यो काचिन् नववधुकाकारा काचिद् एवप्रसूतिकाकारा काचिद् मध्यमस्त्रीकाकारा बहूनि राक्षसीशतानि मानुषीरूपाणि अभिनिर्मिणित्वा । समुद्रं ओतरित्वा एकमेको वाणिजको गृहीतो ॥ स्वागतम् आर्यपुत्राणां आर्यपुत्रा अस्माकम् अपतिकानां पतिका भविष्यथ अनाथानां नाथा भविष्यथ अबन्धूनां बन्धू भविष्यथ । अस्माकं पि स्वामिका महासमुद्रे विपन्नयानपात्रा सर्वे अनयातो व्यसनम् आपन्नाः । ध्रुवम् अस्माकं जलधरो प्रसन्नो येन यूयं इमं द्वीपम् आनीता ॥ ताहि ते वाणिजा अंशेहि आरूपिता समुद्रातो उत्तारिता स्थले प्रतिष्ठापयित्वा तेषां
[_म्वु_3.69_] वाणिजकानां समाश्वासयन्ति ॥ मा आर्यपुत्रा उत्कण्ठथ मा परितष्यथ महारतनद्वीपं आर्यपुत्रा अनुप्राप्ताः बहुरत्नम् अनन्तरत्नं बहु-अन्नपानं बहुपुष्पफलं बहुगन्धमाल्यविपेपनं बहुवस्त्रं बह्वास्तरणप्रावरणं । इह आर्यपुत्रा अस्माभिः क्रीडन्ता रमन्ता प्रविचारयन्ता मधुवासवं च पिबन्ता आदीनवपराङ्मुखा सुखानि अनुभवथ ॥ ते दानि वाणिजा आहन्सुः ॥ मर्षथ मुहूर्तं याव शोकं विनोदेमः ॥
___ते दानि सर्वे पंच वाणिजकशता तासां स्त्रीणां मूलातो एकान्तं प्रत्युत्क्रान्ता एकान्तं प्रत्युत्क्रमित्वा रोदेन्सुः शोचेन्सुः परिदेवेन्सुः ॥ हा अम्बे हा तात हा पुत्र हा भ्राता हा भगिनी हा चित्रजम्बूद्वीपिकाहो उद्यानवराहो ॥ रोदित्वा शोचित्वा परिदेवित्वा परस्परस्य समाश्वासेत्वा स्वकस्वकानि स्त्रीयो अल्लीना । ताभिः स्त्रीभिः सार्धं महारहेण मार्गेण हरितशाद्वलितेन अपगततृणकण्टकखण्डकेन अपगतशर्करकठल्येन नीरजेन समेन अविसमेन महावनषण्डम् अनुप्राप्ता सर्वपुष्पफलोपेतं । सर्वोतुकानि सर्वकालिकानि सर्वकालिकानि तत्र वनखण्डे पुष्पाणि नानाप्रकाराणि सुरभीणि सुगन्धानि सर्वोतुकानि सर्वकालिकान् तत्र वनखण्डे नानाप्रकाराणि पत्रचूर्णानि गन्धरसोपेतानि क्षुद्रमधुसदृशानि वापीयो च पुष्करिणीयो च सुखसलिलानि हंसकारण्डवरुतानि उत्पलपद्मकुमुदपुण्डरीकसंछन्नानि ॥ ततो वनातो निर्गम्य तासां राक्षसीनां भवनानि अद्दशेन्सुः उद्वीक्ष्याणि महेशाख्यानि श्वेतानि पाण्डराणि तुषारसन्निभानि निर्यूहसिंहपंजरगवाक्षताराचन्द्रसुविचित्राणि राक्षसीनगरं च वैश्रवणभवनसंनिभं पश्यन्ति ॥ ते दानि वाणिजका ताहि राक्षसीहि द्वीपे प्रवेशिता स्वकस्वकानि भवनानि दिव्यविमानसन्निभानि ॥ ते दानि वाणिजका
[_म्वु_3.70_] तेषु राक्षसीभवनेषु पश्यन्ति पर्यंकानि सुप्रज्ञप्तानि लोमशगोनिकास्तरणानि अवदातपटप्रत्यास्तरणानि उभयतोलोहितबिम्बोहनानि सुवर्णमयानि रूप्यमयानि दन्तमयानि अशोकवनिकादेशरमणीयानि सर्वपुष्पफलोपेतानि व्यायामशालानि सुरमणीयानि अन्नपानभोजनविधानानि सुप्रणीतानि ॥
___तेषां दानि रतनामयेषु भद्रपीठेषु निषीदापयित्वा कल्पकेहि केशश्मश्रूणि कारितानि व्यायामशालेषु व्यायामकारापितानि स्नानशालेषु च स्नापयित्वा धौतमृष्टानि गात्राणि प्राञ्जयित्वा लोहितचन्दनकालानुसारेहि विलिप्तानि कृत्वा महारहाणि च परिवारयित्वा वरमाल्यदामेहि चालंकृतानि महारहाणि च भक्तोपधानानि उपनामितानि प्रत्यग्राणि च प्रणीतानि खादनीयभोजनानि उपनामितानि नानाप्रकाराणि च व्यंजनप्रकाराणि उपनामितानि खण्डाग्राणि लवणाग्राणि मधुराग्राणि तिक्ताग्राणि कटुकाग्राणि काषायाणि नानाप्रकाराणि मान्सप्रकाराणि उपनामितानि तद्यथा वराहमान्सानि मत्स्यमान्सानि तित्तिरमान्सानि वर्तकमान्सानि लाबकमान्सानि कपिंजलमान्सानि एणेयमान्सानि ॥ विविधेषु च सानं नृत्यगीतवाद्यप्रकारेषु अभिरमापेन्ति मृदंगवाद्येषु आलिंगवाद्येषु सिन्धववाद्येषु पणववाद्येषु एकादशिकावाद्येषु वीणावाद्येषु नकुलकवाद्येषु सुघोषवाद्येषु भाण्डकवाद्येषु च वेणुकवाद्येषु अपरा प्रणेन्सुः । अपरा तु मधुरं प्रगायेन्सुः ॥ यदा जानेन्सुः ता राक्षसीयो संविश्वस्ता इमे वाणिजका अस्माभिर् इति ततो सानं संवृद्धानि रत्नकोशानि संप्रदर्शेन्सुः । आर्यपुत्राणां वयं च प्रणीतं च सारं । मधुरं च आसनं प्रज्ञापेन्सुः । अभिरमन्तु आर्यपुत्राः इह रतनस्वीपे
[_म्व्_3.71_] नन्दनगता वा मरुपुत्रा अपि तु प्रमत्तेहि पि आर्यपुत्रेहि नगरस्य दक्षिणेन मार्गेण न गन्तव्यं ॥
___अथ खलु भिक्षवो यस् तेषां पंचानां वाणिजकशतानां सार्थवाहो पण्डितो सप्रज्ञजातिको तस्य एतद् अभूषि ॥ किं नु खलु इमा स्त्रियो अस्माकं नगरस्य दक्षिणातो मार्गातो वारेन्ति । यन् नूनाहं जानेयं नगरस्य दक्षिणेन किं चात्र कथं वा ति ॥ अथ खलु भिक्षवः सार्थवाहो स्त्रियः शयिता वा मत्तप्रमत्ता वा विदित्वान असिपट्टम् आदाय नगरातो निर्गम्य तं दक्षिणं मार्गम् अनुगच्छे । यथा यथा व गच्छति कथा पश्यति आकाशे शरणं च प्रतिभयं बहूनां च पुरुषाणां रवन्तानां शब्दं शृणोति ॥ सो दानि पुरुषाणां तं शब्दम् अनुसरन्तो पश्यति अयोमयं नगरं ताम्रप्राकारपरिक्षिप्तं ॥ सो दानि तस्य नगरस्य द्वारं मार्गन्तो समन्तेन प्रदक्षिणीकरोति न च तं द्वारं पश्यति बहूनां च पुरुषाणां रवन्तानां शब्दं शृणोति ॥ हा अम्बेति क्रन्दन्ति हा ताता ति क्रन्दन्ति हा पुत्रेति क्रन्दन्ति हा भ्रातेति क्रन्दन्ति हा स्वसेति क्रन्दन्ति जम्बूद्वीपकाहो उद्यानवराहो ति क्रन्दन्ति ॥ सो तं शब्दं श्रुणन्तो तं नगरं पर्यागच्छन्तो नगरस्य उत्तरे पार्श्वे प्राकारस्य अनुश्लिष्टं उच्चं शिरीषवृक्षं पश्यति । सो दानि शिरीषवृक्षम् अभिरुहित्वा नगरे पुरुषशतानि पश्यति सोपवासिकानां दीर्घकेशनखश्मश्रूणां पूतिखण्डवसनानां वातापदग्धत्वचमान्सानां कृष्णानां मलिनानां मलिनकेशानां क्षुत्पिपासासमर्पितानां । नखलीहि पानीयार्थं भूमिं खनन्ति पृथिवीतो उत्कृष्यन्ति दौर्बल्येन पुनर्धरण्यां पतन्ति ॥ ते दानि तस्य शिरीषस्य शाखापत्रपलाशशब्दं श्रुत्वा सर्वे अंजलिं कृत्वा उत्थिता ॥ को आर्यपुत्रो देवो वा नागो वा किन्नरो वा गन्धर्वो वा यक्षो वा कुम्भाण्डो वा ते वयं शरणं गताः । इतो संबन्धनातो दुःखितानि मोचेहि यथा मं पुनः स्वदेशवासो
[_म्वु_3.72_] भवेय मित्रज्ञातिसमागमो च भवेय ॥ अथ खलु स सार्थवाहो शिरीषगतो अश्रुपूर्णनयनो तां वाणिजकान् एतद् उवाच ॥ नाहं देवो न यक्षो न किन्नरो न गन्धर्वो न शक्रो न ब्रह्मा न विरूढको महाराजो वयं पि जम्बुद्वीपातो धनार्थाय यानपात्रेण समुद्रम् अवगाढा विपन्नयानपात्राः । एताहि स्त्रीहि उद्धृता वाणिजकशतानि । ततः अस्माभिः सार्धं क्रीडन्ति रमन्ति प्रविचारेन्ति अपि सानं च यं अप्रियं न करोम ता चास्माकं विप्रियं नेच्छन्ति ॥ ते दानि अभ्यन्तरवाणिजका आहन्सुः ॥ वयं पि मारिष जम्बूद्वीपातो धनार्थाय यानपात्रेण समुद्रम् अवगाढा अस्माकं पि सागरमध्ये गतानां यानपात्रं विपन्नं । ततः मं एताहि स्त्रीहि उद्धृता पंच वाणिजकशतानि अस्माकं पि सार्धं कृईडन्ति रमन्ति प्रविचारयन्ति यथा एतरहि युष्माभिः सार्धं । यदा युष्माकं यानपात्रो विपन्नो वातेन च येन राक्षसीद्वीपं तेन क्षिप्तो ततः एताहि राक्षसीहि यूयं दृष्ट्वा अस्माकं पंचानां वाणिजकशतानां अड्ढातिया वाणिजकशता आखायिता ये प्य् अस्माकं मूलातो दारका जाता ते पि सानं खायिता वयं अड्ढातिया वाणिजशता इह ताम्रनगरे प्रक्षिप्ता । न एता मारिष मानुषिका राक्षसीयो एतायो ॥
___सो दानि सार्थवाहो शिरीषगतो तेषाम् अभ्यन्तरिमकानां वाणिजकानां ताम्रनगरप्रक्षिप्तानां तं वचनं श्रुत्वा भीतो त्रस्तो संविग्नो अंजलिं कृत्वा पृच्छति ॥ आचिक्षथ किं उपायं यथाहं तासां राक्षसीनां मूलातो स्वस्तिना मुंच्येय ॥ ते दानि आहन्सुः ॥ कार्तिकपूर्णमास्यां केशी नामाश्वराजा उत्तरकुरुद्वीपातो अकृष्टोप्तं शालिं अकणं अतुषं सुरभितण्डुलफलं परिभुंजित्वा इमं राक्षसीद्वीपम् आगच्छति । सो इहागत्वा त्रीणि वारां मानुषिकाय वाचाय शब्दं करोति । को इह महासमुद्रस्य पारं गन्तुम् इच्छति अहं स्वस्तिना उत्तारयिष्यामि । तं हयराजं शरणं
[_म्वु_3.73_] प्रपद्यथ । सो युष्माकं इतो राक्षसीद्वीपातो समुद्रस्य पारं प्रापयिष्यति ॥ तेषां पंचानां वाणिजकशतानां यो वा तस्य हयराजस्य बालेष्व् अवलंबिष्यति अन्यतरान्यतरे वा अंगजाते तेषां पि च पुरुषाणां परस्परस्य अवलंबिष्यति महाकारपृष्ठिस्मिन् तस्य अनुलग्निष्यति शतं वा सहस्रं वा अनुपूर्वेण जम्बुद्वीपं प्रापयिष्यति । एषो व उपायो इतो राक्षसीद्वीपातो स्वस्तिना जंबुद्वीपं गमनाय नास्ति अन्यो ॥ सो दानि सार्थवाहो तेषाम् अवरुद्धानां वाणिजकानाम् आह ॥ आगच्छथ यूयम् अपि सर्वे जम्बुद्वीपं गमिष्यामः । एवं तावत्* नगरप्राकारं लंघयथ हेष्ठतो वा खनथ ॥ ते तं आहन्सुः ॥ न त्वं जानासि कीदृशो राक्षसीनगरं नातो वयं शक्ष्यामः लंघयितुं । तुम्हे पुनः यदि इच्छथ पलायथ एवं वो मोक्षो भविष्यति । अथ दानि ताम्रनगरे प्रक्षिप्यथ नास्ति वो मोक्षो ॥ गच्छथ यूयं क्षेमेण स्वकं देशं अमुके च नगरे अस्माकं पितुज्ञातयो तेषां अस्माकं वचनेन पृच्छित्वा वक्तव्यं देथ दानानि करोथ पुण्यानि । अपि खण्डकपालेन कुलेकुलेषु भिक्षेन्ता जंबूद्वीपे वसथ मा च पुनः समुद्रं ओतरिष्यथ यत्रेमान्य् एदृशानि दुःखानि परस्य वा प्रेष्यकर्मं कृत्वा जीविकां कल्पेष्यथ मा च समुद्रम् अवतरणाय चित्तं करोथ यत्र इमानि एवंरूपाणि दुःखानि ॥ सो दानि आह ॥ मारिष आत्मना गमिष्यामि पुरा मे राक्षसी शयिता विबुध्येत मा मे जानेया इह आगमनं ॥ सो दानि सार्थवाहो ततो शिरीषातो ओतरति इमेहि च अभ्यन्तरिमकेहि वाणिजकेहि खादिता वयं राक्षसीहि अविधाविधा ति विक्रुष्टं इदम् अस्माकं पश्चिमं ज्ञातीनां दर्शनम् इति ॥
___सो दानि सार्थवाहो ततो शिरीषातो ओतरित्वा यथागतेन मार्गेण गत्वा तत्र राक्षसीये शयने शयितो ॥ सो तत्र शयनगतो चिन्तयति ॥ कथम् एतेषां
[_म्वु_3.74_] वाणिजकानां एतत् कार्यं संबोधेयं यथा मे स्वयं दृष्टो च श्रुतो च न च इमे राक्षसी बुध्येन्सुः एषो च तुज्यो कार्यो ॥ यदि एतेषां वाणिजकानां इदानीं एव असंप्राप्तेन हयराजेन एतं कार्यं आचिक्षिष्यामि ततो एतेषां पंचानां वाणिजकशतानां अन्यतरान्यतरो वाणिजको मत्तो वा प्रमत्तो वा राक्षसीनामाचिक्षेया ततो अनुतप्यनीयं भवेत् सर्वे च अनयातो व्यसनम् आपदियेम ॥ तत्र पण्डिता प्रशंसन्ति । यस्य कस्यचि गुह्यं समाख्यातं दुर्लभा ते सत्पुरुषा ये शक्नोन्ति गुह्यं धारयितुं ॥ यं नूनाहं स्वयम् एव एतं गुह्यं धारयेयं यावत् कौमुदी चातुर्मासी ततः सामं हयराजेन इमं राक्षसीद्वीपम् अनुप्राप्तेन एतम् आदीनवं आचिक्षिष्यामि ॥ सो दानि तं गुह्यं स्वकहृदयेन धारयति न कस्य चि आचिक्षति यावत् कौमुदी चातुर्मासी ॥ कौमुदी च उपस्थिता हयराजो राक्षसीद्वीपम् अनुप्राप्तो । ततो सार्थवाहेन तेषां पंचानां वाणिजकशतानाम् आरोचितं ॥ मा अद्य प्रमादं करोथ स्त्रीषु वा अन्नपानेन वा गीतवाद्येन वा अस्ति किञ्चिद् अर्थमात्रो यो भवन्तेहि मम सकाशातो श्रोतव्यो । अमुको प्रदेशो प्रतिगुप्तो तत्र सर्वे समागच्छथ ताहि स्त्रीहि शयिताहि ॥
___ते दानि सर्वे वाणिजकशता ताहि स्त्रीहि शयिताहि तत्र प्रतिगुप्तप्रदेशे सर्वे समागता समागच्छित्वा तं सार्थवाहं पृच्छन्ति ॥ जल्पथ सार्थवाह यं ते किंचिद् दृष्टं वा श्रुतं वा ॥ सार्थवाहो तेषां वाणिजकानां वर्तमानीं सर्वाम् आचिक्षति ॥ एतं मम एवं चित्तम् उत्पन्नं किस्य एता स्त्रियो अस्माकं नगरस्य दक्षिणपंथातो निवारेन्ति । ततः कौतूहलेन महता सहसोपिनीये शयिताये असिपत्रं गृह्य नगरस्य दक्षिणेन पन्थेन गतो ॥ तत्र मे ताम्रमयं नगरं दृष्टं अद्वारं न चास्य द्वारं पश्यामि बहुजनस्य च क्रन्दनशब्दं शृणोमि ॥ सो हन् तं नगरं अनुप्रदक्षिणीकरोन्तो
[_म्वु_3.75_] तस्य नगरस्य उत्तरे पार्श्वे उच्चशिरीषम् अद्राक्षीत्* ॥ सो हं तं शिरीषं अभिरुहित्वा तन् नगरम् अवलोकेमि ॥ तत्र च मे बहूनि वाणिजकशतानि उपरुद्धानि दृष्टानि शुष्कानि धमनीसन्ततवातातपदग्धत्वचमान्सानि कृष्णानि मलिनकेशानि पानीयार्थं नखलीहि भूमिं खनन्ति क्षुत्पिपासासमर्पितानि । अपराणि कंकालशतानि विक्षिप्तानि दशदिशो विकीर्णानि । तत्र च अमुकातो अमुकातो नगरातो अमुको च अमुको च वाणिजो ते च वानिजा सर्वे व आगता । तेषां वाणिजकानाम् आचिक्षितो ॥ ये तत्र जीवन्ति राक्षसीहि खादितावशेषा अपरे पि अड्ढतियमात्राणि वाणिजकशतानि ये एताहि राक्षसीहि खादिता ॥ ततो एता न मानुषिका सर्वाः एता राक्षसीयो ॥ यदि वयं यत्नं न करोमि स्वदेशगमनाय एवम् एव सर्वे अनयातो व्यसनम् आपद्यिष्याम एतेन राक्षसीगणेन ॥ यदि इच्छथ राक्षसीनां हस्तातो मोक्षं क्षेमेण च जम्बुद्वीपं गमनाय केशी अश्वराजा उत्तरकुरुद्वीपातो अकृष्टोप्तं शालिं भुंजित्वा अकणं अतुषं सुरभितण्डुलफलं कार्तिकपूर्णमास्यां इह राक्षसीद्वीपम् आगच्छति इमस्य राक्षसीद्वीपस्य उत्तरपार्श्वेण समुद्रतीरे स्थिहित्वा को पारगामीति घोषेति । ततस् तत्र हयराजस्य समीपं गच्छामः । सो स्माकं क्षेमेण स्वदेशं प्रापयिष्यति ॥
___ते दानि प्ंच वाणिजकशता सार्थवाहेन सार्धं राक्षसीनगरस्य उत्तरपार्श्वे गता । तेहि केशी अश्वराजा समुद्रतीरे तिष्ठन्तो दृष्टो ग्रीवम् उन्नामेत्वा को पारगामीति घोषन्तो ॥ ते दानि सर्वे पंच वाणिजकशता कृतांजलिपुटा तं केशिम् अश्वराजम् उपसंक्रान्ता ॥ महाकारुणिक तव शरणागता स्म वयं पारगामी गतो अस्माकं तारेहि ॥
[_म्वु_3.76_] सो दानि अश्वराजा तेषां वाणिजकानां समनुशासति ॥ यं वेलं अहं इतो राक्षसीद्वीपातो युष्माकं गृहीत्वा त्रिष्कृत्यं हीषित्वा खगपथेन प्रक्रमिष्यं ततो राक्षसीयो ये युष्माकं भवन्ति दारका वा दारिका वा तानि आदाय आगमिष्यन्ति बहूनि करुणकरुणानि प्रलपिष्यन्ति मा आर्यपुत्रा परवचनेनास्माकं परित्यजथ मा च इमं रमणीयं रत्नद्वीपं बहुरत्नम् अनन्तरत्नं परित्यजथ ॥ ततः युष्माभिः तेषां राक्षसीनां वचनं नाभिश्रद्दधितव्यं यो च तेषां वचनं अभिश्रद्दधिष्यति सापेक्षो भविष्यति एषो मे भार्या एषो मे पुत्रो एषो मे धीता ति भूयो राक्षसीनां वशम् आगता भविष्यन्ति मम पृष्ठतो धरण्यां प्रपतिष्यन्ति । ये च तेषां राक्षसीनां वचनं नाभिश्रद्दधिष्यन्ति न मे एषा भार्या न मे एषो पुत्रो न मे एषा धीता ति ये च निरपेक्षा भविष्यन्ति ते बालम् अपिश्लिष्टा मे स्वस्तिना जंबुद्वीपं गमिष्यन्ति ॥
___एवं भिक्षवः स केशी अश्वराजा तेषां वाणिजकशतानां समनुशासित्वा त्रिष्कृत्वो हीषित्वा सर्वं वाणिजगणं आदाय खगपथेन प्रक्रान्तो ॥ ता राक्षसीयो तस्य केशिस्य अश्वराजस्य हीषणशब्दं श्रुत्वा स्वकस्वकानि दारकदारिकानि आदाय आगता । मा आर्यपुत्रा परवचनेन अस्माकं परित्यजथ मा च इमं रमणीयं रतनद्वीपं बहुरत्नं अनन्तरत्नं परित्यजथ ॥ ये खलु भिक्षवः तेषां वाणिजानां राक्षसीनां मूले सापेक्षा अभून्सुः ते दानि पृष्ठतो महिं पतिता ये निरपेक्षा अभून्सुः ते स्वस्तिना राक्षसीद्वीपातो जंबुद्वीपम् अनुप्राप्ता ॥
___स्यात् खलु पुनः भिक्षवः युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन केशी अश्वराजा अभूषि । नैतद् एवं द्रष्टव्यं । तत् कस्य हेतोः ॥ अहं स भिक्षवः तेन
[_म्वु_3.77_] कालेन तेन समयेन केशी अश्वराजा अभूषि ॥ स्यात् खलु पुनः भिक्षवो युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन सामयेन पंच वाणिजकशतानि अभूषि । न खल्व् एतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । एते ते भिक्षवस् तेन कालेन तेन सामयेन पंच वाणिजकशतानि अभूषि ॥ तदापि एते मया दारुणातो राक्षसीद्वीपातो उद्धरित्वा क्षेमेण महासमुद्रं तारयित्वा जंबुद्वीपे प्रतिष्ठापिता । एतरहिं पि एते मया दारुणेषु दृष्टीगतेषु निवर्तयित्वा अनवराग्रातो जातिजरामरणसन्सारगहनकान्तारातो तारिता ॥
संवेगं जनयित्वान उद्वेजेत्वान मानसं ।
शृणोथ एकाग्रमना सुप्रसन्नेन चेतसा ॥
धर्मार्थयुक्तं श्राद्धानां रोमहर्षणसंजनं ।
पूर्वं चरितं भगवतो शृणोथ चित्तं प्रसादेत्वा ॥
अथ तस्मिं काले अश्वराजा बभूव अहं करुणलाभी ।
तारेसि वाणिजगणां राक्षसिद्वीपाल् लवणतोयात् ॥
तेन खु पन समयेन समुद्रम् उपयातो वाणिजकगणो ।
ऊर्मीतरङ्गमालं बहुरत्नवन्तं धनार्थाय ॥
अथ मकरमत्स्येन भिज्जे तं यानपात्रं लवणतोये ।
अभिद्रवति वेगतूर्णो गरुडो च पक्षवातेन ॥
तस्मिं विकीर्यमाणे रवन्ति आर्त्तस्वरा उदधिमध्ये ।
देवां च नमस्यन्ति यो यादृश अस्ति अधिमुक्तो ॥
केचिच् छिवं केचिद् वैश्रवणं स्कन्दं यमं कुवेरं च ।
अपरे सहस्रनयनं विरूढकं च दिशां च परे ॥
[_म्वु_3.78_] तेषां च परार्थाये उपकरणानि अभून्सुः पात्रस्मिं ।
ते तानि ग्रहेत्वान लवणजलधरं समवगाढा ॥
केचिद् अलाबुश्रेणियो अपरे पुनः सिम्बलीमयां फलकां ।
अपरे वृतिं ग्रहेत्वा तूलस्य च राशियो अपरे ॥
अपरो परं वधित्वा आलंबति जीवितस्य अर्थेन ।
न हि मृतकुणपेन सह लवणजलधरो वसति रात्रिं ॥
ते तहिं परिप्लवन्ता तां रात्रिं जलधरे लवणतोये ।
अथ संदर्शेन्सु तीरे तीररुहां पादपप्रवरां ॥
यथायथम् उपेन्ति तीरं अथ पश्यन्ति शतानि प्रमदानां ।
दिव्यवधूसदृशानां रक्ताम्बरवस्त्रवसानां ॥
काचित् कन्यासदृशा अपरा पुन नववधू व शोभन्ति ।
वरमाल्यदामशिरजा जाम्बुनदज्वलितकुण्डलमुखीयो ।
हरिपिंगलसदृशनयना शोभन्ति ता सरिपतितीरे ॥
ता च अवगाह्य सलिलं सकरुणमधुर्ं गिराम् उदीरेन्सुः ।
यथार्यपुत्रा चपलं भवथा नाथा अनाथानां ॥
अस्माकं अपतिकानां अबान्धवानां वने वसन्तीनां ।
ध्रुवं जलधरो प्रसन्नो येन वो तीरम् आनीता ॥
अंसेहि तां ग्रहेत्वा परस्परम् उद्धरेन्सुः सलिलातो ।
[_म्वु_3.79_] आश्वासेन्ति च बहुशो आर्य विषादं कर्तव्यं ॥
अस्मेहि सह प्रमदाहि आर्यपुत्रा वसथ मा विषीदेथ ।
प्रियबान्धवं वा त्यजित्वा मित्रां पितरं च पुत्राणि ॥
अस्मेहि दानि पुरुषा अभिरमथ नन्दनवने मरुसंघाः ।
मधु आसवं पिबन्ता द्वीपवरसुखानि अनुभोथ ॥
ते अश्रुपूर्णनयना तां प्रमदां अवचु सागरोघस्मिं ।
ईषत्क्षणं प्रतीक्षथ यावत् शोकं विनोदेम ॥
ते गत्वा नातिदूरं समागता वाणिजा समाश्वस्ता ।
रोदन्ति च क्रन्दन्ति च दुःखिता विय विप्रयोगेन ॥
हा अम्बा हा ताता हा पुत्रा हा स्वदेश रमणीय ।
हा जम्बुद्वीपकाहो उद्यानवराहो रम्याहो ॥
सुखिता खो ये कदाचि समागता ज्ञातिबान्धवजनेन ।
एकां रजनीं वसित्वा शरीरनाशं करिष्यन्ति ॥
किं शक्य निरालम्बे मध्ये समुद्रस्य लवणतोयस्य ।
कर्मं मनसीकरेन्ता अशोचमानेहि वस्तव्यं ॥
रोदित्वा च क्रन्दित्वा आश्वासेत्वा च अन्यमन्यस्य ।
अगमासु येन तासां निवेशनानि रमणीयानि ॥
हरिणतृणसंप्ररूढं अपगतपाषाणसर्करकठल्लं ।
अरजं समं अविषमं आक्रम्य महिं उपेन्ति वनं ॥
नानाद्रुमं अशोकातिमुक्तचम्पकप्रियंगुशालानि ।
[_म्वु_3.80_] तिलकवकुलां कुलवकां पुंनागतालीसगहनानि ॥
करीर चात्र कुसुमिता कुलत्थ करमर्द जीवकलता च ।
नवमालिका मृदुलता पाटलककरेणुकावारा ॥
वर्षकधातुः कारी नवमालिकमल्लिकानि प्रियंगु वा ।
कुप्यकवार्षिकमल्लिकमदगन्धिकगुल्म सुविचित्रा ॥
सारेहि च तारेहि च अलंकृतं चम्पकेहि च उपेतं ।
रक्तेहि पीतकेहि च संप्रज्वलितं अशोकेहि ॥
आम्रकर्णिकारकुरवकतिलकवकुलशोभितं सुरमणीयं ।
अभ्यधिकं स्वशरीरैः वनं वरं शोभेन्ति सुयामा ॥
पुष्पा च नागवृक्षा भव्या पालेवतपिप्पलकपित्था ।
म्रोतक ससप्तपर्णा मुचिलिन्दवनानि च शुभानि ॥
चम्पकद्रुमान्तफुल्ला सहकारवनानि संकुसुमितानि ।
नानाद्रुमा कुसुमिता मधुकरिभ्रमरेषु परिगीता ॥
विल्वारनारिकेरा मोचा पनसा च तालखर्जूरा ।
जंबीरा च मातुलुंगा न कंचि कालं न दृश्यन्ति ॥
अक्षोडा च तमाला च मोचा किंशुका मृद्वीका च ।
भव्या च दाडिमा च न कञ्चि कालं न दृश्यन्ति ॥
केचिद् भुग्नकुसुमाग्रा अपरे पुनर् पक्वा म्लापिता परे ।
[_म्वु_3.81_] अपरे कलापशाखा न कंचित् कालं न दृश्यन्ति ॥
एतानि च अन्यानि पुष्पाणि फुल्लिता पादपवरेषु ।
सर्वोतुककालिकानि न कंचि कालं न दृश्यन्ति ॥
पुष्करिणीयो वनवरे सुखसलिला हंससारसाभिरुता ।
पद्मोत्पलसंछन्ना अन्ये च चक्षुरमनीया ॥
अथ केचि कालपटकोपशोभिता नीलकंचुकमनोज्ञा ।
सलिलस्मिं समुद्वृत्ता नाशेन्ति चिरागतं शोकं ॥
ताहि च वनराजीभिः पद्मसरा कुसुमिता उपशोभेन्ति ।
अधिकतरां नाशयन्ति शोकां यानस्य च विनाशं ॥
निर्गम्य वनवरातो अथ पश्यन्ति तुषारसदृशानि ।
भवनानि राक्षसीनां साप्सरभवना यथ सुराणां ॥
घट्टपरिमृष्टक अन्तो मरुभवने वासवस्य वा भवनं ।
भवनानि राक्षसीनां नभाग्रसंस्थानि तिष्ठन्ति ॥
निर्यूहसिंहपंजरगवाक्षतारार्धचन्द्रसुविचित्रं ।
अधिकतरं तं पुरवरम् आलोक्यति राक्षसीनगरं ॥
अथ तत्र प्रविष्टानां महति महा-आसने निषण्णानां ।
स्नानं उपनामेन्ति कल्पितनखकेशश्मश्रूणां ॥
स्नानसमादानानां अलंकृतानां वरदामधारिणां ।
भोजनम् उपनामेन्ति अनेकरसव्यंजनम् उपेतं ॥
[_म्वु_3.82_] वराहमत्स्या महिषा अजेडकशावककुक्कुटमयूरा ।
तित्तिरवर्तकलाबक कपिंजलसारस पि प्रभूता ॥
या तत्र प्रजानन्ति मृदङ्गमालिंगसैन्धवां पणवां ।
एकादशीं च वीणां वादेन्ति वल्लकिगुणकां च ॥
वल्लकितूलां नकुलकां परिवादिनीगोमुखीं अथ पि वेणुं ।
अपरे च प्रवादयन्ति मधुरं च प्रगायन्ति अपरे ॥
विश्वस्ता च तां ज्ञात्वा उद्यानवराणि संप्रदर्शेन्ति ।
रत्नां च सुप्रभूतां शय्यासनभोजनविधानं ॥
एतं च वो वयं च अभिरमथ नन्दने व मरुत्संघाः ।
अपि तु प्रमत्तकेहि दक्षिणमार्गं न गन्तव्यं ॥
यो तेषां सार्थवाहो सप्रज्ञो सकुशलो सबुद्धीको ।
एको रहो निषण्णो किं नु खु पंथातो वारेन्ति ॥
यं नूनाहं सुप्ताये सहसोपिनीये असिं गृहीत्वान ।
नगरस्य दक्षिणेन तं पन्थलिकं उपनयेहं ॥
सो ताये प्रसुप्ताये सहसोपिनीये असिं ग्रहेत्वान ।
नगरस्य दक्षिणेन तं पन्थलिकं उपगमासि ॥
यथ यथ उपेति पन्थं अथ शृण्वति दूरतो व उत्क्रोशं ।
सो शब्दम् अनुसरन्तो अथ संपश्यति नगरं ताम्रमयं ॥
संप्राप्तो च समन्ततो मार्गति द्वारं न च कंचि पश्यति ।
[_म्वु_3.83_] निष्क्रमन्तं शृण्वति च शब्दं बहूनां मनुष्याणां ॥
हा अम्बे हा ताता हा पुत्रा हा स्वदेश रमणीय ।
हा जम्बुद्वीपकाहो उद्यानवराहो . . . . . ॥
सुखिता खु ये . . . . समागता ज्ञातिबान्धवजनेन ।
एकरजनीं वसित्वा शरीरनाशं करिष्यन्ति ॥
किं शक्यं निरालंबे मध्ये समुद्रस्य लवणतोयस्य ।
कर्म मनसीकरोन्ता शरीरनाशं करिष्यामः ॥
सो दानि प्रलपितानि श्रुणमानो सुप्रज्ञो सुबुद्धिको ।
नगरस्य उत्तरेण उच्चं आलोकये शिरीषं ॥
अभिरुह्य तं शिरीषं पश्यति नगरे शतानि मनुजानां ।
मासोपवासिकानां विरूढनखकेशश्मश्रूणां ॥
धमनिसन्ततगात्रा वातातपदग्धत्वचमान्सानां ।
पूतिकखण्डवसनानां तृष्णार्त्ता मलिनकेशानां ॥
केचित् पानीयार्थं . . . . भूभिं नखेहि विलिखन्ति ।
उत्थेहिष्यन्ति पतन्ति पतिता महीयं विवेष्टन्ति ॥
अपराणि करंकानि विक्षिप्तानि दिशो विकीर्णानि ।
पश्यित्व सो द्रुमगतो रूढो निषण्णो व समाहितो ॥
तस्य शिरीषस्य पत्रा जवेन अवलम्बितां विदित्वान ।
पश्यित्वान द्रुमवरं प्रांजलिका . . . . . सर्वे ॥
को त्वं आर्यपुत्र देवो नागो गरुडो गुह्यको सुवर्णो वा ।
[_म्वु_3.84_] अथ वा सहस्रनयनो विरूढको अन्यो वा यक्षो ॥
मोचेहि मो सुदुःखितां भवतु ते कारुण्यं नरर्षभ ।
इमेषां पुनर्भवन्तु स्वदेशप्रियबन्धु प्राणीनां ॥
सो अश्रुपूर्णनयनो प्रतिभणति वाणिजो शिरीषगतो ।
नाहं आर्यपुत्र देवो नागो गरुडो गुह्यको सुवर्णो वा ॥
न चाहं सहस्रनयनो विरूढको नैव यक्षो वा ।
वयम् आर्या धनार्थाय ओगाढा सलिलपतिं ।
भिन्नयाना स्म संजाता ते स्म इस्त्रीहि उद्धृता ॥
ता मं सम्यक्प्रतिवर्तन्ति शुश्रूषून् पुत्रान् व मातरो ।
. . . . . . . . . . . . . . . . .
यं प्रियं मो मानुषीयो न ता इच्छन्ति विप्रियं ॥
श्रुत्वा भयंकरिं वाचां इदम् आहन्सु वाणिजा ।
वयं पि जंबुद्वीपातो ओगाढा सलिलपतिं ॥
भिन्नयाना स्म संजाताः ते स्म इस्त्रीहि उद्धृता ।
ता मो सम्यक् प्रतिवर्तेन्सु यथा युष्माकं मारिष ॥
वाणिजानां शता पंच ये स्म एताहि उद्धृता ।
ततो अड्ढातिया एत्थ अवशेषा तु खायिता ॥
ये पि मं पुत्रका आसि बालका मंजुभाणिनो ।
ते पि खायिता एताहि रसगृद्धाहि मारिष ॥
नैता मारिष मानुषीयो राक्षसीयो भयानिका ।
असिपट्टधराहृदया राक्षसियो मानुषीरूपा ॥
[_म्वु_3.85_] ततः भूयस्या मात्राय संविग्नो आसि वाणिजो ।
सो तां पृच्छीय मेधावी राक्षसीद्वीपातो निःसरं ॥
हन्त मारिष आख्याथ कथं मोक्षो भविष्यति ।
जीवितान्तकरा घोरा कथं गच्छेम स्वस्तिना ॥
ते च तस्य समाख्येन्सु हितेषी अनुकम्पका ।
यथा दृष्टं श्रुतं चैव राक्षसीद्वीपातो निःसरं ॥
कार्तिके मासे कौमुदीपूर्णमास्यां आगमिष्यति ।
वलाहो तुरगो शीघ्रो मंजुकेशो हयोत्तमो ॥
अनुपूर्वं सुरुचिरांगो विशुद्धकायो सुगन्धो धुतबालो ।
बलवा जवेन् उपेतो वातजवसमो अनिलयायी ॥
काकशिरो पद्मनेत्रो वालाहकुलेन अभिनिर्वृत्तो ।
हिमवन्तशिखरसदृशो मेघस्वनितदुंदुभिनिनादो ॥
सो भुक्त्वा अतुषम् अकणं स्वकेरुहं तण्डुलफलं शालिं ।
स्थितो सागरस्य तीरे राक्षसिनगरोत्तरे भागे ॥
उन्नामित-उत्तमांगो भाषति वाचां इमां तुरगराजा ।
को वो गन्सति पारं समुद्रस्य लवणतोयस्य ॥
कं स्वस्तिना नयामि कस्य मम ऋध्यतु वचनं नाम ।
तं वो उपेथ शरणं सो नेष्यति स्वस्तिना पारं ॥
एथ मारिष युष्मे पि उपेथ हयसाह्वयं ।
आयसं नगरं ताम्रं लंघेथ राक्षसीपुरं ।
[_म्वु_3.86_] अथ खनथ हेष्ठातो ततो गंसथ स्वस्तिना ॥
हन्त मार्ष न जानासि लंघयन्ते पि वर्द्धति ।
आसीयति खनन्ते पि दृढं ताम्रमयं पुरं ॥
नास्ति मोक्षो इतो स्माकं कर्मबद्धान मारिष ।
स्वयंकृतेहि कर्मेहि जंबुद्वीपापकर्षिता ॥
स्वचित्तयमदूतेहि प्रेषिता यमशासनं ।
युष्मे खु दानि गच्छेथ अप्रमादेन स्वं गृहं ॥
ज्ञातयो च मो वदेथ देथ दानानि मारिष ।
मा च वो चित्तम् उत्पद्ये समुद्रम् अवगाहितुं ॥
अपि खण्डकपालेन भिक्षयतो कुलात्कुलं ।
स्वजनेन सहवासो न तु एतादृशं दुःखं ॥
याचितं न घटेन्तस्य वचनं प्रेषणानि च ।
स्वजनेन सहवासो न तु एतादृशं दुःखं ॥
हन्त मारिष गंसामि सुप्ता याव न बुध्यति ।
योगं मा धूर्ता जानाति पौरुषेयं इहागता ॥
तस्य च ओरुहंतस्य विक्रुष्टा अविधाविधा ।
स्वदेशं मनसीकृत्वा पुनः शल्येन वेधिता ॥
सार्थको ओरुहित्वान गत्वा मार्गं यथागतं ।
सहसोपिनी-आसनस्मिं शयन्तो अभिसंविशे ॥
सो च तत्र विचिन्तेति कथं बोधेय वाणिजां ।
[_म्वु_3.87_] एतम् अर्थं यथाभूतं न च जानेन्सु धूर्तका ॥
न च गुह्यं प्रशंसन्ति प्रकाशियन्तं पण्डिता ।
मत्ता प्रमत्ता लपेन्सुः कथा च अनुतापिका ॥
तैलस्य विय बिन्दु च विकशति प्रकाशिता ।
तं मन्त्रं गुह्यं . . . . . . . . . . . . ॥
अर्थानर्थनियंतारो दुर्लभा सन्ति ते नरा ।
यं नूनाहं स्वयं गुह्यं धारेयं यावकौमुदि ॥
ततो सानं आख्यामि पश्चा संप्राप्ते हयसाह्वये ।
तस्मिं च समये प्राप्ते ज्ञातमासे उपस्थिते ॥
सहाया वाणिजा आह प्रमादो वो न कारियो ।
स्त्रीषु भोजनपानेषु अर्थमात्रो भविष्यति ॥
तस्य दिवसस्यत्ययेन सहसोपिनीभिः तदा ओसुप्ताभिः ।
अगमेन्सुः तं प्रदेशं प्रतिगुप्तं वाणिजा सर्वे ॥
ते च तत्र समागम्य . . . . पृच्छन्ति वाणिजा ।
भणतु आर्यो एतम् अर्थं यथा दृष्टं श्रुतं च ते ॥
सो च तेषां समाख्यासि हितेषी अनुकम्पको ।
यथा दृष्टं श्रुतं चैव राक्षसीद्वीपातो निःसरं ॥
अथ वाणिजा भणन्ति ता सर्वा राक्षसीगणं एतं ।
असिपट्टहृदयं . . . . . . . . . . . . ॥
. . . . . राक्षसिनगरोत्तरे भागे ॥
स्थितो सागरस्य तीरे भाषति वाचां इमां तुरगराजा ।
[_म्वु_3.88_] को गंसति वो पारं समुद्रस्य लवणतोयस्य ॥
कं स्वस्तिना नयामि कस्य मम ऋध्यतु वचनं ।
तं वयम् उपेम शरणं सो नेष्यति स्वस्तिना पारं ॥
तस्य ते वचनं श्रुत्वा सार्थवाहस्य वाणिजा ।
समग्रा सहिता सर्वे अगमु उत्तरां दिशं ॥
ते गम्य नातिदूरं पश्यन्ति तं वाणिजा तुरगराजं ।
स्थितं सागरस्य तीरे राक्षसिनगरोत्तरे भागे ॥
उन्नामित-उत्तमांगो भाषति वाचां इमां तुरगराजा ।
को गंसति वो पारं समुद्रस्य लवणतोयस्य ।
कं स्वस्तिना नयामि कस्य मम ऋध्यतु वचनं ॥
तस्य ते वचनं श्रुत्वा हयराजस्य वाणिजा ।
अंजलिं प्रगृहीत्वान इदं वचनम् अब्रवीत्* ॥
शरणं ते प्रपद्याम सर्वे लोके हितावह ।
अस्माकं च नेहि पारं तव वचनं ऋध्यतु ॥
आह च तुरंगराजा इदानिं बालाग्रां ग्राहेत्वान ।
तूर्णं प्रपलायिष्यं एतं वो मनसि कर्तव्यं ॥
यदि युष्माकम् एवम् अस्यात्* ममैष भार्या ममैष पुत्रो वा ।
ममैष धीतरो वा अवशावशम् एष्यथ भूयो ॥
अथ युष्माकम् एवम् अस्यात्* न ममैष भार्या न ममैष पुत्रो वा ।
न ममैष धीतरो वा तं गंसथ स्वस्तिना पारं ॥
[_म्वु_3.89_] एवं समनुशासित्वा वाणिजानां हयोत्तमो ।
अनुकम्पया कारुणिको इदं वचनम् अब्रवीत्* ॥
एहि मारिष भद्रं वः वाणिजा भद्रम् अस्तु वो ।
अहं वोत्तारयिष्यामि दारुणाद् भयभैरवात्* ॥
सो वाणिजां ग्रहेत्वा प्रक्रान्तो मेदिनीयं खगपथेन ।
आकाशे निरालम्बे मरुपक्षविहंगवायुपथे ॥
देवगणा दानवगणा भुजगगणा यक्षराक्षसा भवने ।
वस्त्राणि भ्रामयेन्सुः साधु साधु महासत्व ॥
निःसंशयं भविष्यसि शास्ता नचिरेण लोकप्रद्योतो ।
तारेष्यसि जगद् इदं जरामरणसागरात् पारं ॥
येषां च एवम् आसी ममैष भार्या ममैष पुत्रो वा ।
धीता वा हयपृष्ठाद् भ्रान्ताः महिं अभितो नुदिताः ॥
येषां च तत्र आसी न ममैष भार्या न ममैष पुत्रो वा ।
न ममैष धीतरो वा ते स्वस्तिना पारम् उत्तीर्णा ॥
. . . . . . . . . . . . . . . . .
. . . . . एवम् एव इह जम्बुद्वीपे समागता ॥
ये नैव श्रद्दधिष्यन्ति वचनं धर्मराजिनो ।
व्यसनं ते निगंस्यन्ति राक्षसीहि व वणिजा ॥
ये तु पुनः श्रद्दधिष्यन्ति वचनं धर्मराजिनो ।
स्वस्तिना ते गमिष्यंति वालाहेन इव वाणिजा ॥
पूर्वेनिवासं भगवान् पूर्वेजातिम् अनुस्मरन्* ।
जातकम् इदम् आख्यासि शास्ता भिक्षूणम् अन्तिके ॥
ते स्कन्धाः ते च धातवः तानि आयतनानि च ।
[_म्वु_3.90_] आत्मानम् अधिकृत्य भगवान् एतम् अर्थं तु व्याकरे ॥
अनवराग्रस्मिं संसारे यत्र मे उषितं पुरा ।
वालाहो हं तदा आसी मंजुकेशो हयोत्तमो ।
वाणिजानां शता पंच आसि संजयितो तदा ॥
एवम् इदं अपरिमितं बहुदुःखं
उच्चनीचचरितम् इदं पुराणं ।
विगतज्वरो विगतभयो अशोको
स्वजातकं भाषति भिक्षुसंघमध्ये ॥
_____समाप्तं शारिपुत्रमौद्गल्यायनप्रमुखानां पंचानां भिक्षुशतानां राक्षसीद्वीपक्षिप्तानां जातकं ॥
अथ खलु संजयी वैरटिपुत्रो परिव्राजको राजगृहे नगरे चत्वरशृंगाटके श्रवणामुखेषु आह ॥
आगतो श्रमणो गौतमो मगधानां गिरिव्रजं ।
(सर्वे संजये) नेत्वान कं सु नाम नयिष्यति ॥
एतं प्रकरणं भिक्षू भगवतो आरोचयन्ति ॥ भगवान् आह ॥
नयन्ति वे महावीरा सद्धर्मेण तथागता ।
धर्मेण नयमानानां का असूया विजानतो ॥
भगवान् म्सम्यक्संबुद्धो यद् अर्थं समुदागतो तम् अर्थं अभिसंभावयित्वा राजगृहे विहरति शास्ता देवानां च मनुष्याणां च ॥ अश्रोषीत् खलु कपिलवास्तव्या शाक्यशाक्यायानीयः । भगवां किल प्रवृत्तप्रवरधर्मचक्रः राजगृहे विहरति देवमनुष्याणां
[_म्वु_3.91_] अर्थचर्या चरमाणो ॥ अथ खलु कपिलवास्तव्या शाक्या येन राजा शुद्धोदनो तेनोपसंक्रमित्वा राजानं शुद्धोदनम् एतद् अवोचत्* ॥ भगवान् महाराज अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो प्रवृत्तप्रवरधर्मचक्रः देवमनुष्याणां अर्थचर्यां चरन्तो राजगृहे विहरति । साधु महाराजा भगवतो दूतं प्रेषयतु । अनुकम्पिता भगवता देवमनुष्या । साधु भगवां ज्ञातीं पि अनुकंपतु ॥ राजा शुद्धोदनो आह ॥ एवम् अस्तु विसर्जियतु ॥ तेषां शाक्यानां भवति । को प्रतिरूपो भगवतो दूतो योग्यो च ॥ शाक्या आहन्सुः ॥ महाराज अयं ताव छन्दको स येव भगवतो कुमारभूतस्य उपस्थायको एतेन साधु कुमारो अभिनिष्क्रान्तो अयं पि उदायी पुरोहितपुत्रो भगवतो कुमारभूतस्य दारकवयस्यो अभूषि सहपांशुक्रीडनको । एते प्रेषियन्तु ॥ ते दानि वुच्चन्ति । छन्दककालोदायि गच्छथ राजगृहं भगवतो सकाशम् उपसंक्रमेथ भगवतो वन्दनां वदेथ च वदथ । अनुकम्पिता भगवता देवमनुष्याः साधु भ्गवां ज्ञातीं पि अनुकंपये । यं च वः भगवां जल्पेय तं कुर्याथ ॥
___ते दानि राज्ञो शुद्धोदनस्य प्रतिश्रुत्वा कपिलवास्तुतो नगरातो निर्गम्य अनुपूर्वेण राजगृहं अनुप्राप्ता वेणुवनं कलन्दकनिवापं ॥ अथ खलु छन्दककालोदायि येन भगवान्स् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थान्सु ॥ भगवान् सानं आह ॥ छन्दककालोदायि किं वो आगता ॥ ते आहन्सुः ॥ भगवन्तं कपिलवस्तुं नयिष्यामः ॥ भगवान् एतस्मिं वस्तुस्मिं एतस्मिं निदाने एतस्मिं प्रकरणे ताये वेलाये इमां धर्मपदां भाषति ॥
यस्य जितं नाथ जीवति जितं अस्य न जिनाति अन्तको ।
तं बुद्धम् अनन्तगोचरं अपदं केन पदेन नेष्यथ ॥
[_म्वु_3.92_] यस्य जालिनी समूहता तृष्णा नास्य कहिं पि नेत्रिका ।
तं बुद्धम् अनन्तविक्रमं अपदं केन पदेन नेष्यथ ॥
ते दानि भगवता वुच्यन्ति ॥ छन्दक-उदायि किं प्रव्रजिष्यथ ॥ ते दानि न प्रव्रजितुकामाः यं च राज्ञा शुद्धोदनेन सन्दिष्टा यं वो भगवां जल्पेय तं कुर्याथ पश्यन्ति च नाप्य् अत्र काषायाणि नाप्य् अत्र कल्पको यो केशश्मश्रुम् अवतारयेय ते दानि भगवतः गौरवेण अकामका आहन्सुः ॥ भगवं प्रव्रजिष्यामीति ॥ ते दानि भगवता एहिभिक्षुकाय आभाष्टा । एथ भिक्षवश् छन्दककालोदायि चरथ तथागते ब्रह्मचर्यं ॥ ते दानि भगवता एहिभिक्षुकाये आभाष्टा यत् किंचिद् गृहिलिंगं गृहिगुप्तं गृहिध्वजं गृहिकल्पन्तं सर्वं समन्तरहितं त्रिवीचरवसनं प्रादुर्भूतं सम्भकं च पात्रं प्रकृतिस्वभावसंस्थिता च केशा ईर्या च सानं संस्थिहे सय्यथापि नाम वर्षशतोपसंपन्नानां भिक्षूणां ॥ एष आयुष्मन्तानां छन्दककालोदायीनां प्रव्रज्या उपसंपदा भिक्षुभावो ॥
___भगवां दानि यतो अभिनिष्क्रान्तो यतः अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो नापि जानाति भगवां सप्तहि वर्षेहि जातिभूमिं ततःमुखनिषण्णपूर्वो अन्तमसतो श्वासप्रश्वासधर्मो पि ॥ सप्तानां वर्षाणाम् अत्ययेन कपिलवास्तव्यानां शाक्यानां पूर्वे ज्ञातिसालोहिता मनुष्येषु च्यवित्वा कुशलस्य कर्मस्य विपाकेन देवेषूपपन्नाः देवभूता भगवन्तं याचन्ति । अनुकम्पिता भगवता देवमनुष्याः साधु भगवां ज्ञातीं पि अनुकम्पतु । समयो भगवतः ज्ञातीनाम् अनुकम्पाय ॥ अधिवासेति भगवान् तासां देवतानां तूष्णीभावेन ॥ अथ खलु देवता भगवतो तूष्णीभावेन
[_म्वु_3.93_] अधिवासनां विदित्वा तुष्टा आत्तमना भगवतः पादौ शिरसा वन्दित्वा भगवन्तं प्रदक्षिणीकृत्य तत्रैवान्तरहायेन्सुः ॥ भगवता दानि जातिभूमिय अभिमुखं आसनं प्रज्ञापयितं ॥ आयुष्मां दानि उदायी भगवतो निमित्तज्ञो । तस्य एतद् अभूषि ॥ यथा भगवता कपिलवस्तु-अभिमुखं आसनं प्रज्ञापयितं ज्ञातीं भगवां अनुकम्पितुकामो ॥ सो भगवन्तं याचति ॥
इदं अविक्षिप्तमना शृणोथ
यथा जिनं अप्रतिमं अनेयं ।
निपात्य जानू शिरसापि वन्द्य
कालोदायी याचति अप्रमेयं ॥
अंगारिणो दानि (द्रुमा) भदन्त
फलेसिनो . . . . . . ।
ते अर्चिमन्तो व प्रभासयन्ति
समयो महावीर भगी रसानां ॥
वनानि फुल्लानि मनोरमाणि
समन्ततो सर्वदिशा प्रवान्ति ।
पुष्पं त्यजित्वा फलम् आदियन्ते
समयो इतो प्रक्रमितुं ते शास्तु ॥
न चातिशीतं न च अति-उष्णं
ऋतुसुखं अध्वनि ते भवेय ।
पश्यन्तु ते कोलिया शकिया च
मुखं रोहिणीम् इव तारकाणि ॥
[_म्वु_3.94_] अथ खलु भगवान् आयुष्मतो शारिपुत्रस्य भगवतो शिखिस्य चारिकां वर्णयति ॥
उदारं पुनर् अभूषि शारिपुत्र इतः पुरा ।
चारिकां प्रतिपन्नस्य शिखिस्य लोकनायके ॥
यं सो ग्रामं वा निगमं वा उपसंक्रमति नायको ।
तहिं तहिं सोपानीयं भोति अष्टांगसम्मितं ॥
यं सो ग्रामं वा निगमं वा उपसंक्रमति नायको ।
तहिं तहिं सुमनोद्यानं प्रत्युद्गच्छे चतुर्दिशं ॥
यं सो ग्रामं वा निगमं वा उपसंक्रमति नायको ।
स्थाणुष्वापुष्पिता वृक्षा संप्रवान्ति चतुर्दिशं ॥
यस्य यस्यैव वृक्षस्य मूले तिष्ठति नायको ।
सो सो मुंचति पुष्पाणि ओभासित्वा द्रुमोत्तमो ॥
यस्य यस्यैव वृक्षस्य मूले तिष्ठति नायको ।
सो सो मुंचति फलानि प्रतिपूर्णानि सर्वशो ॥
मानुष्यका च ये वृक्षा पुष्पाणि च फलानि च ।
चारिकायतनानि दृश्येन्सुः शिखिस्य लोकनायके ॥
अमानुष्या च ये वृक्षा पुष्पाणि च फलानि च ।
चारिकायतनानि दृश्येन्सुः शिखिस्य लोकनायके ॥
तत्रेयं पृथिवी कम्पे समुद्राश् च सपर्वता ।
चारिकां प्रतिपन्नस्य शिखिस्य लोकनायके ॥
मन्दारवाणि पुष्पाणि देवा संप्रकिरे तदा ।
चारिकां प्रतिपन्नस्य शिखिस्य लोकनायके ॥
महामन्दारवाणि पुष्पाणि देवा संप्रकिरे तदा ।
चारिकां प्रतिपन्नस्य शिखिस्य लोकनायके ॥
कर्कारवाणि पुष्पाणि देवा संप्रकिरे तदा ।
[_म्वु_3.95_] चारिकां प्रतिपन्नस्य शिखिस्य लोकनायके ॥
महाकर्कारवाणि पुष्पाणि देवा संप्रकिरे तदा ।
चारिकां प्रतिपन्नस्य शिखिस्य लोकनायके ॥
रोचमानानि पुष्पाणि देवाः संप्रकिरे तदा ।
चारिकां प्रतिपन्नस्य शिखिस्य लोकनायके ॥
महारोचमानानि पुष्पाणि देवाः संप्रकिरे तदा ।
चारिकां प्रतिपन्नस्य शिखिस्य लोकनायके ॥
मंजूषकानि पुष्पाणि देवाः संप्रकिरे तदा ।
चारिकां प्रतिपन्नस्य शिखिस्य लोकनायके ॥
महामंजूषपुष्पाणि देवाः संप्रकिरे तदा ।
चारिकां प्रतिपन्नस्य शिखिस्य लोकनायके ॥
भीष्माणि चापि पुष्पाणि देवाः संप्रकिरे तदा ।
चारिकां चरमाणस्य शिखिस्य लोकनायके ॥
महाभीष्माणि च पुष्पाणि देवाः संप्रकिरे तदा ।
चारिकां चरमाणस्य शिखिस्य लोकनायके ॥
समन्तगन्धानि पुष्पाणि देवाः संप्रकिरे तदा ।
चारिकां चरमाणस्य शिखिस्य लोकनायके ॥
महासमन्तगंधानि पुष्पाणि देवाः संप्रकिरे तदा ।
चारिकां चरमाणस्य शिखिस्य लोकनायके ॥
पारिजातानि पुष्पाणि देवाः संप्रकिरे तदा ।
चारिकां चरमाणस्य शिखिस्य लोकनायके ॥
सुवर्णकानि पुष्पाणि देवाः संप्रकिरे तदा ।
चारिकां चरमाणस्य शिखिस्य लोकनायके ॥
रूप्यमयानि पुष्पाणि देवाः संप्रकिरे तदा ।
चारिकां चरमाणस्य शिखिस्य लोकनायके ॥
[_म्वु_3.96_] रत्नामयानि पुष्पाणि देवाः संप्रकिरे तदा ।
चारिकां चरमाणस्य शिखिस्य लोकनायके ॥
चन्दनस्य च चूर्णानि देवाः संप्रकिरे तदा ।
चारिकाञ् चरमाणस्य शिखिस्य लोकनायके ॥
अगुरुस्य च चूर्णानि देवाः संप्रकिरे तदा ।
चारिकां चरमाणस्य शिखिस्य लोकनायके ॥
केशरस्य च चूर्णानि देवाः संप्रकिरे तदा ।
चारिकां चरमाणस्य शिखिस्य लोकनायके ॥
तमालपत्रचूर्णानि देवाः संप्रकिरे तदा ।
चारिकां चरमाणस्य शिखिस्य लोकनायके ॥
दिव्यरतनचूर्णानि देवाः संप्रकिरे तदा ।
चारिकां चरमाणस्य शिखिस्य लोकनायके ॥
तूर्यकोटीसहस्राणि संप्रवाद्येन्सु अम्बरे ।
चारिकां चरमाणस्य शिखिस्य लोकनायके ॥
अन्तरीक्षस्मिं भेरीयो संप्रवाद्येन्सु अघट्टिताः ।
चारिकां चरमाणस्य शिखिस्य लोकनायके ॥
चैलक्षेपाणि अकरेन्सु अन्तरीक्षे स्थिता मरू ।
चारिकां चरमाणस्य शिखिस्य लोकनायके ॥
नागराजा सुपर्णा च अभिक्रान्ता च मानुषाः ।
चारिकां चरमाणस्य शिखिस्य लोकनायके ॥
इमे पि बहवो यक्षा वर्णवन्तो यशस्विनः ।
चारिकाम् अनुबन्धेन्सु शिखिस्य लोकनायके ॥
षडाशीति सहस्राणि गृहपतीनां समागताः ।
[_म्वु_3.97_] चारिकाम् अनुबन्धेन्सु चरन्ते लोकनायके ॥
न तत्र क्षुधा पिपासा वा नापि च हानि वर्णिता ।
चारिकां चरमाणस्य शिखिस्य लोकनायके ॥
न तत्र शीतम् उष्णं वा दंशा वा मशका पि वा ।
चारिकां चरमाणस्य शिखिस्य लोकनायके ॥
सो चारिकां चरित्वान विनयित्वा बहूं जनां ।
संबुद्धो परिनिर्वाये ऋषी क्षीणपुनर्भवो ॥
अथ खल्व् आयुष्मां शारिपुत्रो उत्थायासनातो एकांसम् उत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठापयित्वा येन भगवांस् तेनांजलिं प्रणामयित्वा भगवन्तम् एतद् अवोचत्* ॥ भगवान् अपि भगवतो शिखिस्य समशीलो समप्रज्ञो बलेहि वैशारद्येहि बुद्धधर्मेहि । भगवतो पि एदृशा येव चारिका भविष्यति यथापि भगवतो शिखिस्य ॥ भगवां चारिकां चरे बहुजनहिताय बहुजनसुखाय लोकानुकंपाये महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥
ततो करित्वा एकांसं प्रणामेत्वान अंजलिं ।
चारिकान् तत्र याचेसि शरिपुत्रो तथागतं ॥
एतस्य दानि समयो यं दानि भगवां पि हि ।
चारिकां प्रक्रमे शास्ता अनुकंपाय प्राणिनां ॥
याचिता भावितधर्मा शरीरान्तिमचारिणो ।
प्रकरेयु अवकाशं अनुकंपाय प्राणिनां ॥
इतो हम् अर्धमासेन करित्वान उपोषधं ।
[_म्वु_3.98_] चारिकां प्रक्रमिष्यामि अनुकंपाय प्राणिनां ॥
ततो च अर्धमासेन तं कृत्वान उपोषधं ।
चारिकां प्रक्रमे शास्ता अनुकंपाय प्राणिनां ॥
यं सो ग्रामं वा निगमं वा उपसंक्रमति गौतमः ।
तहिं तहिं समरुजा प्रत्युपेन्ति चतुर्दिशं ॥
यं सो ग्रामं वा निगमं उपसंक्रमति गौतमः ।
स्थानस्य पुष्पिता वृक्षा संप्रवान्ति चतुर्दिशं ॥
यस्य यस्यैव वृक्षस्य मूले तिष्ठति गौतमो ।
सो सो मुंचति पुष्पाणि ओनमित्वा द्रुमोत्तमो ॥
यस्य यस्यैव वृक्षस्य मूले तिष्ठति गौतमो ।
सो सो मुंचति फलानि प्रतिपूर्णानि सर्वशो ॥
मानुषका च ये वृक्षा पुष्पाणि च फलानि च ।
चारिकान् तानि दृश्येन्सु चरन्ते लोकनायके ॥
अमानुषा च ये वृक्षा पुष्पाणि च फलानि च ।
चारिकां तानि दृश्येन्सु चरन्ते लोकनायके ॥
ततो यं पृथिवी कम्पे ससमुद्रा सपर्वता ।
चारिकां प्रतिपन्नस्य चरन्ते लोकनायके ॥
मन्दारवाणि पुष्पानि देवाः संप्रकिरे तदा ।
चारिकां प्रतिपन्नस्य चरन्ते लोकनायके ॥
महामन्दारवां पुष्पां देवास् संप्रकिरे तदा ।
चारिकां प्रतिपन्नस्य चरन्ते लोकनायके ॥
कर्कारवाणि पुष्पाणि देवाः संप्रकिरे तदा ।
चारिकां प्रतिपन्नस्य चरन्ते लोकनायके ॥
[_म्वु_3.99_] महाकर्कारवां पुष्पां देवाः संप्रकिरे तदा ।
चारिकां प्रतिपन्नस्य चरन्ते लोकनायके ॥
रोचमानानि पुष्पाणि देवाः संप्रकिरे तदा ।
चारिकां प्रतिपन्नस्य चरन्ते लोकनायके ॥
महारोचमानानि पुष्पाणि देवाः संप्रकिरे तदा ।
चारिकां प्रतिपन्नस्य चरन्ते लोकनायके ॥
मंजूषकाणि पुष्पाणि देवास् संप्रकिरे तदा ।
चारिकां प्रतिपन्नस्य चरन्ते लोकनायके ॥
महामंजूषपुष्पाणि देवा संप्रकिरे तदा ।
चारिकां प्रतिपन्नस्य चरन्ते लोकनायके ॥
भीष्माणि च पुष्पाणि देवास् संप्रकिरे तदा ।
चारिकां चरमाणस्य चरन्ते लोकनायके ॥
महाभीष्माणि च पुष्पाणि देवास् संप्रकिरे तदा ।
चारिकाञ् चरमाणस्य चरन्ते लोकनायके ॥
समन्तगंधानि पुष्पाणि देवस् संप्रकिरे तदा ।
चारिकां चरमाणस्य चरन्ते लोकनायके ॥
महासमन्तगंधानि पुष्पाणि देवाः संप्रकिरे तदा ।
चारिकां चरमाणस्य चरन्ते लोकनायके ॥
परिजातानि पुष्पाणि देवाः संप्रकिरे तदा ।
चारिकां चरमाणस्य चरन्ते लोकनायके ॥
सुवर्णमयानि पुष्पाणि देवाः संप्रकिरे तदा ।
चारिकां चरमाणस्य चरन्ते लोकनायके ॥
रूप्ययानि पुष्पाणि देवाः संप्रकिरे तदा ।
[_म्वु_3.100_] चारिकां चरमाणस्य चरन्ते लोकनायके ॥
रत्नमयानि पुष्पाणि देवाः संप्रकिरे तदा ।
चारिकां चरमाणस्य चरन्ते लोकनायके ॥
चन्दनस्य च चूर्णानि देवाः संप्रकिरे तदा ।
चारिकां चरमाणस्य चरन्ते लोकनायके ॥
अगुरुस्य च चूर्णानि देवाः संप्रकिरे तदा ।
चारिकां चरमाणस्य चरन्ते लोकनायके ॥
केशरस्य च चूर्णानि देवाः संप्रकिरे तदा ।
चारिकां चरमाणस्य चरन्ते लोकनायके ॥
तमालपत्रचूर्णानि देवास् संप्रकिरे तदा ।
चारिकां चरमाणस्य चरन्ते लोकनायके ॥
दिव्या च रत्नचूर्णानि देवास् संप्रकिरे तदा ।
चारिकां चरमाणस्य चरन्ते लोकनायके ॥
तूर्यकोटिसहस्राणि संप्रवाद्येन्सु अम्बरे ।
चारिकां चरमाणस्य चरन्ते लोकनायके ॥
अन्तरीक्षस्मिं भेरीयो संप्रवाद्येन्सु अघट्टिता ।
चारिकां चरमाणस्य चरन्ते लोकनायके ॥
चैलक्षेपाणि करेन्सु अन्तरीक्षे स्थिता मरू ।
चारिकां चरमाणस्य चरन्ते लोकनायके ॥
नागराजा सुपर्णा च अभिक्रान्ता च मानुषाः ।
चारिकां चरमाणस्य चरन्ते लोकनायके ॥
इमे पि बहुवो यक्षा वर्णवन्तो यशस्विनः ।
चारिकाम् अनुबन्धेन्सु चरन्ते लोकनायके ॥
इमे पि बहवो देवाः वर्णवन्तो यशस्विनः ।
[_म्वु_3.101_] चारिकाम् अनुबन्धेन्सु चरन्ते लोकनायके ॥
त्रिसाहस्रा विभू देवा वर्णवन्तो यशस्विनः ।
चारिकाम् अनुबन्धेन्सु चरन्ते लोकनायके ॥
षडाशीति सहस्राणि ब्राह्मणानां समागता ।
चारिकाम् अनुबन्धेन्सु चरन्ते लोकनायके ॥
षडाशीति सहस्राणि गृहपतिनां समागता ।
चारिकाम् अनुबन्धेन्सु चरन्ते लोकनायके ॥
न तत्र क्षुधा पिपासा नापि च हानि वर्णिता ।
चारिकां चरमाणस्य चरन्ते लोकनायके ॥
न तत्र शीतम् उष्णं वा दंशा वा मसकानि वा ।
चारिकां चरमाणस्य चरन्ते लोकनायके ॥
सो चारिकां चरित्वान विनेत्वा च बहूं जनां ।
उपागमे लोकनाथो शाक्यानां कपिलाह्वयं ॥
___अथ भगवां न्यग्रोधारामे विहरति महता भिक्षुसंघेन सार्धं अष्टादशभिर् भिक्षुशतेहि ॥ अश्रोषी राजा शुद्धोदनो भगवान् कोशलेषु चारिकां चरमाणो महता भिक्षुसंघेन सार्धम् अष्टादशभिर् भिक्षुशतेहि येन कोशलानां नगरं तद् अनुसारे तद् अनुप्राप्तो तत्रैव विहरति न्यग्रोधारामे ॥ ते दानि सर्वे कपिलवास्तव्याः शाक्या शाक्ययिन्यश् च भगवतो दर्शनकामाः स्वकस्वकानि युग्ययानानि योजयन्ति । भगवतो दर्शनाय गमिष्यामः ॥ अश्रोषीत् खलु राजा शुद्धोदनो कपिलवास्तव्याः शाक्या शाक्ययिन्यश् च स्वकस्वकानि युग्ययानानि योजापयन्ति । न्यग्रोधारामं
[_म्वु_3.102_] गमिष्यामः भगवन्तं दर्शनाय ॥ तेन दानि कपिलवस्तुस्मिं घोषणा कारापिता ॥ न केनचित् प्रथमं भगवतो उपसंक्रमितव्यं । सर्वेहि मया सार्धं न्यग्रोधारामं गन्तव्यं भगवन्तं दर्शनाय ॥
___अथ खलु राजा शुद्धोदनो सार्धं सर्वकेनान्तःपुरेण यशोधराप्रमुखेन सार्धं कुमारामात्येहि च सार्धं शाक्येहि सपरिवारेहि सार्धं धनुग्रहरथाश्वारोहेहि सार्धं वणिजसार्थवाहेहि सार्धं श्रेष्ठिप्रमुखेहि निगमेहि महता राजानुभावेन महता राजर्द्धीये कपिलवस्तुतो नगरातो निर्यासि भगवन्तं दर्शनाय ॥ राजा शुद्धोदनो कपिलवस्तुतो चतुर्घोटेन अश्वरथेन निर्धावति शाकियमण्डलपरिवृतो न्यग्रोधारामं भगवन्तं दर्शनाय । भिक्षुसंघो च कपिलवस्तुनगरं पिण्डाय प्रविशति । राज्ञा शुद्धोदनेन भिक्षुसंघो दृष्टो ॥ सो दानि अमात्यानां पृच्छति ॥ भो भणे अमात्या किं इमान् एदृशा परिव्राजका ॥ अमात्या आहन्सुः ॥ देव कुमारस्य एषो परिवारो ॥ सो दानि तां कृशशरीरां भिक्षू ऋषिप्रव्रजितां उरुविल्वाकाश्यपनदीकाश्यपगयाकाश्यपशारिपुत्रमौद्गल्यायना च सपरिवारा तपतपितशरीरां मुण्डा पात्रपाणीं दृष्ट्वा परिदीनमुखवर्णो संवृत्तो ॥ मम पुत्रो यदि न प्रव्रजिष्यति राजा भविष्यति चक्रवर्ती चातुर्द्वीपो विजितावी धार्मिको धर्मराजा सप्तरत्नसमन्वागतो राजसहस्रपरिवृतो मेदिनीम् अध्यावसिष्यत्* ॥ इमम् एदृशं परिवारं निवर्तेथ अहं न तं इच्छामि द्रष्टुं ॥ ते दानि भिक्षू अमात्येहि वुच्चन्ति ॥ राजा वो न द्रष्टुकामो निवर्तेथ ॥ ते दानि निवर्तित्वा न्यग्रोधारामं गताः ॥ न मो भगवन् राजा शुद्धोदनो इच्छति द्रष्टुं । अस्माकं च दृष्ट्वा प्रतिनिवर्तितो ॥ भगवान् आह ॥ इमहिं एव सर्वस्य भिक्षुसंघस्य आहारं भविष्यति ॥ उरुविल्वाकाश्यपो भगवन्तम्
[_म्वु_3.103_] आमन्त्रयति ॥ गच्छामि भगवन् राजानं शुद्धोदनं निवर्तेमि ॥ भगवान् नाधिवासेति ॥ नदीकाश्यपो पि गयाकाश्यपो पि उपसेनो पि सर्वे ते महर्द्धिका भिक्षू भगवन्तं याचेन्ति ॥ गच्छाम भगवन् राजानं शुद्धोदनं प्रसादेमः यथा भगवन्तम् उपसंक्रमेय ॥ भगवान् तेषां पि नाधिवासेति ॥
___अथ खल्व् आयुष्मतो महामौद्गल्यायनस्य एतद् अभूषि ॥ कं भगवान् आकांक्षति भिक्षुं यो राजानं शुद्धोदनम् अभिप्रसादेया ॥ अन्द्राक्षीत्* महामौद्गल्यायनो दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेन भगवतो चित्तं कालोदायिस्मिं भिक्षुस्मिं प्रतिष्ठितं । कालोदायी भिक्षु राजानं शुद्धोदनम् अभिप्रसादयिष्यति ॥ दृष्ट्वा च पुनः येनायुष्मां कालोदायी तेनोपसंक्रमित्वा आयुष्मतो कालोदायिस्य एतद् उवाच ॥ लाभा ते आयुष्मं उदायि सुलब्धा लाभा यस्य ते शास्ता आकांक्षति उदायी भिक्षु राजानं शुद्धोदनं अभिप्रसादयिष्यति । अस्ति अन्ये स्थविरस्थविरा भिक्षू याचन्ते न लभन्ति । त्वं गच्छ आयुष्मन्* उदायि राजानं शुद्धोदनं अभिप्रसादेहि ॥ एवम् उक्ते आयुष्मां कालोदायी आयुष्मन्तं महामौद्गल्यायनम् एतद् उवाच ॥ दुरासदा आयुष्मं महामौद्गल्यायन राजानः क्षत्रिया मूर्ध्नाभिषिक्ता जनपदस्थामवीर्यप्राप्ता ॥ सय्यथापि नामायुष्मं महामौद्गल्यायन समिद्धो महाग्निस्कन्धो पुरुषस्य दुरासदो भवति उपसंक्रमणाय एवम् एवायुष्मं महामौद्गल्यायन राजानो क्षत्रिया मूर्ध्नाभिषिक्ता जनपदस्थामवीर्यप्राप्ताः दुरासदा उपसंक्रमणाय ॥ सय्यथापि नामायुष्मं महामौद्गल्यायन कुञ्जरो षष्टिहायनो दुरासदो भवति उपसंक्रमितुं एवम् एवायुष्मं महामौद्गल्यायन क्षत्रिया मूर्ध्नाभिषिक्ता जनपदस्थामवीर्यप्राप्ताः दुरासदा उपसंक्रमणाय ॥ सय्यथापि नामायुष्मं महामौद्गल्यायन सिंहो मृगराजो दाठी बली केशरी मृगाधिपतिर्
[_म्वु_3.104_] दुरासदो भवति पुरुषस्योपसंक्रमणाय एवम् एवायुष्मं महामौद्गल्यायन राजानः क्षत्रिया मूर्ध्नाभिषिक्ता जनपदस्थामवीर्याप्राप्ताः पुरुषसिंहा दुरासदा भवन्ति उपसंक्रमणाय ॥ सय्यथापि नामायुष्मं महामौद्गल्यायन शार्दूलो ओलीनकायो गुरुदर्शनो दुरासदो भवति पुरुषस्य उपसंक्रमणाय एवम् एवायुष्मन् महामौद्गल्यायन क्षत्रिया राजानो मूर्ध्नाभिषिक्ता जनपदस्थामवीर्यप्राप्ताः पुरुषशार्दूला दुरासदा भवन्ति उपसंक्रमणाय ॥ अथ खलु भगवान् आयुष्मन्तं कालोदायिं गाथाय अध्यभाषे ॥
शृणु मम उदायिभद्रा परमकुशलप्रसादानां त्वम् अग्रो ।
शाक्यकुलनन्दिजननं राजवरं लघु प्रसादेहि ॥
न हि अन्यो कोचि भिक्षु समर्थो राज्ञो प्रसादयितुं चित्तं ।
नान्यत्र त्वया उदायि सभागचरितेन भगवतो ॥
भूतपूर्वं उदायि अतीतम् अध्वानम् अभू भूमिपती ।
नामेन सत्यवर्धनो विघुष्टशब्दो धरणिपालो ॥
धार्मिको धर्मराजा संपूजितः प्राणकोटिनयुतेहि ।
धर्मेण इमां वसुमतिं समुद्रपर्यंतां अनुशासे ॥
तस्य च अभूषि राज्ञो पुत्रो दर्शावी पूर्वबुद्धानां ।
मूल पाठ: Mahāvastu-avādana · Edition: Émile Senart, 3 vols., Paris 1882-1897. Cf. also : Emmanuel Faure, B. Oguibénine, M. Yamazaki, and Y. Ousaka Mahāvastu-avādana, vol.I: word index and reverse word index Tokyo 2003 (Philologica Asiatica, Monograph Series 20) The Chuo Academic Research Institute (Tokyo, 2003 (July)) · Data entry Emmanuel Fauré · GRETIL (Göttingen) · CC BY-NC-SA 4.0