भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 8975-8994

8975

कलत्रभारेण विलोलनीविना गलद्दुकूलस्तनशालिनोरसा ।
वलिव्यपायस्फुटरोमराजिना निरायतत्त्वादुदरेण ताम्यता ॥

8976

विलम्बमानाकुलकेशपाशया कयाचिदाविष्कृतबाहुमूलया ।
तरुप्रसूनान्यपदिश्य सादरं मनोधिनाथस्य मनः समाददे ॥

8977

कलत्रमात्मा सुहृदो धनानि वृथा भवन्तीह निमेषमात्रात् ।
मुहुर्मुहुश् चाकुलितानि तानि तस्मान् न विद्वानतिविग्रही स्यात् ॥
कलत्रहरणल्केशात् खिन्नानामात्मनस्तनौ ।
धर्तुमुत्सुकता नष्टेः सुदृशां सुधियामिव ॥

8978

कलभ तवान्तिकमागतम् अलिमेतं मा कदाप्यवज्ञासीः ।
अपि दानसुन्दराणां द्विपधुर्याणामयं शिरोधार्यः ॥

8979

कलमाक्रान्तविश्वस्य मषीकृष्णस्य भोगिनः ।
आसन्नबन्धनस्यान्ते दिविरस्य धनेन किम् ॥

8980

कलमं फलभारातिगुरुमूर्धतया शनैः ।
विनामान्तिकोद्भूतं समाघ्रातुमिवोत्पलम् ॥
कलमधुररक्तकण्ठी शयने मदिरालसा समदना च ।
वक्त्रापरवक्त्राभ्याम् उपतिष्ठतु वारमुख्या त्वाम् ॥

8981

कलमाः पाकविनम्रा मूलतलाघ्रातसुरभिकल्हाराः ।
पवनाकम्पितशिरसः प्रायः कुर्वन्ति परिमलश्लाघाम् ॥

8982

कलमान्तनिर्गतमषी- बिन्दुव्याजेन साञ्जनाश्रुकणा ।
कायस्थलुण्ठ्यमाना रोदिति खिन्नेव राजश्रीः ॥

8983

कलय कमलमस्मिर्न्नित्युदीर्य स्थितानां प्रतिफलितमुखेषु न्यस्तहस्तारविन्दाः ।
स्फटिकविपिनमध्ये माणिकप्रेयसीनां निभृतहसितपात्रं यत्र याता युवानः ॥

8984

कलयति कमलोपमानमक्ष्णोः प्रथयति वाचि सुधारसस्य साम्यम् ।
सखि कथय किमाचरामि कान्ते समजनि तत्र सहिष्णुतैव दोषः ॥

8985

कलयति किं न सदा फलतां बहुफलतां च स वृक्षः ।
यस्य परोपकृतौ कश्चिन् न सपक्षोऽपि विपक्षः ॥

8986

कलयति कुवलयमाला- ललितं कुटिलः कटाक्षविक्षेपः ।
अधरः किसलयलीला- माननमस्याः कलानिधिविलासम् ॥

8987

कलयति मम चेतस्तल्पमङ्गारकल्पं ज्वलयति मम गात्रं चन्दनं चन्द्रकश्च ।
तिरयति मम नेत्रे मोहजन्मान्धकारो विकृतबहुविकारं मन्मथो मां दुनोति ॥

8988

कलयतु हंसविलासगतिं स बकः सरसि वराकः ।
नीरक्षीरविवेकविधौ तस्य कुतः परिपाकः ॥

8989

कलय वलयं धम्मिल्लेऽस्मिन्निवेशय मल्लिकां रचय सिचयं मुक्ताहारं विभूषय सत्वरम् ।
मृगमदमषीपत्रालेपं कुरुष्व कपोलयोः सहचरि समायातः प्रातः स ते हृदयप्रियः ॥

8990

कलयसि वयस्य कस्मात् त्वं रुचिरं भारतीशास्त्रम् ।
अत्रोऽक्तिप्रत्युक्तौ कलय मिथो भूरिशस्त्रपातरणम् ॥

8991

कलया तुषारकिरणस्य पुरः परिमन्दभिन्नतिमिरौघजटम् ।
क्षणमभ्यपद्यत जनैर्न मृषा गगनं गणाधिपतिमूर्तिरिति ॥

8992

कलयात्र प्रकाश्यं चेत् किंचिद्वा दिव्यजीवने ।
तस्यामपि प्रकाशा स्याद् विशाला शान्तिरुज्ज्वला ॥
कलये किसलयमधरं शङ्के पङ्केरुहं करद्वन्द्वम् ।
मन्ये मनसिजवेत्रं गात्रं नेत्रैकमोहनं तन्व्याः ॥
कलरवकण्ठकरम्बित- कलरवकलकण्ठकूजिते सुरते ।
तव मनुमीलितलोचन- माननमवलोकितुं प्रिये कलये ॥

8993

कलशे निजहेतुदण्डजः किमु चक्रभ्रमकारितागुणः ।
स तदुच्चकुचौ भवन् प्रभा- झरचक्रभ्रममातनोति यत् ॥

8994

कलहः कदापि मास्त्विति कलितशरीरैक्ययोः शिवयोः ।
अहमस्म्यहमस्मीति प्राप्तः कलहो मम त्राणे ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc