भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 9055-9074

9055

कल्पान्तपवना वान्तु यान्तु चैकत्वमर्णवाः ।
तपन्तु द्वादशादित्या नास्ति निर्मनसः क्षतिः ॥

9056

कल्पान्तवाससंक्षोभलङ्घिताशेशभूभ् ऋतः
स्थैर्यप्रसादमर्यादास् ता एव हि महोदधेः ॥

9057

कल्पान्ते क्रोधनस्य त्रिपुरविजयिनः क्रीडया संचरिष्णोः कृत्वापि प्राणिजातैर्निजमुखकुहरातिथ्यमप्राप्ततृप्तेः ।
दिग्भित्तीः प्रेक्ष्य शून्याः प्रलयजलनिधिप्रेक्षितात्मीयमूर्ति- ग्रासव्यासक्तमोघश्रमजनितरुषः पान्तु वो गर्जितानि ॥

9058

कल्पान्ते शमितत्रिविक्रममहाकङ्कालबद्धस्फुरच्- छेषस्यूतनृसिंहपाणिनखरप्रोतादिकोलामिषः ।
विश्वैकार्णवताविशेषमुदितौ तौ मत्स्यकूर्मावुभौ कर्षन् धीवरतां गतोऽस्यतु सतां मोहं महाभैरवः ॥
कल्प्यते किमिति कर्मणचिन्ता- स्वेदमेदुरमिदं निजचेतः ।
पश्यतां नयति पूर्वभवात्तं पुण्यमेव भुवनानि किमन्यत् ॥

9059

कल्याणं कथयामि किं सहचरि स्वैरेषु शश्वत् पुरा यस्या नाम समीरितं मुररिपोः प्राणेश्वरीति त्वया ।
साहं प्रेमभिदाभयात् प्रियतमं दृष्ट्वापि दूतं प्रभोः सन्दिष्टास्मि न वेति संशयवती पृच्छामि नो किंचन ॥

9060

कल्याणं नः किमधिकमितो जीवनार्थं यदस्माल् लूत्वा वृक्षानहह दहसि म्रातरङ्गारकार ।
किं त्वेतस्मिन्नशनिपिशुनैरातपैराकुलानाम् अध्वन्यानामशरणमरुप्रान्तरे कोऽभ्युपायः ॥

9061

कल्याणं परिकल्प्यतां पिककुले रोहन्तु वाञ्छाप्तयो हंसानामुदयोऽस्तु पूर्णशशिनः स्ताद्भद्रमिन्दीवरे ।
इत्युद्बाष्यवधूगिरः प्रतिपदं संपूरयन्त्यान्तिके कान्तः प्रस्थितिकल्पितोपकरणः सख्या भृशं वारितः ॥

9062

कल्याणं भगवत्कथाकथनतः काव्यं विधातुः कवेस् तस्यैवाङ्कतया क्वचिद् रचयतः शृङ्गारवीरादिकम् ।
को दोषो भविता यदत्र कविताशीलैः समाश्रीयते पन्था व्यासवसुंधराश्रुतिभवग्रन्थादिषु प्रेक्षितः ॥

9063

कल्याणं भवतां यशः प्रसरतां धर्मः सदा वर्धतां संपत्तिः प्रथतां प्रजा प्रणमतां शत्रुक्षयो जायताम् ।
वाक्यं संवदतां वपुः प्रभवतां लक्ष्मीपतिः प्रीयताम् आयुस् ते शरदां शतं विजयतां दानाय दीर्घायुषे ॥

9064

कल्याणं भवतेऽस्तु कोकिलकुलाकल्पाय येन श्रुति- क्रूरक्रोष्टुरुतार्दितं कलरवैर्विश्वं समाश्वासितम् ।
अत्यन्ताभ्यसनाभ्युदित्वरबृहन्नादावबोधोल्लस- च्छब्दब्रह्मरसानुभूतिजनितानन्दौघनिष्यन्दिभिः ॥

9065

कल्याणं वः क्रियासुर्मिलदटनियुगस्थास्नुगीर्वाणभोगि- स्त्रैणव्यत्यस्तकल्पद्रुमनवसुमनोनागहारावलीनि ।
नालीकाश्लिष्टलक्ष्मीकरतलकमलोद्वान्तमाध्वीकधारा- तिम्यत्फालेक्षणानि त्रिपुरहरधनुर्ज्यालताकर्षणानि॥

9066

कल्याणं वो विधत्तां करटमदधुनीलोलकल्लोलमाला- खेलद्रोलम्बकोलाहलमुखरितदिक्चक्रवालान्तरालम् ।
प्रत्नं वेतण्डरत्नं सततपरिचलत्कर्णतालप्ररोह- द्वातङ्कूराजिहीर्षादरविवृतफणाशृङ्गभूषाभुजंगम् ॥

9067

कल्याणदो भवेद् वीरे ध्रुवकश्चन्द्रशेखरः ।
द्विदिग्वर्णपदं यत्र त्रिपुटे च विधीयते ॥
द्रुतद्वन्द्वं लघुद्वन्द्वं ताले त्रिपुटसंज्ञके ॥
कल्याणपादपारामं श्रुतगङ्गाहिमाचलम् ।
ज्ञानाम्भोजरविं देवं वन्दे श्रीज्ञाननन्दनम् ॥

9068

कल्याणभाक् सदा कार्ये सर्वसौभाग्यवर्धिनी ।
या खल्वेतादृशी भार्या सा देवी न तु मानुषी ॥
कल्याणमावहतु नः कुहनावराहो यस्यास्थिसीम्नि निखिलं प्रतिरोमकूपम् ।
आभाति सप्रणयमुद्वहतो धरित्रीं स्वेदाभिधान इव सात्त्विकहावभेदः ॥

9069

कल्याणामावहतु वः शिवयोः शरीरम् एकं यदीयमसितच्छविकण्ठमूलम् ।
वामेतरेऽपि कुरुते सितभासि भागे प्रारब्धशैलतनयापरिणामशङ्काम् ॥

9070

कल्याणवाक्त्वमिव किं पदमत्र कान्तं सद्भूपतेस् त्वमिव कः परितोषकारी ।
कः सर्वदा वृषगतिस् त्वमिवातिमात्रं भूत्याश्रितः कथय पालितसर्वभूतः ॥

9071

कल्याणस्तु यथाशक्ति करोति सफलं वचः ।
शठः पक्षौ चलयति द्वावप्यर्थोपलिप्सया ॥

9072

कल्याणहितवान् भूपो गुरूणां दोषगुप्तकः ।
सममतिः सुखे दुःखे समरे चापलायितः ॥

9073

कुलशीलेषु सम्पन्नो नीतिधर्मेषु पण्डितः ।
तथैव पूज्यते राजा चतुरस्रः प्रकीर्तितः ॥

9074

कल्याणाङ्गरुचानुरक्तमनसा त्वं येन संप्रार्थ्यते यस्यार्थे सुमुखि त्वया पुनरसुत्यागेऽपि संनह्यते ।
सोऽयं सुन्दरि पञ्चबाणविशिखव्यालीढदोरन्तर- स्वैरोत्पीडितपीवरस्तनतटस् त्वद्दोर्लतापञ्जरे ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc