भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 9455-9474

9455

कान्तारे जलवृक्षवैरिणि मुहुस्त्वद्वैरिवामभ्रुवो बालैराकुललोचनैः प्रतिपदं रुद्धक्रमाश्चङ्क्रमे ।
पृथ्वीचण्डरुचे पटच्चरदशासंघट्टदीप्तप्रभं सिञ्चन्त्यञ्जलिसञ्चिताश्रुभिरलं युष्मत्प्रतापानलम् ॥

9456

कान्तारे दैवगत्या कथमपि गलितान्यन्तरालोक्य भक्ष्याण्य् उड्डीयोड्डीय भूयस् तरुशिखरशिखामेव तेभ्यः श्रयन्ते ।
इत्थं त्वद्वैरिनारी गिरिषु नरपते जम्बुलम्बीकदम्ब- भ्रान्त्या भर्तुर्बुभुक्षोः कथयति पुरतश्चेष्टितं षट्पदानाम् ॥

9457

कान्तारेषु करावलम्बिशिशवः पादैः स्रवल्लोहितैर् अर्चन्त्यः पदवीं विलोचनजलैरावेदयन्त्यः शुचम् ।
दृष्टाः पान्थजनैर्विवृत्य सकृपं हाशब्दगर्भैर्मुखैर् यन्त्यह्ना सकलेन योजनतुरीयांशं तवारिस्त्रियः ॥

9458

कान्तारेषु च काननेषु च सरित्तीरेषु च क्ष्माभृताम् उत्सङ्गेषु च पत्तनेषु च सरिद्भर्तुस्तटान्तेषु च ।
भ्रान्ताः केतकगर्भपल्लवरुचः श्रान्ता इव क्ष्मापते कान्ते नन्दनकन्दलीपरिसरे रोहन्ति ते कीर्तयः ॥

9459

कान्तारेष्वपि विश्रामो नरस्याध्वनिकस्य वै ।
यः सदारः स विश्वास्यस् तस्माद् दाराः परा गतिः ॥

9460

कान्तावियोगः स्वजनापमानं ऋणस्य शेषं कुनृपस्य सेवा ।
दारिद्र्यभावाद् विमुखं च मित्रं विनाग्निना पञ्च दहन्ति कायम् ॥

9461

कान्ताश्लेषपराङ्मुखं यदि दहेद् दोषाकरः कंचन स्थाने तर्हि यतः स हन्त विधिना हन्तुं व्यधायीदृशान् ।
कष्टं यत्पुनरेष चन्दनभुवो लब्धप्रभावोऽभितः स्वर्णद्याद्यवगाहको मरुदयं दग्धं प्रचण्डोज्वलम् ॥

9462

कान्तासुहृद्गुणकथाश्रवणोत्सुकस्य रम्या विनिद्रनयनस्य गता ममासौ ।
सर्वेन्द्रियार्थजनितानि हि सेव्यमाना दीर्घा स्ववृत्तिरिव हन्ति सुखानि निद्रा ॥

9463

कान्तिं कुङ्कुमकेशरान्मधुरतां द्राक्षारसस्यासवाद् वैदर्भीपरिपाकपूतवचसः काव्यात् कवेर्मार्दवम् ।
पार्श्वादेव जरातुरेण विधिना तं तं गृहीत्वा गुणं सृष्टा हन्त हरन्ति कस्य न मनः कश्मीरवामभ्रुवः ॥

9464

कान्तिं केतककोरकद्युतिसखीं राकामृगाङ्कस्य यच् चञ्चच्चञ्चु चुलुम्पति प्रतिदिनं प्रेम्णा चकोरार्भकः ।
तन् मन्ये नयनामृतं रतिपतेर्मृत्युञ्जयेनार्थिना तेनेदं रमणीकपोलफलके लावण्यमालोकितम् ॥

9465

कान्तिकल्लोलवलितां नयनामृतवाहिनीम् ।
भजमानं स्वयं सुभ्रु कस्त्वां न बहु मन्यते ॥
कान्तिप्रकर्षं दशनच्छदेन सन्ध्याघने बद्धपदं हरन्त्याः ।
तस्या गृहोद्यानसरोगतस्य हस्तस्य एवाम्बुरुहस्य रागः ॥

9466

कान्तिमयादतिविमलाद् अविरतविश्वोपकारगतकालात् ।
सुदशान् महतोतिमहान् प्रसरति दीपान् प्रदीप इव ॥

9467

कान्तिर्यस्य विनिद्रनीलनलिनच्छायासखी सुभ्रुवां यत्पङ्केऽपि मुदोऽस्ति यस्य सुरभिः कासां रसोऽगोचरः ।
अङ्गारार्थितया जनेरतिजडैरुड्डामरैः पामरैः पश्यैष प्रगुणैर्गुणैरपि गुरुर्दग्धः स कालागुरुः ॥

9468

कान्तिर्यस्य शरन्निशाकरकलालावण्यसंवादिनी तं विक्रेतुमिहासि यासि किमहो हारं विहारं श्रियः ।
एतां पश्य पुरः पुलिन्दनगरीं भूपाः कुरङ्गीदृशां यत्रैता गलकन्दले च कुचयोरङ्के च गुञ्जास्रजः ॥

9469

कान्तिर्लोचनवर्तिरद्भुतमयी मूर्तिर्महत् सौरभं निःष्यन्दोऽथ सुधाकरादपि सुधास्यन्दादपि ह्लादकः ।
सर्वोऽयं विरलो जगत्यपि गुणग्रामोऽभिरामो हहा पश्योत्तंसभुजंगसंगमजुषः श्रीखण्ड ते खण्डितः ॥
कान्तिश्चन्द्रमसो मृगस्य नयने बाहू मृणालस्य ते हंसानां गमनं सरोजवदने हेम्नो घटौ ते कुचौ ।
एतत्ते परकीयवस्तु सकलं नमैकमात्रं तव मानं मा कुरु मानिनि प्रियतमे रूपाभिमानं प्रति ॥

9470

कान्तिश्रिया निर्जितपद्मरागं मनोज्ञगन्धं द्वयमेव शस्तम् ।
नवप्रबुद्धं जलजं जलेषु स्थलेषु तस्या वदनारविन्दम् ॥
कान्तिस्ते कनकाचलप्रतिनिधिः कान्ताकुचस्पर्धि ते सौभाग्यं क्षितिपालदर्शनविधौ त्वत्पूर्वकं दर्शनम् ।
सौरभ्यं सकलातिशायि भवतो जम्बिर किं ब्रूमहे कर्पूरप्रतिकूलता यदि न ते त्वय्येव सर्वे गुणाः ॥

9471

कान्तिस्ते यदि निर्मला यदि गुणा लक्ष्मीर्यदि स्थायिनी मा गाः पद्म मदं तथापि गलिता ह्येते शरद्वासराः ।
संस्पर्शेन तुषारवारिपृषतामालूनमूर्तेः सरो- मध्येऽत्रैव वराटकेन भवतः स्थेयं पुनः केवलम् ॥

9472

कान्ते कत्यपि वासराणि गमय त्वं मीलयित्वा दृशौ स्वस्ति स्वस्ति निमीलयामि नयने यावन् न शून्या दिशः ।
आयाता वयम् आगमिष्यति सुहृद्वर्गस्य भाग्योदयैः सन्देशो वद कस् तवाभिलषितस् तीर्थेषु तोयाञ्जलिः ॥

9473

कान्ते कथंचित् कथितप्रयाणे क्षणं विनम्रा विरहार्दिताङ्गी ।
ततस् तमालोक्य कदागतोऽसीत्य् आलिङ्ग्य मुग्धा मुदमाससाद ॥

9474

कान्ते कनकजम्बीरं करे किमपि कुर्वति ।
आगारलिखिते भानौ बिन्दुमिन्दुमुखी ददौ ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc