महासुभाषितसंग्रह · श्लोक 9355-9374
काचिन्नितम्बार्पितवामहस्ता दोर्लेखया कुञ्चितया नताङ्गी ।
क्षमापतौ मार्गणमोक्षदक्षम् अकल्पयच्चापमिव स्मरस्य ॥
काचिन्निदेशाज्जरतीजनानां कुलोचितं किंचिदिहालपन्ती ।
कुञ्जद्रुमालेखनमाचरन्ती संज्ञापितालीभिरभूत् सलज्जा ॥
काचिन्निवारितबहिर्गमना जनन्या द्रष्टुं हरं भवनजालकमाससाद ।
तस्या विलोचनमदृश्यत दाशयन्त्र- यत्रोपरुद्धशफरोपमितं क्षणेन ॥
काचिन्मृगाक्षी प्रियविप्रयोगे गन्तुं निशापारमपारयन्ती ।
उद्गातुमादाय करेण वीणाम् एणाङ्कमालोक्य शनैरहासीत् ॥
काचे मणिर्मणौ काचो येषां बुद्धिः प्रवर्तते ।
न तेषां संनिधौ भृत्यो नाममात्रोऽपि तिष्ठति ॥
काचो मणिर्मणिः काचो येषां तेऽन्ये हि देहिनः ।
सन्ति ते सुधियो येषां काचः काचो मणिर्मणिः ॥
काञ्चनाङ्गि कमनीयकलापौ कञ्चुलीकवचितौ लिकुचौ ते ।
पाणिना ननु वहामि मुहूर्तं देहि मेऽधरमणिं तव दास्यम् ॥
काञ्चिकेन समालोड्य भक्षयेत् प्रातरन्वहम् ।
षण्मासयोगतो हन्ति पलितं वलिभिः सह ।
दुग्धान्नभोजनासक्तश् चिरंजीवी भवेन् नरः ॥
काञ्चीं काञ्ची न धत्ते कलयति न दृशा केरली केलितल्पं सिन्दूरं दूर एव क्षिपति करतलन्यस्तमान्ध्री पुरन्ध्री ।
सौराष्ट्री मार्ष्टि भूयः सपदि नयनयो रक्तयो रक्तिमानं कार्णाटी कर्णिकायां मलिनयति मनो मानसिंहप्रयाणे ॥
काञ्चीकलक्वणितकोमलनाभिकान्ति पारावतध्वनितचित्रितकण्ठपालिम् ।
उद्भ्रान्तलोचनचकोरमनङ्गरङ्गम् आशास्महे कमपि वारविलासवत्याः ॥
काञ्ची कांचिदियं चकार जघनन्यस्ता गतेर्मन्दतां गाढं बद्धमिदं च कञ्चुकमदादुच्छ्रूनतां वक्षसः ।
नेत्रप्रान्तमथाकुलं कलयति श्रोत्रावतंसद्वयं तत्कोऽयं बत मत्प्रसाधनविधौ सख्यैषमस् त्वत्क्रमः ॥
कान्चीगुणग्रथितकाञ्चनचेलदृश्य- चण्डातपांशुकविभापरभागशोभि ।
पर्यङ्कमण्डलपरिष्करणं पुरारेर् ध्यायामि ते निखिलमम्ब नितम्बबिभ्बम् ॥
काञ्चीगुणैः काञ्चनरत्नचित्रैर् नो भूषयन्ति प्रमदा नितम्बम् ।
न नूपुरैहंसरुतं भजद्भिः पादाम्बुजान्यम्बुजकान्तिभाञ्जि ॥
काञ्चीगुणैर्विरचिता जघनेषु लक्ष्मीर् लब्धा स्थितिः स्तनतटेषु च रत्नहारैः ।
नो भूषिता वयमितीव नितम्बिनीनां कार्श्य निरर्गलमधार्यत मध्यभागैः ॥
काञ्चीदामकबन्धनं सललिता कर्णोत्पलैस् ताडना हेलालिङ्नविघ्नमाहितरुषा मौनेन निर्भर्त्सनम् ।
किं पूर्वोचितमेतदत्र सहसा विस्मृत्य मन्योर्भरान्- मय्युत्कण्ठमनस्यदर्शनपथं यातास्यहो कोपने ॥
काञ्चीदाम दृढं विधाय कवरीमाबध्य गाढं गुणैर् वक्षोजादपसार्य हारमसकृद् व्याधूय कर्णोत्पलम् ।
दूरोत्सारितकङ्कणा विधुमुखी सोत्प्रासहासं हठात् कण्ठे कस्य करोति हन्त दयिताश्लेषाय दोर्बन्धनम् ॥
काञ्चीदाम निवेशयन् वितनुते वासः श्लथं सुभ्रुवो हारं वक्षसि योजयन् करतलं धत्ते कुचाम्भोरुहे ।
जल्पंश्चाटुवचोऽधरं धयति यत् प्रेयान् कुतो विस्मयः पांसुं चक्षुषि विक्षिपन् यदि धनं गृह्णासि पाटच्चरः ॥
काञ्चीसीमनि कापि काञ्चनमयी निश्रेणिका राजते तामासाद्य रणोत्सवेन महता केनापि धीर त्वया ।
सद्यः कण्टकशालिना करयुगेनाक्रम्य शैलद्वयं तस्योपान्तनिवासिनश्च शशिनः स्फीता सुधा लप्स्यते ॥
काञ्च्या गाढतरावबद्धवसनप्रान्ता किमर्थं पुनर् मुग्धाक्षी स्वपितीति तत्परिजनं स्वैरं प्रिये पृच्छति ।
मातः सुप्तिम् अपीह लुम्पति ममेत्य् आरोपितक्रोधया पर्यस्य स्वपनच्छलेन शयने दत्तोऽवकाशस् तया ॥
काठिन्यं कुचयोः स्रष्टुं वाञ्छन्त्यः पादपद्मयोः ।
निन्दन्ति च विधातारं त्वद्घाटीष्वरियोषितः ॥
काठिन्यं कुचकुम्भयोर्नयनयोश्चाञ्चल्यमेतद् द्वयं भो ब्रह्मन् भवता कथं न पदयोरस्माकमासादितम् ।
इत्थं श्रीनरसिंह ते त्रिभुवनाधीशस्य घाटीभिया कान्तारेषु मिथः पलायनपरा जल्पन्ति वैरिस्त्रियः ॥
काठिन्यं गिरिषु सदा मृदुता सलिले ध्रुवा प्रभा सूर्ये ।
वैरमसज्जनहृदये सज्जनहृदये पुनः क्षान्तिः ॥
काठिन्यमङ्गैर्निखिलैर्निरस्तं स्तनौ कृशाङ्ग्याः शरणं जगाम ।
अधः पतिष्याव इतीव भीत्या न शक्नुतस्तावपि हातुमेतत् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0