महासुभाषितसंग्रह · श्लोक 8955-8974
कर्षति वपति लुनीते दीव्यति सीव्यति पुनाति वयते च ।
विदधाति किं न कृत्यं जठरानलशान्तये तनुमान् ॥
कर्षद्भिः सिचयाञ्चलानतिरसात् कुर्वद्भिरालिङ्गनं गृह्णानैः कचमालिखद्भिरधरं विद्रावयद्भिः कुचौ ।
प्रत्यक्षेऽपि कलिङ्गमण्डलपतेरन्तःपुराणामहो धिक्कष्टं विटपैर्विटैरिव वने किं नाम नाचेष्टितम् ॥
कलं कमुक्तं तनुमध्यनामिका स्तनद्वयी च त्वदृते न हन्त्यतः ।
न याति भूतं गणने भवन्मुखे कलङ्कमुक्तं तनुमध्यनामिका ॥
कलकण्ठ गणास्वाद्ये कामस्यास्त्रे निजाङ्कुरे ।
निम्बवृत्तिभिरुद्गदीर्णे न चूतः परितप्यते ॥
कलकलमपरा मुधा विधाय क्षितितिलकान् नयनान्तमाससाद ।
अवतरति मृगीदृशां तृतीयं मनसिजचक्षुरुपायदर्शनेषु ॥
कलकोकिलनादविवादबलद्- भ्रमरावलिलोलरसालद्रुम- ।
क्रममालतिकादिकदम्बलसत्- कुसुमागममोदमनोजशरैः ॥
परिपीडितया विधुसान्द्रकला- कमलाकरचम्पकसंगदधत्- ।
पवनैरनुचिन्तितया प्रिय सा सखि सम्प्रति किं क्रियतेऽबलया ॥
कलक्वणितगर्भेण कण्ठेनाघूर्णितेक्षणः ।
पारावतः परिभ्रम्य रिरंसुश्चुम्बति प्रियाम् ॥
कलक्वाणे वीणे विरम रणितात् कोकिल सखे सखेदो माभूस्त्वं द्रुहिणविहितस्ते परिभवः ।
सुधे मुञ्च स्पर्धामधरमधुसंसर्गसरसाः स्फुटन्त्येता वाचः किमपि कमनीया मृगदृशः ॥
कलङ्कदाशो गगनाम्बुराशौ प्रसार्य चन्द्रातपतन्तुजालम् ।
लग्नोडुमीनांल्लघु संजिघृक्षुश् चन्द्रप्लवस्थश्चरमाव्धिमेति ॥
कलङ्कयन्ति सन्मार्गजुषः परिभवन्त्यलम् ।
वात्या इवातिचपलाः स्त्रियो भूरिरजोवृताः ॥
तत् तासु न प्रसक्तव्यं धीरसत्त्वैः सुबुद्धिभिः ।
शीलमभ्यसनीयं तु वीतरागपदाप्तये ॥
कलङ्कहीनः क्षयदोषशून्यः सदा निवृत्तस् तमसो भयाच्च ।
बताभविष्यद् द्विजनायकोऽपि तदापि मन्ये न तवाननाभम् ॥
कलङ्किनः प्रिये दोषाकरस्य च जडस्य च ।
न जातु शक्तिरिन्दोस् ते मुखेन प्रतिगर्जितुम् ॥
कलङ्किनि जले क्वापि सौरं प्रतिफलन् महः ।
तमोऽपहत्वं तनुते समृद्धिं च दिने दिने ॥
कलङ्की निःशङ्कं परितपतु शीतद्युतिरसौ भुजङ्गव्यासङ्गीवमतु गरलं चन्दनरसः ।
स्वयं दग्धो दाहं वितरतु मनोभूरपि भृशं जगत्प्राण प्राणानपहरसि किं ते समुचितम् ॥
कलङ्केन यथा चन्द्रः क्षारेण लवणाम्बुधिः ।
कलहेन तथा भाति ज्ञानवानापि मानवः ॥
कलत्रं पृष्ठतः कृत्वा रमते यः परस्त्रियः ।
अधर्मश्चापदस्तस्य सद्यः फलति नित्यशः ॥
कलत्रचिन्ताकुचितस्य पुंसः श्रुतं च शीलं च गुणाश्च सर्वे ।
अपक्वकुम्भे निहिता इवापः प्रयान्ति देहेन समं विनाशम् ॥
कलत्रनिन्दागुरुणा किलैवम् अभ्याहतं कीर्तिविपर्ययेण ।
अयोघनेनाय इवाभितप्तं वैदेहिबन्धोर् हृदयं विदद्रे ॥
कलत्रपुत्रादिनिमित्ततः क्दचिद् विनिन्द्यरूपे विहितेऽपि कर्मणि ।
इदं कृतं कर्म विनिन्दितं सतां मयेति भव्यश्चकितो विनिन्दति ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0