भाषा

ENहिગુ
ग्रंथ पाठ

महावस्तु-अवादन · भाग 221240

[_म्वु_2.405_] वैहायसे तिष्ठसि अन्तरीक्षे
वेगप्रमत्तो मृगमण्डलीव ।
नमस्यन्तो प्रांजलि वन्दमानो
तं वन्दनीयं इह त्वं नमस्यसि ॥
अहं वो ईश्वरो राजा विचेता सर्वप्राणिनां ।
सुखदुःखस्य विद्वांसो लोके पर्यायकोविदु ॥
यवा ते यौवनं वीर आरोग्यं च महायश ।
भुंज मानुष्यका कामां पितुर् निवेशने वस ॥
महीं रम्यां आवसेहि स्फीतां उदधिमण्डलां ।
महायज्ञानि यजमानो राज्यं कारेहि गौतम ॥
अश्वमेधं पुरुषमेधं पुण्डरीकं निरर्गडं ।
एतां यज्ञां यजित्वान होहिसि अमरो मरु ॥
एतां यज्ञा यजित्वान त्रायस्त्रिंशा स-इन्द्रिका ।
मोदन्ति कामकानां . . . . . . . . . . . . . ॥
एवं त्वं हि मार्ष क्रुहि करोहि वचनं मम ।
मा आगामिके विहन्याहि हित्वा सांदृष्टिकं फलं ॥
इमां गाथां भणे मारो बोधिसत्वस्य सन्तिके ।
तथावादिनं च मारं बोधिसत्वो ध्यभाषति ॥
प्रमत्तबुद्धि पापीमं कस्य अर्थं इहागतः ।
नैव त्वं ईश्वरो राजा न ब्रह्मा न प्रजापतिः ॥
[_म्वु_2.406_] सच त्वम् ईश्वरो अस्या न मे याचेसि प्रांजलि ।
सुसमृद्धापि या जातिः हीनोत्कृष्टा च मध्यमा ।
तां नाहं अभिनन्दामि अनपेक्षो स्मि ते पि हि ॥
सुसमृद्धा पि ये कामा हीनौत्कृष्टमध्यमा ।
ते प्य् अहं नाभिनन्दामि अनपेक्षो स्मि ते पि हि ॥
ये पिमे पंच कामगुणा लोकस्य सुखसम्मता ।
ते प्य् अहं नाभिनन्दामि अनपेक्षो स्मि ते पि हि ॥
नागो यथा पाशं भित्त्वा दारयित्वा च बन्धना ।
गच्छति येनकामो व . . . . . . . . . . . . . . . ॥
छित्त्वा गृहबन्धनानि गंसामि अहं पुरं वरं ।
अहो धर्मम् उदीरयेन्सुः हृष्टप्रमुदिता नभे ॥
पुनर् मारो येन बोधियष्टिस् तेनोपसंक्रमित्वा उपरिवैहायसं अन्तरीक्षे अस्थासि ॥ बोधिसत्वो तं आह ॥ कस् त्वं ॥ मारो आह ॥
अहम् ईश्वरो मदकरो मरुमानुषाणां
मह्यं सुरासुरवरो विषयानुवासी ।
संसारपंजरगता मदनाभिभूता
कामातुरा मुच्यन्ति मृत्युपाशा ॥
तं वाचया मधुरया परमार्थदर्शी
मारं ब्रवीत महिमण्डगतो महर्षि ।
आकल्पकोटि कुशलोघसमन्वितस्य
[_म्वु_2.407_] वचनं नरर्षभरुतं नरपुंगवस्य ॥

चित्तशूरो सि यदि तवेश्वरत्वं
कामेश्वरो सि यदि व्यक्तम् अनीश्वरो सि ।
कामातुरा हि स्त्रीणां मनुजेन्द्रगर्भ
पंके पतन्ति मणिरत्नविलम्बिचूडा ॥
तेषान् तथा निपतितान महीश्वराणां
पृष्ठे पतन्ति पुरुषाण स्त्रियो ललन्त्यः ।
ते कामरागमदवेगयुता हसन्ति
तस्मिं क्षणस्मिं प्रमदा यमदासभूता ॥
सो दासताम् उपगतो प्रमदाजनस्य
ऐश्वर्यतां वदसि पश्य यथासि मूढो ।
कामातुरस्य हि न विद्यति ईश्वरत्वं
नाभू न चापि भविता इति निश्चितं मे ॥
सो हं तवाद्य सबलं यधि निर्जिनित्वा
अरुणोदये प्रतिभाते भवितास्मि बुद्धो ।
सिंहासनम् अनुगतो हि न कश्चि कृष्ण
उत्तिष्ठते चरमदेहगतो अबुद्धो ॥
मारो आह ।
किं गर्जसे द्रुमवरस्मि सुखं निषण्णो
न हि ताव पश्यसिह योध्यसहस्रमालिं ।
सेनां पिशाचबहुराक्षसयक्षसंघां
[_म्वु_2.408_] चतुरंगिनीं मुदितां बहुमन्त्रयन्त्रां ॥
बोधिसत्व आह ॥
यदि मारकोटिनयुतानि समागमेन्सुः
कुशलौघसंचयसंचितनरर्षभस्य ।
रोमं न इंजेय कुतो तुवं कृष्णबन्धु
प्रतिगच्छ किं विलपेसि निरर्थकेन ॥
मारो बोधिसत्वेन क्षिप्तो स्वकं भवनं गत्वा परिवारस्य आचिक्षति ॥ एषो मारिष बोधिसत्वो बोधिमण्डे निषण्णो अनुत्तरां सम्यक्संबोधिम् अभिसंबोधितुकामो । सो स्थानातो च्यावयितव्यः मा मम विषयातो बहुजनकायम् अतिक्रामयिष्यति ॥ तस्य दानि जनीसुतो नाम पुत्रो आह ॥ तात मा नं अन्तरायं करोहि अनुत्तराये सम्यक्संबोधये अभिसंबुध्यतु । यादृशं मे अधिगतं गर्भोक्रमणं च जाति च अभिनिष्क्रमणं च यथा च बोधिमण्डे उपसंक्रम्य निषण्णो अद्यैष अनुत्तरां सम्यक्संबोधिं । अभिसंबुद्धिष्यति । नास्ति सो सत्वो वा सत्वकायो वा बोधिसत्वस्य समर्थो अनुत्तराये सम्यक्संबोधये अन्तरायं कर्तुं ॥
निषण्णो सिंहो यथ दुष्प्रधर्षो
ओभासयित्व दिशां वृक्षमूले ।
न चैतद् अस्माकं कदाचि रोचति
यं एवरूपं ऋषिम् आक्रमेसि ॥
शीलेन क्षान्तीये तपेन चैव
उपेतो सर्वपरमां गतिं गतो ।
[_म्वु_2.409_] सो एवरूपो समुच्छ्रितध्वजो
गजो यथा भेत्स्यति आत्मबन्धं ॥
पश्य तुवं सर्वद्विपाद-उत्तमं तं
चन्द्रो यथा विभाति पूर्णमास्ये ।
कथं हि चित्तं क्रमते अबुद्धि
यो एवरूपां लभते विहेठां ॥
अंगारकर्षूं प्रपतेय न कोचि

आशीविषं पि स्पृशे नो करेण ।
जात्यन्धो त्रस्तो शुनखेहि पृष्ठे
सो अन्धकूपे प्रपते अचक्षुः ॥
एवं इमे भोन्ति परीत्तचेतसो
मन्त्रो च नो अस्ति तथाविधानां ।
ये एवरूपं परिशुद्धगोचरं तं
अश्रद्दधाना प्रपतन्ति अचक्षुषो ॥
सचेवं एतं वचनं न गृह्णथ
मार्गस्थ उन्मार्गगता स्मरिष्यथ ।
पलायमाना दिशता चतुर्दिशं
यथापि . . . . भ्रष्ट क्रोष्टुको ॥
कालो अमात्यो गाथां भाषति ॥
सर्वो स्वकार्थस्मि समुच्छ्रितस्मिं
सम्मोहम् आसन्नो विसंज्ञबुद्धिः ।
[_म्वु_2.410_] यथा अयं देव असंप्रतीतो
मतिं अयुक्तां करुते जनीसुतः ॥
ततो मारो महासन्नाहं सन्नहित्वा आगतो बोधिसत्वसमीपं ॥ बोधिसत्वेन च उक्कासितशब्देन भग्नो ॥ पुनः मारो महासन्नाहं सन्नहित्वा बोधिमण्डे बोधिसत्वसमीपम् आगतः महतीये चतुरंगिनीये सेनाये कुम्भाण्डयक्षराक्षसवतीये ॥ समन्ता त्रिंशद्योजनां स्फुरित्वा हयसहस्रयुक्तवाहनं अभिरुहि चित्रचापधरो सन्नद्धकवचितो उच्छ्रितध्वजपताकः अनेकभेरीमृदंगमरुपटहपणवशंखसंनिनादेन किलिकिलप्रक्ष्वेडितशब्दानि प्रमुंचमानाये भैरवाये विकृताये भूतगणसेनाये संपरिवृतो ॥ तद्यथा ॥ अन्ये अश्वमुखा अन्ये उष्ट्रमखा अन्ये गर्दभमुखा अन्ये अजमुखा अन्ये मेण्डमुखा अन्ये मृगमुखा अन्ये सिंहमुखा अन्ये व्याघ्रमुखा अन्ये द्वीपिमुखा अन्ये ऋक्षमुखा अन्ये श्वानमुखा अन्ये सूकरमुखा अन्ये विडालमुखा अन्ये काकमुखा अन्ये कुक्कुटमुखा अन्ये गृध्रमुखा अन्ये कुररमुखा अन्ये अशीर्षका कबन्धा अन्ये एकशिरा अन्ये बहुशिरा अन्ये द्विशिरा अन्ये अचक्षुषो अन्ये चैकचक्षुषो अन्ये अहस्तका अन्ये अपादका अन्ये अबाहुका अन्ये दशबाहुका अन्ये असिधरा अन्ये शक्तिधरा अन्ये तोमरधरा अन्ये भिण्डिपालधरा अन्ये शूलधरा अन्ये त्रिशूलधरा अन्ये हलधरा अन्ये चक्रधरा अन्ये मुशलधरा अन्ये मुद्गरधरा अन्ये परशुधरा अन्ये खड्गधरा अन्ये करंकधरा । अन्ये मुखतो ऽग्निं वमन्ति अन्ये सर्पां वमन्ति अन्ये क्षुरपर्यन्ता चक्रान् उपरि अन्तरीक्षे भ्रामयन्ति ॥ अन्ये पादेन हस्तिनागं गृह्य बोधिसत्वं अभिद्रवन्ति ।
[_म्वु_2.411_] अन्ये उष्ट्रं गृह्य अन्ये अश्वं गृह्य अन्ये गर्दभं गृह्य अन्ये कबन्धं गृह्य अन्ये करंकां गृह्य अन्ये आशीविषं गृह्य अन्ये सिंहां गृह्य अन्ये व्याघ्रां गृह्य अन्ये द्वीपीं गृह्य अन्ये ऋक्षां गृह्य अन्ये गवयां गृह्य अन्ये महिषां गृह्य अन्ये शीर्षकरोटीं गृह्य अन्ये पर्वतकूटानि गृह्य अन्ये समूलानि वृक्षाणि गृह्य । अन्ये अन्तरीक्षा च अंगारवर्षं पातयन्ति अन्ये आशीविषवर्षाणि पातेन्ति अन्ये उपलवर्षाणि पातेन्ति । अन्ये हस्तिषु अभिरूढा अन्ये अश्वेषु अन्ये उष्ट्रेषु अन्ये महिषेषु अन्ये गर्दभेषु गवयेषु अन्ये मृगेषु अन्ये सूकरेषु अभिरूढा बोधिसत्वम् अभिद्रवन्ति ॥ नापि बोधिसत्वस्य रोमस्यापि इंजितत्वं चित्तस्य वा अन्यथात्वं ॥
अथ स सगवयाश्वरथो खो बहुहयवारणयुक्तां सेनां ।
अभिनिर्मिणीयभियासि येन बोधिसत्वासनं श्रेष्ठं ॥
सो हयसहस्रयुक्तं वाहनम् अभिरुह्य चित्रचापधरो ।
वाचाम् उग्राम् उदीरये हनथ हनथ गृह्णथ नं शीघ्रं ॥
कुंजरखरश्ववदना उष्ट्रमुखा मुषलपाणिनो रौद्रा ।
राक्षसगणा प्रतिभयं भ्रमन्ति यतो सौ अरिनिघाती ॥
अपराणि कबन्धानि आशीविषकानि रुहन्ति मेदिन्यां ।
इमं हनथ इमं गृह्णथ रवन्ति आर्त्तस्वरं घोरं ॥
अपरे मुखतो सर्पान् अग्निं विषं च वमन्ति . . . ।
पादेन गृह्य गजेन्द्रम् अभिद्रवन्ति पिशाचगणाः ॥
[_म्वु_2.412_] पर्वतशृंगानपर उग्गिरमाना अभिद्रवन्ति मुनिं ।
अंगारवर्षम् अपरे वर्षन्ति नभे पिशाचगणाः ॥
क्षुरपर्यन्ता अपरे भ्रमेन्ति चक्राणि अन्तरीक्षगता ।
गगणे च चटचटायति असनिर्घोरां करोति शब्दं ॥
अथ खलु बोधिसत्वेन त्रिष्कृत्यो शिरं परामृष्य त्रिष्कृत्यो पर्यंकं परामृष्य दक्षिणेन हस्तरतनेन सुविचित्रराजिकेन लाक्षारसप्रसेकवर्णेन मृदुना तूलसंस्पर्शोपमेन ताम्रनखेन अनेककल्पकोटीकुशलमूलसमन्वागतेन पृथिवी संपराहता प्रनदे गम्भीरं सुक्ष्मरूपं अनुनदे अनुरणे । सय्यथापि नाम मागधिका कंसपात्री पर्वतशृंगे संपराहता गम्भीररूपं अनुनदे अनुरणे एवम् एव बोधिसत्वेन दक्षिणेन हस्तरतनेन ताम्रनखेन सुविचित्रराजिकेन लाक्षारसप्रसेकवर्णेन मृदुना तूलसंस्पर्शोपमेन अनेककल्पकोटीकुशलमूलसमन्वागतेन पृथिवी पराहता तेन च पृथिवीशब्देन भिज्जे लुज्जे प्रलुज्जे परिणमे ॥ हस्तिनो पि सानं सीदेन्सुः अश्वा पि सानं सीदेन्सुः रथा पि सानं सीदेन्सुः पादा पि सानं सीदेन्सुः हस्ता पि सानं सीदेन्सुः प्रहरणा पि प्रपतेन्सुः दिशा पि सानं उज्झ्येन्सुः अतीर्थेनापि नदीं नैरंजनां प्रपतेन्सुः । अन्ये वामेन पार्श्वेन प्रपतेन्सुः अन्ये दक्षिणेन पार्श्वेन प्रपतेन्सुः अन्ये उत्तानका प्रपतेन्सुः अन्ये पादेहि प्रपतेन्सुः अन्ये जानुकेहि प्रपतेन्सुः अन्ये ओमूर्धका प्रपतेन्सुः अन्ये अवकुब्जका प्रपतेन्सुः भीता त्रस्ता परस्परम् उत्क्रोशमाना ॥
सो करेण मृदुतूलुपमेन
आहनेय धरणीं द्विपदेन्द्रो ।
[_म्वु_2.413_] कम्पे मेदिनी ससागरशैला
तेन भग्ना च चमुः नमुचिस्य ॥
सो च जहे तदा बोधिसमीपं
बोधिसत्वतेजेन ते चरन्तो ।
अनेकतुरगवारणयोधा

वगाढा नैरंजनां नाम तीर्थं ॥
पतितमथिताश्वरथशस्त्रः
मारो सराक्षसगणो दिशां च ।
अप्रजानन्तो नैरंजननाम
प्रत्योतीर्णो विगतशस्त्रो तीर्थं ॥
योजनसहस्रमात्रं पलाना
ऋद्धिबलेन रक्षसेना त्रस्ता ।
तथापि नो चाभया प्रकंपन्ति
जीवाथ दिष्ट्या स्म संशयमुक्ता ॥
अन्ये रक्षगणाः कण्ठावलग्ना
प्ररोदन्ति च मन्दारवां च ।
देवा प्रवर्षेन्सु कर्कारवां च
हृष्टमना वाचम् उदीरयन्ति ॥
विजयो पार्थिवस्य गगणे च
दुन्दुभिशब्दो हिक्कारनदो च ।
[_म्वु_2.414_] निर्नदे त्रैलोक्ये प्रविधुतं च
नभं विमलं शास्तु विजयस्मिं ॥
देवपुत्रो देवलोकं गत्वा आह ॥
यो सौ भावो सत्पुरुषोत्तमस्य
नैरंजनातीरम् उपहतस्य ।
न शक्यं तद् वर्षशतेहि वक्तुं
प्रदेशमात्रं परिकीर्तयिष्यं ॥
दृष्टो मे जाम्बूनदकाञ्चनाभो
व्योमप्रभो लक्षणचित्रगात्रो ।
संप्रस्थितो एकचरो अभूषि
नैरञ्जना याव च बोधिमण्डो ॥
सो ते क्रमां पद्मदलप्रकाशां
यथा यथा निक्षिपते महीयं ।
तथा तथा कम्पति साभिरामा
अनेकघोषाभिरता वसुधरा ॥
दृष्टा मे मारस्य चमू समागता
समन्ततो यक्षसहस्रकोट्यो ।
करोति त्रासं हृदयं प्रकम्पे
न सत्वसारस्य करोन्ति इञ्जनां ॥
न चास्य भावं पृथिवीय ज्ञायते
समन्ततो देवसहस्रकोटियो ।
घोषं उदीरयन्ति भविष्यते जिनो
[_म्वु_2.415_] प्रहृष्टा वस्त्राणि च भ्रामयेन्सुः ॥
दृष्टा मे पंचशता जीवजीवका
मयूरहंसा करविंककोकिला ।

संप्रस्थितेनैकरवा अभूषि
नैरंजना याव च बोधिमण्डं ॥
दृष्टो मे मार्गा अमरेहि निर्मितो
नैरंजना याव च बोधिमण्डं ।
धूपस्य च पुष्पस्य च माल्यस्य
विचित्रपुष्पो सुमनोज्ञगन्धो ॥
भग्ने मारे सर्वशो हततेजे
पूर्वे यामे परिशोधये चक्षुं ।
मध्यमे च यामे मारनिघाती
पूर्वेनिवासचरिता स्मरेसि ॥
उद्गते च अरुणे वरबुद्धिं
यत्तकां पुरिमबुद्धानुबुद्धां ।
बुद्धधर्मवशिता प्रापुणेसि
लोकनाथो भवरागनिघाती ॥
रात्र्या पश्चिमे यामे अरुणोद्घाटसमये नन्दीमुखायां रजन्यां यत् किंचित् पुरुषेण सत्पुरुषेण महापुरुषेण पुरुषर्षभेन पुरुषद्रव्येन पुरुषवीरेण पुरुषनागेन पुरुषसिंहेन पुरुषनृपेण पुरुषपदुमेन पुरुषकुमुदेन पुरुषपुण्डरीकेन पुरुषपुंगवेन पुरुषाजानेयेन पुरुषधौरेयेण अनुत्तरेण पुरुषदम्यसारथिना विक्रान्तेन पराक्रान्तेन एकेन अप्रमत्तेन
[_म्वु_2.416_] आतापिना व्यपकृष्टेन प्रहितात्मेन विहरन्तेन गतिमता स्मृतिमता धृतिमता बुद्धिमता प्रज्ञावन्तेन अर्थिकेन च्छन्दिकेन सर्वशो सर्वत्र यज्ज्ञातव्यं बोद्धव्यं अभिसंबोद्धव्यं सर्वं तम् एकचित्तक्षणसमायुक्तया प्रज्ञया अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः ॥ देवपुत्रा गन्धमाल्यं गृह्य स्थिता किन् तु खलु भगवतो चित्तं विमुक्तं ॥ भगवांस् तासां देवतानां चित्तेन चित्तम् आज्ञाय ताये वेलाये तासां देवतानां इमं कांक्षाछेदनं उदानं भाषति ॥ छित्त्वा तृष्णां विजहामि रजं शुष्काश्रवाणि न स्रवन्ति छिन्नं वर्त्मं न वर्तति । एषैव अन्तो दुःखस्य ॥
अथ नानावर्णा कुसुम-ओघा
निपतेन्सुः सुचित्रसुगन्धा ।
देवपुत्रकरतलविमुक्ता
देवराजम् अभिदक्षिणियेन्सुः ॥
यस्य वीर्यं गिरिसारम् अतुल्यं
यो सदा कुलातितेज सिखीव ।
तस्य देवमनुजोपचितस्य
अंजलिं कुरुथ अप्रतिमस्य ॥
यदा इमे प्रादुर्भवन्ति धर्मा
आतापिनो ध्यायतो ब्राह्मणस्य ।
अथास्य कांक्षा व्यपनेन्ति सर्वा
यदा प्रजानाति सहेतुधर्मा ॥
अयं अनुलोमो प्रतीत्यसमुत्पादः ॥
[_म्वु_2.417_] यदा इमे प्रादुर्भवन्ति धर्मा
आतापिनो ध्यायतो ब्राह्मणस्य ।
अथास्य कांक्षा व्यपनेन्ति सर्वा
क्षयं प्रत्ययानां अवैति ॥
अयं प्रतिलोमः प्रतीत्यसमुत्पादः ॥
___मारेण पापीमता प्राणका निर्मिता भगवतो पर्यंकं भिन्दन्ति । सूर्येण उदेन्तेन सर्वे विलीना ॥
___अथ खलु भगवान् ताये वेलाये इमं उदानम् उदानये ॥
यदा इमे प्रादुर्भवन्ति धर्मा
आतापनो ध्यायतो ब्राह्मणस्य ।
विधर्षिता तिष्ठति मारसैन्या
सूर्येणैव ओभासितम् अन्तरीक्षं ॥

अथ खलु भगवान् प्रथमसंबोधिप्राप्तो ताये वेलाये इमम् उदानम् उदानये ॥
सुखो विपाको पुण्यानां अभिप्रायश् च ऋध्यति ।
क्षिप्रं च परमां शान्तिं निर्वृतिं चाधिगच्छति ॥
पुरतो ये उपसर्गा देवता मारकायिका ।
अन्तरायं न शक्नोन्ति कृतपुण्यस्य कर्तुं वै ॥
ये भोन्ति अल्पपुण्यस्य विग्रहा ते न भवन्ति बलवन्तो ।
बलवां भोति समाधी संभारवतां सपुण्यवतां ॥
यदि यो च देवलोके अथ वा वसवर्तिनो मनुष्यो वा ।
[_म्वु_2.418_] अकृत्यं प्रार्थयते किंचि तथा तथ न ऋध्यते तस्य ॥
अथ वा पुन प्रार्थयति निर्वाणं अच्युतं पदम् अशोकं ।
मार्गं दुःखप्रशमनं प्रतिलभते अल्पकिसरेण ॥
___अथ खलु भगवान् आह ॥ लोकविजितं नाम समाधि समापद्यते ॥ अयं लोकः सन्तापजातो स्पर्शोपरतो रागं वेदेति आत्मनो । येन येन हि मद्यन्ति ततो न भवति अन्यथा । भवे अयं लोको सक्तो भवे रक्तो भवाभिनन्दितो ॥ भवो यत्र भवति दुःखं भवति ॥ प्रहाणार्थं खलु पुनर् भिक्षवस् तथागतेन ब्रह्मचर्यं उष्यति ॥ ये हि केचि भवेन भवस्य निःशरणम् आहुः सर्वे ते भवा अनिःशरणा ति वदेमि । ये वा पुनः केचिद् भिक्षवो भवेन भवस्य विप्रमोक्षम् आहुः सर्वे ते भवा अविमुक्ता ति वदेमि ॥ उपधिं प्रतीत्य दुःखस्य संभवो सर्वोपधिक्षयतो भिक्षवो नास्ति दुःखस्य संभवो ॥ लोकम् इमं पश्य पृथुं अविद्यापरीत्तं भूतं भूतसंभवा अपरिमुक्तं ॥ ये केचिद् भवा सर्वे हि सर्वत्रयाये संवर्तन्ति । सर्वे ते भवा अनित्या दुःखधर्माः परिणामधर्माः ॥ एवम् एतं यथाभूतं सम्यक्प्रज्ञया पश्यते ॥ क्षीयति भवतृष्णा भवं नाभिनन्दति सर्वशो तृष्णाक्षयो निर्वाणं ॥ तस्य निर्वृतस्य भिक्षवः पुनर्भवो न भवति ॥ अभिभूतो मारो विजितसंग्रामो निर्जिताः शत्रवः अपत्यक्तः सर्वभवो इति ॥
___भगवान् सम्यक्संबुद्धो यद् अर्थं समुदागतो तम् अर्थम् अभिसंभावयित्वा बोधिमूले उक्काशनशब्देन मारो पापीमां सबलो सवाहनो भग्नो ॥ अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यित्वा
[_म्वु_2.419_] प्रवृत्ते वरधर्मचक्रे महापरिषां समुदानयित्वा राजगृहे विहरात शास्ता देवानां च मनुष्याणां च सत्कृतो गुरुकृतो मानितो पूजितो ऽपचितो लाभाग्रयशोग्रप्राप्तो लाभी चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां । तत्र च अनोपलिप्तः पद्मम् इव जलेन पुण्यभागीयां सत्वां पुण्येहि निवेशयमानो फलभागीयां सत्वां फलेहि प्रतिष्ठापयमानो वासनाभागीयां सत्वां वासनायाम् अवस्थापयमानो अमृतम् अनल्पकेन देवमनुष्यां संविभजन्तो प्राणकोटिशतसहस्राणाम् अमृतम् अनुप्रापयन्तो अनवराग्रजातिजरामरणसंसारकान्तारनरकादिदुर्गमहाप्रपाताद् अभ्युद्धरित्वा क्षमे शिवे समे स्थले अभये निर्वाणे प्रतिष्ठापयमानो आवर्जयित्वा अंगमगधवज्जिमल्लकाशिकोशलकुरुपांचालचेतिवत्समत्स्यशूरसेन-अश्वक-अवन्तिदशदिशां । ज्ञाने दृष्टपराक्रमो स्वयंभू दिव्येहि विहारेहि विहरन्तो ब्राह्मणेहि विहारेहि विहरन्तो आनिंजेहि विहारेहि विहरन्तो आर्येहि विहारेहि विहरन्तो सांतत्येदि विहारेहि विहरन्तो बुद्धो बुद्धविहारेहि विहरन्तो जिनो जिनविहारेहि विहरन्तो जानको जानकविहारेहि विहरन्तो सर्वज्ञो सर्वज्ञविहारेहि विहरन्तो ॥ चेतोवशिप्राप्तो पुनः बुद्धो भगवन्तो येहि येहि विहारेहि आकांक्षति तेहि तेहि विहारेहि विहरति ॥
___एतं प्रकरणं भिक्षुभि श्रुतं यथा भगवतो बोधिमूले उक्कासनशब्देन मारः पापीमां सबलो सवाहनो भग्नो ॥ ते भिक्षु भगवन्तम् आहन्सुः ॥ पश्य भगवन्न् आश्चर्यं नरसिंहस्य मानक्रोधप्रमथिनः कथं च भगवतो उक्काशनमात्रेण मारो सबलाग्रो निर्जितो । एकेनापि असहायेन मैत्रचित्तेन धीमता अनेकयक्षनयुता उक्कासनमात्रेण बलाग्रो निर्जितो सिंहव्याघ्रतरक्षुद्वीपिवारणकुंजरा चन्द्रवक्त्रेण सबलाग्रो
[_म्वु_2.420_] निर्जितो पापीमां पापनयो च पापाचारपरिश्रमः । उक्काशनमात्रेण सबलाग्रो कथं जितः ॥ भगवान् आह ॥ किं भिक्षवः आश्चर्यं तथागतेन परसंबोधिप्राप्तेन बोधिमूले उक्काशनशब्देन मारः पापीमां सबलवाहनो भग्नः । अन्यदापि मये कुमारभूतेन उक्काशनशब्देन एष पापीमां सबलाग्रो निर्जितः ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवन्* ॥ भगवान् आह ॥ अन्यदापि भिक्षवः ॥
___भूतपूर्वं भिक्षवो अतीतम् अध्वानं नगरे वाराणसी काशिजनपदे तत्र राजा सुबन्धु नाम कृतपुण्यो महेशाख्यो महाबलो महाकोशो षष्टीनां नगरसहस्राणां राज्यं कारयति ऋद्धं स्फीतं प्रशान्तदण्डव्यवहारतस्करं क्षेमं सुभिक्षं निरीतिकं निरुपद्रवं आकीर्णजनमनुष्यं । तस्य दानि राज्ञो सुबन्धुस्य षष्टि नागसहस्राणि इभदन्तकल्पितानि हेमजालप्रतिच्छन्नानि सुवर्णालंकारभूषितानि सखुरप्रवालानि सहस्त्यारोहाणि [इषुतोमरपाणिनो] षष्टि अश्वसहस्राणि सैन्धवानां शीघ्रप्रवाहिनां सर्वालंकारभूषितानां षष्टि रथसहस्राणि सिंहचर्मपरिवाराणि व्याघ्रचर्मपरिच्छन्ना द्वीपिचर्मपरिच्छन्नानि सनन्दिघोषाणि सवैजयन्तकानि सखुरप्रवालानि उच्छ्रितध्वजपताकानि षष्टि धेनुसहस्राणि सर्वाणि कामदोहीनि षष्टि स्त्रीसहस्राणि आमुक्तमणिकुण्डलानि सर्वालंकारभूषितानि षष्टि पर्यंकसहस्राणि सुवर्णमयानि रूप्यमयानि दन्तमयानि षष्टि सुवर्णपात्रसहस्राणि षष्टि रत्नमयानि सहस्राणि षष्टि निधानसहस्राणि । विंशद्ब्राह्मणसहस्राणि नित्यभोजनानि । प्रभूतं धनधान्यकोशकोष्ठागारं प्रभूतदासीदासकर्मकरपौरुषेयं प्रभूतं अमात्यभठबलाग्रं प्रभूतं यन्त्रधनुगुणकोशं ॥

[_म्वु_2.421_] तस्य दानि राज्ञो सुबन्धुस्य शयनगृहे महन्तो इक्षुस्तम्बो प्रादुर्भूतः । तस्य दानि इक्षुस्तम्बस्य मध्ये एकं इक्षुः सर्वशोभनं प्रादुर्भूतः इतराणीक्षुस्तंबान्य् अभिभवति बलेनापि वर्णेनापि तेजेनापि पलाशेनापि ॥ सो दानि राजा सुबन्धुः इक्षुस्तम्बं दृष्ट्वा विस्मितो चिन्तासागरम् अनुप्रविष्टो ॥ कस्येदं भविष्यति निमित्तं कल्याणं वा पापकं वा ॥ सो दानि राजा सुबन्धुः ब्राह्मणपुरोहितराजाचार्यां शब्दावित्वा आमन्त्रेति ॥ भवन्तो शयनगृहे मे महान्तो इक्षुस्तम्बो प्रादुर्भूतो तस्य इक्षुस्तम्बस्य मध्ये एको इक्षु सर्वशोभनं प्रादुर्भूतं सर्वा इतराण्य् अभिभवति वर्णेनापि तेजेनापि पलाशेनापि । तं भवन्तो प्रत्यवेक्षथ जानथ कस्येतं निमित्तं लंचकं पापकं वा यं दानि वो कर्तव्यं तं करोथ ॥ ते दानि ब्राह्मणपुरोहितराजाचार्यास् तं इक्षुस्तम्बं प्रत्यवेक्षन्ति पश्यन्ति अद्भुतं प्रासादिकं दर्शनीयं चक्षुरमणीयं दृष्ट्वा च पुनः राज्ञो सुबन्धुस्य जयेन वद्धापयित्वा एतद् अवोचत्* ॥ दिष्ट्या वृद्धि महाराज कल्याणं निमित्तं अन्तःपुरे प्रादुर्भूतं । अतो ते महाराज इक्षुस्तम्बातः कुमारो प्रादुर्भविष्यति कृतपुण्यो महेशाख्यो महातेजो दुरासदो दुष्प्रधर्षा दुष्प्रसहो प्रासादिको दर्शनीयो देवानां च मनुष्याणां च । तं देवस्य प्रियं भवतु ॥ ते दानि ब्राह्मणा राज्ञा सुबन्धुना प्रणीतेन खादनीयभोजनीयेन संतर्पयित्वा संप्रवारयित्वा हिरण्यसुवर्णस्य उत्संगां कृत्वा विसर्जिता ॥
___सो दानि इक्षुस्तम्बो अहोरात्रेहि संवृद्धो कालान्तरेण महन्तो इक्षुस्तम्बो संवृत्तो सो पि मध्यमको इक्षुस्तम्बो महन्तो वेलुप्रमाणो इक्षु संजातो कोमलो च दर्शनीयो च परिणाहवन्तो च सर्वान् इक्षुस्तम्बान् अभिभवति ॥ तस्य दानि राज्ञो सुबन्धुस्य
[_म्वु_2.422_] अग्रमहिषी सुरुचिरा नाम प्रासादिका दर्शनीया अक्षुद्रावकाशा परमाय शुभवर्णपुष्कलताय समन्वागता ॥ सो दानि राजा सुबन्धुः अग्रमहिषीय सुरुचिराय सार्धं राजार्हे शयने शयितः ओसक्तपट्टदामकलापे धूपितधूपने मुक्तपुष्पावकीर्णे सुवर्णमये रूप्यमये दीपवृक्षेहि . . . . . कुब्जवामनकिरातवर्षवरकांचुकीयेहि जाग्रन्तेहि ॥
___अथ खलु ततो इक्षुस्तम्बातो रात्र्या पश्चिमे यामे अरुणोद्घाटकालसमये मूलदण्डातो कुमारः प्रादुर्भूतः प्रासादिको दर्शनीयः अक्षुद्रावकाशः परमाये सुवर्णपुष्कलताये समन्वागतः ॥ ततो सो कुमारो सुरुचिराये देवीये प्रतिगृहीतो ॥ सो दानि राजा सुबन्धुः तं कुमारं इक्षुस्तम्बातो प्रादुर्भूतं दृष्ट्वा विस्मितो । आश्चर्यं केदृशो एषो सत्वो भविष्यति यो इक्षुतो प्रादुर्भूतो ॥ सो दानि राजा सुबन्धुः कुमारस्य सप्तरात्रं रमनीयाणि जातकर्माणि करोति । श्रमणब्राह्मणकृपणवनीपकेषु अन्ये च महाजनकाये सप्ताहं विश्राणेति अन्नं पानं खाद्यं भोज्यं गन्धमाल्यविलेपनं वस्त्रां च तैलप्रनालिका प्रवाहिता घृतप्रनालिका प्रवाहिता नानाप्रकाराः पानप्रनालिका प्रवाहिता । महन्तो ज्ञातिवर्गो समागतः बहूनि राजशतानि समागतानि बहूनि ब्राह्मणसहस्राणि समागतानि । महन्तो आमोदो सुबन्धुस्य गृहे वर्तति । तूर्यशतानि संप्रवाद्यन्ति संगीतिशतानि निवर्तन्ति ॥ सर्वं नगरं सप्ताहं सत्कृतं ॥ तद् अनुपात्रं राजा सप्ताहं जातकर्माणि कृत्वा सप्ताहस्यात्ययेन ततो राजा सुबन्धुः ब्राह्मणपुरोहितराजाचार्याणाम् आमन्त्रयति ॥ भवन्तो कुमारस्य सदृशं नामं करोथ ॥ तेषां दानि भवति । एषो कुमारो इक्षुतो जातो भवतु इमस्य इक्ष्वाकु त्ति नामं ॥ ते दानि ब्राह्मणा राज्ञो निवेदेन्ति यं
[_म्वु_2.423_] महाराज एषो कुमारो इक्षुतो जातो भवतु इमस्य कुमारस्य इक्ष्वाकू ति नामं ॥ सो दानि राजा सुबन्धुः कुमारस्य नामं ब्राह्मणानां सकाशातः श्रुत्वा प्रीतो संवृत्तो । सदृशं कुमारस्य नामं स्थपितं ॥ अन्ये पि कुमारस्य नामं श्रुत्वा प्रीता संवृत्ताः ॥ तेषां दानि ब्राह्मणानां राज्ञा सुबन्धुना प्रभूतं खादनीयं भोजनीयं दत्त्वा संप्रवारिता प्रभूतं हिरण्यसुवर्णं दत्त्वा विसर्जिताः ॥
___तेन दानि राज्ञा सुबन्धुना तस्य कुमारस्य चत्वारो धात्रीयो सपरिवारा अनुरूपा उपस्थापिता या कुमारं अन्या उद्वर्तेति सुपेति अन्या स्तनं पायेति अन्या उच्चारप्रस्रावम् आकर्षति अन्या उत्संगेन धारयति ॥ एवं दानि सो इक्ष्वाकू राजकुमारो चतुर्हि धात्रीहि सम्यगुपस्थिहियमानो सम्यक्परिचरीयमानो यथा उत्पलं वा पदुमं वा कुमुदं वा पुण्डरीकं वा कूलान्तेहि एवं स बह्वीयति ॥ यथोक्तं भगवता ॥
कृतपुण्यो हि वर्धति न्यग्रोधो इव सुभूमिया ।
जातो नुपन्थके व द्रुमो सो ल्पपुण्यः विरुह्यति ॥
एवं दानि सो कुमारः संवर्धियमानो यं कालं सप्तवर्षः अष्टवर्षो वा संवृत्तो ततः सेखीयति लेखायं पि लिपीयं पि संख्यायां पि गणनायां पि मुद्रायां पि धारणायां पि हस्तिस्मिं पि अश्वस्मिं पि धनुषि पि वेलुषि पि धाविते लंघिते जविते प्लविते इष्वस्त्रज्ञाने युद्धे छेद्ये भेद्ये संग्रामशीर्षे राजमायासु सर्वत्र निष्चितगुणगृहीतो मातृज्ञो श्रामण्यो ब्राह्मण्यो अभिवादनवन्दनप्रत्युत्थानशीलो आवर्जनसंपन्नो मार्दवसम्पन्नो अपरुषो अकर्कशो निवातो सुखसंवासो पूर्वालापी प्रियभाषी राज्ञो इष्टो
[_म्वु_2.424_] देवीये अन्तःपुरस्य इष्टो अमात्यानां इष्टो सर्वस्य भटबलाग्रस्य इष्टो पुरोहितस्य श्रेष्ठिस्य नैगमजानपदस्य प्रतिराजानाम् इष्टश् च प्रियो च मनापो च अल्पातंको समाये सम्यग्विपाचनीये ग्रहणीये समन्वागतो न चातिशीताये न चाति-उष्णाये ऋतुविपरिणामाये दीर्घायुष्कश् चतुरशीति वर्षसहस्राणि आयुःप्रमाणं ॥ यथोक्तं भगवता ॥
सर्वसत्वा मरिष्यन्ति मरणान्तं हि जीवितं ॥
यथाकर्म गमिष्यन्ति पुण्यपापफलोपगाः ॥
निरयं पापकर्माणो कृतपुण्या च सद्गतिं ॥
अपरे च मार्गं भावेत्वा परिनिर्वायन्त्य् अनाश्रवा इति ॥
सो दानि राजा सुबन्धु चिरं दीर्घम् अध्वानं धर्मेण राज्यं कारयित्वा चतुरशीतिनां च वर्षाणाम् अत्ययेन कालधर्मेण संयुक्तो कालगतो इक्ष्वाकुना कुमारेण राज्यं प्रतिलब्धं ॥ ततः राजा वाराणस्यां पैतृक्येहि षष्टीहि नगरसहस्रेहि राज्यं कारयति निहतदण्डो निहतप्रत्यर्थिको निहतप्रत्यमित्रो अकण्टको अनुरक्तजनपदो महाबलो महाकोशो महावाहनो विस्तीर्णान्तःपुरो बहूनि स्त्रीसहस्राणि सर्वाणि च अप्रजातापत्यानि । न कस्याचित् पुत्रो वा धीता वा अस्ति ॥ सो दानि राजा इक्ष्वाकुः कालान्तरेण राज्यं कारयित्वा चिन्तासागरम् अनुप्रविष्टो । मम विस्तीर्णं राज्यं विस्तीर्णम् अन्तःपुरं न मे पुत्रो स्ति मा हैव तावद् अहं अपुत्रो कालं करेय । ततः मे इमं विषयं प्रत्यर्थिकेहि आक्रमिष्यति ॥ सो दानि राजा इक्ष्वाकुः पुरोहितेन सार्धं निमन्त्रयति ॥ कथं मे पुत्रो भवेया ति ॥ पुरोहितो तम् आह ॥ महाराज एतं स्त्रीकागारं अष्टमिं चतुर्दशिं पंचदशिं त्रिक्षुत्तो पक्षस्य ओशिरितव्यं । ततस् ते

[_म्वु_2.425_] कुमारो भविष्यतीति विस्तीर्णो च इक्ष्वाकुकुलो भविष्यति ॥ सो दानि राजा इक्ष्वाकुः पुरोहितस्य सकाशातो वचनं श्रुत्वा अलिन्दादेवीं अग्रमहिषीं राजकुले स्थपेत्वा तानि अन्यानि बहुस्त्रीसहस्राणि त्रिक्षुत्तं पक्षस्य ओशिष्टा । गच्छथ येन यस्या अभिप्रेतं सा तेन सार्धं रमतु ॥ एवं दानि राजकुलातो बहूनि सहस्राणि निर्धावितानि हृष्टमनसः सर्वालंकारविभूषिताः मृगिका इव संत्रस्ता द्वारे द्वारे उपागमे काचिज् जल्पन्तीयो लोभये अपरा हसन्तीयो अपरा धावमाना अनुधावन्ती । सर्वे स्खलिता आसि सर्वे आसि प्रमूर्च्छिता । इक्ष्वाकुराजनगरे मनुष्यास् ताहि राजपत्नीहि सार्धं प्रलुठिता प्रमूर्च्छिता आसि ॥
___अपरो दानि पुरुषो सुबन्धुकुलातो जातिसंबद्धो मनुष्यभूतो कायसुचरितेन समन्वागतः वाक्सुचरितेन समन्वागतो मनःसुचरितेन समन्वागतः दश कुशलकर्मपथ समादाय वर्तित्वा मनुष्येषु च्यवित्वा त्रायस्त्रिंशे देवनिकाये शक्रो नाम देवराजा उत्पन्नो ॥ सो दानि समन्वाहरति । कहिं सो राजा सुबन्धुः काये वर्तमानो ति जीवति वा मृतो वा ति ॥ सो दानि पश्यति यथा राजा सुबन्धुः कालगतो तस्य इक्ष्वाकु नाम पुत्रो तेन राज्यं प्रतिलब्धं । तस्य राज्ञो इक्ष्वाकुस्य पुरोहितेन विषमा गतिः दिन्ना अयोग्या असदृशा सुबन्धुकुलस्य त्रिष्क्षुत्तं पक्षस्य इस्त्रियागारं ओशिरितव्यं प्रजाये अर्थाये ॥ सो दानि शक्रो देवानाम् इन्द्रो ब्राह्मणवेषम् आत्मनो निर्मिणित्वा जीर्णो वृद्धो महल्लको अध्वगतो वयम् अनुप्राप्तो वलीहि परिगतशरीरो पलितशिरो तिलकालगात्रो सो इक्ष्वाकुस्य राज्ञो द्वारं गत्वा आह ॥ अहं इक्ष्वाकुं पश्यितुकामो ॥ प्रतिहाररक्षो राजकुलं प्रविष्टः राज्ञो इक्ष्वाकुस्य निवेदेति ॥
[_म्वु_2.426_] महाराज ब्राह्मणो द्वारे स्थितो राजानं द्रष्टुम् इच्छति ॥ राजा इक्ष्वाकु आह ॥ स्वागतं ब्राह्मणस्य प्रविशतु ॥ तेन दानि प्रतिहाररक्षेण सो ब्राह्मणो राजकुलं प्रवेशितः ॥ राजा वृद्धं ब्राह्मणं दृष्ट्वा प्रत्युत्थितो ॥ स्वागतं ते ब्राह्मण निषीदाहि इमन् ते आसनं ॥ सो दानि ब्राह्मणो जयेन वर्धापयित्वा उपविष्टः ॥ राजा नं पृच्छति ॥ ब्राह्मण कुतो दिशातो आगतो किं मार्गसि किन् ते रुच्चति किन् ते देमि ॥ ब्राह्मणो आह ॥ महाराज दूरतो स्मि प्रदेशातो आगतो तव उदारं कीर्तिशब्दश्लोकं श्रुत्वा इक्ष्वाकुः त्रिष्क्षुत्तं पक्षस्य स्त्र्यागारं ओशिरति प्रजाये अर्थाये ति । ततः राज स्त्रियाय अर्थिको दूरतो स्मि देशातो आगतो ततो मे स्त्रियाये प्रतिभागेहि ॥ सो दानि राजा ब्राह्मणस्य वचनं श्रुत्वा प्रीतः तुष्टः संवृत्तो कांचुकीयम् आमन्त्रयति ॥ भो भणे कांचुकीय शीघ्रं इमस्य ब्राह्मस्य मम स्त्र्यागारं उपदर्शेहि । या से स्त्री रोचते तान् से देहि ॥ तेन दानि कांचुकीयेन ब्राह्मणो अन्तःपुरं प्रवेशितो बहूनां स्त्रीसहस्राणां मध्ये ॥ ब्राह्मण एषो राज्ञो इक्ष्वाकुस्य स्त्र्यागारो या ते स्त्री अभिप्रेता तां गृह्य गच्छाहि ॥ तेन दानि ब्राह्मणेन तेषां बहूनां स्त्रीसहस्राणां या राज्ञो इक्ष्वाकुस्य अग्रमहिषी अलिन्दा नाम देवी न कदाचित्* राजकुलातो निष्क्रमति सा देवी तेन ब्राह्मणेन गृहीता । एषा मे भवतु ॥ सा दानि देवी प्ररुण्डा । अयं ब्राह्मणो मम अय्यको वा पय्यको वा अथ वा उत्तरो । राजा इक्ष्वाकु दृढव्रतसमादानो मा हेवं मां इमस्य ब्राह्मणस्य उपस्थानपरिचर्याये ओसिरिष्यति ॥
___तस्या दानि अलिन्दाय कुब्जा मालाकारी मालां गूहयति । सा दानि कुब्जा
[_म्वु_2.427_] तं ब्राह्मणं जल्पति ॥ ब्राह्मण त्वं जीर्णो वृद्धो मलल्लको तरुणीं स्त्रीम् इच्छसि । न त्वां कदाचित् तरुणी स्त्री हस्तेन वा पादेन वा स्पृशेया गच्छ किं ते अलिन्दाये देवीये या अपरित्यक्ता राज्ञो इक्ष्वाकुस्य ॥ सो दानि ब्राह्मणो तां कुब्जां आह ॥ अल्पोत्सुका तुवं कुब्जे मालां गुहाहि प्रियो अहं अलिन्दाये देवीये यथा तुवं नान्ये ॥ तस्या दानि अलिन्दाये देवीये अन्या चेटी वर्णकपीषिका । सा दानि तं ब्राह्मणं जल्पति ॥ ब्राह्मण त्वं जीर्णो वृद्धो महल्लको शयवस्त्रगन्धिको दुर्गन्धो न तव देवी द्रष्टुं पि इच्छे किं पुनः प्रष्टुं । गच्छ किन् ते अलिन्दाये या राज्ञो इक्ष्वाकुस्य अपरित्यक्ता ॥ सो दानि ब्राह्मणो तां चेटीम् आह ॥ अल्पोत्सुका तुवं चेटी वर्णकं पीषेहि प्रियो अहं अलिन्दाये देवीये यथा तुवं नान्ये ॥ सा दानि अलिन्दा देवी आह ॥ न मे केनचिद् उपायेन एषो ब्राह्मणो ओशिरिष्यति ॥ सा दानि देवी उच्चेन प्ररुदिता । ताये देवीये रुदमानाये परिवारो पि से प्ररुण्डो । तत्र अन्तःपुरे महन्तो आरावशब्दो ॥ अश्रोषी खलु राजा इक्ष्वाकु उपरिप्रासादवरगतः अन्तःपुरस्य उच्चशब्दं महाशब्दं । सो दानि राजा वर्षवरां कांचुकीयांश् च पृच्छति ॥ भो भणे किं प्य् एष स्त्रीणां आरावशब्दः श्रुयति ॥ ते दानि वर्षवरा कांचुकीया आह ॥ देव तेन ब्राह्मणेन अलिन्दा देवी गृहीता । राजेन मे इक्ष्वाकुना प्रवारितं या ते स्त्री रुच्चिता तां गृह्णाहीति । ततः मे एषा भवतु । ततो सा देवी अलिन्दा प्ररुण्डा देवीय रुदमानाय परिवारेण पि से आरावो मुक्तो ॥ सो दानि ते प्रतिश्रुत्वा स्वकम् अन्तःपुरं प्रविष्टो तं ब्राह्मणं जल्पति ॥ ब्राह्मण त्वं जीर्णो वृद्धो महल्लको यदि राजकुले इच्छसि नित्यभक्तिकं भोक्तुं तत् ते दास्यामि किन् ते अलिन्दाये देवीये अन्यां गृह्णाहि ॥ सो दानि आह ॥ महाराज

[_म्वु_2.428_] अहं जीर्णो वृद्धो कासनको च मुहूर्ते मुहूर्ते मूर्च्छियामि । न शक्नोमि स्वयं उत्थिहियुं स्वकां शेय्यां ओमूत्रेमि तद् एनाम् एव देहि तुवं एषा मे उत्थापयिष्यति एषा मे परिचरिष्यति । मा भवान् इक्ष्वाकुः मम स्त्रीयाय प्रवारयित्वा पश्चाद् अनुतप्याहि । अथ दानि भवान् इक्ष्वाकुः मिथ्यायाचनां करोतीति आमन्त्रेमि गच्छामि ॥ राजा आह ॥ नाहं ब्राह्मण मिथ्यायाचनां करोमि नापि दत्त्वा अनुतप्यामि अपि त्वं जिर्णो वृद्धो महल्लको इयं च देवी तरुणी सुकुमारा तन् ते न इच्छति । विस्तीर्णो यं चान्तःपुरो बहूनि स्त्रीसहस्राणि या ते स्त्री रुच्चति तां गृह्णाहि ताये सार्धं अभिरमाहि सा ते उपस्थिहिष्यति ॥ ब्राह्मण आह ॥ अलं महाराज एषा एव मे भवतु या तिष्ठति मानिनी तिष्ठमाना अनवद्यांगी मन्दं प्रेक्षति । एषा एव मे भवतु या तिष्ठति मानिनी तिष्ठमाना अनवद्यांगी मृगीभावं च प्रेक्षति । एषा मे भोतु या तिष्ठति मानिनी तिष्ठमाना अनवद्यांगी सुखं अश्रूहि सिंचति । अलं मे महाराज अन्तःपुरिकाये एषा एव मे देवी भवतु एषा मे उत्थापयिष्यति एषा मे उपस्थास्यति एषा मे परिचरिष्यति मा भवान् इक्ष्वाकु मम स्त्रीं प्रवारयित्वा अनुतप्याहि । अथ दानि (याव) गच्छामि ॥ राजा इक्ष्वाकु आह ॥ (यावद्*) अपि त्वं जीर्णो वृद्धो महल्लको इयं च देवी तरुणा सुकुमारा तं ते न इच्छति । अयन् ते वृषला कुब्जा मैथुनार्थिका दासी ते अयं भवतु येन त्वं इच्छसि तेन तां नेहि एषा ते उपस्थास्यति ॥ कुब्जा आह ॥ महाराज एषो ब्राह्मणो पूतिवली पलितमुखो वदरीकुसुमो व सुदुर्गन्धो छगलो व गन्धप्राप्तो । विषं भुक्त्वा मरिष्यं सचे मे देव एतस्य देसि । इमं स्थविरं भग्नांगं मारेष्यं रहोगता ॥ सो दानि ब्राह्मणो आह ॥
[_म्वु_2.429_] सर्वकुब्जेहि मे वैरं ये केचित् पृथिविनिश्रिता ॥
यत्रायं वृषला कुब्जा मम इच्छति घातितुं ॥

अलं महाराज कुब्जाये एषा एव मे देवी भवतु एषा मे उपस्थास्यति एषा परिचरिष्यति । मा भवां मम स्त्रियं प्रवारयित्वा अनुतप्याहि । अथ तव मिथ्यायाचनां करोसीति आमन्त्रेमि गच्छामि ॥ राजा आह ॥ नाहं ब्राह्मण मिथ्यायाचनां करोमि नापि दत्त्वा अनुतप्यामि । अपि त्वं जीर्णो वृद्धो महल्लको इयं च देवी तरुणी सुकुमारा तं ते न इच्छति । यदि त्वं तरुणो भवेया तं एषा देवी उत्कण्ठेया अपि तु नाहं मिथ्यायाचनां करोमि गच्छ गृह्य अलिन्दां देवीं नेहि यत्रेच्छसि ॥ सो दानि ब्राह्मणो राज्ञो इक्ष्वाकुस्य प्रतिश्रुत्वा हृष्टः तुष्टः प्रीतो संवृत्तो ॥ अलिन्दां देवीम् आलिंग्य ततः प्रवेशं प्रवेशयन्तो तस्या एव उपरि प्रपतितो स्त्रीसहस्रेहि अट्टहासो मुक्तो । देवीये कल्याणो अनुरूपः पुरुषो लब्धः ॥ अलिन्दापि देवी अश्रुकण्ठा रुदन्मुखी प्रलपन्ती ब्राह्मणेन हस्ते गृह्य आकड्ढति कट्टीक्रियति इतो च इतो च लग्गति । उच्छ्वसन्तेन प्रश्वसन्तेन अश्रूहि वहन्तेहि आलापेन गलन्ती प्रदेशे देशे ओमूत्रेन्तेन सुसंगृहीतां कृत्वा अनालम्बन्ती राजगृहातो कट्टीयमानी निक्कासिता विकलीभूता च संवृत्ता ॥
___तेन ब्राह्मणेन नगरस्य अनुप्राकारं दरिद्रग्रामे वंकजर्जरशालां निर्मिणित्वा जर्जरमंचे तृणपलाशं प्रज्ञपितं खण्डघटकं दकस्य स्थापितं ॥ तत्र अलिन्दा देवी प्रवेशिता वस्त्रेहि नष्टप्रणष्टेहि आभरणेहि लुग्नप्रलुग्नेहि शेषावशेषेहि न कदाचित्
[_म्वु_2.430_] पादेहि भूमिं स्पृष्ट्वा पादुकाहि भ्रष्टाहि अनामुक्तेहि पादेहि क्षतविक्षतेहि ॥ ततो सो ब्राह्मणो तत्र जर्जरशालामध्ये निषीदित्वा आह ॥ भद्रे सुनिवस्ता भवित्वा पादानि मे धोवाहि स्वकानि च पादानि धोवाहि ततो रमाहि वरन् ते रमितो अहं सुष्ठु भद्रे रामेहि सम्यक्* मां भद्रे रमापेहि मे भद्रे रमापेहि ललितेन मे भद्रे रमापेहि ॥ एवं दानि सा देविये सर्वरात्री एवं मे रामेहि एवं मे रामेहि उत्थापेहि संविशापेहि संविशापेहि त्ति गता रात्रिये प्रभाताये अरुणोद्गमनकालसमये ततो शक्रो स्वरूपेण स्थितो अंगदकुण्डलदिव्यशरीरधारो उदारेण वर्णेनोभासयित्वा वरविमलकुण्डलधरो देवराजा भवित्वा स्वयंप्रभा ओसृष्टा वर्णेन सर्वशाला सामन्तेन ओभासिता ॥ सा दानि अलिन्दा देवी शक्रं देवानाम् इन्द्रं स्वरूपेण दृष्ट्वा रागेन मूर्छिता । किं मया कृतं यम् एतेन सार्धं न रमितं ति ॥ शक्रो देवानाम् इन्द्रो अलिन्दां देवीं वरेण प्रवारयति ॥
शक्रो स्मि देवानाम् इन्द्रो त्रायस्त्रिंशान ईश्वरो ॥
वरं वरेहि मे भद्रे यं किंचित्* मनसेच्छसि ॥
सा दानि अलिन्दा देवी शक्रस्य देवानाम् इन्द्रस्य प्रांजलिं कृत्वा एतद् उवाच ॥ शक्रो मे वरेण वारेति एवं वदेमि पुत्रो मे वरो ति ॥ तस्या दानि इन्द्रेण भैषज्यगुडिका दिन्ना । इमां गुडिकां उदकेन विलोलयित्वा पिबाहि ततः ते पुत्रो भविष्यति सिंहसदृशो बलवां परसैन्यप्रमर्दनो । उत्साहेनास्य लोके समसमो न भविष्यति । अपि तु वर्णेन रूपेण पापको भविष्यति यन् ते अहं न हृष्टाय उपस्थितो ॥ इन्द्रो
[_म्वु_2.431_] दानि अलिन्दाये देवीये वरं दत्त्वा जर्जरशालाम् अन्तर्हापयित्वा त्रायस्त्रिंशदेवनिकाये प्रत्यस्थासि ॥
___सा दानि अलिन्दा देवी तां भैषज्यगुडिकां अंशुकस्य कोणे बन्धित्वा राजकुलं प्रविष्टा पद्मवर्णेन मुखेन परिशुद्धेहि इन्द्रियेहि । एवं विस्तीर्ण अन्तःपुरे मम पुत्रो भविष्यति ॥ सा दानि अलिन्दा देवी रज्ञा इक्ष्वाकुना दूरतो एव द्वारशालायां प्रविशन्ती दृष्टा पद्मवर्णेन मुखेन परिशुद्धेहि इन्द्रियेहि । राजा दानि देवीं पृच्छति ॥ पद्मवर्णो ते मुखो परिशुद्धानीन्द्रियाणि सुखं रात्रिं शयिताये क्रीडारती वा अनुभूता किंचित् ते उदारो कल्याणो लब्धो ति ॥ सा दानि देवी आह ॥ महाराज कुतो मे शायिताये सुखं क्रीडारतिर् वा अनुभूता । शक्रो सो देवानाम् इन्द्रो सो ब्राह्मणवेषं निर्मिणित्वा इहागतो । ततः मे सर्वरात्रि उत्थापेहि संवेशेहि गता प्रभातायां रात्र्यां अरुणोद्धाटकालसमये तं ब्राह्मणवेशम् अन्तर्धापयित्वा इन्द्रः स्वरूपेण स्थितः सर्वां च दिशां वर्णेनावभासयित्वा अहं वरं प्रवारिता वरं वरेहि भद्रे ।
शक्रो स्मि देवानाम् इन्द्रो त्रायस्त्रिंशान ईश्वरो ॥
वरं वरेहि मे भद्रे यन् तुवं मनसेच्छसि ॥
तत्र महाराज पुत्रवरो याचितः पुत्रं मे वरं देहि ॥ तेन शक्रेण मम भैषज्यगुडिका दिन्ना इमां गुडिकां उदकेन विलोलयित्वा पिबाहि ततो पुत्रो भविष्यति सिंहासनपीठो बलवां परसैन्यमर्दको उत्साहेन से लोके समसमो न भविष्यति अपि तु वर्णरूपेण पापको भविष्यति यं ते अहं न हृष्टतुष्टाये उपस्थितो ॥ सो दानि राजा
[_म्वु_2.432_] श्रुत्वा देवीये रुष्टो ॥ या दानि त्वं मया अनुज्ञाता किम् अस्य त्वया न हृष्टतुष्टाये उपस्थितो ॥ तेन दानि राज्ञा देवीये बैषज्यगुडिका रोषेण आछिन्ना ॥ सो दानि राजा बैषज्यगुडिकां शिलायां निघृषयित्वा उदकेन विलोलयित्वा पंचानां मानविकानां देवीशतानां कुशाग्रेण पिबनाये दिन्ना । सापि अलिन्दा देवी ततो भैषज्यगुडिकातो पिबनाये न लभति मा देवी पापकं पुत्रं जनयिष्यति ॥ सा दानि अलिन्दा देवी चेटीनां पृच्छति ॥ कहिं सा भैषज्यगुडिका कृता ॥ चेटीयो आह ॥ देवी तव सा बैषज्यगुडिका राज्ञा गृह्णीत्वा निषदायां निघर्षयित्वा पंचानां मानविकानां देवीशतानां पिबनाये दिन्ना ॥ देवी पृच्छति ॥ कतमाये निषदाये सा बैषज्यगुडिका ओघृष्टा ति ॥ चेटी आह ॥ इमाए देवि निषदाय सा भैषज्यगुडिका ओघृष्टा ॥ सा दानि देवी निषदाय उदकविन्दुं कृत्वा कुशाग्रेण जिह्वाग्रं कृत्वा अभ्यवहृतं । ताये अपि देवीये कुक्षिः प्रतिलब्धो । एवं दानि पंच देवीशतानि कुक्षिमन्तानि संवृत्तानि ॥
___तानि दानि पंच देवीशतानि नवानां वा दशानां वा मासानाम् अत्ययेन प्रसूतानि । एकूनपंचकुमारशता जाता प्रासादिका दर्शनीया अक्षुद्रावकाशा परमाये शुभाये वर्णपुष्कलताये समन्वागता । अलिन्दाये पि देवीये पुत्रो जातो दुर्वर्णो दुर्दृशो स्थूलोष्ठो स्थूलशिरो स्थूलपादः महोदरो कालो मषिराशिवर्णो ॥ ते दानि वर्षवरा कंचुकीया च राज्ञो निवेदयन्ति ॥ महाराज एकूना पंचशता देवी प्रसूता एकूना पंच कुमारशता जाता प्रासादिका दर्शनीया अलिन्दाये देवीये पुत्रो जातो दुर्वर्णो दुर्दृशो स्थूलोष्ठो स्थूलशिरो स्थूलपादो कालो मषिराशिवर्णो ॥

[_म्वु_2.433_] श्रुत्वा पुनः राजा इक्ष्वाकुः रुष्टो दौर्मनस्यजातो संवृत्तो । यं मया देवीये गुडिका पिबनाये न दिन्ना मा सा पुत्रं जनयिष्यतीति तत् कुतो देवीये एदृशो पुत्रो जातो ॥ वर्षवरा कंचुकीया आह ॥ महाराज यत्र देवेन निषदाय सा भैषज्यगुडिका निघृष्टा तत्र ताये निषदाये देवी उदकविन्दुं कृत्वा कुशाग्रेण जिह्वाग्रेण अभ्यवहृतं ततो देवीये पुत्रो जातो ॥ राजा आह ॥ मा मे कदाचिद् देवीये पुत्रो अग्रतो तिष्ठतु न इच्छामि एदृशं द्रष्टुं ॥ सो दानि इक्ष्वाकुः तेषां पंचानां कुमारशतानां एकूनकानां वर्णरूपं श्रुत्वा प्रहृष्टतुष्टो । तेषां रूपवन्तानां कुमाराणां अलिन्दाये पुत्रं स्थापयित्वा सप्ताहं रमणीयानि जातकर्माणि क्रियन्ति श्रमणब्राह्मणकृपणवनीपकेषु अन्यस्य जनस्य विश्राणेति अन्नं पानं खाद्यं भोज्यं वस्त्रं गन्धं माल्यं विलेपनं तैलप्रणालिका प्रवाहिता घृतप्रणालिका च नानाप्रकारा पानप्रणालोका प्रवाहिता ॥ एकमेकस्य कुमारस्य चत्वारो धात्रियो उपस्थापितायो । कुमारस्य अन्या उद्वर्तेति सुपेति अन्या उच्चारप्रस्रावम् अपकर्षति अन्या स्तनं देति अन्या उत्संगेन धारयति ॥ अलिन्दाये देवीये पुत्रे धात्रियो न दिन्ना । ततो अलिन्दाये देवीये स्वका उपस्थायिका दिन्ना ॥ एवं दानि ते कुमारा उन्नीयन्ति वर्धियन्ति ॥ ततो राजा इक्ष्वाकुः सर्वेषां तेषां पंचानां कुमारशतानां कुशमिश्राणि नामा कृतानि । कोचि इन्द्रकुशो कोचिद् ब्रह्मकुशो कोचिद् देवकुशो कोचिद् ऋषिकुशो कोचित् कुसुमकुशो कोचि द्रुमकुशो कोचि रत्नकुशो कोचित्* महाकुशो कोचि हंसकुशो कोचि क्रोञ्चकुशो कोचि मयूरकुशो इत्येवमादि सर्वेषां कुशमिश्राणि नामा कृतानि अलिन्दाये देवीये शुद्धं कुशो ति नामं कृतं ॥
[_म्वु_2.434_]___राजा दानि इक्ष्वाकुः सर्वेषां एकूनपंचकुमारशतानां दारकक्रीडापनकानि नानाप्रकाराणि देति देवीये पुत्रस्य कुशस्य क्रीडापनकं न देति । ततः कुशो कुमारो यं वा क्रीडापनकं अभिप्रेतं भवति तेषां भ्रातृणां आच्छिन्दित्वा क्रीडित्वा रमित्वा पुनर् देति ॥ एवं दानि राजा इक्ष्वाकुः तेषां कुमाराणां नानाप्रकाराणि क्रीडायानकानि देति हस्तियानं अश्वयानं नानाप्रकाराणि उदाराणि राजार्हाणि कुशस्य कुमारस्य यानं न देति । कुशो पि कुमारो यं से यानं अभिप्रेतं भवति हस्तियानं वा अश्वयानं वा रथयानं युग्ययानं वा शिविका वा स्यन्दमानिका वा गल्ली वा अर्धगल्ली वा पत्त्रयानं वा आकाशयानं वा तेषां भ्रातृणां आच्छिन्दित्वा वहित्वा व पुनर् देति किम् एतानि रक्षित्वा ति ॥ एवं दानि ते कुमारा विवर्धमाना यं कालं विज्ञप्राप्ता सप्तवर्षा वा अष्टवर्षा व ततो शेखीयन्ति लेखायं पि लिपियं पि संख्यायं पि गणनायं पि मुद्रायं पि धारणीयं पि हस्तिस्मिं पि अश्वस्मिं पि रथस्मिं पि धनुस्मिं पि धाविते जविते प्लविते इष्वस्त्रज्ञाने युद्धे वा नियुद्धे वा छेद्ये वा भेद्ये वा हेठ्ये वा संग्रामशीर्षायां वा राजमायाचारे सर्वत्र निश्चिता गतिगताः ॥ कुशकुमारं न कोचि शिल्पं शिक्षयति स्वकाय बुद्धीय स्वकाय प्रज्ञाय स्वकेन वीर्येण सर्वेषान् तेषां भ्रातृणां अन्यस्य महाजनकायस्य सुशिक्षितः । इष्वस्त्रज्ञाने सुशिक्षितो सर्वशिल्पायतनेहि अपरापरेहि च सर्वेषां कुशो कुमारो विशिष्यति ॥
___तस्य दानि राज्ञो इक्ष्वाकुस्यैवं भवति ॥ यं नुनाहं इमां पंच कुमारशतां मीमांसेयं को इमेषां ममात्ययेन राजा भविष्यति ॥ तेन दानि राज्ञा इक्ष्वाकुना
[_म्वु_2.435_] पंच मोदकशता कारापिता एको मोदको महान्तो तेषां मोदकानां मध्ये स्थापितो अपरेहि मोदकेहि ओछादितो यो एतं महान्तं मोदकं गृह्णीष्यति तम् अहं ज्ञास्यामि एषो ममात्ययेन राजा भविष्यति ॥ सो दानि राजा इक्ष्वाकुः तं मोदकराशिं कृत्वा पंच कुमारशतां शब्दापयित्वा आमन्त्रयति । शीघ्रं त्रिहि तालेहि मोदकराशितो एकमेकं मोदकं गृह्णथ ॥ ते दानि कुमारा सर्वे प्रथमं पि धाविता पश्चात् कुमारो प्रधावितो । सो कुमारो सर्वेषां भ्रातृणां वामदक्षिणेन हस्तेन अवगूहित्वा तं महान्तं मोदकं गृहीतं ॥ तस्य राज्ञो इक्ष्वाकुस्य एवं भवति ॥ एषो कुशो कुमारो ममात्ययेन राजा भविष्यति । एषो च दुर्वर्णो दुर्दृशो स्थूलोष्ठो स्थूलशिरो स्थूलपादो महोदरो कालो मषिराशिवर्णो अप्रियो पर्तिकूलो दर्शनाये । को एतं राजं धारयिष्यति । यं नूनाहं द्वितीयं पि इमां कुमारां जिज्ञासेयं । आहारदेशकाले इमे कुमारा संमुखं परिवेशापयिष्यं । यो एतेषं प्रथमं भोजनं प्रतीछिष्यति अहं ज्ञास्यामि एषो ममात्ययेन राजा भविष्यति ॥ सो दानि राजा इक्ष्वाकुः आहारदेशकाले तां पंच कुमारशतां शब्दापयित्वा पुरतो निषीदापयित्वा भोजनं अल्लीपयति । ते पि कुमारा भोजनं प्रतिपालेन्ति । सो कुशो कुमारो तं भोजनं भूमिये प्रतीछति यत्तकेन स भोजनेन अभिप्रायो तं भूमीयं ओदनस्य राशिं करोति । तत्रैव उपरि व्यंजनानि पर्तीछति पृथिवीनिश्रितं भुंजति ॥ तस्य दानि राज्ञो इक्ष्वाकुस्य एवं भवति ॥ एषो कुशो कुमारो ममात्ययेन राजा भविष्यति पृथिवीश्वरो पृथिवीनिश्रितं परिभुंजति ॥ सो दानि राजा इक्ष्वाकुः अपरेण कालेन पुरोहितं पृच्छति । उपध्याय को इमेषां कुमाराणां ममात्ययेन राजा भविष्यति ॥ पुरोहितो आह ॥ महाराज एषो हि कुशो कुमारो देवस्यात्ययेन राजा भविष्यति । एतस्य राजलक्षणाः ॥ सो दानि राजा इक्ष्वाकुः
[_म्वु_2.436_] पुरोहितस्य श्रुत्वा दुःखितो संवृत्तो ॥ को उपायो भवेया यं एषो कुशो कुमारो ममात्ययेन राजा न भवे । यं नूनाहं राजकुले देशे देशे गुह्यप्रदेशेषु महानिधानानि निखनेयं अदृष्टानि केनचि । यो इमा निधानान् ममात्ययेन जानेया बुद्धेया उत्खनयेया सो राजा भवेया अप्य् एवं नाम अन्यो कुमारो राजा भवेया ॥ तेन दानि राज्ञा इक्ष्वाकुना राजकुले देशे देशे गुह्यप्रदेशेषु महानिधानं निखतं अदृष्टं केनचि ॥ सो दानि राजा इक्ष्वाकुः दीर्घस्याध्वनो त्ययेन मरणकालसमये अमात्यान् अनुशासति ॥ भो भणे अमात्या यो इमेषां पंचानां कुमारशतानां ममात्ययेन इमानि निधानानि व जानेया बुद्धेया उत्खनयेया तं राज्येन अभिषिंचथ । अन्ते निधिः वहिर् निधिः न चान्ते न वहिर् निधिः चतुर्णां शालराजानां हेष्ठतो चतुरो निधिः समुद्रे निधिः सागरे निधिः योजने निधिः मोचने निधिः वृक्षाग्रे निधिः पर्वते निधिः यतो च वैरोचनो अभ्युदेति ततः निधिः प्रभंकरादित्यं यत्रास्तमेति तत्र निधिः यत्र देवा महीयन्ति तत्रापि निहतो निधिः यो अमात्याहो इमां कुमारो निधानां जानाति उत्खनापेति अनाचिक्षितो तं राज्येनाभिषिंचथ । सो व राजा भविष्यति ॥ सो दानि राजा इक्ष्वाकुः एवम् अमात्यान् अनुशासित्वा कालधर्मेण संयुक्तो कालगतो ॥
___ते दानि पंच कुमारशता पितुः कालगतस्य राज्यहेतोः अन्यमन्यं विवदित्वा अहं राजा अहं राजेति न चान्यमन्यं विहंसन्ति धार्मिकत्वात् ॥ तदा अमात्या कुमाराणां जल्पन्ति ॥ कुमाराहो मा विवदथ । तेषां वो राज्ञो इक्ष्वाकुस्य आणत्तिका

[_म्वु_2.437_] अस्ति । पितरि मरणकालसमये संदेशो दिन्नः यो पितरि संदेशं जानिष्यति सो राजा भविष्यति ॥ कुमारा आहुः ॥ अमात्याहो एवं तु यथास्माकं पितरि संदेशो दिन्नो आख्यायथ ॥ ते दानि अमात्या पंचानां कुमारशतानां पुरतः तं राज्ञो इक्ष्वाकुस्य संदेशं परिकीर्तेन्ति । अन्ते निधिः वहिर् निधिः नैवान्ते न वहिर् निधिश् चतुर्णां शालराजानां हेष्ठतो चतुरो निधिः समुद्रे निधिः सागरे निधिः योजने निधिः मोचने निधिः वृक्षाग्रे निधिः पर्वताग्रे निधिः यत्र च वैरोचनो अभ्युदेति ततो निधिः प्रभंकरादित्यं यत्रास्तमेति तत्र निधिः यत्र देवा महीयन्ति तत्रापि निहितो निधिः । कुमाराहो इमं वो पितरेण इक्ष्वाकुना संदेशो दिन्नः यो युष्माकं इमान् निधाना निक्षिप्तां जानिष्यति उत्खनयिष्यति सो व राजा भविष्यति ॥ एकूनपंचकुमारशता निधानान् कीर्तियमानान् न जानन्ति न बुध्यन्ति कुशो महाबुद्धिर् महामीमान्सको सर्वं अर्थं उपगतो परिशुद्धो ॥ सो दानि आह ॥ अहम् एतं पितरि वचनं तत्र भो निवेदयिष्यामि ॥ ये युष्माभिर् निधाना परिकीर्तितास् तान् सर्वान् उत्खनापयिष्यं ॥ यं तातेन वुत्तं अन्ते निधिः अभ्यन्तरं राजकुलद्वारे देहलाय अभ्यन्तरतो निहितो निधिः ॥ तं प्रदेशं अमात्यहि उत्खनापितं महानिधानं ॥ यन् तातेन वुत्तं वहिर् निधिस् तस्यैव देहलाय वाह्यतो निहितो निधिः । तं पि महानिधानं कुमारेण उत्खनापितं ॥ यन् तातेन वुत्तं नैवान्ते न वहिर् निधीति तं मध्यमद्वारे देहलाये हेष्ठतो निहितो निधिः । तं पि कुमारेण महानिधानं
[_म्वु_2.438_] उत्खनापितं ॥ यन् तातेन वुत्तं चतुर्णां शालराजानां हेष्ठतो चतुरो निधिः यत्र राज्ञो इक्ष्वाकुस्य पर्यंको शालमयो सुवर्णपादेहि ओनद्धः शय्यां कल्पयति तेषां पर्यंकपादानां हेष्ठतो चतुरो निधिः ते पि कुमारेण महानिधाना उत्खनापिता ॥ यन् तातेन वुत्तं समुद्रे निधिन् ति या राजक्य-अशोकवणिकायां क्रीडापुष्किरिणी तत्रापि निहितो निधिः । तत्रापि कुमारेण क्रीडापुष्किरिणिकातो उक्कड्ढापितो ॥ यन् तातेन वुत्तं सागरनिधिं ति यत्र राज्ञो इक्ष्वाकुस्य स्नापनशालाये उदुपानं तत्रापि निहितो निधिः । तं कुमारेण उदुपानातो महानिधानं उत्खनापितं ॥ यन् तातेन वुत्तं योजने निधिन् ति यस्मिं प्रदेशे राज्ञो इक्ष्वाकुस्य यानं युज्यति हस्तियानं वा अश्वयानं वा युग्ययानं वा तं पि कुमारेण महानिधानं उत्खनापितं ॥ यन् तातेन वुत्तं मोचने निधिन् ति यत्र अभिरक्षणप्रदेशे राज्ञो इक्ष्वाकुस्य यानं मुच्चति हस्तियानं वा अश्वयानं वा युग्ययानं वा तत्रापि निहितो निधिः । तं कुमारेण महानिधानं उत्खनापितं ॥ यन् तातेन वुत्तं वृक्षाग्रे निधिन् ति यत्र राज्ञो इक्ष्वाकुस्य दर्शनशालायां महावृक्षं तस्य सूर्येण उदयन्तेन यत्र अग्रच्छाया निपतति अस्तमितेनापि सूर्येण यत्र चरिमा छाया निपतिता तत्रापि निहितो निधिः । ते पि कुमारेण द्वे महानिधाना उत्खनापिता ॥ यं तातेन वुत्तं पर्वते निधिन् ति यत्र शिलापट्टे राज्ञो इक्ष्वाकुस्य शीर्षस्नानं वर्णनं च विलेपनं च पिष्यति तत्र हेठतो निहितो निधिः । तं पि कुमारेण महानिधानं उत्खनापितं ॥ यन् तातेन वुत्तं यत्र वैरोचनो भ्युदेति निधिन् ति यत्र तातो इक्ष्वाकु इक्षुणा जातो तत्रापि निहितो
[_म्वु_2.439_] निधि । तं पि कुमारेण महानिधानं उत्खनापितं ॥ यं पि तातेन वुत्तं यत्र प्रभंकरादित्य अस्तमेति तत्र निहितो निधि त्ति यत्र इक्ष्वाकु कालगतो तत्रापि निहितो निधिः । तं पि कुमारेण महानिधानं उत्खनापितं ॥ यं तातेन वुत्तं यत्र देवा महीयन्ति तत्रापि निहितो निधिः यत्र राज्ञा इक्ष्वाकुना पंच कुमारशता परिविषापिता तत्रापि निहितो निधिः । तं पि कुमारेण महानिधानम् उत्खनापितं ॥ एवं तेन कुशेन कुमारेण तानि निधानानि उत्खनापियमानानि अमात्या च कुमारा च पुरोहिता च ब्राह्मणराजाचार्या च भटबलाग्रा च नैगमजनपदा च सर्वे कुशस्य कुमारस्य तत्र निधानेषु उत्खनापियमानेषु विस्मयम् आपन्ना । अहो कुशस्य कुमारस्य महाबुद्धि महामीमान्सा यत्र दानि राज्ञो इक्ष्वाकुस्य राजकुले देशे देशे महानिधानं निहितं तं सर्वं कुशेन ज्ञातं सर्वं उत्खनापितं । एषो राजा भविष्यति ॥
___तेषां दानि अमात्यानां एवं भवति । मा हैव तावत् कुशेन कुमारेण अन्येषां सकाशातो श्रुतं भविष्यति भूयो भूयो अन्येनार्थेन जिज्ञासेम ॥ ते दानि कुमाराणां अमात्या जल्पन्ति ॥ कुमारा यो युष्माकं सर्वां देवान् वन्दित्वा प्रथमं सिंहासने उपविशिष्यति सो राजा भविष्यति ॥ ते दानि एकूनपंचकुमारशता नानाप्रकाराणि यानानि अभिरुहित्वा शीघ्रं शीघ्रं त्वरमानरूपा येन देवकुला तेन देववन्दका प्रधावन्ति ॥ सो पि कुशो कुमारो येन सर्वसौवर्णं अभिषेचनीयसिंहासनं तेनोपसंक्रमित्वा चतुर्दिशं देवानां अंजलिं कृत्वा पूर्वराजचित्तीकरेण च तं सिंहासनं प्रदक्षिणीकृत्वा उपविष्टः ॥ सो हि कुशो कुमारेहि अमात्येहि भटबलाग्रेहि
[_म्वु_2.440_] च नैगमजनपदेहि च अयं पण्डितो ति कृत्वा राज्ये भिषिक्तो सर्वेहि षष्टीहि नगरसहस्रेहि निगमजनपदेहि राजामत्येहि कुमारेहि च अभ्यर्चितो एषः राजा ति ॥ एवं दानि कुशो कुमारो राज्यं प्राप्तो ॥
___सो दानि राजा कुशो यं कालं राज्यं प्राप्तः ततो मातरं अलिन्दां देवीम् अभिवादयित्वा सत्कृत्वा गुरुकृत्वा मानेत्वा पूजेत्वा एवं दानि राजा कुशो चिरं कालं धर्मेण राज्यं कारापयित्वा अपरेण कालेन तां देवीम् अलिन्दां मातरं विज्ञपेति अम्बे भार्या मे अग्रमहिषीम् आनेहि प्रासादिकां दर्शनीयां यस्या अन्या स्त्री सदृशा न भवेत्* ॥ अलिन्दा देवी आह ॥ पुत्र को ते पापकस्य रूपेण प्रासादिकां दर्शनीयां भार्यां दास्यति । पापिकां एव रूपेण भार्यां आनयिष्यामि या ते उल्लासं न करिष्यति ॥ राजा कुशो आह ॥ अम्बे यदि पापिकां मे भार्यां आनयिष्यसि न ताम् अहं पापिकां भार्यां पादेन वा पाणिना वा स्पृशेयं । प्रासादिकां दर्शनीयां मे भार्यां आनेहि । न मे अम्बे श्रुतं वा दृष्टं वा राजा पापिको ति नापि राजा पापिकाये स्त्रियाये सार्धं अभिरमति शोभनां व मे भार्यां अम्बे आनेहि ॥ अलिन्दा देवी आह ॥ पुत्र सुखं जायापतिका अन्योन्यसमलक्षणा संवसन्ति न चान्यमन्यं अभिमन्यन्ति । कल्याणरूपा भार्या रूपेण पतिं अभिमन्यति । कल्याणरूपो पतिः पापरूपाये भार्याये अभिमन्यति ॥ यादृशा ते पुत्र भार्या योग्या तादृशान् ते भार्यां आनयिष्यामि पापिकां रूपेण या ते पुत्र नाभिमन्यिष्यति ॥ राजा कुशो आह ॥ अम्बे न मे पापिकाये भार्याये कार्यं । असदृशां मे रूपेण भार्याम् आनेहि ॥ अलिन्दा देवी आह ॥ पुत्र को ते पापकस्य रूपेण कल्याणरूपां भार्यान् दास्यति ॥ कुशो राजा आह ॥ अम्बे दूरातो मे अर्थहिरण्यसुवर्णेन व्ययकर्मेण कल्याणरूपां भार्यां आनेहि ॥

[_म्वु_2.441_]___सा दानि अलिन्दा देवी अमात्यां पुरोहितां शब्दापयित्वा आमन्त्रयति ॥ भवन्तो राज्ञो कुशस्य भार्यां अग्रमहिषीं जानथ यादृशा राजकुले बहूनां स्त्रीसहस्राणां अग्रमहिषी ज्येष्ठा भवेया ॥ ते दानि अमात्या पुरोहिता च देवीय प्रतिश्रुत्वा समन्ततो नगरजानपदेषु ब्राह्मणा च दूता च विसर्जिता । गच्छथ भवन्तो यादृशा इह कन्या राज्ञो कुशस्य इक्ष्वाकुपुत्रस्य योग्या भवेया तादृशीं कन्यां जानथ ॥ ते दानि ब्राह्मणा च दूता च षोडश जनपदान् अण्वमाना शूरसेनेषु जनपदेषु कण्णकुब्जं नाम नगरं तत्र अनुप्राप्ता ॥ तत्र महेन्द्रको नाम मद्रकराजा राज्यं कारयति । तस्य सुदर्शना नाम धीता प्रासादिका दर्शनीया यस्या सर्वे जंबुद्वीपे रूपेण सदृशा अन्या कन्या नास्ति ॥ सा दानि राजधीता महता राज-ऋद्धीये महता राजानुभावेन महता समुदयेन चतुघोटं अश्वरथं अभिरुहित्वा वयस्यकाहि च चेटिकाहि च परिवारिता उद्यानभूमिं निर्धावति । तेहि ब्राह्मणेहि दूतेहि च दृष्टा । तेषां दानि भवति । इयं राजकन्या सुष्ठु प्रासादिका दर्शनीया इयं राज्ञो कुशस्य अग्रमहिषी योग्या ॥ ते दानि ब्राह्मणा दूता च अपरं दिवसं कल्यतो एव प्रावरिय निवासयित्वा च राजकुलद्वारे स्थिता । यं कालं राजा महेन्द्रको दर्शनशालायां उपविष्टो ते दानि ब्राह्मणा दूता च राज्ञो भिवादयित्वा पुरतः स्थिता ॥ सो दानि ब्राह्मणो राज्ञो महेन्द्रकस्य जयेन वर्धापयित्वा एतद् उवाच ॥ महाराज वाराणस्यां कुशो नाम राज्ञो इक्ष्वाकुस्य पुत्रो सो ते सुदर्शनां स्वधीतरं भार्यार्थाय वरेति ॥ सो दानि कुशो राजा अभिलक्षितो यथा षष्टीनां नगरसहस्राणां राज्यं कारयति ॥ तस्य महेन्द्रकस्य भवति ॥ अनुरूप एदृशस्य पुरुषस्य सम्बन्धो ॥ सो दानि राजा महेन्द्रको तं ब्राह्मणं दूतां च जल्पते ॥
[_म्वु_2.442_] भवन्तो वयस्यः राजा कुशो मम भवति देमि से धीतरं भार्यार्थं ॥ सो दानि ब्राह्मणो मोदकानि क्रीणिय ब्राह्मणां शब्दावित्वा मोदकानि वारेति । भवन्तो अन्यं महेन्द्रको मद्रकराजा राज्ञो कुशस्य इक्ष्वाकुपुत्रस्य धीतां सुदर्शनां प्रपत्नीं प्रयच्छति । तं भवन्तो उदकं प्रयच्छन्तु ॥ ते दानि ब्राह्मणा च दूता च ब्राह्मणस्य वचनं कृत्वा राजानं महेन्द्रकम् आमन्त्रयित्वा प्रस्थिता । अनुपूर्वेण वाराणसीम् अनुप्राप्ता ॥
___ते दानि ब्राह्मणा च दूता च अमात्यानां पुरोहितानां निवेदयन्ति ॥ तादृशा कन्या लब्धा यस्या सर्वे जम्बुद्वीपे अन्या कन्या रूपेण सदृशा नास्ति । शूरसेने नाम जनपदे कन्यकुब्जं नाम नगरं तत्र महेन्द्रको नाम मद्रकराजा । तस्य धीता सुदर्शना नाम प्रासादिका दर्शनीया ॥ श्रुत्वा ते दानि अमात्या पुरोहिता च अलिन्दाये देवीये निवेदेन्ति ॥ तादृशा कन्या लब्धा तस्या सर्वे जम्बुद्वीपे अन्या कन्या रूपेण सदृशा नास्ति । शुरसेने नाम जनपदे कन्यकुब्जं नाम नगरं । तत्र महेन्द्रको नाम मद्रकराजा । तस्य धीता सुदर्शना नाम प्रासादिका दर्शनीया ॥ श्रुत्वा अलिन्दा देवी हृष्टा प्रीता संवृत्ता । असदृशा मे पुत्रस्य भार्या लब्धा ॥ सा दानि अलिन्दा देवी पुत्रस्य कुशस्य रोचयति ॥ पुत्र तादृशा कन्या लब्धा यस्या सर्वे जंबुद्वीपे अन्या कन्या रूपेण सदृशा नास्ति । शुरसेने नाम जनपदे कन्यकुब्जं नाम नगरं तत्र महेन्द्रको नाम मद्रकराजा तस्य धीता सुदर्शना नाम प्रासादिका दर्शनीया ॥ सो दानि राजा कुशो मातुर् वचनं श्रुत्वा हृष्टो प्रीतो संवृत्तः ॥ अमात्यपारिषद्य ब्राह्मणपुरोहितराजाचार्यान् आमन्त्रेति ॥ भवन्तो
[_म्वु_2.443_] शूरसेने नाम जनपदे कन्यकुब्जं नाम नगरं तत्र महेन्द्रको नाम मद्रकराजा तस्य धीता सुदर्शना नाम । गच्छथ तां मम कृतेन आनेथ ॥ ते दानि अमात्या पारिषद्या ब्राह्मणपुरोहिता राजाचार्या राज्नो कुशस्य प्रतिश्रुत्वा चतुरंगं बलकायं सन्नाहयित्वा महता समृद्धिये महता विभूषाये प्रस्थिता ॥ तस्या दानि अलिन्दाये देवीये तेषां प्रस्थितानाम् एतद् अभूषि ॥ को नु खलु उपायो भवेया यथा सा सुदर्शना राजधीता न जानेया केदृशो राजा कुशो वर्णरूपेण ॥ तस्या दानि अलिन्दाये देवीये भवति एवं ॥ यं नूनाहं गर्भगृहं कारेयं यत्र राजा कुशो भार्याया सार्धं क्रीडेया रमेया परिचारेया न च सा जानेया केदृशो राजा कुशो त्ति ॥ ताये दानि अलिन्दाये देवीये तादृशं गर्भगृहं कृतं लिप्तोपलिप्तं ओसक्तपट्टदामकलापं धूपितधूपनं मुक्तपुष्पावकीर्णं यत्र राजा कुशो क्रीडिष्यति रमिष्यति परिचारिष्यति ॥
___ते पि दानि अमात्या पारिषद्या ब्राह्मणपुरोहिता राजाचार्या अनुपूर्वेण शूरसेनेषु जानपदेषु कन्यकुब्जं नाम नगरम् अनुप्राप्ता ॥ ते दानि येन महेन्द्रको मद्रकराजा तेनोपसंक्रमित्वा राजानं जयेन वर्धापयित्वा पुरतो स्थित्वा एतद् उवाच ॥ महाराज जामाता ते कुशो राजा कौशल्यं परिपृच्छति सपरिवारस्य यं च महाराजेन प्रतिज्ञातं तां मे धीतां सुदर्शनां भार्यार्थं देहि ॥ सो दानि राजा महेन्द्रको तान् अमात्यपारिषद्यां ब्राह्मणपुरोहितराजाचार्यान् अभिनन्दित्वा प्रतिसंमोदित्वा राजारहाणि वस्त्रालंकाराणि परिभोगानि च दिन्ना ॥ ते दानि अमात्यपारिषद्या तत्र कत्य् अहं कालं विहरित्वा राज्ञो महेन्द्रकस्य आमन्त्रयन्ति ॥ महाराज चिरगता स्म विवाहः क्रियतु गच्छामः ॥ सो दानि राजा महेन्द्रको महता राजर्द्धीये
[_म्वु_2.444_] महता राजानुभावेन महतो जनकायस्य हक्कारहिक्कारभेरीभृदंगपटहशंखसंनिनादेन विवाहधर्मं कृत्वा धीता सुदर्शना राज्ञो कुशस्य भार्या दिन्ना ॥ ते दानि अमात्या पुरोहिता विवाहधर्मं कृत्वा राज्ञो महेन्द्रकस्य आमन्त्रयित्वा प्रस्थिता । अनुपूर्वेण वाराणसीये उपवनं अनुप्राप्ता ॥ एवं दानि सुदर्शना राजधीता महता सत्कारेण महता समुदयेन वाराणसीं नगरीं प्रवेशिता ॥ सा दानि सुदर्शना राजधीता राजकुले प्रवेशिता ॥ येन श्वश्रू अलिन्दा देवी तेनोपसंक्रमित्वा श्वश्रुये पादां शिरसा वन्दित्वा पुरतः प्रत्युस्थासि ॥ सा दानि अलिन्दा महादेवी तां वधूं दृष्ट्वा प्रभुदिता प्रीतिसौमनस्यजाता संवृत्ता ॥

___सो दानि राजा कुशो सुदर्शनाये राजधीताये सार्धं तहिं गर्भगृहे अज्योतिके महारहेहि उपभोगपरिभोगेहि क्रीडन्तो रमन्तो परिचारयन्तो आसति ॥ तस्या दानि राजधीतुः सुदर्शनाये तहिं गर्भगृहे अज्योतिके राज्ञा कुशेन सार्धं क्रीडन्तीये रमन्तीये परिचारयन्तीये एतद् अभूषि ॥ इमं राज्ञो कुशस्य इक्ष्वाकुकुलं ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च अनन्तरत्नाकरं अयं च अस्माकं शयनगृहो अज्योतिको दीपा पि न दीप्यन्ति । परस्परं हि चक्षुहि न पश्यामो नैवाहं जानामि केदृशो राजा कुशो वर्णरूपेण नापि स राजा कुशो जानाति कीदृशा मे सुदर्शना देवी वर्णरूपेण । एतन् तत्र अन्तरं न परिबुध्यामि कस्यार्थाय अस्माकं शयनगृहे नैव रात्रं न दिवा दीपा दीप्यन्ति । सा दानि सुदर्शना देवी राजानं कुशं रहोगतं पृच्छति ॥ महाराज अयं राजकुलो ऋद्धो च स्फीतो च अनन्तरतनाकरो इमस्मिं चास्माकं शयनगृहे नैव रात्रौ न दिवा दीपा दीप्यन्ति यथा अन्धकारे तथा संवसामो परस्परं चक्षुहि न पश्यामो नैवाहं जानामि कीदृशो मे भर्ता नापि महाराजा जानाति कीदृशा मे सुदर्शना देवी । तद् एतत् कारणं न परिबुध्यामि कस्यार्थाय
[_म्वु_2.445_] अस्माकं शयनगृहे दीपा न दीप्यन्ति ॥ राजा कुशो आह ॥ देवि अहं पि एतं न जानामि कस्यार्थाय अस्माकं शयनगृहे दीपा न दीप्यन्ति । माता मे जानिष्यति तां पृच्छाहि ॥ सा दानि सुदर्शना देवी राजधीता प्रभाताये यं कालं राजा कुशो निर्धावितो भवति वस्त्राणि च प्रावरित्वा अलंकारं च बन्धयित्वा अलिन्दाय महादेवीये पादां वन्दनाय उपसंक्रान्ता ॥ सा दानि सुदर्शना श्वश्रूये पादा वन्दित्वा आह ॥ भट्टे अयं राजकुलो ऋद्धो स्फीतो च अनन्तरतनाकरो अस्मिं च अस्माकं शयनगृहे नैव दिवा न रात्रिं दीपा दीप्यन्ति यथा अन्धकारे तथा संवसामो परस्परं चक्षूहि न पश्यामः किम् अत्र कारणं यं अस्माकं गृहे दीपा न दीप्यन्ति ॥ अलिन्दा महादेवी आह ॥ पुत्रि सुदर्शने युष्माकं उभये जायापतिका उदाररूपा रूपेण अन्यं कंचि समसमं न पश्यामि । तं मा युष्माकं परस्परं उदारं रूपं दृष्ट्वा उन्मादं गच्छेया ति । अपि तु एवं च मे देवानाम् उपयाचितं चिरकालं अस्माभिः यदा मे वधुकाये सुदर्शनाये पुत्रो वा धीता वा भवेया ततो द्वादशमे वर्षे परस्परं पश्यिष्यथ ॥ एषो स्माकं कुलधर्मः ॥ सा दानि सुदर्शना राजधीता आह ॥ पापं खलु ताव भट्टाये देवानाम् उपयाचितं चिरकालम् अस्माभिः परस्परं न द्रष्टव्यं ॥ अलिन्दा महादेवी आह ॥ पुत्रि किं करोमि एवं मे उपयाचितं देवानाम् अपि रक्षामि मा युष्माकं परस्परं उदारवर्णरूपं दृष्ट्वा उन्मादं गच्छेया त्ति ॥ एवं दानि सुदर्शना राजधीता श्वश्रुय अलिन्दाय महादेवीय संज्ञप्ता ॥
___सा दानि सुदर्शना राजधीता चिरेण कालेन तां श्वश्रुं प्रनिपतिय तां विज्ञपेसि ॥
[_म्वु_2.446_] भट्टे इच्छामि स्वामिकं द्रष्टुं ॥ अलिन्दा महादेवी आह ॥ भवतु पुत्रि कालेन तं पश्यिष्यसि ॥ सा दानि सुदर्सना पुनर्पुनः तां श्वश्रुं विज्ञपेति । भट्टे इच्छामि एकं वारं द्रष्टुं ॥ तस्या दानि अलिन्दाये महादेवीये एवं भवति । इयं सुदर्शना राजधीता कुशं पश्यितुकामा यदि से न विनोदयामि कौतुकं महान्तं भवेया । सा अलिन्दा देवी आह ॥ पुत्रि सुदर्शने सुष्ठु सुवे ते राजानं कुशं दर्शयिष्यामि दर्शनशालायां जनस्य दर्शनं च दत्तं ॥ सा दानि अलिन्दा देवी राजं कुशं आमन्त्रेति ॥ पुत्र एषा सुदर्शना राजधीता त्वां पश्यितुकामा त्वं च पापको रूपेण मा सुदर्शना तवेदृशं रूपं दृष्ट्वा चित्तस्य भवे अन्यथात्वं यो तेषां पंचानां कुमारशतानां सर्वेषां कुमाराणां दर्शनीयतरो प्रासादिकतरो भवेया स राजेति कृत्वा राजासने निषीदापयित्वा ततो सुदर्शनाये उपदर्शयितव्यो एषः राजा कुशो ति । ततो सुदर्शना जानेय एदृशो राजा कुशो ति ततः चित्तं न प्रतिहरिष्यति ॥ राजा कुशो आह ॥ अम्बे एवं क्रियतु ॥ तेषां दानि कुमाराणां कुशद्रुमो कुमारो प्रासादिको दर्शनीयो ॥ सो दानि कुशद्रुमो राजार्हेहि वस्त्रेहि च आभरणेहि च अलंकृत्वा यथा राजा तथा अलंकृतो दर्शनशालाये राजकृत्ये सिंहासने राजेति कृत्व उपविशापितो । ते पि कुमारा सर्वे अलंकृताः सुभूषिता कृता स्वकस्वकेषु आसनेषु उपविशापिता ॥ अमात्या पि पुरोहिता भटबलाग्रा श्रेष्ठिनैगमग्रामग्रामिकजनपदा सराजक्या परिषा यथा देवपुरिषा विरोचति ॥ सो दानि राजा कुशो भ्रातुः कुशद्रुमस्य कुमारस्य राजासने निषण्णस्य च्छत्रं गृह्य वामे पार्श्वे छत्रं धारेति । सा दानि अलिन्दा देवी वधुकाये सुदर्शनाये सार्धं अपरेहि च बहुहि देवीशतेहि परिवारिता राजकुलातो निर्धाविता सिंहपंजरे स्थिता ॥ अथ खलु अलिन्दा महादेवी वधुकाये सुदर्शनाये
[_म्वु_2.447_] कुशद्रुमं कुमारं राजासने उपनिषण्णकं उपदर्शयति ॥ पुत्रि सुदर्शने एषो ते भर्ता पश्याहि नं ॥ सा दानि सुदर्शना कुशद्रुमं कुमारं राजासने निषण्णं दृष्ट्वा प्रीतमनसा सुलब्धा मे लाभा यस्या मे भर्ता एदृशो अभिरूपो प्रासादिको दर्शनीयो सर्वां स राजपरिषाम् अभिभवति रूपेण ॥ सा दानि सुदर्शना राजधीता परिषां च अभिविलोकयति यावत् तस्या सहस्रस्त्रीबुद्धिये सो राजक्यो छत्रधारो दृष्टो ॥ तस्या दानि सुदर्शनाये तं राजक्यं छत्रन्धरं दृष्ट्वा मनसं प्रत्याहतं दुःखदौर्मनस्यजाता संवृत्ता ॥ श्वश्रुं अलिन्दां महादेवीं जल्पति ॥ भट्टे शोभति राजा कुशो कुमारा च कृतपुण्या दर्शनीया सर्वा च राजक्या परिषा शोभति यथा देवपरिषा । अपि च एषो छत्रधारो अपश्यनीयो न अनुरूपो सदृशस्य राज्ञो देवपुत्रसमस्य एदृशो छत्रधारो विकृतरूपो स्थूलोष्ठो स्थूलशिरो स्थूलपादो महोदरो कालो मषिराशिवर्णो । एतेन च्छत्रधारेण सर्वा सा राजक्यपरिषाशिरी उपहता । एवं विस्तीर्णे राज्ये नास्ति अन्यो पुरुषो यो राज्ञो छत्रं धरेया ॥ यदि मे भर्ता इच्छति प्रियं कर्तुं तद् एषो छत्रधारो राज्ञो सामन्तके न तिष्ठेया अन्यं पुरुषं छत्रं धारापये ॥ अलिन्दा देवी आह ॥ पुत्रि सुदर्शने मा हैवं जल्पाहि न रूपेण कृत्यं भवति यद् एषो छत्रधारो रूपेण पापको अपि तु गुणेहि महात्मको शीलवन्तो सत्यवादी धार्मिको पुण्यवन्तो बलवां परराष्ट्रप्रमर्दको एतस्यानुभावेन अस्माकं षष्टीहि नगरसहस्रेहि सनिगमजानपदेहि न कोचि प्रत्यर्थिको हेठां उत्पादेति । एतस्यानुभावेन सर्वे वयं सुखं जीवाम ॥ एवं दानि अलिन्दाये देवीये सा सुदर्शना

[_म्वु_2.448_] संज्ञप्ता ॥ सा दानि सुदर्शना राज्ञा कुशेन सार्धं रहोगता जल्पति ॥ महाराज एवं विस्तीर्णे तव राज्ये नास्त्य् अन्यो पुरुषो यो तव च्छत्रधारो भवेय । यो तव एदृशो छत्रधारो अदर्शनीयो । यदि मे इच्छसि प्रियं कर्तुं तद् एतं छत्रधारं मेल्लेहि अन्यं पुरुषं छत्रधारं थपेहि ॥ राजा आह ॥ मा एतं छत्रधारं निन्दाहि किं रूपेण कृत्यं भवति । यो गुणेन सम्पन्नो किं रूपं तस्य करिष्यति । सो छत्रधारो महात्मा गुणेन कल्याणो च महाबलो च तस्य अनुभावेन इमानि षष्टि नगरसहस्राणि न कोचि प्रत्यर्थिको हेठां उत्पादयति ॥ एवं दानि सुदर्शना देवी राज्ञा कुशेन संज्ञप्ता ॥
___सो दानि राजा कुशो सुदर्शनां देवीं पश्यतुकामो मातरं अलिन्दां देवीं विज्ञापेति । अम्बे अभिप्रायो मे यथा सुदर्शनां देवीं पश्येयं ॥ अलिन्दा देवी आह ॥ पुत्र त्वं पापको रूपेण यदि सुदर्शना जानेया एदृशो राजा कुशो वर्णरूपेण स्थानम् एतं विद्यति यं सुदर्शना उपक्रमेण आत्मानां मारेया ॥ राजा कुशो आह ॥ अम्बे किं शक्या कर्तुं । उपायो चिन्तयितव्यो यद् अहं सुदर्शनां पश्येय सा च मे न जानेया को एषो ति ॥ आलिन्दा देवी आह ॥ पुत्र एष अस्ति उपायो यदा सुदर्शना राजधीता अपराहि देवीहि सार्धं सर्वाहि च अन्तःपुरिकाहि उद्यानभूमिं निर्धाविष्यति उत्पलानि पद्मानि च पुष्पतकानि द्रष्टुं ततो त्वं प्रकृत्यैव उद्यानं गत्वा पद्मिनीये कण्ठमात्रो ओतरित्वा पद्मपलाशेन शीर्षं प्रतिच्छादयित्वा आससि । तथा वयं करिष्यामः यथा यत्र देशे तुवं पद्मिनीये स्थितको भविष्यसि तेन सोपानेन सुदर्शना पद्मिनीय पद्मानाम् अर्थाय स्वयं ओतरिष्यति । यत् कारणं सुदर्शनातीव पुष्पलोला पत्रलोला च ततो नां त्वं यथाभिप्रायं पश्यिष्यसि ॥
[_म्वु_2.449_] तत्र दानि राजकुले मालाकारेहि उत्पलानि च पदुमानि च पुण्डरीकानि च सौगन्धिकानि च फुल्लितानि नानाप्रकाराणि च माल्यानि प्रवेशियन्ति ॥ सा दानि सुदर्शना तानि उत्पलानि पदुमानि फुल्लितानि दृष्ट्वा तां श्वश्रुं अलिन्दां देवीं विज्ञपेति ॥ भट्टे इच्छामि वापीयो द्रष्टुं फुल्लितकेहि उत्पलपदुमकुमुदपुण्डरीकेहि ॥ अलिन्दा महादेवी आह ॥ पुत्र सुष्ठु पश्याहि सर्वे वापीयो निर्धाविष्यामः ॥ सा दानि अलिन्दा देवी राज्ञो कुशस्य निवेदयति ॥ पुत्र यं खलु जानेसि सा वै सुदर्शना राजधीता अन्तःपुरेण सार्धं वापीयो दर्शनाये निर्धाविष्यति । यदि तां पश्यितुकामः ततो प्रकृत्यैव उद्यानभूमिं गत्वा तत्र देशे तिष्ठाहि यथा ते सुदर्शना न जानेया एषो राजा कुशो ति ॥
___सो दानि राजा कुशो मातुः प्रतिश्रुत्वा प्रभाताये रात्रीये प्राकृतकेन वेषेण प्रकृत्यैव उद्यानभूमिं गत्वा अन्तःपुरिकां प्रतिपालेन्तो आसति ॥ सो दानि राजा कुशो येन सोपानेन सर्वबहूनि पदुमानि च पुण्डरीकानि च तत्रोतरोत्वा पद्मपलाशेनात्मानं छादयित्वा आसति ॥ अन्तःपुरिका च सर्वा निर्धाविता । यादृशं नन्दनवनं अप्सरगणेहि भरितं उपशोभति तादृशो तम् उद्यानं तेन राजान्तःपुरेण ॥ सा दानि सुदर्शना देवी तासु वापीसु उत्पलपद्मकुमुदपुण्डरीकां फुल्लितकानि रमणीया दृष्ट्वा अपरासु देवीषु जल्पति ॥ देवीहो आगच्छथ वापीसु पदुमानि गृह्णीष्यामः ॥ तान् देवीयो आह ॥ सुष्ठु देवि

[_म्वु_2.450_] गृह्णीष्यामो पद्मानि ॥ सा दानि सुदर्शना देवी तहिं अन्याहि देवीहि येन सोपानेन राजा कुशो स्थितो तेन सोपानेन सुदर्शनां अग्रतो कृत्वा ओकस्ता ॥ ताय दानि सुदर्शनाये पद्मानां कृतेन हस्तो प्रणामितो पद्मं गृह्णीष्यामीति । ततः कुशेन राज्ञा सहसा आलिंगिता ॥ तस्या दानि सुदर्शनाये देवीये एवं भवति उदकराक्षसेन गृहीता ॥ सा दानि अविधा अविधा प्रवेशिताहम् उदकराक्षसेन खज्जामि उदकराक्षसेन खज्जामि त्ति ॥ ता दानि अन्तःपुरिका सर्वा एकान्तीभूता स्थिता राजा कुशो देवीय सार्धं क्रीडिष्यति सा दानि सुदर्शना देवी अविधाविध त्ति वक्ष्यति उदकराक्षसेन खज्जामि ॥ ता दानि अन्तःपुरिका यं कालं जानन्ति राज्ञा कुशेन यथाभिप्रायं कृतं तदा सुदर्सनाये देवीये परिवारेण संलग्नं बलिकर्म कृतं । कटच्छु ज्वलिता शान्तं समितं ते पापं दिष्ट्यासि उदकराक्षसेन मुक्ता ति ॥ सा दानि सुदर्शना ताहि अपराहि देवीहि सार्धं तहिं दिवसं पद्मिनीये क्रीडित्वा रमित्वा परिचारयित्वा विकाले राजकुलं प्रविष्टा ॥ सा दानि सुदर्शना देवी राज्ञो कुशस्य शयनगृहं प्रविष्टा ॥ राजा जल्पति ॥ देवी पद्मिनीं पश्यनाय गता न मम पद्मानि आनीता । न ते अहं प्रिये प्रियो ति ॥ देवी आह ॥ महाराज कुतो मे पद्मानि ओकस्ता अहं वापीं पद्मानि गृह्णिष्यामीति ततो हं उदकराक्षसेन आलिंगिता मनास्मि उदकराक्षसेन खादिता । ततो स्मि अन्तःपुरिकाहि मोचिता ॥ यादृशो महाराज सो तव च्छत्रधारो तदृशो तत्र पद्मिनीये उदकराक्षसो मन्यामि एकमाताय जाता ति ॥ सो दानि राजा कुशो आह ॥
[_म्वु_2.451_] देवि मा भूयो पद्मिनीं पश्यनाय निर्धावसि । अहं पि तत्र वापीये मनास्मि उदकराक्षसेन खादितो हि ॥
___तत्र राजकुले आम्रकाले राजक्येहि आम्रपालेहि नानाप्रकाराणि आम्राणि प्रवेशितानि ॥ सा दानि सुदर्शना देवी तानि नानाप्रकाराणि आम्राणि दृष्ट्वा श्वश्रुम् अलिन्दां महादेवीं विज्ञपेति ॥ भट्टे इच्छामि आम्रवनानि द्रष्तुं ॥ अलिन्दा महादेवी आह ॥ पुत्रि सुष्ठु पश्याहि शुवे आम्रवनानि निर्धावयिष्यामि ॥ ताये दानि अलिन्दाये महादेवीये आम्रपालां शब्दापयित्वा आणत्तिका दिन्ना ॥ श्वः सुदर्शना राजधीता अन्तःपुरेण सार्धं आम्रवनानि पश्यनाय निर्धाविष्यति ततो आम्रवनं सिक्तसंसृष्टं करोथ । वसन्तचित्रेहि दुष्येहि आम्रदण्डानि वेठेथ ओसक्तपट्टदामकलापं धूपितधूपनं मुक्तपुष्पावकीर्णं आम्रवनं अलंकरोथ ॥ ते दानि उद्यानपाला महादेवीये अलिन्दाय वचनमात्रेण तम् उद्यानं आम्रवनं अलंकृतं ॥ सा दानि अलिन्दा देवी राज्ञो कुशस्य निवेदयति ॥ पुत्र यं खलु आणेसि शुवे सुदर्शना राजधीता अन्तःपुरेण सार्धं राजक्यम् आम्रवनं पश्यनाय निर्धाविष्यति । यदि मे पश्यितुकामो सि सुदर्शनां राजधीतान् ततो प्रकृत्यैव गत्वा तत्र प्रदेशे तिष्ठाहि यथा ते सुदर्शना न जानाति एषो सो राजा कुशो ति ॥ सो मातुर् वचनं प्रतिश्रुत्वा प्राकृतकेन वेषेण प्रकृत्यैव आम्रवनं गत्वा सर्वस्यारामस्य यो सर्वशोभनो आम्रो तस्य हेष्टा स्थितः ॥ सा दानि सुदर्शना अन्तःपुरिकाहि परिवृता महता राज-ऋद्धिये महता राजानुभावेन नानाप्रकारेहि सुविचित्रेहि राजरथेहि आरुहित्वा आम्रवनं प्रस्थिता ॥ सा दानि सुदर्शना देवी यानातो ओरुहित्वा बहूहि देवीशतेहि परिवृता तं आम्रवनं प्रविष्टा ॥ यादृशं चित्ररथे मिश्रकावने देवानां
[_म्वु_2.452_] त्रायस्त्रिंशानां यात्रका कोविदारा देवपरिवृता शोभन्ति तादृशं राजन्यं आम्रवनं ताहि राजान्तःपुरिकाहि परिवृतो शोभति ॥ सा दानि सुदर्शना देवी अपराहि सार्धं तम् आम्रवनं अनुचंक्रमन्ती अनुविचरन्ती वरवराणि आम्राणि उच्चिनन्ती आम्रफलानि च भुजन्ती नानाप्रकाराणि च पुष्पजातानि उच्चिनन्ती यावद् आम्रवनस्य मध्ये अनुप्राप्ता यत्र राजा कुशो आसति ॥ सो दानि राजा कुशो आम्रमूलातो उत्थिहित्वा सुदर्शनाये देवीये उन्मूर्धिकाये आलिंगितो ॥ सा दानि सुदर्शना भीता सन्त्रस्ता जानाति वनपिशाचेनास्मि गृहीता ति ॥ सा दानि अविधाविध त्ति प्रवेशिता वनपिशाचेन खज्जामि वनपिशाचेन खज्जामि त्ति ॥ ता दानि अन्तःपुरिका इतो च इतो च पलायन्ति । राजा कुशो सुदर्शनाय सार्धं आम्रवने क्रीडति रमति परिचारयति सापि सुदर्शना अविधाविधं वक्ष्यति धावथ अन्तःपुरिकाहो वनपिशाचेन खज्जामि ॥ ता दानि अन्तःपुरिका यं कालं जानन्ति यथाभिप्रायो राज्ञा कुशेन सुदर्शनाय सार्धं क्रीडितं रमितं परिचारितं ततः नानाप्रकाराणां पुष्पाणां उत्संगे गृह्णियान तं देशं गता ॥ ता दानि बहूनि देवीशतानि पुष्पमुष्टीहि राजं कुशं ओकिरन्ति शब्दं च करोन्ति । धिक्पिशाच धिक्पिशाच त्ति ॥ सो दानि कुशो सुदर्शनां देवीम् ओशिरित्वा राजकुलं प्रविष्टो ॥ तस्या दानि सुदर्शनाय देवीये परिवारेण संलग्नं बलिकर्म कृतं । कटच्छु ज्वालापिता शान्तं शमितं पापं दिष्ट्यासि वनपिशाचेन जीवन्ती मुक्ता ति ॥ सा दानि सुदर्शना देवी अपराहि देवीहि सार्धं तहिं आम्रवने यथाभिप्रायं दिवसं क्रीडित्वा रमित्वा प्रविचारयित्वा विकाले राजकुलं प्रविष्टा ॥ सा दानि सुदर्शना राज्ञो कुशस्य शयनगृहे प्रविष्टा ॥ राजा
[_म्वु_2.453_] जल्पति ॥ देवी आम्राणि संपश्यनाय निर्धाविता न ते आम्राणि आनीतानि न ते अहं प्रियो ॥ देवी आह ॥ महाराज कुतो मे आम्राणि । निर्धाविता सा आम्राणि पश्यनाय ततः मे वनपिशाचेन आलिंगिता मनास्मि वनपिशाचेन खादिता । ततो हं अन्तःपुरिकाहि वनपिशाचस्य हस्तातो मोचिता ॥ महाराज यादृशो तव च्छत्रधारो यादृशो पद्मिनी-उदकराक्षसः तादृशो आम्रवने वनपिशाचः सर्वे त्रयो जना मन्ये एकमाताय जाता ति सर्वे समसदृशा ॥ राजा कुशो आह ॥ देवि मा भूयो आम्रवनं पश्यनाय गच्छ । अहं पि तत्राम्रवने मनास्मि वनपिशाचेन खादितो ॥
___तत्र दानि अपरेण कालेन सुदर्शना देवी श्वश्रुम् अलिन्दां महादेवीं विज्ञपेति ॥ अभिप्रायो मे राज्ञो कुशस्य हस्तिवाहिनीं द्रष्टुं । शृणोमि राज्ञो कुशस्य विस्तीर्णा हस्तिवाहिनी षष्टि हस्तिसहस्राणि ॥ अलिन्दा महादेवी आह ॥ भो पुत्रि सुवे राजहस्तिवाहिनीं पश्यनाय निर्धावसि ॥ सा दानि अलिन्दा महादेवी हस्तिमहामात्रं शब्दावियान आणत्तिका दिन्ना ॥ सुवे सुदर्शना राजधीता अन्तःपुरिकाहि सार्धं राजक्यां हस्तिशालां पश्यनाय निर्धाविष्यतीति । ततः हस्तीं च हस्तिशालां च अलंकरोहि ॥ सो दानि हस्तिमहामात्रो अलिन्दाय महादेवीये आणत्तिकाये श्रुत्वा सर्वां हस्तिवाहिनीं षष्टिं हस्तिसहस्राणि सर्वालंकारेहि अलंकृतानि हेमलालप्रतिच्छन्नानि दन्तपतिमोकानि शुण्डापतिमोकानि सखुरप्रवालानि । सा च हस्तिशाला सिक्तसन्सृष्टा मुक्तपुष्पावकीर्णा कृता ओसक्तपट्टदामकलापा धूपितधूपना ॥ सा दानि अलिन्दा महादेवी राजं कुशम् आमन्त्रयति ॥

[_म्वु_2.454_] पुत्र यं खलु जानेसि सुवे सुदर्शना राजधीता अन्तःपुरेण सार्धं राजक्यां हस्तिशालां निर्धाविष्यति पश्यनाय । ततः प्रकृत्यैव हस्तिशालां गत्वा तत्र देशे आसथ यथा ते सुदर्शना न जानेया एषः राजा कुशो ति ॥ सो दानि राजा कुशो मातुः प्रतिश्रुत्वा प्रभाताये रात्रीये हस्तिमेण्ठवेशेन प्रकृत्यैव हस्तिशालां गत्वा हस्तिनो मूले सुदर्शनां प्रतिपालयमानो आसति ॥ सापि दानि सुदर्शना श्वश्रुय अलिन्दाये सार्धं सर्वाहि च अन्तःपुरिकाहि परिवृता राजारहेहि अश्वरथेहि अभिरुहित्वा हस्तिशालां प्रविष्टा ॥ सा दानि अश्वरथातो ओरुहित्वा बहूहि चेटीशतेहि परिवृता हस्तिशालां प्रविष्टा । सो पि राजा कुशो हस्तिनां मूले हस्तिमेण्ठो ति कृत्वा सुदर्शनां निध्यायमानो आसति ॥ सा दानि सुदर्शना देवी ताहि अन्तःपुरिकाहि सार्धं तत्र हस्तिशालाय अनुचंक्रमन्ती अनुविचरन्ती यं कालं प्रतिनिवर्तिता राजकुलं गच्छामीति राज्ञा कुशेन प्रत्यग्रेण हस्तिलण्डेन वाष्पायन्तेन सुदर्शना देवी पृष्ठितो आहता । तानि राजार्हाणि वस्त्राणि हस्तिलण्डेन विनाशितानि ॥ सा दानि सुदर्शना राजधीता श्वश्रुं अलिन्दा महादेवीं विज्ञपेति ॥ भट्टे इमस्य राजक्यस्य हस्तिमहामात्रस्य दण्डो दातव्यः । शक्या एतेन या राज्ञो कुशस्य अम्ग्रमहिषी तां हस्तिलण्डेन आहनितुन् ति ॥ सा दानि अलिन्दा महादेवी आह ॥ भवतु पुत्रि मेल्लेहि एषो राजक्यो हस्तिमहामात्रो अवध्यो किं शक्यं कर्तुं ॥ एवं दानि सुदर्शना श्वश्रुये संज्ञापिता ॥
___सा दानि सुदर्शना अपरेण कालेन श्वश्रुम् अलिन्दां महादेवीं विज्ञपेति ॥ भट्टे प्रियं मे राज्ञो कुशस्य अश्ववाहिनीं द्रष्टुं ॥ अलिन्दा महादेवी आह ॥ सुष्ठु पुत्रि स्वो राज्ञो कुशस्य अश्ववाहनं पश्यनाये निर्धावाहि ॥ सा दानि
[_म्वु_2.455_] अलिन्दा महादेवी अश्वमहामात्राणां शब्दापयित्वा आणत्तिकां देति ॥ श्वो सुदर्शना राजादेहीता अन्तःपुरेण सार्धं राजक्यं अश्ववाहनं पश्यनाये निर्धाविष्यति । तां दानि षष्टि अश्वसहस्राणि सर्वाणि अलंकरोहि अश्वशालां च सिक्तसंसृष्टां मुक्तपुष्पावकीर्णां करोहि ॥ तेहि अश्वरक्षेहि अलिन्दाये महादेवीये आणत्तिकां श्रुत्वा सर्वाणि षष्टि अश्वसहस्राणि सर्वालंकारोहि अलंकृतानि । सा च अश्वसाला सिक्तसन्सृष्टा मुक्तपुष्पावकीर्णा कृता ॥ सा दानि अलिन्दा महादेवी राजस्य कुशस्य निवेदयति ॥ पुत्र कुश यं खलु जानेसि सा सुदर्शना राजधीता अन्तःपुरेण सार्धं राजक्यं अश्ववाहनं पश्यनाये निर्धाविष्यति । यदि सि पश्यतुकामः ततो प्रकृत्यैवाश्वशालायां गत्वा तत्र देशे तिष्ठाहि यथा ते सुदर्शना न जानेया एषः राजा कुशो त्ति ॥ सो दानि राजा कुशः मातुर् वचनं प्रतिश्रुत्वा प्रभाताये रात्रीये अश्वरक्षवेशं कृत्वा अश्वानां घासं विकिरन्तो आसति सुदर्शनां प्रतिपालयमानो ॥ सा दानि सुदर्शना राजधीता श्वश्रुये अलिन्दाये महादेवीये सार्धं सर्वाहि चान्तःपुरिकाहि रत्नामयीं शिविकाम् आरुहित्वा अश्वशालां प्रस्थिता ॥ सापि दानि सुदर्शना शिविकातो प्रत्योरुहिय बहूहि देवीशतेहि परिवृता अश्वशालां प्रविष्टा ॥ सो पि राजा कुशो अश्वानां पृष्ठतो स्थितः सुदर्शनां निध्यायन्तो ॥ सापि दानि सुदर्शना अपराहि अन्तःपुरिकाहि सार्धं तत्र अश्वशालायां अनुचंक्रमित्वा अनुविचरित्वा यं कालं निवर्तिता राजकुलं गच्छामि त्ति ततः कुशेन राज्ञा प्रत्यग्रेण अश्वलण्डेन वाष्पायन्तेन पृष्ठिमेन आहता । तानि राजार्हाणि वस्त्राणि अश्वलण्डेन विनाशितानि ॥ सा दानि सुदर्शना राजधीता श्वश्रुं अलिन्दां महादेवीं आह ॥ भट्टे इमस्य अश्वरक्षस्य दण्डो दातव्यः ॥ लभ्या एतेन राज्ञः कुशस्य
[_म्वु_2.456_] अग्रमहिषीं अश्वलण्डेन आहनितुं ति ॥ अलिन्दा महादेवी आह ॥ पुत्रि मर्षेहि एते राजक्या अश्वरक्षा अवध्या किं शक्या कर्तुं ॥
___सा दानि सुदर्शना अपरेण कालेन श्वश्रुम् अलिन्दां महादेवीं विज्ञपेति ॥ भट्टे अभिप्रायो मे राज्ञो कुशस्य रथवाहिनीं द्रष्टुं । श्रुतं मे विस्तीर्णा राज्ञः कुशस्य रथवाहिनी षष्टि रथसहस्राणि ॥ अलिन्दा महादेवी आह ॥ सुष्ठु पुत्रि श्वो राज्ञो कुशस्य रथवाहिनीं पश्यनाय निर्धावाहि ॥ सा दानि अलिन्दा महादेवी राज्ञो कुशस्य रथपालां शब्दापयित्वा आणत्तिकां देति ॥ स्वो सुदर्शना राजधीता अन्तःपुरेण सार्धं राज्ञो कुशस्य रथवाहिनीं पश्यनाये निर्धाविष्यति ॥ तेहि दानि रथपालेहि महादेवीवचनं श्रुत्वा अपरज्जुकातो षष्टु रथसहस्राणि युक्तानि सिंहचर्मपरिवाराणि द्वीपचर्मपरिवाराणि व्याघ्रचर्मपरिवाराणि पाण्डुकम्बलप्रतिच्छन्नानि सनन्दिघोषाणि सवैजयन्तिकानि सखुरप्रवालानि उच्छ्रितध्वजपताकानि ॥ सा दानि अलिन्दा महादेवी राज्ञो कुशस्य निवेदयति ॥ पुत्र यं खलु जानेसि स्वो सुदर्शना राजधीता अन्तःपुरेण सार्धं राजक्यां रथवाहिनीं पश्यनाये निर्धाविष्यति । यदि सि पश्यितुकामः ततो प्रकृत्यैव रथशालां गत्वा तत्र प्रदेशे तिष्ठाहि यथा ते सुदर्शना न जानेया एषः सो राजा कुशो त्ति ॥ सा दानि सुदर्शना राजधीता अलिन्दाये महादेवीये सार्धं सर्नेण च अन्तःपुरेण राजारहेहि रथेहि अभिरुहित्वा रथशालांप्रस्थिता ॥ सो पि राजा कुशो मातरि प्रतिश्रुत्वा प्रभाताये रात्रीये प्रकृत्यैव रथवाहनशालां गतः रथपालवेषेण रथानां मूल आसति सुदर्शनां प्रतिपालयमानो ॥ सापि दानि सुदर्शना राजधीता अश्वरथातो ओरुहित्वा बहूहि देवीशतेहि परिवृता रथशालां प्रविष्टा ॥ सा दानि सुदर्शना राजधीता अपराहि देवीहि सार्धं रथशालाम् अनुचंक्रमित्वा यं कालं निवर्तिता राजकुलं गच्छामि त्ति ततः राज्ञा कुशेन प्रत्यग्रेण गोमयपिण्डेन वाष्पायन्तेन
[_म्वु_2.457_] पृष्ठे आहता ॥ तानि राजार्हाणि वस्त्राणि गोमयपिण्डेन विनाशितानि ॥ सा दानि सुदर्शना राजधीता श्वश्रुम् अलिन्दां महादेवीम् आह ॥ भट्टे इमस्य रथपालस्य दण्डो प्रणामयितव्यो । लभ्या एतेन राज्ञो कुशस्य अग्रमहिषीं गोमयपिण्डेन आहनितुं ॥ अलिन्दा महादेवी आह ॥ पुत्रि मर्षेहि एष राजक्यो रथपालः अवध्यो राज्ञो रथकोशधारो किं शक्या कर्तुं ॥ सा दानि सुदर्शना ताय अलिन्दाय महादेवीय संज्ञप्ता ॥

___तत्र दानि अपरेण कालेन या राजक्या हस्तिशाला तत्राग्निः मुक्तो महान्तो अग्निदाहो प्रज्वलितो ॥ हस्तिमेण्ठसहस्राणि महामात्राणि च अन्यश् च महाजनकायो सन्निपतितो हस्तिशालां निर्वापयिष्यामः न च शक्नोन्ति तं अग्निदाघं परिनिर्वापयितुं अन्तःपुरं पि तेन अग्निभयेन सर्वं भीतं सन्त्रस्तं संवृत्तं मा इमं पि राजकुलं दहिष्यतीति ॥ ता दानि सर्वाः अन्तःपुरिका यतो हस्तिशाला ततो निर्धावमाना आसन्ति को शक्नोति एतं हस्तिदाघं परिनिर्वायपयितुं ति ॥ महाजनकायं खिज्जन्ते न च शक्नोन्ति तं अग्निदाघं निर्वापयितुं न च शक्नोन्ति तानि हस्तिशालाय पटलानि घनानि महन्तानि बहुजन-उत्तकानि पातयितुं ॥ तस्मिंश् च कालान्तरे राजा कुशो वहिर्नगरे अनुचंक्रमन्तो अनुविचरन्तो अण्वति । तस्य दानि राज्ञो अमात्येन पुरुषेण निवेदितं ॥ महाराज यं खु जानेसि या राजक्या हस्तिशाला तत्र अग्निः प्रज्वलितो ॥ श्रुत्वा च पुनः राजा कुशो हस्तिस्कन्धवरगतः जवेन तां हस्तिशालां सपरिवारो आगतो ॥ सर्वाहि अन्तःपुरिकाहि राजा आपतन्तो दृष्टो तेन राज्ञा आपतन्तेन तानि प्रदीप्तानि पटलानि एकेनोस्साहेन सपक्षकानि
[_म्वु_2.458_] सतलकण्टकानि ततः हस्तिशालातो वाह्यमुखं क्षिप्तानि ॥ ये पि हि हस्तियो वरत्रेहि बद्धानि तानि बन्धनानि हस्तेन च्छटच्छटाय च्छिन्दति । ये पि हस्तिनागा अग्निना अभिग्रस्ता तानि उत्क्षिपित्वा अग्निभयातो एकमन्ते क्षिपति ॥ एवं दानि कुशेन राज्ञा मुहूर्तेन हस्तिशाला निर्वापिता सर्वा हस्तिवाहिनी अग्निदाघातो मोचिता एको पि न हस्तिर् दग्धो नाबाधितो ॥ तत्र दानि अनेककोटीशतसहस्राणि राज्ञो कुशस्य तादृशां वीर्यपराक्रमां दृष्ट्वा हक्कारसहस्राणि प्रवर्तेन्ति । अन्तःपुरं पि राज्ञो कुशस्य तादृशं पुरुषपराक्रमं दृष्ट्वा सर्वे प्रीता तुष्टा अहो राज्ञो कुशस्य बलो अहो पराक्रमं ॥ तत्र दानि अपरा कुब्जा हर्षिता वेगजाता राजा राजा ति कुशं संरावेति ॥
सिंहसुपीठो बलवां शोभे सुविपुलो महां ।
खे चन्द्रो इव आभाति समन्तपरिमण्डलं ॥
चक्रोरताम्रायताक्षो कामदेवो व शोभति ।
हस्तिनो मोचये राजा स्थामोपेतो नरर्षभो ॥
सो दानि राजा कुशो तस्या कुब्जाय प्रीतो दायं देति संवारेति वरं ॥
भद्रिका खु अयं कुब्जा या राजानं प्रशंसति ।
काशिकानि ते वस्त्राणि ददामि चतुरो अहं ॥
सा दानि सुदर्शना राजधीता तां कुब्जां कुशस्य वर्णं भाषमाणां श्रुत्वा तस्या दानि सुदर्शनाय राजधीतु एवं भवति ॥ एषः राजा कुशो भविष्यति
[_म्वु_2.459_] तस्य एषा कुब्जा वर्णं भाषति ॥ सा दानि सुदर्शना राजधीता राजस्य कुशस्य तादृशं वर्णरूपं दृष्ट्वा मानसं से प्रत्याहतं दुःखदौर्मनस्यजाता संवृत्ता ॥ मा ताव एदृशो मम भर्ता एवं दुर्वर्णो दुर्दृशो स्थूलोष्ठो स्थूलशिरो स्थूलपाद्रो महोदरो कालो मषिराशिवर्णो पिशाचस्य च एतस्य च नास्ति किंचित्* नानाकरणं ॥ सा दानि सुदर्शना देवी तस्या कुब्जाये रुषिता आह ॥
न नाम एताये कुब्जाये जिह्वाये अस्ति च्छेदको ।
सुतीक्ष्णेन शस्त्रेण या राजानं प्रशंसति ॥
सा दानि कुब्जा सुदर्शनां देवीं गाथाये संज्ञपेति ॥
प्रतितर्जेन्ति राजानो बन्धनेन वधेन वा ।
तस्मास्य वर्णं भाषामि रक्षं जीवितम् आत्मनो ॥
सा दानि सुदर्शना देवी राजं कुशं तादृशं दृष्ट्वा दुर्वर्णं दुर्दृशं दृष्ट्वा तत्र राजकुले एवं रमणीये देवभवनसन्निभे अनन्तरतनाकरे रतिं न विन्दति अन्नपानेन से छन्दः ओत्पद्यते । नाहं अत्स्यामि न भोक्ष्यामि किं जीवितेन मे यद् अहं पिशचेन सार्धं संवसामि ॥ सा दानि सुदर्शना राजधीता श्वश्रुम् अलिन्दां महादेवीं विज्ञपेति ॥ भट्टे मुञ्चाहि मे कन्यकुब्जं गमिष्यामि मातापितुः सकाशं ॥ यदि मे न ओसिरिष्यसि मुहूर्तेन उपक्रमेमि आत्मानं मारयिष्यं ॥ तस्या दानि अलिन्दाये महादेवीये एवं भवति ॥ वरं अयं राजधीता जीवति नैव मृता ति ॥ सा दानि अलिन्दा महादेवी आह ॥ पुत्रि गच्छ यत्र ते अभिप्रायो ॥
[_म्वु_2.460_] सा दानि सुदर्शना राजधीता कुब्जाद्वितीया अश्वरथं अभिरुहित्वा वाराणसीतो निर्यात्वा प्रस्थिता अनुपूर्वेण कन्यकुब्जं गता मातापितुः सकाशं ॥ सो दानि राजा कुशो विकाले शयनगृहं प्रविष्टो सुदर्शनां देवीं न पश्यति । राजकुले समन्तेन मार्गयमाना न कुत्रचिद् दृश्यति ॥ सो दानि राजा कुशो सुदर्शनां देवीं न लभन्तो उत्कण्ठति शोचति परितप्यति । एवं विस्तीर्णे अन्तःपुरे न्यां न लभति ॥ यदा से विदितं यथा सुदर्शना देवी कुब्जाद्वितीया ज्ञातिकुलं गता सो दानि राजा कुशो मातरं अलिन्दां विज्ञपेति ॥ अम्बे अहं पि गच्छामि कण्णकुब्जं श्वशुरस्य महेन्द्रस्य मद्रकराज्ञो सकाशं सुदर्शनां देवीम् आनयिष्यामि ॥ सा दानि अलिन्दा महादेवी पुत्रस्य कुशस्य वचनं श्रुत्वा कन्यकुब्जं गमिष्यामीति ततः पुत्रप्रेम्नेन राज्यतृष्णाये च मूर्छिता प्रस्खलिता च भग्ना धरणीतले प्रपतिता पुत्रशोकसमन्विता ॥ अहो मम मन्दभाग्याये अनर्थं । पर्येषिता यतो इयं मया महेन्द्रकस्य कन्यकुब्जकस्य मद्रकराज्ञो धीता सुदर्शना इहानीता ततो न जानामि कथं मे पुत्रस्य राज्ञो कुशस्य भविष्यति ॥ सा दानि अलिन्दा महादेवी पुत्रस्य कुशस्य जल्पति ॥ पुत्र त्वं इक्ष्वाकुराजपुत्रो सुकुमारो सुखसंवृद्धो जानपदा च शक्तुभक्षा कम्बलपरिधाना च दिवसकर्मलूखाहारा च कथन्ते मार्गगमनं भविष्यति ॥ राजा कुशो आह ॥ अहं अम्बे नृत्यगीतवाद्येन अन्याहि च मायाहि विविधेहि च उपायेहि आत्मनो वृत्तिं कल्पयन्तो गमिष्यं मा उत्कण्ठतु अम्बा ॥ सो राजा कुशो तां मातरं संज्ञापयित्वा भ्रातरं कुशद्रुमं राज्ये प्रतिष्ठापयति ॥ भ्राता
[_म्वु_2.461_] इमानि ते षष्टि नगरसहस्राणि सनिगमजानपदानि ऐश्वर्यं कारापेहि इमानि ते षष्टि हस्तिसहस्राणि सर्वालंकारविभूषितानि हेमजालप्रतिच्छन्नानि सखुरप्रवालानि षष्टि अश्वसहस्राणि सर्वे सैन्धवानि शीघ्रवाहीनि सर्वालंकारविभूषितानि षष्टि रथसहस्राणि सिंहचर्मपरिवाराणि व्याघ्रचर्मपरिवाराणि द्वीपिचर्मपरिवाराणि पाण्डुकम्बलप्रतिच्छन्नानि सनन्दिघोषाणि सवैजयन्तिकानि सखुरप्रवालानि उच्छ्रितच्छत्रध्वजपताकानि इमानि ते वाहनानि । इमं राज्यं परिपालेहि याव मम आगमनं भविष्यति ॥ सो दानि राजा कुशो अमात्यानां संदिशति ॥ एषो वो कुमारो कुशद्रुमो राजा मम यावद् आगमनं । एवं जानथ । तथा एव राज्यं समनुशासथ धर्मेण च पौरजानपदां परिपालेथ ॥ सो दानि राजा कुशो अमात्यानां एवम् अनुशासयित्वा भ्रातरं कुशद्रुमं राज्ये प्रतिष्ठापयित्वा मातरम् अलिन्दां महादेवीं अभिवादयित्वा प्रदक्षिणीकृत्वा सप्ततन्त्रिकां वीणाम् आदाय उत्तराभिमुखो प्रस्थितो ॥

___राजा कुशो विविधेहि उपायेहि आत्मनो वृत्तिं कल्पयन्तो कन्यकुब्जं श्वसुरं येन गच्छति अनुपूर्वेण कन्यकुब्जस्य विषयम् अनुप्राप्तः ॥ तत्र अन्यतरस्मिं ग्रामे वासम् उपगतो अपराये वृद्धाये शालाये प्रतिश्रयो दिन्नो ॥ तत्र ग्रामे उत्सवो व वर्तति । सो दानि राजा कुशो ताये वृद्धाये वुच्चति ॥ पुत्र इह ग्रामे उत्सवो वर्तति व्रज ग्राममध्ये तत्र किंचिद् अन्नपानं लभिष्यसि ततः आहारं कृत्वा प्रतिक्रमिष्यसि ॥ सो दानि राजा कुशो तस्या वृद्धाय श्रुत्वा ग्राममध्यं गतः ॥ तेन दानि राज्ञा कुशेन तादृशी वीणा वादिता गीतकं गायितं यं सर्वो ग्रामजनो आराध्यति । एतस्य दानि कुशस्य ग्रामजनेन प्रीतेन समानेन नानाप्रकारस्य खज्जकस्य पूरं गोपिटकं दिन्नं महान्तं अलिन्दं ओदनस्य दधिकलशश् च नानाप्रकाराणि
[_म्वु_2.462_] च व्यंजनानि ॥ तेन दानि राज्ञा कुशेन खद्यभोज्यं सर्वं वृद्धाये शालां प्रवेशितं ॥ सा दानि वृद्धा प्रभूतखाद्यभोज्यं दृष्ट्वा (पूरं महान्तं गोपिटकं नानाप्रकारस्य च खज्जकस्य पूरं पिटकं दिन्नं महान्तं अलिन्दं ओदनस्य नानाप्रकाराणि व व्यंजनानि तेन दानि राज्ञा कुशेन प्रवेशितं दृष्ट्वा च पुनर् वृद्धा) प्रीता संवृत्ता ॥ अद्य एषः गान्धर्विको एकाहारं कृत्वा पश्चिमे यामे गमिष्यति तं शेषं खाद्यभोज्यं मम द्वेमासिकं त्रेमासिकं वा भक्तं भविष्यति ॥ तेनापि दानि राज्ञा कुशेन तस्या वृद्धाये आलापं करन्तेन एकार्धं व यन् तं गोपिटकं खज्जकस्य प्रखादितं । सापि वृद्धा जानाति । इदानिं पि मुहूर्तके पि एषो मम खज्जकशेषं दास्यतीति ॥ तेनापि दानि राज्ञा कुशेन बुभुक्षितेन सर्वं तं गोपिटकं खज्जकस्य खादितं न एकं पि खज्जालोपं शेषकृतं ॥ तस्या वृद्धाये एवं भवति ॥ यदा इमेन गान्धर्विकेन तं महान्तं गोपिटकं खज्जकस्य सर्वं खादितं आशितो एषः भविष्यति । न धारयिष्यति एषो भूयो इमं अलिन्दं मोदकस्य खादितुं । एवम् मम चिरस्य कालस्य भक्तं भविष्यति ॥ तेन दानि राज्ञा कुशेन मार्गगतेन बुभुक्षितेन महान्तं अलिन्दं मोदकस्य तं च दधिकलशं तानि च व्यंजनानि नानाप्रकाराणि सर्वं परिभुक्तं । तस्या वृद्धाये न किंचि शेषकृतं ॥ सा दानि वृद्धा निराशा संवृत्ता अविधाविधं प्रविशथ धावथ प्रवेशितकायो मनुष्यरूपेण मे पिशाचो गृहं प्रविष्टः मम खादितुकामो ॥ राजा कुशो आह ॥ अम्बे किम् आरवसि किञ्चि द्रवसि । ग्रामस्मि न च का पि पापका वसन्ति मा त्रसाहि मा रवाहि । इमां एकरात्रिं वसित्वा शुवे गमिष्यामि ॥
___सो दानि राजा कुशो प्रत्यूषलेशकाले उत्थाय प्रस्थितः अनुपूर्वेण कन्यकुब्जं
[_म्वु_2.463_] अनुप्राप्तः मालाकारशालां प्रविष्टो । मालाकारमहत्तरकस्य अल्लीनो अहं पि इमहिं वसिष्यं अहं पि अत्र कर्मे कुशलो ॥ तत्र दानि मालाकारशालायां राजन्यानि कण्ठगुणानि गन्धमकुटा च माला क्रियन्ति ॥ सो दानि राजा कुशो तादृशानि कण्ठगुणानि च गन्धमकुटानि च मालाश् च सुकृतानि सुनिष्ठितानि च सुविचित्राणि च आकारवन्तानि च करोति यथा सर्वे मालाकारा दृष्ट्वा विस्मयम् आपद्यन्ति । अहो कल्याणो आचार्यपुत्रो शोभनो शिल्पिको य इमानि एदृशानि कण्ठगुणानि गन्धमकुटानि च मालाश् च तादृशानि सुकृतानि सुनिष्ठितानि करोति यथा अस्माभिः न कदाचि दृष्टपूर्वा । सर्वाणि च राजा कुशो आत्मनो नामकेन आलिखति यथा सुदर्शना जानेया राज्ञो कुशस्य एतं कर्मन् ति ॥ तानि कण्ठगुणानि गन्धमकुटानि मालाश् च राजकुलं प्रवेशिता सुदर्शनाये उपनामियन्ति । पश्य सुदर्शने इमानि पुष्पजातानि केदृशानि सुकृतानि सुविचित्राणि सुनिष्ठितानि नानावर्णानि ॥ सा दानि सुदर्शना यं तत्र सर्वशोभनं कण्ठगुणं च मकुटं च मालावरं च गृहीतं आबन्धामि त्ति यावत् पश्यति कुशस्य नामकं ॥ तस्या एतद् भवति ॥ कुशस्य एतं कर्मन् ति राजा कुशो प्राकृतकेन वेशेन इहागतो भविष्यतीति ॥ सा दानि सुदर्शना तानि कुशेन कृतानि मेल्लेत्वा अन्यानि प्राकृतकानि गृह्णति ॥ सा दानि सुदर्शना मातरे वुच्चति भगिनीहि च वुच्चति अन्तःपुरिकाहि । सुदर्शना किं त्वम् इमानि सर्वशोभनानि कण्ठगुणानि मकुटानि मालाश् च मेल्लित्वा अन्यानि प्राकृतानि गृह्णसि ॥ सा ताम् आह ॥ अलं मे एतेहि एतम् एव मे भवतु ॥ यन् तत्र रहस्यं तन् न कस्यचिद् आचिक्षति ॥
___सो दानि राजा कुशो मालाकारस्य मूले वसित्वा अर्थं नोपलभति । ततः
[_म्वु_2.464_] निर्धावित्वा कुम्भकारमहत्तरकस्य मूले अल्लीनो ॥ तत्रापि राजान्तःपुरस्य कृते नानाप्रकाराणि कुम्भकारभाजनानि क्रियन्ति । सो दानि राजा कुशो तादृशानि कुम्भकारभाजनानि सुकृतानि सुनिष्ठितानि आकारवन्तानि करोति यथा सर्वे कुम्भकारा दृष्ट्वा विस्मयम् आपद्यन्ति । अहो कल्याणाचार्यपुत्रो शोभनः शिल्पिको य इमानि एदृशा कुम्भकारभाजनानि सुकृतानि सुनिष्ठितानि आकारवन्तानि करोति यानि अस्माभिः न कदाचि दृष्टपूर्वाणि । सर्वेषु च कुशो राजा स्वकं नामकं संज्ञामात्रकेन आलिखति यथा सुदर्शना जानेया कुशस्येदं कर्मन् ति ॥ ताहि दानि अन्तःपुरे दासीहि तानि कुम्भकारभाजनानि राजकुलं प्रवेशितानि सुदर्शनाये च उपनामियन्ति । पश्य सुदर्शने इमानि कुम्भकारभाजनानि यादृशानि शोभनानि कल्याणानि सुकृतानि सुनिष्ठितानि यन् ते रुच्यति तं गृह्णाहि ॥ सा दानि सुदर्शना तानि कुम्भकारभाजनानि यं सर्वशोभनं सर्वदर्शनीयं तं गृह्णीष्यामीति यावत् पश्यति कुशस्य नामकं । तस्या एवं भवति । कुशस्येतं कर्मन् ति ॥ सा दानि तानि मेल्लित्वा अन्यानि प्राकृतका निप्रतिगृह्णाति ॥ सा दानि सुदर्शना मातरे वुच्चति भगिनीहि पि देवीहि । सुदर्शने एदृशानि भाजनानि न कदाचिद् इह राजकुले प्रवेशितपूर्वाणि एवं शोभनानि । किस्य त्वं एतानि शोभनानि भाजनानि न गृह्णसि ॥ सा दानि आह ॥ अलं मे एतेन एतम् एव मे भवतु ॥ यं तत्र रहस्यं तन् न कस्यचिद् आचिक्षति ॥
___सो दानि राजा कुशो कुम्भकारस्य मूले वसित्वा अर्थं नोपलभति । ततः निष्क्रमित्वा वर्धकिमहत्तरकस्य मूले अल्लीनो ॥ तत्रापि राजान्तःपुरस्य कृतेन नानाप्रकाराणि वर्धकिभाण्डानि क्रियन्ति । आसन्दिका पि क्रियन्ति मञ्चका पि

[_म्वु_2.465_] क्रियन्ति पीठका पि क्रियन्ति शय्यासनका पि क्रियन्ति पादफलकानि पि क्रियन्ति भद्रपीठकानि पि क्रियन्ति अयक्वा पि क्रियन्ति फेलिकानि पि क्रियन्ति अन्तकोटान्य् अपि क्रियन्ति अन्यानि च नानाप्रकाराणि वर्धकिभाण्डानि क्रियन्ति ॥ सो दानि राजा कुशो तादृशानि वर्धकिभाण्डानि सुकृतानि सुनिष्ठितानि आकारवन्तानि करोति यथा सर्वे वर्धकिनो दृष्ट्वा विस्मयम् आपन्ना । अहो कल्याणाचार्यपुत्रो शोभनो शिल्पिको यो इमानि एदृशानि वर्धकिभाण्डानि सुकृतानि सुनिष्ठितानि करोति यानि अस्माभिः न कदाचि दृष्टपूर्वाणि । सर्वेषु च राजा कुशो आत्मनो नामकं संज्ञामात्रकेण लिखति यथा सुदर्शना जानेया राज्ञो कुशस्येदं कर्मन् ति ॥ ताहि दानि अन्तःपुरिकादासीहि तं वर्धकिभाण्डं राजकुले प्रवेशितं । यानि सर्वशोभनानि तानि विचिनित्वा सुदर्शनाये उपनामीयन्ति ॥ सुदर्शने पश्य पश्य इमानि वर्धकिभाण्डानि यादृशानि शोभनानि दर्शनीयानि । यन् ते अभिप्रेतं तं गृह्णाहि ॥ सा दानि सुदर्शना या तत्र सर्वशोभना आसन्दिका या मंचका या पीठका पादाश्रया वा पादफलका वा भद्रपीठा वा अयक्का वा अन्तकोटा वा फेला वा फेलिका वा तं गृह्णामीति यावत् पश्यति कुशस्य नामकं ॥ तस्या दानि एवं भवति ॥ कुशस्येदं कर्मन् ति ॥ सा दानि तं मेल्लित्वा अन्यं प्राकृतकं गृह्णाति ॥ सा दानि सुदर्शना माताये वुच्चति भगिनीहि च ताहि च अन्तर्पुरिकाहि । सुदर्शने किस्य त्वं इमानि एदृशानि वर्धकिभाण्डानि शोभनीयानि
[_म्वु_2.466_] मेल्लित्वा अन्यानि प्राकृतकानि गृह्णासि ॥ सा दानि आह ॥ अलं मे तेहि इमानि एव मे भवन्तु ॥ यं तत्र रहस्यं तं न कस्यचिद् आचिक्षति ॥

___सो दानि राजा कुशो वर्धकिस्य मूले वसित्वा अर्थं नोपलभति । ततो निर्धावित्वा चोडकधोवकस्य मूले अल्लीनो ॥ तत्रापि राजान्तःपुरस्य कृतेन चोडकानि धोवीयन्ति सुदर्शनाया पि चोडकानि तत्रैव धोवीयन्ति ॥ सो दानि राजा कुशो सुदर्शनाये वस्त्राणि प्रत्यभिजानति । सो दानि राजा कुशो तानि सुदर्शनाय चोडकानि तादृशानि धोवति सुप्रक्षालितानि चौक्षाणि निर्मलाणि धौतानि यथा सर्वे धोवका चोडका दृष्ट्वा विस्मयम् आपन्नाः । अहो कल्याणाचार्यपुत्रो शोभनो शिल्पिको यो इमानि चोलकानि एदृशानि सुधोवितानि सुप्रक्षालितानि चौक्षाणि निर्मलानि धोवति यानि अस्माभिः न कदाचि दृष्टपूर्वाणि ॥ राजा कुशो स्वकं नामकं भल्लातकेन संज्ञामात्रकेन लिखति यथा सुदर्शना जानेया कुशस्येदं कर्मन् ति ॥ ताहि दानि अन्तःपुरदासीहि तानि चोलकानि राजकुलं प्रवेशितानि यानि देवीनां चोलकानि तानि देवीनाम् उपनामितानि यानि अन्तःपुरिकानां चोलकानि तानि अन्तःपुरिकानां दिन्नानि । तानि दानि अन्तःपुरिका सुदर्शनाचोलकानि पश्यन्ति अवदातानि चौक्षाणि निर्मलानि । ता दानि विस्मयं लभन्ति सर्वशोभनानि सुदर्शनाय चोलकानि सुधोतानि च चौक्षाणि निर्मला द्विगुणं त्रिगुणं सुदर्शनाय धोवापनिकम् अर्हन्ति ॥ सुदर्शनापि तानि वस्त्राणि दृष्ट्वा शुद्धानि निर्मलानि प्रीता
[_म्वु_2.467_] संवृत्ता याव यत्र देशान्ते चोडधोवनको भल्लातकेन संज्ञामात्रेण लिखन्तो चोलके नामकं करोति तत्र तं कुशस्य नामकं दृष्ट्वा कुशस्येदं कर्मन् ति ॥ सा दानि न स्वयं प्रतीछति उपस्थायकाये गृह्णावेति ॥ तानि सर्वान्तःपुरिका स्वकस्वकानां वस्त्राणां धोवापनिकं चेटीनां हस्ते देन्ति । सा दानि सुदर्शना न इच्छति वस्त्राणां धोवापनिकं दातुं ॥ सा दानि सुदर्शना मातरे वुच्चति भगिनीहि च अन्तःपुरिकाहि च ॥ सुदर्शने यदा तव चोलकानि सुधोवितानि सुचौक्षाणि सर्वाणि लंचकानि तस्य धोवापनिकं न देसि ॥ सुदर्शना आह ॥ किं युष्माकं चिन्ता दीष्यति सो अन्येन कालेन ॥ यं तत्र रहस्यं तं न कस्यचि आचिक्षति ॥
___सो दानि राजा कुशो धोवकस्य मूले वसित्वा अर्थं नोपलभति । ततः निर्धावित्वा रजमहत्तरकस्य मूले अल्लीनो तत्रापि च रजकशाले राजान्तःपुरस्य चोलकानि रज्यन्ति सुदर्शनाय पि चोलकानि रज्यन्ति ॥ तत्रैव सो राजा कुशो सुदर्शनाये चोलकानि प्रत्यभिजानति । तेन कुशेन ताये सुदर्शनाये चोलकानि सुरक्तानि रंगरक्तानि सुविवित्राणि तादृशानि रक्तानि यथा ते सर्वे रजा विस्मयम् आपन्ना । अहो कल्याणाचार्यपुत्रो शोभनः शिल्पिको यो इमानि एदृशानि सुरक्तानि सुविचित्राणि चोलकानि रजति यान्य् अस्माभिः न कदाचित्* दृष्टपूर्वाणि । सर्वेषु च राजा कुशो स्वकं नामकं भल्लातकेन संज्ञामात्रकेन लिखति यथा सुदर्शना जानेया कुशस्येदं कर्मन् ति ॥ ताहि दानि अन्तःपुरिकादासीहि यानि यानि देवीनां चोलकानि तानि तानि देवीनां यतानि यानि अन्तःपुरिकानां चोलकानि तानि अन्तःपुरिकानां दिन्नानि । सुदर्शनाचोलकं
[_म्वु_2.468_] अन्तःपुरिका दृष्ट्वा विस्मिता इमानि सुदर्शनाये चोलकानि तानि सुरक्तानि सुदर्शनीयानि सुविचित्राणि इमाये सुदर्शनाये द्विगुणं त्रिगुणं रंजापनीयं दातव्यं ॥ ता दानि चोलकानि सुदर्शनाये उपनामितानि ॥ सा दानि सुदर्शना तानि चोलकानि सुरक्तानि सुदर्शनीयानि सुविचित्राणि दृष्ट्वा तुष्टा प्रीतिसौमनस्यसंवृत्ता याव यत्र देशे रजको भल्लातकेन अङ्कं करोति तत्र देशे पश्यति कुशस्य नामकं । तस्या एवं भवति । कुशस्य तं कर्मन् ति । सा न प्रतीछति उपस्थायकाये प्रयच्छति ॥ ता दानि अन्तःपुरिका स्वकस्वकानां चोलकानां रंजापनिकं चेटिकानां हस्ते देन्ति सा सुदर्शना रंजापनिकं न इच्छति दातुं ॥ सा मातरे च भगिनीहि च अन्तःपुरिकाहि च वुच्चति । सुदर्शने यथा तव चोलकानि सुरक्तानि सुविचित्राणि दर्शनीयानि ततः त्वं याव द्विगुणं त्रिगुणं रंजापनिकं दातव्यं तन् न इच्छसि दातुं ॥ सुदर्सनाह ॥ किं युष्माकं चिन्ता दीष्यति सो अन्येन कालेन ॥ यं तत्र रहस्यं तन् न कस्यचि आचिक्षति ॥
___सो दानि राजा कुशः रजकस्य मूले वसित्वा अर्थं नोपलभ्य ततो निर्धावित्वा ततः तट्टकारमहत्तरकस्य मूले अल्लीनः ॥ तत्र दानि राज्ञो महेन्द्रकस्य आणत्तिया अन्तःपुरस्य अर्थाय नानाप्रकाराणि सुवर्णरूप्यमयानि रत्नप्रत्युप्तानि भोजनभाजनानि पिबनभाजनानि च क्रियन्ति ॥ सो दानि राजा कुशो सुवर्णमयानि रत्नमयानि च रतनप्रत्युप्तानि भोजनभाजनानि पिबनभाजनानि च तादृशानि करोति सुदर्शनीयानि सुसंस्थितानि यथा एको पि तट्टकारो नास्ति यो तादृशानि भाजनानि शक्नोति कर्तुं ॥ ते दानि तट्टकारा तादृशानि दृष्ट्वा
[_म्वु_2.469_] विस्मयम् आपन्ना ॥ अहो कल्याणाचर्यपुत्रो शोभनो शिल्पिको यो इमानि एदृशानि रत्नभाजनानि करोति यानि अस्मेहि न कदाचिद् दृष्टपूर्वाणि । सर्वेषु च राजा कुशः स्वकं नामकं संज्ञामात्रकेन लिखति यथा सुदर्शना जानेया कुशस्येतं कर्मन् ति ॥ ता दानि राजक्यानि सुवर्णरूप्यमयानि भाजनानि यं कालं सर्वाणि निष्ठितानि तेन तट्टकारमहत्तरकेन राज्ञो महेन्द्रकस्य उपनामितानि ॥ सो दानि राजा महेन्द्रको यानि कुशेन भाजनानि कृतानि तानि दृष्ट्वा विस्मयति । यादृशानीमानि रत्नप्रत्युप्तानि भाजनानि कुशलेन इमानि आचार्येण कृतकानि ॥ सो दानि राजा महेन्द्रकः तानि रत्नभाजनानि च वर्षवराणां कांचुकीयानां च हस्ते देति । गच्छथ अन्तःपुरं प्रवेशेथ महादेवीये धीतुश् च मे सुदर्शनाये यथाभिप्रेतं पूर्वं देथ पश्चाद् अपराणां देवीनाम् अन्तःपुरिकानां च ॥ तेहि दानि वर्षवरेहि कांचुकीयेहि च तानि रत्नभाजनानि अन्तःपुरं प्रवेशितानि महादेवीये उपनामितानि । देवि इमानि ते रत्नभाजनानि राज्ञा प्रेषितानि देवी च धीता च ते सुदर्शना यथाभिप्रेतं पूर्वं गृह्णन्तु पश्चाद् अन्यासां देवीनां दीष्यति सर्वासां च अन्तःपुरिकानां ॥ सा दानि सुदर्शना माताये वुच्चति भगिनीहि च अन्तपुरिकाहि च वर्षवरेहि कांचुकीयेहि च ॥ सुदर्शने इमानि व ते रत्नभाजनानि पिबनभाजनानि पितरे प्रेषितानि त्वं तावद् यथाभिप्रायं पूर्वं गृह्णथ पश्चाद् अन्यासां देवीनां दीष्यति सर्वासां च अन्तःपुरिकानां यथाभिप्रेतं गृह्णाहि ॥ सा दानि सुदर्शना यं तत्र सर्वशोभनं सुकृतं च सुनिष्ठितं आकारवन्तं तं गृह्णामि त्ति यावत् पश्यति कुशस्य नामकं । तस्या एवं भवति । कुशस्यैतं कर्मन् ति । सा दानि तं मेल्लित्वा अन्यानि प्राकृतशिल्पिकेन कृतकानि गृह्णाति ॥ सा दानि सुदर्शना ताये माताये भगिनीहि
[_म्वु_2.470_] च अन्तःपुरिकाहि च वुच्चति वर्षवरेहि च कांचुकीयेहि च ॥ सुदर्शने किं त्वं एदृशकानि दर्शनीयानि रतनभाजनानि सर्वशोभनानि मेल्लित्वा अन्यानि प्राकृतकानि गृह्णासि ॥ सा दान्य् आह ॥ अलं मे एतेन एतम् एव मे भवतु ॥ यन् तत्र रहस्यं तन् न कस्यचि आचिक्षति ॥

___सो दानि राजा कुशो तट्टकारस्य मूले वसित्वा अर्थं नोपलभति । ततो निर्धावित्वा सुवर्णकारमहत्तरस्य मूले अल्लीनो । तत्रापि राज-आणत्तिकाये अन्तःपुरस्य अर्थाये नानाप्रकाराणि सुवर्णाभरणानि क्रियन्ति मूर्धापिधाना पि क्रियन्ति पादास्तरणानि पि क्रियन्ति सुवर्णमाला पि क्रियन्ति किलंजका पि क्रियन्ति वेठका पि क्रियन्ति मणिकुण्डला पि क्रियन्ति करण्डा पि क्रियन्ति मुखफुल्लका पि क्रियन्ति बिम्बा पि क्रियन्ति पारिहार्यका पि क्रियन्ति कटका पि क्रियन्ति श्रोणिभाण्डिका पि क्रियन्ति पादास्तरका पि क्रियन्ति नूपुरा पि क्रियन्ति पादाण्गुलिवेठका पि क्रियन्ति ॥ सो दानि राजा कुशो तादृशानि सुवर्णाभरणानि करोति उदाराणि कल्याणानि सुकृतानि सुनिष्ठितानि सुनिर्वायन्तानि सुनिर्वान्तमलकषायाणि मृदूनि कर्मनियानि प्रभास्वराणि तादृशानि करोति यथा ते सुवर्णकारा सर्वे दृष्ट्वा विस्मयम् आपन्नाः । अहो कल्याणाचर्यपुत्रो शोभनो शिल्पिको यो इमानि एदृशानि सुवर्णाभरणानि सुकृतानि सुनिष्ठितानि आकारवन्तानि करोति यथास्माभिः न कदाचि दृष्टपूर्वाणि । सर्वेषु च राजा कुशः स्वं नामकं संज्ञामात्रकेन लिखति यथा सुदर्शना जानेया कुशस्येतं कर्मन् ति ॥ तेहि दानि सुवर्णकारेहि यं कालं
[_म्वु_2.471_] आभरणानि निष्ठितानि तं सर्वं राज्ञो महेन्द्रस्य अल्लीपितं ॥ सो दानि राजा यानि कुशेन राज्ञा आभरणानि कृतकानि दृष्ट्वा विस्मयम् आपन्नः अहो यादृशानि इमानि आभरणानि सुकृतानि सुनिष्ठितानि शोभनानि कुशलेनाचार्यपुत्रेण कृतकानि ॥ सो दानि राजा महेन्द्रको तान्य् आभरणानि वर्षवराणां कांचुकीयानां च हस्ते प्रेषति ॥ गच्छथ इमान्य् आभरणानि महादेवीये सुदर्शनाये च यथाभिप्रेतं पूर्वं देथ पश्चाद् अपराणां देवीनां देथ सर्वासां च अन्तःपुरिकानां देथ ॥ ते दानि वर्षवरा कांचुकीया च तान्य् आभरनाणि राजकुलं प्रवेशित्वा महादेवीय सुदर्शनाय च उपनामेन्ति ॥ देवि इमन् ते सुवर्णाभरणं राज्ञा प्रेषितं । त्वं च धीता च ते सुदर्शना यथाभिप्रेतं पूर्वं गृह्णथ । पश्चाद् अपराणां देवीनां दीष्यति सर्वासां च अन्तःपुरिकानां ॥ सा दानि सुदर्शना तेषां सुवर्णाभरणानां यं तत्र सर्वशोभनं सुकृतं सुनिष्ठितं आकारवन्तं गृह्णामि त्ति यावत् पश्यति कुशस्य नामकं । तस्या एवं भवति । कुशस्येतं कर्मन् ति । सा दानि तं मेल्लित्वा प्राकृतकानि कुशिल्पिकृतानि गृह्णाति ॥ सा दानि सुदर्शना माताये वुच्चति भगिनीहि च अन्तःपुरिकाहि च वर्षवरेहि च कांचुकीयेहि च ॥ सुदर्शने किं त्वं एवं विपरीतिका यानीमानि सर्वशोभनानि सुवर्णाभरणानि सुकृतानि सुनिष्ठितानि आकारवन्तानि कुशलेनाचार्यपुत्रेण कृतानि तानि मेल्लित्वा अन्यानि प्राकृतकानि कुशिल्पिककृतानि गृह्णसि ॥ सुदर्शना आह ॥ अलं मे एतेन इमम् एव मे भवतु ॥ यन् तत्र रहस्यं तन् न कस्यचिद् आचिक्षति ॥
___सो दानि राजा कुशो सुवर्णकारस्य मूले वसित्वा अर्थं नोपलभति । ततः निर्धावियान मणिकारमहत्तरकस्य मूले अल्लीनो । तत्रापि राजाणत्तिकाये अन्तःपुरस्य
[_म्वु_2.472_] अर्थाये नानाप्रकाराणि आभरणानि क्रियन्ति मुक्तामणिवैडूर्यशंखशिलाप्रवालस्फटिकमुसारगल्वलोहितिकाहारा पि क्रियन्ति अर्धहारा पि क्रियन्ति मणिकुण्डला पि क्रियन्ति मणिवक्कला पि क्रियन्ति रत्नमयानि मूर्धपिधानानि अङ्गदानि पि क्रियन्ति केयूराणि पि क्रियन्ति मेखला रत्नामयानि क्रियन्ति ॥ सो दानि राजा कुशो तादृशानि मणि-आभरणानि सुकृतानि सुनिष्ठितानि आकारवन्तानि करोति यथा सर्वे ते मणिकारा दृष्ट्वा विस्मयम् आपन्नाः । अहो कल्याणाचार्यपुत्रः शोभनो शिल्पिको यो इमानि ईदृशानि आभरणानि सुकृतानि सुनिष्ठितानि आकारवन्ता करोति ये अस्माभिर् अदृष्टपूर्वा । सर्वेषु च राजा कुशो स्वकं नामकं संज्ञामात्रकेन लिखति यथा सुदर्शना जानेया कुशस्यैतं कर्मन् ति । तेहि दानि मणिकारेहि यं कालं आभरणानि निष्ठितानि तं वेलं राज्ञो महेन्द्रकस्य अल्लीपितानि ॥ सो दानि राजा यानि कुशेनाभरणानि कृतानि दृष्ट्वा विस्मयम् आपन्नः । अहो कल्याणाचार्यपुत्रो शोभनो शिल्पिको ॥ सो दानि राजा महेन्द्रको तान्य् आभरणानि वर्षवराणां कांचुकीयानां च हस्ते प्रेषित्वा । गच्छथ एतान्य् आभरणानि महादेवीय सुदर्शनाय च यथाभिप्रायं पूर्वं देथ पश्चाद् अपराणां देवीनां सर्वासां च अन्तःपुरिकानां देथ ॥ ते दानि वर्षवरा कांचुकीया तान्य् आभरणानि राजकुलं प्रवेशित्वा महादेवीय सुदर्शनाय च उपनामयन्ति । देवि इमानि मण्याभरणानि राज्ञा प्रेषितानि त्वं च धीता च ते सुदर्शना यथाभिप्रेतं गृह्णथ । पश्चाद् अपराणां देवीनां सर्वासां च अन्तःपुरिकानां दीष्यति ॥ सा दानि सुदर्शना तेषां मण्याभरणानां यं तत्र सर्वशोभनं सुकृतं सुनिष्ठितं आकारवन्तं तं गृह्णामि त्ति याव पश्यति कुशस्य नामकं । तस्या एवं भवति । कुशस्यैतं कर्मन् ति ॥
[_म्वु_2.473_] सा दानि तं मेल्लित्वा अन्यानि प्राकृतकानि कुशिल्पिकृतानि गृह्णाति ॥ सा दानि सुदर्शना मातरे च वुच्चति भगिनीहि च अन्तःपुरिकाहि च वर्षवरेहि च कांचुकीयेहि च ॥ सुदर्शने किं स्वम् एवं विपरीता या त्वम् एदृशकानि मण्याभरणानि सुकृतानि सुनिष्ठितानि आकारवन्तानि कुशलशिल्पिककृतानि मेल्लित्वा अन्यानि प्राकृतकानि कुशिल्पिकृतानि गृह्णासि ॥ सा दानि सुदर्शना आह ॥ अलं मे एतेहि इमम् एव मे भवतु ॥ यन् तत्र रहस्यं तन् न कस्यचिद् आचिक्षति ॥
___सा दानि राजा कुशो मणिकारस्य मूले वसित्वा अर्थं नोपलभति । ततः निर्धावित्वा शंखवलयकारमहत्तरकस्य मूल अल्लीनो । तत्रापि राजाणत्तिकाये अन्तःपुरस्य अर्थाये नानाप्रकाराणि शंखगजदन्तमयानि आभरणानि भाजनानि पि क्रियन्ति । नागदन्तवलयका पि क्रियन्ति अंजनीया पि क्रियन्ति दन्तसमुद्गका पि क्रियन्ति रोचनपिशाचिका पि क्रियन्ति दन्तभुंगारका पि क्रियन्ति दन्तविहेठिका पि क्रियन्ति दन्तपादमया पि क्रियन्ति सींहका पि क्रियन्ति शंखका पि क्रियन्ति शंखशय्या पि क्रियन्ति शंखमयानि पि तैलभाजनानि गन्धभाजनानि वर्णकभाजनानि क्रियन्ति शंखमृणालका पि क्रियन्ति शंखमुद्रका पि क्रियन्ति शंखवलयका पि क्रियन्ति शंखमेखला पि क्रियन्ति शंखवोचका पि क्रियन्ति शंखशिविका पि क्रियन्ति शंखचर्मका पि क्रियन्ति ॥ एवं नानाप्रकाराणि शंखगजदन्तमयानि भाजनानि आभरणानि च सुकृतानि सुनिष्ठितानि आकारवन्तानि करोति यथा सर्वे शंखगजदन्तकारका दृष्ट्वा विस्मयम् आपन्नाः । अहो कल्याणाचार्यपुत्रः शोभनो शिल्पिको यो इमानि एदृशानि शंखगजदन्तमयानि आभरणानि भाजनानि च करोति यं अस्माभिर् न दृष्टपूर्वाणि । सर्वेषु च राजा कुशो स्वकं नामकं संज्ञामात्रकेण

[_म्वु_2.474_] लिखति यथा सुदर्शना जानेया कुशस्यैतं कर्मन् ति ॥ तेहि दानि शंखगजदकारेहि यं कालं सर्वाणि कृतानि यथाणत्तानि राज्ञो महेन्द्रकस्य उपनामितानि ॥ राजा तं कुशस्य कर्मं दृष्ट्वा उदारशोभनं सुकृतं राजार्हं विस्मयम् आपन्नः । अहो यादृशानीमानि कुशलेनाचार्यपुत्रेण कृतानि ॥ कुमारामात्येहि पि अभिलक्षितानि राजपुरुषेहि पि अभिलक्षितानि कुशेन कृतानि शंखगजदन्तभाण्डानि दृष्ट्वा विस्मयम् आपन्नाः ॥ इमानि कुशलेनाचार्यपुत्रेण कृतानि ॥ राज्ञा महेन्द्रेण वर्षवराणां कांचुकीयानां च हस्ते तान्य् आभरणानि भाजनानि च प्रेषितानि । गच्छथ अन्तःपुरं प्रवेशेथ महादेवीये धीतुश् च मे सुदर्शनाये यथाभिप्रायं प्रथमं देथ ततः पश्चाद् अन्यासां देवीनाम् अन्तःपुरिकानां च ॥ ते दानि वर्षवरा कांचुकीया तान्य् आभरणानि भाजनानि च गृह्य अन्तःपुरं प्रवेशितानि महादेवीये उपनामितानि । देवि इमानि ते शंखगजदन्तमयानि आभरणानि भाजनानि च राज्ञा प्रेषितानि त्वं च धीता च ते सुदर्शना पूर्वं यथामिप्रायं गृह्णथ पश्चाद् अपराणां देवीनां दीष्यति सर्वासाञ् च अन्तःपुरिकानां ॥ सा दानि सुदर्शना तानि शंखगजदन्तमयानि आभरणानि भाजनानि दृष्ट्वा यन् तेषां सुकृतं सुनिष्ठितं कल्याणं शोभनं कल्याणाचार्यपुत्रेण कृतकं दृष्ट्वा हस्ते प्रणामितं गृह्णीष्यन्ति यावत् पश्यति कुशस्य नामकं ष् तस्यैवं भवति । कुशस्यैतं कर्मं ति । सा दानि तं मेल्लित्वा अन्यानि प्राकृतकानि कुशिल्पिकृतानि गृह्णाति ॥ सा दानि सुदर्शना मातरे वुच्चति भगिनीहि च अन्तर्पुरिकाहि च वर्षवरेहि च कांचुकीयेहि च वुच्चति ॥ सुदर्शने किं त्वं एदृशीका
[_म्वु_2.475_] विपरीतिका यानि इमानि सर्वशोभनानि सुकृतानि सुनिष्ठितानि आकारवन्तानि कल्याणाचार्यपुत्रेण कृतकानि मेल्लित्वा अन्यानि प्राकृतकानि कुशिल्पिककृतानि गृह्णासि । किम् इमानि सर्वशोभनानि न गृह्णासि ॥ सा दानि सुदर्शना आह ॥ अलं मे एतेहि एतम् एव मे भवतु ॥ यं तत्र रहस्यं तन् न कस्यचि आचिक्षति ॥
___सो दानि राजा कुशो शंखदन्तकारस्य मूले वसित्वा विशेषं नोपलभति । ततः निर्धावियान जन्तकारस्य मूले अल्लीनो । तत्र राजाणत्तिकाये अन्तःपुरस्य अर्थाये नानाप्रकाराणि जन्तमाष्टदण्डकानि क्रियन्ति । क्रीडापनकानि च विविधानि च जन्तमाष्टकानि क्रियन्ति । वीजनकानि पि जन्तमाष्टानि क्रियन्ति । तालवण्टकानि पि मोरहस्तका पि पादफलका पि आसन्दिका पि जन्तमाष्टपादका महाशालिका पि यन्तमाष्टकानि कंकणका पि यन्त्रमाष्टका । नानाप्रकाराणि च पक्षिणो यन्त्रमाष्टकानि क्रियन्ति शुका पि जन्तमाष्टका शारिका पि कोकिला पि हंसा पि मयूरा पि शतपत्त्रा पि कारंदवा पि मोरम्बा पि जीवंजीवका पि तैलकुण्डिका च यन्त्रमाष्टका क्रियन्ति । नानाप्रकारं च फलाफलं यन्त्रमाष्टका क्रियन्ति । भव्यानि च दाडिमानि च मातुलुंगानि च वीरसेनकानि च द्राक्षालतिका च आम्राण्णि च जाम्बूनि च पिप्पलानि च कपित्थानि नालीकेराणि च पनसानि च क्षीरिकानि च नीपानि च कदम्बानि च खर्जरलतिका च । एवं नानाप्रकाराणि यन्त्रमाष्टभाण्डानि क्रियन्ति ॥ सो दानि राजा कुशो तादृशानि
[_म्वु_2.476_] यन्त्रमाष्टभाण्डानि सुकृतानि सुनिष्ठितानि आकारवन्तानि करोति यं ते सर्वे जन्त्रकारका दृष्ट्वा विस्मिता । अहो कल्याणाचार्यपुत्रो शोभनो शिल्पिको यो इमान्य् एदृशानि माष्टकानि सुकृतानि सुनिष्ठितानि आकारवन्तानि करोति यान्य् अस्माभिः न कदाचिद् दृष्टपूर्वाणि । सर्वेषु च राजा कुशो स्वकं नामकं संज्ञामात्रकेन लिखति यथा सुदर्शना जानेया कुशस्येदं कर्मन् ति ॥ तेहि दानि जन्तकारेहि यदा सर्वभाण्डं निष्ठितं ततः राज्ञो उपनामितं ॥ राजा दानि महेन्द्रको मद्रकराजा तानि कुशकृतानि दृष्ट्वा विस्मितः । अहो यादृशकानि इमानि जन्त्रमाष्टकानि सुकृतानि सुनिष्ठितानि आकारवन्तानि कल्याणाचार्यपुत्रेण कृतकानि ॥ तेन दानि राज्ञा तानि भाण्डकानि वर्षवराणां कांचुकीयानां च हस्ते दिन्नाः । गच्छथ अन्तःपुरं प्रवेशेथ महादेवीय धीतुश् च मे सुदर्शनाये प्रथमं देथ पश्चाद् अपराणां देवीनां सर्वासां च अन्तःपुरिकानां देथ ॥ तेहि दानि वर्षवरेहि कांचुकीयेहि च तं भाण्डं गृह्य अन्तःपुरं प्रवेशितं महादेवीये उपनामितं धीतुश् च सुदर्शनाये । देवि इमानि ते यन्त्रमाष्टकभाण्डानि राज्ञा प्रेषितानि त्वं च धीता च ते सुदर्शना यथाभिप्रायं प्रथमं तं गृह्णथ पश्चाद् अन्यासां देवीनां दीष्यति सर्वासां च अन्तःपुरिकानां ॥ सा दानि सुदर्शना यं तत्र सर्वशोभनं सुकृतं सुनिष्ठितं आकारवन्तं दृष्ट्वा तत्र हस्तं प्रणामेति गृह्णामीति यावत् पश्यति कुशस्य नामकं । तस्या एवं भवति । कुशस्येदं कर्मन् ति । सा दानि तं मेल्लित्वा अन्यानि प्राकृतकानि गृह्णाति ॥ सा दानि सुदर्शना मातरे वुच्चति भगिनीहि पि अन्तःपुरिकाहि पि वर्षवरेहि कांचुकीयेहि वुच्चति ॥ सुदर्शने किस्य त्वं विपरीतिका या त्वम् इमानि सुकृतानि सुनिष्ठितानि आकारवन्तानि कल्याणाचार्यपुत्रेण कृतकानि तानि मेल्लित्वा अन्यानि प्राकृतकानि कुशिल्पिकृतकानि गृह्णासि किं सर्वशोभनानि न गृह्णासि ॥ सुदर्शना
[_म्वु_2.477_] आह ॥ अलं मे एतेन एतम् एव मे भवतु ॥ यं तत्र रहस्यं तन् न कोचिज् जातानि ॥
___सो दानि राजा कुशो यन्त्रकारस्य मूले वसित्वा अर्थं नोपलभति । ततः निर्धावियान वरुटानां महत्तरकस्य मूले अल्लीनो ॥ तत्र राजक्यानि वरुटभाण्डानि नानाप्रकाराणि क्रियन्ति वीजनकानि च तालवण्टकानि च च्छत्राणि च च्छत्रपालकानि च करण्डकानि च वेत्रमञ्चकानि वेत्रमेथिका च वेत्रपेठकानि च एवं नानाप्रकाराणि व वरुटभाण्डानि राजाणत्तिये अन्तःपुरस्यार्थाय क्रियन्ति ॥ तत्र कुशो राजा तेहि वरुटेहि सार्धम् अन्तःपुरस्य नानाप्रकाराणि वरुटभाण्डानि करोति यथा सर्वेषां तेषां वरुटानां एको पि न शक्नोति तादृशानि कर्तुं ॥ ते दानि यत्र काले यथाणत्तानि सर्वाणि व वरुटभाण्डानि कृतानि ततः तानि भाण्डान्य् आदाय राज्ञो अल्लीपितानि ॥ राज्ञा वर्षवराणां कांचुकीयानां हस्ते अभ्यन्तरम् अन्तःपुरस्य सर्जितानि प्रथमं महादेवीये सुदर्शनाये च उपनामितानि ॥ ते इमानि राज्ञा प्रेषितानि यूयं प्रथमं गृह्णथ यथाभिप्रेतानि पश्चात् सर्वस्यान्तःपुरस्य दीष्यति ॥ महादेवीये यान्य् अभिप्रेतानि गृहीतानि सुदर्शनापि वुच्चति ॥ गृह्ण त्वं अहो वरुटभाण्डानि यानि ते अभिप्रेतानि ॥ सा दानि यानि तानि वरुटभाण्डानि शोभनानि चोदाराणि च सुकृतानि च उदाराणि राजार्हाणि बहुजनविस्मयकराणि च स्वयं राज्ञा कुशेन कृतानि राज्ञा कुशेन स्वकेन नामेन संज्ञां लिखितां दृष्ट्वा इमानि कुशेन कृतानीति मेल्लित्वा अन्यानि प्राकृतकानि वरुटभाण्डानि गृह्णाति ॥ सा दानि

[_म्वु_2.478_] मातरे वुच्चति भगिनीहि पि अन्तःपुरिकाहि पि वर्षवरेहि कांचुकीयेहि पि । सुदर्शने किं शोभनान्य् उदाराणि वरुटभाण्डानि मेल्लित्वा अन्यानि प्राकृतकानि गृह्णासि ॥ सा दानि आह ॥ इमानि मे भवतु अलम् एतेहि ॥ यं तत्र रहस्यं येन सुदर्शना तानि राजभाण्डानि न गृह्णाति तं च ते न जानन्ति ॥
___सो दानि राजा कुशो तत्रापि वरुटमूले वसित्वा अर्थं नोपलभति । ततः निर्धावित्वा यो महेन्द्रकस्य मद्रकराज्ञो महानसो तत्र प्रविष्टो सूपकारमहत्तरकस्य अल्लीनो ॥ अहं पि इमहिं एव आसिष्यं यं कर्मं आणपेसि तं करिष्यं । अहं पि तत्र कर्मे कुशलः ॥ तेन दानि सूपकारमहत्तरकेन राजा कुशो तत्र महानसे स्थपितो आणत्तिकापि दिन्ना । अत्र कर्मं करोहि ॥ सो दानि राजा कुशो तत्र राजकृत्ये महानसे तादृशानि मान्सप्रकाराणि च व्यंजनप्रकाराणि च शाकप्रकाराणि च भोजनप्रकाराणि च अम्ललवणमधुरतिक्तकटुककषायाणि सिद्धेसि यथा सर्वेहि तेहि राजकृत्येहि सूपेहि न कदाचिद् दृष्टपूर्वं प्राग् एव सिद्धं । यतो पि च महेन्द्रको मद्रकराजा जातः न से कदाचिद् एदृशो रसो परिभुक्तपूर्वो । सो दानि राजा महेन्द्रको यं कालं भक्ताग्रम् उपविष्टो तानि मान्सप्रकाराणि व्यंजनप्रकाराणि च शाकप्रकाराणि च भोजनप्रकाराणि च उदाराणि अम्ललवणमधुरतिक्तकटुककषायाणि यानि राज्ञा कुशेन सिद्धकानि राजा महेन्द्रको परिभुंजन्तो न तुष्यति ॥ विस्मितः सो राजा सूपमत्तरकं पृच्छति । भो भणे केन सूपकेन ममाद्य आहारो सिद्धो । यतः जातो न मे कदाचिद् एदृशो रसाग्रो जिह्वाग्रेण स्वादितपूर्वो ॥ सो दानि सूपमहत्तरको राजानं प्रांजलीं कृत्वा विज्ञपेति ॥ देवि अत्र अपरो आगन्तुको सूपो महानसं प्रस्थितो । तेन महाराजस्य आहारो सिद्धो ॥
[_म्वु_2.479_] तस्य दानि राज्ञो भवति । कुशलो सो सूपो नानाप्रकारेहि संगृह्णितव्यः सो प्रियायितव्यः यथा न कहिंचित्* गच्छेया ॥ सो दानि राजा सूपमहत्तरकम् आमन्त्रयति ॥ भो भणे सूप आनेहि तं सूपं येन ममाद्याहारो सिद्धो यावन् नं पश्यिष्यामि ॥ तेन दानि सूपमहत्तरकेन यं कालं राजा भक्ताग्रम् उपविष्टो ततो नं राजा कुशो उपनामितः एषो सः सूपो येन महाराजस्य आहारो सिद्धः ॥ सो दानि महेन्द्रको मद्रकराजा राजं कुशं पश्यति दुर्वर्णं दुर्दृशं स्थूलोष्ठं स्थूलशिरोपादं महोदरं कालं मषिराशिवर्णं दृष्ट्वा च पुनः राजा विस्मितः । अहो मा ताव मा ताव शोभनो नाम एदृशो प्राकृतरूपो एदृशो रसविज्ञानो रसाग्रो ॥ सो दानि राजा तं सूपं समाश्वासेति । वृत्ति शोभना यथारूपं प्रज्ञप्ता ॥ राजार्हाणि च खाद्यभोज्यानि अग्रतः उपविशापयित्वा खादापितो पिबनाये च दिन्नं माला च से आलब्धा ॥ राजेन दानि महेन्द्रेण आणत्तिका दिन्ना । एषः सूपः अनावृतद्वारो राजकुलं प्रविशतु ॥
___एवं दानि तत्र राजकुले सत्कृतो सन्मानितो वसति राज्ञो इष्टः सर्वेषां कुमाराणां अमात्यानां भटबलाग्राणां इष्टो च प्रियो च मनापो च ॥ सो दानि महेन्द्रको मद्रकराजा वर्षवरां कांचुकीयां च आमन्त्रयति ॥ भवन्ताहो एषः सूपो विश्वस्तम् अन्तःपुरं प्रविशतु अन्तःपुरिकानां क्रीडापनको भवतु ॥ सो दानि राजा कुशो विश्वस्तं राजकुलं प्रविशति ताहि पि अन्तःपुरिकाहि एषो ऽस्माकं राज्ञा क्रीडापनको दत्तो पि । ता दानि अन्तःपुरिका तेन सार्धं विश्वस्तं क्रीडन्ति केलिं कुर्वन्ति पृष्ठिमं आरुहित्वा नानावाहिकाये वाहेन्ति । सो दानि राजा कुशो अन्तःपुरिकाहि
[_म्वु_2.480_] वाहियमानः सहसा सुदर्शनाये दृष्टो ॥ सा दानि सुदर्शना राजं कुशं पश्यित्वा एव भीता सन्त्रस्ता तासाम् अन्तःपुरिकानां रुष्यति क्षीयति परिभाषति । लभ्या स्त्रीभिः पुरुषं वाहयितुं ति ॥ ता दानि अन्तःपुरिका आहन्सुः ॥ सुदर्शने किं तुवं अस्माकं रुष्यसि क्षीयसि परिभाषसि । यदि वयम् इमं क्रीडापनकं एषः तव पतिर् भोति ततो से ईर्ष्यायसे ॥ सुदर्शना आह ॥ एषा मम ईर्ष्या सा भवतु अपि तु न शक्यः युष्माभि एषः वाहयितुं या एतं वाहयिष्यति तस्या अहं न साता भविष्यं ॥ सा दानि सुदर्शना राजं कुशं अन्तःपुरे दृष्ट्वा दीनमुखवर्णा शोकार्तिता नापि से अल्लीयति न प्रलापन्देति ॥ सो दानि राजा कुशो आह ॥ सुदर्शने इमहिं पि तुवं मम पश्यियान उत्त्रससि ॥ सुदर्शना आह ॥ किं दानि सो इहागतो सि आश्चर्यं यदि सो आगच्छन्तो रात्रिं वा दिवसं दृष्टो आगतो सि न च वनपिशाचो एषो ति त्वं न केनचिद् हतो सि । विस्तीर्णं राज्यं विस्तीर्णम् अन्तःपुरं गच्छ स्वकं राज्यं क्रीडाहि रमाहि प्रविचारेहि इमहिं किं करिष्यसि ॥ राजा कुशो आह ॥ सुदर्शने नाहं त्वया विना गमिष्यामि । दिशा मे न प्रतिभायन्ति यतो हम् इहागतो ॥ सुदर्शना आह ॥
किं दानि अहं करोमि कस्य वा गरहाम्य् अहं ।
उत्त्रसति हृदयं दृष्ट्वा समुद्रराक्षसं यथा ॥
किं दानि अहं करोमि कस्य वा गरहाम्य् अहं ।
उत्त्रसति हृदयं दृष्ट्वा मृगी भ्रान्ता व लुब्धकं ॥
[_म्वु_2.481_] अतर्जन्तो यथागतं रात्रिंदिवं अनुव्रजन्* ।
गच्छ कुशं स्वकं राज्यं नेछामि दुर्वर्णं अहं ॥
राजा आह ॥
अहं खु बृहति श्यामे सुश्रोणि तनुमध्यमे ।
तव कामेहि मुह्यन्तो राज्यं पि नाभिप्रार्थये ॥
नाहं गमिष्यामि सुसंवृत्तोरु
दिशां न जानामि यतो स्मि आगतो ।
संमूढरूपो विचरामि लोके
मत्तो स्मि कामैः मृगमन्दलोचने ॥
देवी आह ॥
विक्षेपो तव वित्तस्य यम् अनिच्छन्तिम् इच्छसि ।
अकामां राज कामेसि नैतं पण्डितलक्षणं ॥

कुशो आह ॥
अकामां वा सकामां वा यो नरो लभते प्रियां ।
लाभं तत्र प्रशंसन्ति अलाभो तत्र पापको ॥
देवी आह ॥
प्रभोसि स्त्रीसहस्रं पि एकरात्रेण रामितुं ।
एकस्त्रियाये कामेन महं दुःखं निगच्छसि ॥
[_म्वु_2.482_] राजा आह ॥
नेतं दुःखं प्रजानामि यशस्विनि वर्णलाभिनि ।
सुचीर्णे ब्रह्मचर्यस्मिं त्वं मे भार्या भविष्यसि ॥
देवी आह ॥
धिग् अस्तु ते ब्रह्मचर्यं अयं ते भवतु पापकः ।
सुनखीं वा सृगालां वा परत्र कामयिष्यसि ॥
कुशः आह ॥
मा एवं अवचि भद्रे सुश्रोणि तनुमध्यमे ।
श्रमणा पि वयं साधु ब्रह्मचर्येण शोभते ॥
ते पि भद्रे सुचीर्णेन इह चीर्णेन शोभति ।
स्वर्गेषु उपपद्यन्ति त्रिदशे कामकामिनो ॥
तत् ते भद्रे अहं ब्रूमि सुश्रोणि तनुमध्यमे ।
न ते अन्यो पती अस्ति इति सिंहस्वरो कुशः ॥
देवी आह ॥
सचे व सत्यं वचनं नैमित्तिकं भविष्यति ।
न ते भार्या भविष्यामि कामं छिन्दाहि खण्डशः ॥
राजा आह ॥
नाहं छेत्तुं तवेछामि सुश्रोणि तनुमध्यमे ।
अच्छिन्ना येव त्वं भद्रे मम भार्या भविष्यसि ॥
[_म्वु_2.483_] महन्तं च मम राज्यं बह्वश्वं बहुपूरुषं ।
अनन्तबहुप्रपंचं बह्वाछादनभोजनं ॥
सो हं राज्यं च राष्ट्रं च च्छोरयित्वा इहागतः ।
तव कामहि मुह्यन्तो राज्यं पि नाभिप्रार्थये ॥
देवी आह ॥
पाषाणे खनसे कूपं कर्णकारे च कर्णिकां ।
त्वं वातं जालेन बन्धेसि यं अनिच्छन्तिम् इच्छसि ॥
अनिच्छन्तीं माम् इच्छेसि अकामेन्तीं च कामसि ।
गच्छ तुवं स्वकं राज्यं आत्मानं किं किलामसि ॥
राजा आह ॥
न एतं किलम् अथं मह्यं ब्रह्मचर्यं इदं मम ।
परत्र एवं तुवं भार्या मह्यं भद्रे भविष्यसि ॥
देवी आह ॥
एतं तव ब्रह्मचर्यं उपात्तं भोतु पापकं ।
सुनखिं वा शृगालिं वा गर्दभां वापि प्रार्थये ॥

ततो सो राजपुत्रो शूरो युद्धे अप्रतिपुद्गलः ।
कुशो यम् आरूढप्रज्ञो इदं वचनम् अब्रवीत्* ॥
[_म्वु_2.484_] गच्छन्तो चे अहं भद्रे सुश्रोणि तनुमध्यमे ।
निगडेहि ते बन्धेयं किन् ते काहिन्ति ज्ञातयः ॥
देवी आह ॥
तम् एव धर्मं अपरायं यन् ते उत्पादितं पुरा ॥
तम् एव धर्मं स्मरमाणो यं मे बन्धितुम् इच्छसि ॥
राजा आह ॥
प्रभोमि ते अहं भद्रे मण्डयित्वा प्रजापति ।
येन् इच्छकं प्रचारेतु पिता ते किं करिष्यति ॥
प्रभोमि स्त्रीसहस्रं पि एकरात्रेण रामितुं ।
त्वम् एव मे वरं भद्रे शुद्धदन्ति प्रजापति ॥
देवी आह ॥
जानामि ते महाराज बलवां च नरर्षभः ।
दुर्वर्णो दुर्दृशो चासि निस्पर्शो सि महीपति ॥
स्थूलोष्ठो स्थूलशिरो च स्थूलांगो पि महोदरो ।
पश्यितुं त्वां न इच्छामि आत्मानं मा किलामय ॥
एते उद्विद्धप्राकारा अट्टाट्टालकखोडका ।
ये व वहन्ति नागेहि एते वारयन्ति ते ॥
एते शक्तीहि युध्यन्ति तोमरेहि शरेहि च ।
असीहि च सुतीक्ष्णेहि त्वां लभेयु प्रजापति ॥
[_म्वु_2.485_] एवं दानि राजा कुशो सुदर्शनाये सार्धं अन्यमन्यं नानाप्रकारं परिभाषति । न च कोचि जानाति एषो राजा कुशो ति ॥
___तत्र दानि प्रातिसीमकेहि प्रतिराजानेहि श्रुतं महेशाख्येहि महाबलेहि महावाहनेहि । महेन्द्रकस्य मद्रकराज्ञो धीता सुदर्शना नाम प्रासादिका सुदर्शनीया राज्ञो कुशस्य मूलातो पलायित्वा पितुः सकाशम् आगता । न च से राजा कुशो पति रुच्चति सुर्वर्णो ति कृत्वा ॥ तेहि दानि सप्तहि राजानेहि चतुरंगबलकायं संनाहयित्वा हस्तिकायं अश्वकायं रथकायं पत्तिकायं सुदर्शनाये अर्थाये समागता ॥ तेषां दानि सप्तानां राज्ञां यो सर्वार्यवरो सो दुर्मति नाम राजा तेषां सप्तानां राज्ञां बलवत्तरो च महेशाख्यतरो च ॥ ते दानि सर्वे सप्त राजानः महता समृद्धीये महता विभूषाये प्रस्थिता अनुपूर्वेण कन्यकुब्जस्योपवनम् अनुप्राप्ता ॥ तेन दानि महेन्द्रकेन मद्रकराज्ञा तेषां सप्तानां राज्ञाम् एकमेकस्य दूतो प्रेषितो । एषा मम धीता सुदर्शना कुशस्य राज्ञो भार्या ततः न शक्या मया अन्यस्य दातुं ॥ ते दानि सप्त राजानः महेन्द्रकस्य मद्रकराज्ञो प्रतिवचनं श्रुत्वा रुषिता कुपिताश् च स्वकस्वकेहि खन्धवारेहि कन्यकुब्जं नगरं समन्तेन वेठियान स्थिताः ॥ सो पि राजा महेन्द्रको नगरं प्रविशित्वा द्वाराणि घट्टेत्वा ओरुद्धो आसति ॥ तस्य दानि महेन्द्रकस्य मद्रकराज्ञो एवं भवति ॥ अहं खलु इमेहि सप्तहि राजानेहि अवरुद्धो धारियामि सर्वे च से राजानो महेशाख्या महाबला न प्रतिबलो हं एतेषां युद्धं दातुं यदापि एकस्य धीतरं दास्यामि षण् मे राजानो विरुधिष्यन्ति किं दानि करोमि ॥ सो दानि राजा महेन्द्रको धीतुः सुदर्शनाये रुष्टो परिभाषति ॥ किस्य त्वं स्वामिकस्य मूलातो पलायित्वा इहागता यद् अहं तव कृतेन सप्तराजानेहि ओरुद्धो
[_म्वु_2.486_] धारियामि । यदि मे एतेषां सप्तानां कोचि हेठां उत्पादयिष्यति ततो ते सप्त खण्डानि कृत्वा तेषां सप्तानां राज्ञाम् एकमेकं राज्ञामेकमेकं खण्डं दास्यामि ॥ सा दानि सुदर्शना पितुर् वचनं श्रुत्वा भीता संत्रस्ता दुःखदौर्मनस्यजाता संवृत्ता माताम् आमन्त्रयति ॥ अम्बे यद् इमे सप्त क्षत्रिया परस्परं विरुधित्वा घातयिष्यन्ति ततः भस्मायित्वा (?) अस्थीनि संहरयित्वा ततो मे एलूकां कारापयेसि । तत्र च एलूकाद्वारे कर्णिकारवृक्षं रोपापयसि । ततो ग्रीष्माणाम् अत्ययेन प्रथमे प्रावृषमासे वर्तमाने सो कर्णिकारवृक्षो सर्वपरिफुल्लो भवेया हेमप्रकाशवर्णः । ततो मे स्मरसि । एदृशा मे वर्णेन धीता सुदर्शना आसीति ॥ सा दानि महादेवी धीतुः सुदर्शनाये वचनं श्रुत्वा भीता संत्रस्ता दुःखदौर्मनस्यजाता संवृत्ता अश्रुकण्ठी रुदन्मुखी आह ॥ कथं मे धीताये विनाभावो भविष्यति ॥ तस्या दानि सुदर्शनाये एवं भवति । यादृशो राजा कुशो वीर्यबलपराक्रमेण समन्वागतो ततः एते न समर्था सप्त राजानः कुशेन सार्धं संग्रामं दातुं । यन् न्व् अहं राज्ञा कुशेन जीवितार्थिका सियां ॥
___अथ खलु सुदर्शना येन राजा कुशो तेन् उपसंक्रमित्वा नानाप्रकाराणि चाटुकानि करोति आचिक्षति च ॥ महाराज एवं मे पिता तर्जति यदि एते सप्त राजानः किञ्चिद्* हेठाम् उत्पादयेन्सुः ततो सप्त खण्डानि कृत्वा एतेषां सप्तानां राज्ञाम् एकमेकं खण्डं प्रदास्यं ॥ सो दानि कुशो राजा सुदर्शनाय बहुप्रकारं भाषति ॥ इच्छन् त्वां अहन् ते महान्तं असत्कारं करेयं किन् त्वं पि मम कुर्यात्* ॥ एवं दानि राजा कुशो सुदर्शनाये सार्धं जल्पमानः आसति । ताय च सुदर्शनाय मातरे श्रुतं श्रुत्वा च
[_म्वु_2.487_] पुनः राज्ञो कुशस्य दृष्ट्वा को स्य अयं कुतो वा अयं वेणो वा पाणो वा चर्मकारो वा नापितो वा चण्डालो वा पुक्कसो वा यो मे धीतां परिभाषति तर्जेति च ॥ सा दानि सुदर्शना मातुरं अंजलिं कृट्वा आह ॥ अम्बे मा हैव जल्पाहि न एषो वेणो वा पाणो वा दासो वा चर्मकारो वा । एषो राज्ञः इक्ष्वाकुस्य पंचानां कुमारशतानां ज्येष्ठपुत्रो कुशो नाम मा अम्बे एतं दासो ति मन्याहि ॥
शंखपाण्डलसंकाशं नारीसंघनिषेवितं ।
क्षत्रियस्य कुलं स्फीतं त्वं वे दासो ति मन्यसि ॥
सुवर्णभाजनप्रत्युप्तं नारीसंघसमाकुलं ।
क्षत्रियस्य कुलं स्फीतं त्वं वे दासो ति मन्यसि ॥
षष्टि नगरसहस्राणि ऋद्धं स्फीतम् अकण्टकं ।
क्षत्रियस्य कुलं स्फीतं त्वं वे दासो ति मन्यसि ॥
षष्टि नागसहस्राणि सुवर्णालंकारभूषिता ।
सुवर्णच्छन्ना मातङ्गा इषादन्ता समुद्गता ॥
आरूढा ग्रामणीयेहि खड्गतोमरपाणिभिः ।
क्षत्रियस्य कुलं स्फीतं त्वं वे दासो ति मन्यसि ॥
षष्टि रथसहस्राणि नन्दिघोष-अलंकृता ।
अयोमया सुबद्धानि द्वीपिचर्मपरिच्छदा ॥
आरूढा ग्रामणीयेहि चापहस्तेहि वर्मिभिः ।
क्षत्रियस्य कुलं स्फीतं त्वं वे दासो ति मन्यसि ॥

षष्टि अश्वसहस्राणी आजानेया हयोत्तमाः ।
[_म्वु_2.488_] सुवर्णमेखलधरा खलीनरतनामया ॥
आरूढा ग्रामणीयेहि पाशहस्तेहि वर्मिभिः ।
क्षत्रियस्य कुलं स्फीतं त्वं वे दासो ति मन्यसि ॥
विशं ब्राह्मणसहस्राणि राज्ञो भुंजति नित्यकं ।
दिवा वा यदि वा रात्रिं सदा सत्कृतपूजिताः ।
क्षत्रियस्य कुलं स्फीतं त्वं वे दासो ति मन्यसि ॥
कुमाराणां शता पंच उपेता मातापितृतो ।
क्षत्रियस्य कुलं स्फीतं त्वं वे दासो ति मन्यसे ॥
षष्टि निधानसहस्राणि पिता च प्रपितामहा ।
. . . . . . . . . . . . . . . . .
यत्र राजा कुशो नाम नराणां चापि ईश्वरो ।
एतस्य वर्णवीर्येण लोके नास्ति समासमो ॥
सा दानि सुदर्शनाये माता महादेवी इदं वचनं श्रुत्वा प्रीता संवृत्ता ॥ ईदृशो मे जामाता सर्वगुणेहि उपेतः ॥ सा दानि सुदर्शनाय माता धीतुर् वचनं श्रुत्वा महेन्द्रकस्य मद्रकराज्ञो निवेदयते ॥ महाराज यं खुलं जानेयासि जामाता ते राजा कुशो इहानुप्राप्तो ॥ सो राजा दानि देवीये वचनं श्रुत्वा भीतो सन्त्रस्तो संविग्नो हृष्टरोमकूपजातः ॥ राजा आह ॥ देवि हि किं उन्मत्तिकासि विक्षिप्तचित्तकासि या एवं जल्पसि राजा कुशो इहानुप्राप्तो ति । कीदृशो राजा कुशो कहिं वा ते राजा कुशो दृष्टो ॥ देवी आह ॥ महाराज नाहं उन्मत्तिका न विक्षिप्तचित्ता अपि तु एषो ते जामाता राजा कुशो यो ते महानसे आहारं पचति यो ते अन्तःपुरिकानां क्रीडापनको ॥ राजा दानि श्रुत्वा भूयस्या मात्रया भीतो संत्रस्तो
[_म्वु_2.489_] दुःखदौर्मनस्यजातो संवृत्तो ॥ न मे तं दुःखं यं मे सप्त राजानो ओरुद्धकं धारेन्ति अपि तु एतं मे दुःखं महाराजा कुशो सुदर्शनाये रोषेण इहागतः भविष्यति सो च मे अवसानेन धारितस्य रोषेण किंचिद् अभ्यन्तरनगरे हेठाम् उत्पादयिष्यति ॥ सो दानि राजा महेन्द्रको मद्रकराजा भीतो संत्रस्तो स्वकम् अन्तःपुरं प्रविष्टः । राज्ञो कुशस्यांजलिं कृत्वा क्षमापयति । क्षमस्व महाराज यम् मया किंचिद् अपराद्धं ॥ सो दानि राजा कुशो श्वसुरम् आश्वासयति । मा भीहि महाराज न मम किंचित् क्षामापयितव्यं ॥ सो दानि राजा महेन्द्रको मद्रकराजा मुहूर्तं राजानं कुशं स्नानशालायां प्रवेशित्वा कल्पकेहि केशश्मश्रूणि कल्पापयित्वा शतपाकेहि गन्धतैलेहि अप्य् अभ्यक्तो राजारहेहि स्नानचूर्णेहि स्नापितो राजारहेहि अनुलेपनेहि अनुलिप्तो राजारहेहि वस्त्रालंकारेहि प्रवारित्वा आमुक्ताभरणो श्वसुरेण सार्धं एकासने उपविष्टो । पंचांगिकेन तूर्येणोपस्थिहिये च ॥
___तेषां दानि सप्तानां राज्ञां बलाग्रस्य उच्चशब्दमहाशब्दो नादो श्रुयति ॥ राजा दानि कुशो श्वसुरं पृच्छति ॥ महाराज कस्यैषो महाजनकायकोलाहलशब्दो श्रुयति ॥ राजा आह ॥ इमं नगरं सुदर्शनाये कृतेन सप्त हि राजानो समन्ता परिवारित्वा आसन्ति अहं च ओरुद्धको धारीयामीति । तस्यैषां राज्ञां बलाग्रस्य शब्दो ॥ सो दानि राजा कुशो तं श्वसुरं संज्ञापयति ॥ मा भीहि महाराज अहं तथा करिष्यं यथा एते सप्त राजानो प्रणमिष्यन्ति वचनकरा च भविष्यन्ति ॥ सो दानि राजा कुशो तं श्वसुरम् आमन्त्रयति ॥ महाराज एते सर्वे महेशाख्या हस्तिनागा सर्वे च अश्वाः सर्वे चतुष्पदा सर्वो जनकायो मधुसिक्थकेन कर्णा पिधापेहि मा मम सिंहनादं श्रुत्वा स्वकं सैन्यं भज्जिष्यति ॥ सो दानि राजा कुशो महेशाख्यं
[_म्वु_2.490_] हस्तिनागम् अभिरुहित्वा महता जनकायेन सार्धं नगरद्वारम् अवद्वारापयित्वा निर्धावितो । तेन राज्ञा कुशेन सिंहनादो मुक्तो । तेन सिंहनादं नदन्तेन सर्वे सप्त राजानो सबला सवाहना भग्ना । जीवग्राहं गृह्णीत्वा पश्चाद्बाहुगाढबन्धनं बन्धित्वा श्वसुरस्य महेन्द्रकस्य मद्रकराज्ञो उपनामिता ॥ इमे ते महाराजानो ते सर्वे सप्त राजानो महेन्द्रकस्य मद्रकराज्ञो प्रणिपतिता ॥ जयतु महाराजा शरणगता स्म महाराजस्य वयन्ते आज्ञामात्रवचनप्रतिकरा भविष्यामः ॥ सो दानि महेन्द्रको मद्रकराजा जामातरं कुशं पृच्छति । पुत्र तव एतेषां सप्तानां राजानां रुच्चति किं करिष्यामो । यथा त्वं आणपेसि तथा करिष्यामः ॥ राजा कुशो आह ॥ महाराज अस्ति ते अन्तःपुरे प्रभूता धीतरो तावद् अवश्यं सर्वे स्वामिकानां दातव्या इमे च सप्त राजानः सर्वे क्षत्रिया महाबला महावाहना महाभागा विस्तीर्णराज्या । ततः महाराज एतेषां क्षत्रियाणां सप्त धीतरो सुवर्णसहस्रमण्डितां कृत्वा एकमेकस्य राज्ञो एकमेकां धीतां देहि । एते च ते सप्त राजानो जामातरो भविष्यन्ति पक्षो च ते बलवन्तो भविष्यन्ति । सर्वे च ते प्रातिसामन्तिका राजानो महाबलो महावाहनो महापरिवारो ति कृत्वा ओनमिष्यन्ति अनुवर्तिष्यन्ति न च ते कोचित् प्रतिराजा विरुद्धिष्यति । महेन्द्रको मद्रकराजा आह ॥ पुत्र सुष्ठु एवं करिष्यति यथा त्वं आणपेसि ॥ सो दानि महेन्द्रको मद्रकराजा तान् सप्त धीतरो एकमेकां सुवर्णप्रतिमण्डितां कृत्वा एकमेकां सुवर्णसहस्रप्रतिमण्डितां कृत्वा एकमेका एकमेकस्य राज्ञो धीता दिन्ना महता राजानुभावेन महता राज-ऋद्धिये सन्धी च कृता पुत्रपौत्रिका ॥ ते दानि सप्त राजानो महेन्द्रकेन मद्रकराज्ञा महता सत्कारेण सन्मानेन स्वकं स्वकं राज्यं प्रेषिता ॥ गच्छन्तु भवन्तो स्वकं स्वकं राज्यं कारापेथ ॥
[_म्वु_2.491_] सो दानि राजा कुशो तेहि राजेहि विसर्जितेहि कत्यहकालं वसित्वा श्वशुरकं महेन्द्रकं मद्रकराजानम् आमन्त्रयति । महाराज आमन्त्रेमि अहं पि स्वविषयं गच्छामि ॥ महेन्द्रो मद्रकराजा आह ॥ पुत्र मा गच्छाहि मम ते जीवितं दत्तं सर्वं मे राज्यं संशयातो मोचितं । अहं जीर्णो वृद्धो महल्लको गतयौवनो । अहं पिता त्वं पुत्रो त्वं राज्यं करोहि मा गच्छाहि ॥ राजा कुशो आह ॥ महाराज चिरं मे आगतस्य राज्यं मे असंस्थितको माता मे उत्कण्ठिष्यति आमन्त्रेमि गच्छामि ॥ महेन्द्रको मद्रकराज आह ॥ अत्यवश्यं गच्छसि ॥ राजा कुशो आह ॥ महाराज अत्यवश्यं गच्छामि ॥ सो दानि महेन्द्रको मद्रकराजा धीतां सुदर्शनां शब्दावित्वा संदिशति ॥ पुत्रि पराक्रमयुक्तो तव भर्ता राजा कुशो एवं महाबलो महानुभावो येन त्वं च अहं च सर्वराज्यं संशयातो मोचितं यस्य सर्वे राजानो प्रणमन्ति । अरहसि पुत्रि सुदर्शने राजं कुशं भर्तारं प्रेम्नेन च गौरवेण च उपस्थिहेसि ॥ सा दानि सुदर्शना तं पितुर् वचनं प्राञ्जलिं कृत्वा साधू ति प्रतिश्रुत्वा सो दानि राजा महेन्द्रको मद्रकराजा तां धीतां सुदर्शनां राज्ञो कुशस्य दत्त्वा महता सत्कारेण महता समुदयेन चतुरंगेन बलकायेन हस्तिकायेन अश्वकायेन रथकायेन पत्तिकायेन स्वकं राज्यं विसर्जितो । गच्छ पुत्र स्वकं राज्यं ॥

___सो दानि राजा कुशो स्वकं राज्यं गच्छन्तो सोद्यानस्य अधिष्ठानस्य उपवने आवासितो तत्र महापदुमसरो । राज्ञा कुशेन तत्र पदुमसमे स्नायन्तेन उदकस्मिं आत्मनो प्रतिबिम्बं दृष्टं यादृशो दुर्वर्णो दुर्दृशो अपश्यनीयो । दृष्ट्वा च पुनः स्वकं शरीरं अप्रियं संवृत्तं एतद् उवाच ॥ स्थानं व यं महेन्द्रकस्य मद्रकराज्ञो धीता सुदर्शना परिभवति मे विरूपेण दुर्वर्णेन दुर्दृशेन समुच्छ्रयेण यन् नूनं अहम् आत्मानं
[_म्वु_2.492_] उपसंक्रमेयं ॥ सो दानि आत्मानं च उपक्रमेण मारितुकामः ॥ शक्रेण देवानाम् इन्द्रेण त्रायस्त्रिंशे भवते समन्वाहृतो यथा राजा कुशो आत्मानं उपसंक्रमेण मारितुकामो ॥ तस्य शक्रस्य एवं भवति । एषो राजा कुशो बोधिसत्वो सर्वसत्वानां हितसुखाये प्रतिपन्नो । सो दुर्वर्णो दुर्दृशो ति कृत्वा आत्मानम् उपसंक्रमितुकामः मारेष्यति सर्वलोके अनर्थो भविष्यति ॥ सो दानि शक्रो देवानाम् इन्द्रो दिव्यस्य लोहितमुक्तिकस्य एकावलिकाय मध्ये ज्योतिरसं नाम दिव्यं मणिरत्नं तं गृह्णीयान वैहायसमन्तरीक्षे स्थितो राजं कुशम् आमन्त्रयति ॥ महाराज मा आत्मानम् उपक्रमाहि अपि तु इमाम् एकावलिकां ज्योतीरसरत्नं शीर्षे आबद्धाहि । ततः एतेन आबद्धेन सर्वे जम्बुद्वीपे न कोचि पुरुषो वर्णरूपेण समसमो भविष्यति । अपि तु यथा इच्छसि पौराणकं वर्णरूपं ततो ताम् एकावलिकां ज्योतीरसरत्नं वस्त्रेण पिधेहि ततः ते पौराणं वर्णरूपं भविष्यति ॥ सो दानि राजा कुशो तत्र पदुमसरे स्नायित्वा विलेपनेहि विलेपित्वा राजार्हाणि वस्त्राणि प्रावरित्वा सा एकावलिका शीर्षे आबद्धा ॥ ततो तत्र पदुमसरे स्वकं मुखं निध्यायति याव जानाति अस्ति किंचिद् वेशेषो । सो दानि प्रत्यवेक्षन्तो आत्मानं पश्यति प्रासादिकं दर्शनीयं यथा न कोचिज् जम्बूद्वीपे पुरुषो तेन वर्णरूपेण दृष्टपूर्वो । दृष्ट्वा च पुनः राजा कुशो आत्मानं तादृशं उदारवर्णनिभं तुष्टो आत्तमनो संवृत्तो । न मे भूयो महेन्द्रकस्य मद्रकराज्ञो धीता सुदर्शना परिभविष्यति अन्यो वा कोचिद् दुर्वर्णो ति कृत्वा ॥
___सो दानि राजा कुशो स्वके द्वारमूले स्थित्वा प्रविश्यामीति । ततो दौवारिकेहि
[_म्वु_2.493_] वारीयति को सि त्वं पुरुष यो राजकुलं इच्छसि धर्षयितुं । न त्वं जानसि राजा कुशो दुरासदो दुष्प्रसहो मा इमं मुहूर्तं अनयव्यसनम् आपद्यसि ॥ सो दानि राजा कुशो आह ॥ अहन् ते स्वामी अहन् ते राजा कुशो ॥ द्वारपाला आहंसुः ॥ किं वयं राजं कुशं न प्रत्यभिजानाम यादृशो राजा कुशो । भद्रम् अस्तु यदि राजा कुशो एदृशो भवेया ततो परमेण अनुग्रहेण अनुगृहीता भवेमः सर्वराज्यं च इक्ष्वाकुकुलं एवंरूपेण राज्ञा प्रासादिकेन दर्शनीयेन उत्तमेन वर्णरूपेण समन्वागतेन ॥ ततः राज्ञो कुशस्यैवं भवति । न मम एषो प्रत्यभिजानाति ॥ सो दानि राजा कुशो एकावलिकाज्योतीरसरत्नं स्वकेन वस्त्रेण अपिधेति । सो दानि द्वारपालो राजं कुशं स्वकेन रूपेण दृष्ट्वा भीतो सन्त्रस्तो प्रणिपतितो ॥ महाराज वयं न जानामः महाराजा तुवन् ति ॥ सो दानि राजा कुशो राजकुलं प्रविशित्वा देवीये अल्लीनो । सा च से देवी वारेति ॥ को सि त्वं पुरुष कुतो वा यो राजकुलं धर्षितुम् इच्छसि त्वं न जानासि राज्ञो कुशस्य दुरासदं अन्तःपुरन् ति मा राजकुलं धर्षेहि मा अनयव्यसनम् आपदिष्यसि ॥ सो दानि राजा कुशो आह ॥ देवि अहन् ते भर्ता अहन् ते कुशो राजा जानाहि ॥ सा दानि देवी आह ॥ न त्वं मम भर्ता न त्वं राजा कुशो किं वाहं न जानामि यादृशो राजा कुशो वर्णरूपेण । भद्रम् अस्तु यदि राजा कुशो ईदृशो वर्णरूपेण भवेया । ततो हं परमेण अनुग्रहेण अनुगृहीता भवेयं ॥ सो दानि राजा कुशो ताम् एकावलिकां ज्योतीरसरत्नं पिधेति वस्त्रेण ततः यथापौराणं वर्णरूपं संवृत्तं ॥ सा दानि सुदर्शना आह ॥ महाराज किस्येमं मायाकारं विदर्शेसि ॥ राजा कुशो आह ॥ देवी न एषो किंचित्* मायाकारो अपि तु अहम् आत्मानं उपक्रमेण मारेतुकामो । ततः शक्रेण देवानाम् इन्द्रेण मम एषा एकावलिका
[_म्वु_2.494_] दिन्ना एतं ज्योतीरसरत्नं । महाराज मा आत्मानं मारेहि अपि तु इमाम् एकावलिकां ज्योतीरत्नं शीर्षे आबद्धाहि ततो सर्वे जम्बुद्वीपे अन्यो पुरुषो वर्णरूपेण सदृशो न भविष्यति । यदि इच्छसि पौराणकं वर्णरूपं ततो तं एकावकिलाज्योतीरसरत्नं वस्त्रेण पिधापेहि ततः ते पौराणकं वर्णरूपं भवति । मम शक्रेण देवानाम् इन्द्रेणानुग्रहो कृतो ॥ सा दानि सुदर्शना देवी आह ॥ अनुगृहीतास्मि शक्रेण देवानाम् इन्द्रेण येन तव एदृशं वर्णरूपं कृतं ॥ देवी आह ॥ महाराज मा कदाचिद् एतं एकावलिकाज्योतीरसरत्नं पिधेहि सर्वकालं ते एदृशम् उदाररूपं भवतु । सर्वराज्यस्य सर्वजनकायस्य मनोरमतरो भविष्यसि ॥ एवं दानि राजा कुशो एदृशेन वर्णरूपेण देवपुत्रसदृशो मार्गं गच्छति ॥
___तत्र दानि वाराणस्यां एकूनपंचकुमारशतेहि सर्वेहि च अमात्येहि सर्वेण च भटबलाग्रेण श्रुतं राजा कुशो आगच्छति । ते सर्वे राज्ञो कुशस्य प्रत्युद्गताः ॥ राजापि कुशो हस्तिस्कन्धवरगतो चतुरंगेन बलकायेन परिवृतः आगच्छति ॥ ते दानि कुमारा च भटबलाग्रा च राजं कुशं न प्रत्यभिजानन्ति । ते दानि अन्यमन्यं पृच्छन्ति ॥ कतमो अयं राजा भविष्यति यो प्रासादिको दर्शनीयो महेशाख्यो उदारेण वर्णरूपेण हस्तिस्कन्धवरगतः आगच्छति कुशो पि राजा न दृश्यति ॥ तस्य राज्ञो कुशस्य एवं भवति । न एते मम प्रत्यभिजानन्ति ॥ तेन दानि राज्ञा कुशेन एकावलिकाज्योतिरसरत्नं हस्तिस्कन्धवरगतेन पाणिना पिहितं । ततः यथापौराणं वर्णरूपं संवृत्तं ॥ ततो ते एकूना पंचकुमारशतानि अमात्या च भटबलाग्रा च राज्ञो कुशस्य स्वकं वर्णरूपं दृष्ट्वा भीता सन्त्रस्ता मूर्धने प्रणिपतिता राजानम् आह ॥ जय महाराज न वयं

[_म्वु_2.495_] जानामः महाराज एषो ति ॥ सो दानि राजा कुशो भ्रातॄणाम् अमात्यानां च भटबलाग्रस्य च एतम् अर्थं निवेदयति । भवन्तो मम शक्रेण देवानाम् इन्द्रेण एषा एकावलिका ज्योतीरसरत्नं दत्तं एतां शीर्षे आबद्धाहि ततो ते वर्णरूपेण अन्यो पुरुषो सदृशो न भविष्यति ॥ ते दानि कुमारा अमात्या भटबलाग्रं च राज्ञो एतद् उवाच ॥ अनुगृहीता स्म शक्रेण देवानाम् इन्द्रेण यं महाराजस्य एदृशं वर्णरूपं संवृत्तं ॥ एवं दानि राजा कुशो महता राजानुभावेन महता राज-ऋद्धीये वाराणसीम् आगत्वा राजकुलं प्रविष्टो उदारेण वर्णरूपेण ताम् अलिन्दां महादेवीम् अभिवादयित्वा पादौ वन्दित्वा पुरतो स्थितः ॥ सा दानि अलिन्दा महादेवी राजानं कुशं न प्रत्यभिजानाति । पृच्छति कहिं पुत्रो कहिं वा राजा कुशो त्ति ॥ राजा कुशो आह ॥ अम्बे अहन् ते पुत्रो अहं राजा कुशो ति ॥ महादेवी आह ॥ न त्वं मम पुत्रो न त्वं राजा कुशो त्ति । किम् अहं राजं कुशं न प्रत्यभिजानामि । किं राजा कुशो केनचि हतो वा मारितो वा यं न दृश्यति ॥ अहो अनाथमरणं मम यो मम एकपुत्रस्य विनाभावो संवृत्तः ॥ सो दानि राजा तां मातरं परिदेवमानां दृष्ट्वा ताम् एकावलिकां ज्योतीरसरत्नं वस्त्रेण पिधाय यथापौराणं वर्णरूपं संवृत्तं ॥ सा दानि अलिन्दा महादेवी तं पुत्रं स्वकेन वर्णरूपेण दृष्ट्वा प्रीतिमना संवृत्ता तं पुत्रं पृच्छति ॥ पुत्र केन ते एदृशो वर्णरूपो संवृत्तो ॥ राजा कुशो आह ॥ अम्बे शक्रेण देवानाम् इन्द्रेण एकावलिका ज्योतीरसरत्नं दत्तं । ततो मे पिनद्धो एतेन मे एदृशो वर्णरूपो संवृत्तो ॥ सा दानि अलिन्दा महादेवी प्रमुदिता प्रीतिसौमनज्यजाता संवृत्ता । दृष्टो मे पुत्रो एदृशेन उदारेण वर्णरूपेण यथा मे अभिप्रायो । सर्वा च अन्तःपुरिका एदृशं राजस्य कुशस्य उदारं वर्णरूपं दृष्ट्वा प्रमुदिता प्रीतिसौमनस्यजाता संवृत्ता ॥ सो दानि राजा कुशो यं कालं ताम् एकावलिकां ज्योतीरसरत्नं
[_म्वु_2.496_] शक्रेण देवानाम् इन्द्रेण दत्तं बन्धति तं कालं दिव्यो वर्तति यं कालं तं मणिरत्नं पाणिना पिधेति तं कालं पौराणकवर्णरूपो भवति ॥ एवं दानि राजा कुशो वाराणस्यां निहतप्रत्यर्थिको निहतप्रत्यमित्रो उदारेण उपभोगपरिभोगेन राज्यं कारयति ॥
___अथ खलु भगवान्स् तस्मिं समये चतसृणां पर्षदां पुरतः अन्यस्य च महाजनकायस्य इमां गाथाम् अध्यभाषे ॥
एवं पुण्यवन्तस्य अर्था सर्वे भोन्ति प्रदक्षिणाः ।
यथा राजा कुशो भार्याय ज्ञातीहि च समागतः ॥
स्याद् वो भिक्ष्वः एवम् अस्याद् अन्यो सो तेन कालेन तेन समयेन कुशो नाम राजा अभूषि । अन्यथा द्रष्टव्यं । अहं स तेन कालेन तेन समयेन राजा कुशो अभूषि । अन्यः स महेन्द्रको मद्रकराजा अभूषि । नैतद् एवं द्रष्टव्यं । एषः सो महानामः शाक्यो । अन्या सा अलिन्दा नाम महादेवी । न एतद् एवं द्रष्टव्यं । एषा मायादेवी । अन्या सा सुदर्शना । नैतद् एवं द्रष्टव्यं । एषा सा यशोधरा ॥ स्याद् वो भिक्षवः एवम् अस्यात्* । अन्यः स तेन कालेन तेन समयेन तेषां सप्तानां राज्ञां यो ज्येष्ठो दुर्मतिर् नाम । नैतद् एवं द्रष्टव्यं । एषो सो मारो पापीमां । ते पि अन्ये राजानो मारपर्षा । तदापि मया उक्काशनशब्देन एषो मारो पापीमां सबलो सवाहनो भग्नो एतरहिं पि मया भिक्षवः बोधिमूले उक्काशनशब्देन एषः मारो पापीमां सबलो सवाहनो भग्नो ॥
_______________________________पर्त् 3_______________________________
[_म्वु_3.1_]अभूषि राजा इक्ष्वाकु वाराणस्यां महाबलो ।
महायशो विजितावी तस्य पुत्रो न प्रजायिथ ॥
तस्य अभूषि चित्तं स्य तस्मिं काले महर्द्धिकं ।
यं नूनाहं स्त्रीयागारं ओसिरेयं त्रिः पक्षतः ॥
चतुर्दशिं पंचदशिं यावत् पक्षस्य अष्टमिं ।
सो स्त्र्यागारम् ओशिरति प्रजार्थं सो नराधिपः ॥
ता हृष्टमनसंकल्पा सर्वालंकारभूषिता ।
मृगिका इव संत्रस्ताः द्वारे द्वारे उपागमि ॥
काचित्* जल्पन्तियो लोभेन्ति अपरा च हसन्तियो ।

अपरा च धावमाना उच्चावचम् अनुधावति ॥
सर्वा प्रचलिता आसी सर्वा आसि प्रमूर्छिता ।
इक्ष्वाकुराजनगरं राजपत्नीहि मूर्छितं ॥
. . . . . . . . . . . . . . . . .
काले विकाले आगच्छे ब्राह्मणो मम सन्तिके ॥
प्रतिवेदयथ मे क्षिप्रम् अपि याचनको सिया ।
अपि याचनको अस्य यत्र दिन्नं महाफलं ॥
ततो शक्रो विचिन्तेति त्रयस्त्रिंशानम् ईश्वरः ॥
[_म्वु_3.2_] पुरोहितस्य्ऽ; इमं कर्मं यं राजा कर्तुम् इच्छति ॥
सो च जीर्णो भवित्वान भग्नो दण्डपरायणो ।
वेपमानेहि गात्रेहि राजद्वारम् उपागतः ॥
ततो संचारकं दूतं ब्राह्मणो एतद् अब्रवीत्* ॥
प्रतिवेदेहि मे क्षिप्रं द्रष्टुं इच्छे नराधिपं ॥
ततः संचारको दूतः राजानम् एतद् अब्रवीत्* ।
ब्राह्मणो देवम् अनुप्राप्तो राजानं द्रष्टुम् इच्छति ॥
स्वागतं ते महाब्रह्म अथ ते अनुरागतं ।
किम् इच्छसि किम् एषाणो केनार्थो किं ददामि ते ॥
श्रुतं मे एवं इक्ष्वाकु जनस्य इह भाषतो ।
राजा स्त्र्यागारम् ओसिरति त्रिः पक्षस्य नराधिप ॥
चतुर्दशिं पंचदशिं याव पक्षस्य अष्टमिं ।
पुत्रार्थिको नरश्रेष्ठो एवं मे श्रुत भाषितं ॥
सो हं च तं घोषं श्रुत्वा हृष्टप्रमुदितेन्द्रियः ।
स्त्र्यार्थिको इह गच्छेयं तेन मे प्रतिमानय ॥
राजा आह ॥
एहि क्षिप्रं कंचुकीय नारीयो दर्शये लहुं ।
याय से स्याद् अभिप्रायो तायद्य तम् अनुग्रहे ॥
सो दानि कंचुकीयेन ब्राह्मणो तम् अन्तःपुरं ॥
प्रवेशितो तस्य देवी अलिंदा तद वुच्चति ॥
[_म्वु_3.3_] ब्राह्मणो आह ॥
एषा एव मे भवतु येयं तिष्ठति मानिनी ।
तिष्ठमाना अनवद्यांगी मुखम् अश्रूहि सिंचति ॥
कुब्जका आह ॥
इच्छसि तुवं स्थविर युवतीहि परिचारितं ।
न च त्वां काचिद् युवति पाणिनापि परामृशे ॥
इच्छसि तुवं स्थविर युवतीहि परिचारितं ।
न च त्वां काचिद् युवति पादेनापि परामृशे ॥
पूतिवली पलितमुखो वदरीकुसुमो व वासो दुर्गन्धः ।
छगलो व गन्धप्राप्तो अपगच्छ न मे त्वया कार्यं ॥
राजा आह ॥
वृत्तिं वो देमि धनं वा धान्यं वा ग्रामवराणि वा ।

तम् एव दानिं भुंजाहि किं अलिन्दाय काहिसि ॥
ब्राह्मणो आह ॥
कासनो मूर्छितो चाहं मूर्छियामि मुहुर् मुहुः ।
ओमूत्रेमि स्वकां शय्यां एषा मे उत्थपेष्यति ॥
तूष्णीं भोहि तुवं कुब्जे वर्णकम् एव पीषहि ।
प्रियो अहं अलिंदाये न तुवं मनसीकर ॥
[_म्वु_3.4_] तूष्णीं भोहि तुवं कुब्जे मालाम् एव च गूहसि ।
प्रियो अहं अलिंदाये न तुवं मनसीकर ॥
राजा आह ॥
सचेद् राजकुले पिण्डं ब्राह्मण भोक्तुम् इच्छसि ।
तम् एव दानि भुंजाहि किम् अलिन्दाय काहिसि ॥
ब्राह्मणो आह ॥
मा भवान् राजा इक्ष्वाकु दत्तं समनुतप्यये ।
प्रियं यदि प्रवारेत्वा पश्चात् समनुतप्यसि ।
आमन्त्रेमि च गच्छामि यं न देसि निमन्त्रितं ॥
राजा आह ॥
न ब्रह्म अनुतप्यामि भोहि त्वं तुषितो पुनः ।
सर्वा पि ते उपस्थान्तु अलिंदाये सह इमा ॥
इमां च वृषलिं कुब्जां मैथुनार्थं ददामि ते ।
दासी वा ते अयं भोतु नेहि नां येन इच्छसि ॥
कुब्जा आह ॥
विषं खादिय मरिष्यं सचेन् मे देव दास्यसि ।
इमं वा थेरं भग्नांगं मारयिष्यं रहोगतं ॥
ब्राह्मणो आह ॥
सर्वकुब्जाहि मे वैरं या काचित् पृथिव्याश्रिता ।
यत्रायं वृषली कुब्जा मम इच्छति हिंसितुं ॥
[_म्वु_3.5_] राजा आह ॥
ते वयं धर्मधरा स्म सर्वजीवेहि ब्राह्मण ।
गच्छासि मा मे गर्हन्तो मह्यं करोहि भण्डनं ॥
मृतो व जीर्णो विध्वंसी गुरुवासी च ब्राह्मण ।
एते लोके प्रतिकूला कृष्णसर्पो व रोषितो ॥
[सचे राजकुले पिण्डं ब्राह्मण भोक्तुम् इच्छसि ।
तम् एवं ब्राह्मण भुञ्जाहि किम् अलिंदाय काहिसि ॥]
ब्राह्मणो आह ॥
आसांप्रतं न इक्ष्वाकु यं वरं नो लभामथ ।
यं मे स्त्रियं प्रवारेत्वा पश्चात् समनुतप्यसि ॥
आमन्त्रेमि च गच्छामि दत्त्वा राजानुतप्यसि ।
यो मे स्त्रीभिः प्रवारेत्वा मिथ्याकरोषि याचनां ॥
राजा आह ॥
न ब्रह्म अनुतप्यामि भोहि नो तरुणो पुनः ।

सर्वा पि ते उपस्थान्तु अलिंदाय सह इमा ॥
इमां भद्र रमापेहि ब्राह्मण यावद् इच्छसि ।
आस्तृतस्मिं शयने भोहि सा तव स्या वशानुगा ॥
सो तां हस्ते ग्रहेत्वान सुश्रोणितनुमध्यमां ।
रुदन्मुखीम् अश्रुकण्ठीं राजद्वारातो निष्क्रमे ॥
राजकुलातो निष्क्रम्य अनुप्राकारे कुटि निर्मिता ।
[_म्वु_3.6_] शक्रो आह ॥
सुनिवस्त्रा भवित्वान एहि भद्रे रमामथ ॥
अभिमुखी रमापेहि मा भवाहि पराङ्मुखी ।
प्रहृष्टा मे रमापेहि वरन् ते रामितो अहं ॥
हसन्ती मे रमापेहि वरन् ते रामितो अहं ।
एहि भद्रे रमापेहि वरं ते रामितो अहं ॥
विना तन्द्राय उत्थेहि अलिन्दे पूजितो अहं ।
गत्वा राजानं वेदेसि प्रीतो भोहि जितं मया ॥
शक्रेण तं ब्राह्मणवेषम् अन्तरहायित्वा स्वकेन रूपेण स्थितो ॥ सर्वां दिशां वर्णेन ओभासयित्वा स्थितो । अलिंदाये दृष्ट्वाथ विपर्ययावस्थानम् उत्पन्नं ॥ सा दानि शक्रेण वरेण प्रवारिता । ताये पि पुत्रो वरितो पुत्रं मे वरं देहि ॥ शक्रो आह ॥
शक्रो हम् अस्मि देवेन्द्रो त्रयस्त्रिंशानम् ईश्वरः ।
वरं वरेहि कल्याणि यत् किंचित्* मनसीच्छसि ॥
देवी आह ॥
शक्रश् चे मे वरं दद्यात् त्रयस्त्रिंशानम् ईश्वरः ।
पुत्रं अहं वरं याचामि एतं शक्र वरं दद ॥
शक्र आह ॥
सचेत् सुमनसा . . . अलिन्दा रमयासि मे ।
उत्पद्ये याचितो पुत्रो सुजातो राष्ट्रवर्धनो ॥
सिंहबाहु सुबलवां वर्णरूपेण शोभनः ।
[_म्वु_3.7_] उत्पद्यिष्यति ते पुत्रो सुजातो राष्ट्रवर्धनो ॥
सिंहासुपीडो बलवां सो भविष्यति पापको ।
कुशसमज्ञो सप्रज्ञानो परराष्ट्रप्रमर्दनो ॥
शक्रेण देवीय भैषज्यगुडिका दिन्ना । इमां ओघृषित्वा जिह्वाग्रेण स्वादेसि ततः ते पुत्रो भविष्यति ॥ सा दानि देवी तां भैषज्यगुडिकां अंशुककोणके बद्धित्वा राजकुलं गता । गत्वा राज्ञो आख्यासि ॥ शक्रो सो देवानाम् इन्द्रो तेन ब्राह्मणवेषेण आगतो स च मे सुष्ठु उपचीर्णो इयं च मे भैषज्यगुडिका दिन्ना निघृषित्वा जिह्वायां स्वादेसि ततो ते पुत्रो भविष्यति ॥ राजा आह ॥
प्रसन्नमुखवर्णा त्वं स्मितपूर्वं च प्रेक्षसि ।
भोति खलु उत्तमार्थाय एदृशी वर्णसम्पदा ॥
देवी आह ॥
इन्द्रेण मे महाराज पुत्रो दत्तो महाबलो ।
सिंहासुपीडो बलवां परराष्ट्रप्रमर्दनो ॥
राजा रुषितो आह ॥
इमां गले गृहीत्वान नाशेथ विजिता मम ।
या मे आणां प्रतिक्रोशे न ताम् इच्छामि प्रेक्षितुं ॥
सो दानि गुलिकाम् आच्छिन्दित्वा तासां एकूनानां पंचदेवीशतानां दिन्ना । सा एव न लभति अस्या विरूपो पुत्रो भविष्यति ॥ सा पृच्छति कहिं सा गुडिका ओघृष्टा । अत्र निषिदायां ॥ ताये दानि उदकेन क्लेदयित्वान गुलिकाय लेशं कुशाग्रेण
[_म्वु_3.8_] स्वादितं ॥ एवं सर्वेहि पंचहि देवीशतेहि कुक्षि प्रतिलब्धो नवानां वा दशानां वा मासानाम् अत्ययेन सर्वा पंच देवीशतानि प्रसूताः पंच कुमारशुता सुजाताः ॥
___यावद् इक्ष्वाकुस्मिं कालगते कुशेन राज्यं प्रतिलब्धं ॥ सो दानि कुशो मातरम् आह अमात्यानि च ॥ भार्यां मे अग्रमहिषीम् आनेथ ॥ माता तम् आह ॥ को ते पापकस्य भार्यां प्रतिरूपां दास्यति पापिकां ते आनयिष्यामि ॥
पापिकां यदि मे अम्बे भार्यारम् आनयिष्यसि ।

न ते हं पापिकां भार्यां पाणिनापि परामृशे ॥
मम त्वं पापिकां भार्यां अम्ब आनयितुम् इच्छसि ॥
न ते हं पापिकां भार्यां पादेनापि परामृशे ॥
अलिंदा आह ॥
सुखो पुत्रक संवासो अन्योन्यसमलक्षणा ।
समानवर्णा उभये नान्योन्यम् अभिनिंदति ॥
अभिमन्यति कल्याणी पतिं दृष्ट्वान पापकं ।
वरं ते पापिका भार्या पापको हि सि पुत्रका ॥
राजा आह ॥
न मे श्रुतं वा दृष्टं वा राजानो भोन्ति दुर्भगाः ।
पापिकाहि वा नारीहि प्रविचारेति नरर्षभो ॥
राजा अहम् अस्मि क्षत्रियो विजितावी महाबलो ।
प्रभूतकोशो बलवां द्रव्यकामा हि नारियो ॥
परराष्ट्रेहि नारीयो सर्वालंकारभूषिताः ।
आनीयन्ति धनक्रीता येषां दूरं पितुर् गृहं ॥
[_म्वु_3.9_] तस्य भार्यारम् आनेसि मद्रकराजस्य धीतरं ।
सर्वाचारेहि संपन्नां सर्वाङ्गोपेतां प्रजापतीं ॥
सा दानि कन्या श्वश्रुय उक्ता ॥ अस्माकं इक्ष्वाकुकुले धर्मं द्वादश वर्षाणि भर्ता न द्रष्टव्यो इति ॥ तेषां दानि शयनगृहे प्रदीपा न दीप्यन्ति ॥ सुदर्शना आह कुशस्य राज्ञो ॥
इदं राजकुलं स्फीतम् अनन्तरतनाकरं ।
अथ दिवा वा रात्रौ वा प्रदीपं न लभामहे ॥
नैव रात्रिं वा दिवं वा पश्याम इतरेतरं ।
अन्यमन्यम् अपश्यन्ता आसामहे रहोगता ॥
इह मो तमसंग्रहे वसामो अन्धकारके ।
अन्धानां विय संवासो तथा मे प्रतिभायति ॥
राजा आह ॥
अहं एतं न जानामि को अर्थो किस्य वा पुनः ।
अम्बां मे गत्वा पृच्छाहि सा ते तं व्याकरिष्यति ॥
सा दानि प्रभाताये रात्रिये श्वश्रुये पादानि वन्दित्वा आह ॥
इदं राजकुलं स्फीतं अनन्तरतनाकरं ।
अथ दिवा वा रात्रिं वा प्रदीपं न लभामथ ॥
नैव रात्रिं वा दिवा वा पश्यामो इतरेतरं ।
अन्यमन्यं न पश्यन्ता आसामथ रहोगता ॥
[_म्वु_3.10_] इह मो तमसंग्रहे संवसामो न्धकारके ।
अन्धानां विय संवासो तथेमं प्रतिभायति ॥
श्वश्रु आह ॥
यदा द्वादशवर्षन् ते पुत्रं द्रक्ष्ये प्रजापति ।
तदा द्रक्ष्यथ अन्योन्यं देवा मे उपयाचिता ॥
सुदर्शना आह ॥
पापकं पुनर् आर्या यं देवानाम् उपयाचितं ।
दीर्घरात्रं न द्रक्ष्याम अन्यमन्यसमागमं ॥

देवीये कौतूहलम् उत्पन्नं राजं पश्यितुं ॥ सा दानि श्वश्रुं विज्ञपेति ॥ श्वश्रु नां आह ॥ पुत्रि शुवे ते दर्शनं दत्तं पश्याहि ॥ अलिन्दाये कुशद्रुमो राजाकृत्या राजासने उपविशापितो । कुशो पि च्छत्त्रं धारेति कुमारा पि अमात्या पि नैगमजानपदा पि स्वकस्वकेषु आसनेषु उपविष्टा ॥ सुदर्शना राजं पश्यित्वा सर्वाञ् च परिषदं तुष्टा छत्त्रधारं दृष्ट्वा मनसं प्रतिहतं ॥ सा दानि सुदर्शना श्वश्रुयम् आह ॥ शोभनो राजा शोभना राजकुमारा शोभना च परिषा छत्त्रधारो पुनर् अदेक्षियो । एतेन ताये सराजिकाये परिषाये श्री उपहन्यति । यदि एष छत्त्रधारो अत्र न दृश्ये एवम् एषा परिषा सराजिका शोभेय ॥ श्वश्रु इमाम् आह ॥ मा पुत्रि एवं जल्पाहि न त्वम् एतस्य च्छत्त्रधारस्य माहात्म्यं जानासि । महात्मा एष
[_म्वु_3.11_] महाबलो एषो शीलवां महाधनो एतस्यानुभावेन वयं सर्वे सुखिता ॥ सा दानि शयनगता राजानम् आह ॥
न नूनं त्वं लभे अन्यं लोकस्मिं छत्त्रधारकं ।
यादृशो ते अयं देव अहिरीको अनोत्रपो ॥
राजा आह ॥
किन् नु रूपेण कल्याणि अपि चायं महाबलो ।
महाबलो ति कृत्वान एषो स्माकं हि रोचति ॥
किं नु रूपेण कल्याणि अपि चायं महाधनो ।
महाधनो ति कृत्वान एषो स्माकं हि रोचति ॥
किं नु रूपेण कल्याणि अपि चायं शूरो सिया ।
स शूरो इति कृत्वान एषो स्माकं हि रोचति ॥
किं नु रूपेण कल्याणि अपि चायं सुशीलवान्* ।
सुशीलवानि ति कृत्वान एषो ऽस्माकं हि रोचति ॥
किं नु रूपेण कल्याणि अपि चायं महास्वरो ।
एतस्य अनुभावेन वयं सर्वे जीवामथ ॥
सुखमित्रो च मे सहायो प्रियो प्राणसमो च मे ।
एतस्य मे विनाभावे उभये पि न भवेमथ ॥
देवी दानि सर्वा च अन्तःपुरो पद्मसरः प्रेक्षितुं गता ॥ तत्र राजा प्रकृत्यैव पद्मसरम् ओतरित्वा आसति । देवी ओतीर्णमात्रा तेन गृहीता । देवी जानति दकराक्षसेन
[_म्वु_3.12_] गृहीता ति ॥ अन्तःपुरिकाहि पुष्पवृष्टी पि मोचिता ॥ राजा आह ॥
अगमासि देवी उद्यानं वापिपद्मिनिप्रेक्षिका ।
न मे पद्मानि आनेसि न खु ते हं प्रिये प्रियो ॥
देवी आह ॥
अगमं देव उद्यानं वापियोदके स्नायितुं ।
पिशाचं अद्दर्शिं तत्र मूर्छिता प्रपते भृशं ॥
यो च ते छत्त्रं धारेति यो च पद्मवने अभू ।
मन्ये एकिना स्त्रिया जाता तादृशम् अस्य लक्षणं ॥
देवी च अपरकालेन अन्तःपुरेण सार्धं आम्रवनं प्रेक्षिका निर्गता ॥ राजा प्रकृत्यैव आम्रवनं गत्वा आम्र-उद्याने स्थितः ॥ तत्र तेन देवी अण्वन्ती गृहीता ॥ देवी जानति वनराक्षसेन गृहीता ति । अन्तःपुरिकाहि पुष्पवृष्टि पि मोचिता ॥ राजा शयनगृहे देवीं आह ॥
अगमासि देवि आम्रवनं वर्धमानं निरीक्षिका ।
न मे आम्राणि आनेसि न खु ते हं प्रिये प्रियो ॥
देवी आह ॥
अगमं देव आम्रवनं वर्धमानं निरीक्षका ।
पिशाचं अद्दर्शिं तत्र मूर्छिता प्रपते भृशं ॥
[_म्वु_3.13_] मन्ये एकिना स्त्रिया जाता यो तव च्छत्त्रं धारये ।
यो च पद्मवने आसि यो च आम्रवने अभू ॥
हस्तिशाला दानि आदीप्ता । राजा स्वयं कच्छं बन्धित्वा हस्तिनो मुंचति । असिना बन्धनानि च्छिन्दति पटलानि वाह्यतोमुखं क्षिपति ॥
नारायणसंघटनो राजा बलेन हस्तिनः ।
पाणिना गृह्य क्षिपति हस्तान् मोक्षिता दीप्तका ॥
अन्तःपुरिका राज्ञो वर्णं भाषन्ति । अहो राज्ञो पराक्रमो ति । अन्यतरापि कुब्जा राज्ञो वर्णं भाषति ।
सिंहासुपीडो बलवां शोभे सुचिपुलो महां ।
खे चन्द्रो इव आभाति समन्तपरिमण्डलं ॥

चकोरताम्रनयनः कामदेवो व शोभति ।
हस्तिनो मोक्षये राजा स्थामोपेतो नरर्षभः ॥
राजा आह ॥
भद्रिका खु अयं कुब्जा या राजानं प्रशंसति ।
काशिकानि ते वस्त्राणि ददामि चतुरो अहं ॥
महेन्द्रकराजधीता राजानं दृश्य दुःखिता ।
अयं नाम मम भर्ता एवंरूपो ति (शोकिता) ॥
[_म्वु_3.14_] मद्रकराजधीता आह ॥
न भाषन्तीये कुब्जाये जिह्वाये अस्ति च्छेदको ।
सुतीक्ष्णेन शस्त्रेण या राजानं प्रशंसति ॥
कुब्जा आह ॥
प्रतितर्जेन्ति राजानो बन्धेन च वधेन च ।
तस्मास्य वर्णं भाषामि रक्षं जीवितम् आत्मनो ॥
देवी आह ॥
न पश्यामि न द्रक्ष्यामि को अर्थो जीवितेन मे ।
अद्यैवाहं गमिष्यामि पुरा प्राणा जनन्ति मे ॥
सा दानि कुपिता देवी मद्रकराजस्य आत्मजा ।
कुब्जाद्वितीया यानेन स्वकं ज्ञातिकुलं गता ॥
मातापि पुत्रशोकेन तालयष्टीव भग्ना भूम्यां निपतिता ।
सा च सालस्य व यष्टि च्छिन्ना परशुना यथा ॥
एवं मेदिनियं पति पुत्रशोकसमन्विता ॥
राजा भार्याशोकदुःखितो गन्तुकामः भार्याम् अन्वेषितुं माता दुःखिता राजानं कुशं गाथाये प्रत्यभाषति ॥
अहो मम मन्दभाग्याये अर्थो पर्याहृतो कुले ।
पंचशतयोजनातो महेन्द्रधीता इहागता ॥
शक्तुभक्षा जनपदा नित्यं कम्बलप्रावृता ॥
लूहभुक्ता लूहकर्मा कथं मार्गं गमिष्यसि ॥
[_म्वु_3.15_] राजा आह ॥
नृत्यगीतवाद्यक्रीडाये चित्तमायाशतेन वा ।
विविधेहि उपायेहि वृत्तिं कल्पेयम् आत्मनो ॥
राजा भ्रातरं कुशद्रुमम् राज्ये स्थापयित्वा अमात्यानि संदिशित्वा ॥
मातरम् अभिवादयित्वा कृत्वान च प्रदक्षिणं ।
ततो वीणां गृहीत्वान प्राक्रमे उत्तरामुखः ॥
सो दानि मद्रकविषयस्य अन्यस्मिं ग्रामे वासोपगतो अन्यतराये वृद्धाये प्रतिशयं दिन्नं । तदहो च तत्र ग्रामे वीणावाद्येन आराधितो । तस्य प्रभूतं खाद्यभोज्यं दिन्नं महन्तं गोपिटकं खज्जकस्य महती च अलिन्दा भक्तस्य दधिघटकं च नानाप्रकाराणि च व्यंजनानि ॥ वृद्धाये एतद् अभूषि ॥ एष असौ एकम् आहारं कृत्वा शुवे गमिष्यति एतं च मम द्वेमासिकं भक्तं भविष्यति । कुशेनापि वृद्धाये आलापं आनयन्तेन तं खज्जकस्य गोपिटकं एकदुकाये सर्वं खादितं । सा च ओदनस्य महती अलिंदा यो अष्टानां वा नवानां वा तण्डुल-ओदनानां पाको सर्वं भुक्तं । तानि च व्यंजनानि तं दधिकलशं । वृद्धा निराशा ॥
अविधाविधं प्रविशिथ अन्तको इह आगतो ।
पिशाचो मानुषरूपेण यो माम् इच्छति खादितुं ॥
कुशो आह ॥
सर्वे वसन्ति ग्रामस्मिं ये च कायेन पापका ।
एकरात्रिं वसित्वान शुवे गंसामि अम्बिके ॥
[_म्वु_3.16_]___सो दानि एकरात्रोषितो कन्यकुब्जं गतः मालाकारम् अल्लीनो तथा पूर्वे शिल्पिकजाती पश्चात्* महानसं । राजापि आराधितो यावद्राज्ञो प्रियो ति कृत्वा अन्तर्पुरिकाहि अन्तःपुरं प्रवेशीयति क्रीडापनको भविष्यति ॥ अन्तःपुरिका पि महेन्द्रकस्यापि धीतरो पृष्ठेन वहति । सुदर्शनापि तेन वाहियमानेन असाता वारेति ।
किं दानि अहं करोमि कस्य वा गरहाम्य् अहं ।

उत्त्रासयति मान् दृष्ट्वा समुद्रे राज्ञसो यथा ॥
किं दानि अहं करोमि कस्य वा गरहाम्य् अहं ।
उत्त्रासयति मान् दृष्ट्वा मृगी भ्रान्ता व लुब्धकं ॥
अनूर्जको येनागतो रात्रिंदिवम् अनुव्रजन्* ।
गच्छ कुश स्वकं राज्यं नेछामि दुर्वर्णं अहं ॥
राजा आह ॥
अहं सुप्रियो ते स्यामे सुश्रोणि तनुमध्यमे ।
तव कामेहि महन्तं राज्यं पि नाभिप्रार्थये ॥
नाहं गमिष्यामि सुसंवृतोरु
दिशां न जानामि यतो स्मि आगतो ।
संमूढरूपो विचरामि लोके
मत्तो स्मि कामैः मृगमन्दलोचने ॥
देवी आह ॥
विक्षेपो तव चित्तस्य यं अनिच्छन्तिम् इच्छसि ।
अकामां राज कामेसि नैतत् पण्डितलक्षणं ॥
[_म्वु_3.17_] कुशो आह ॥
अकामां वा सकामां वा यो नरो लभते प्रियां ।
लाभं तत्र प्रशंसन्ति अलाभो तत्र पापको ॥
देवी आह ॥
प्रभोसि स्त्रीसहस्रं पि एकरात्रेण रामितुं ।
एकस्त्रियाये कामेन महद्दुःखं निगच्छसि ॥
राजा आह ॥
नेतं दुःखं प्रजानामि यशस्विनी वर्णलाभिनी ।
यं सुचीर्णे ब्रह्मचर्यस्मिं त्वं मे भार्या भविष्यति ॥
देवी आह ॥
धिग् अस्तु ते ब्रह्मचर्यं अघन् ते भोतु पापकं ।
सुनखीं वा शृगालीं वा परत्र कामयिष्यसि ॥
कुशो आह ॥
मा एवं अवच भद्रे सुश्रोणि तनुमध्यमे ।
श्रमणा पि हिमे साधु ब्रह्मचर्येण शोभते ॥
ते पि भद्रे सुचीर्णेन इह चीर्णेन शोभते ।
स्वर्गेषु उपपद्यन्ति त्रिदशे कामकामिनो ॥
तन् ते भद्रे अहं ब्रूमि सुश्रोणि तनुमध्यमे ।
न ते अन्यो पति अस्ति इति सिंहस्वरो कुशः ॥
देवी आह ॥
सचेद् व सत्यं वचनं नैमित्तानां भविष्यति ।
न ते भार्या भविष्यामि कामं छिन्दाहि खण्डशः ॥
[_म्वु_3.18_] राजा आह ॥
नाहं छेत्तुं तवेछामि सुश्रोणि तनुमध्यमे ।
अच्छिन्ना येव त्वं भद्रे मम भार्या भविष्यसि ॥

महान्तं च मम राज्यं बहूश्वं बहुपौरुषं ।
अनन्तबहुप्रदानं बह्वाच्छादनभोजनं ॥
सो हं राज्यं च राष्ट्रं च च्छोरयित्वा इहागतः ।
तव कामेहि समन्तराज्यं नाभिप्रार्थये ॥
देवी आह ॥
पाषाणे खनसे कूपं कर्णिकारेण कर्णिकां ।
वातं जालेन बन्धेसि अनिच्छन्तीं यम् इच्छसि ॥
अकान्तो किं कामयसि . . . . . . . . ॥
गच्छ कुश स्वकं राज्यं आत्मानं किं किलामसि ॥
राजा आह ॥
न एतं किलमथं मह्यं ब्रह्मचर्यं इदं मम ।
परत्र मे तुवं भार्या मह्यं भद्रे भविष्यसि ॥
देवी आह ॥
एतन् तव ब्रह्मचर्यं उपात्तं भोतु पापकं ।
सुनखीं वा शृगालीं वा गर्दभीं वाभिप्रार्थये ॥
राजपुत्रो शूरो वीरो युद्धस्मिं अप्रतिपुद्गलो ।
कुशो ऽयम् आरूढप्रज्ञो इदं वचनम् अब्रवीत्* ॥
[_म्वु_3.19_] गच्छन्तो ते अहं भद्रे सुश्रोणि तनुमध्यमे ।
निगडेहि ते बन्धेयं किन् ते कुर्यु सजातयो ॥
देवी आह ॥
तम् एव धर्मम् अपराध्य यन् ते उत्पादितं पुरा ।
तम् एव धर्मं स्मरमाणो त्वं मे बन्धितुम् इच्छसि ॥
राजा आह ॥
प्रभोमि ते अहं भद्रे बन्धयित्वा प्रजापती ।
येन् इच्छकं प्रचारेतुं पिता ते किं करिष्यति ॥
प्रभोसि स्त्रीसहस्रं पि एकरात्रेण रामितुं ।
त्वम् एव मे वरं भद्रे शुद्धदन्ति प्रजापति ॥
देवी आह ॥
जानामि ते महाराज बलवां त्वं नरषभ ।
दुर्वर्णो दुर्दृशो चासि दुःस्पर्शो च महीपति ॥
स्थूलोष्ठो स्थूलशिरो च स्थूलाङ्गो सि महोदरो ।
पश्यितुं त्वां न इच्छामि मा आत्मानं किलामये ॥
देवी आह ॥
एते उद्विद्धप्राकारां अट्टाट्टालकखोलका ।
यो वा वहति नागेहि एतं हि वारयन्ति ते ॥
. . . . . . . . . . . . . . . . . . . . . . . . . . .
एते शक्तीहि युध्यन्ति तोमरेहि शरेहि च ।
असीहि च सुतीक्ष्णेहि त्वां लभेयं प्रजापति ॥
[_म्वु_3.20_]___राजा दानि महेन्द्रको धीतरं परिभाषति । किं त्वं तादृशं राजानं यस्य प्रतिराजानः त्रसन्ति तं छोडित्वा इहागता ॥ अयं चाहं सप्तहि राजानेहि उपरुद्धो तव कृतेन । एषो दानि ते एतेषां सप्तानां राज्ञां सप्त खण्डानि कृत्वा दास्यामीति ॥
सा दानि भीता राजधीता अश्रुकण्ठा रुदन्मुखी ।

मूल पाठ: Mahāvastu-avādana · Edition: Émile Senart, 3 vols., Paris 1882-1897. Cf. also : Emmanuel Faure, B. Oguibénine, M. Yamazaki, and Y. Ousaka Mahāvastu-avādana, vol.I: word index and reverse word index Tokyo 2003 (Philologica Asiatica, Monograph Series 20) The Chuo Academic Research Institute (Tokyo, 2003 (July)) · Data entry Emmanuel Fauré · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc