भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 8935-8954

8935

कर्मभूमिमिमां प्राप्य कर्तव्यं कर्म यच्छुभम् ।
अग्निर्वायुश्च सोमश्च कर्मणां फलभागिनः ॥

8936

कर्मभूमिरियं ब्रह्मन् फलभूमिरसौ मता ।
इह यत् क्रियते कर्म तत् परत्रोपभुज्यते ॥

8937

कर्म लोकविरुद्धं तु कुर्वाणं क्षणदाचर ।
तीक्ष्णं सर्वजनो हन्ति सर्पं दुष्टमिवागतम् ॥

8938

कर्म सर्वोत्तमं किं मे करणीयं भवेदिति ।
मानवः प्रभवेद् वेत्तुं लब्ध्वा स्थैर्यं शमं तथा ॥

8939

कर्माणि जन्मान्तरसंचितानि महान्ति विज्ञानमहाहुताशे ।
सर्वाणि दग्धानि भवन्ति सद्यो महानलस्यास्ति किमार्द्रभावः ॥

8940

कर्माणि बध्नन्ति शुभाशुभानि कर्तात्रमौपाधिकमेव जीवम् ।
परं न तत्साक्षिणमस्तदोषम् आभीरमद्यात् किमजे शयाने ॥

8941

कर्माणि यानि लोके दुःखनिमित्तानि लज्जनीयानि ।
सर्वाणि तानि कुरुते जठरनरेन्द्रस्य वशमितो जन्तुः ॥
कर्माणि सर्वाणि च मोहनीये दुःखानि सर्वाणि दरिद्रतायाम् ।
पापानि सर्वाणि च चौर्यभावे दोषा अशेषा अनृते भवन्ति ॥

8942

कर्माण्यारभमाणानां दुःखहत्यै सुखाय च ।
पश्येत् पाकविपर्यासं मिथुनीचारिणां नृणाम् ॥

8943

कर्मानिष्टं विधत्ते भवति परवशो लज्जते नो जनानां धर्माधर्मौ न वेत्ति त्यजति गुरुकुलं सेवते नीचलोकम् ।
भूत्वा प्राज्ञः कुलीनः प्रथितपृथुगुणो माननीयो बुधोऽपि ग्रस्तो येनात्र देही नुद मदनरिपुं जीव तं बुःखदक्षम् ॥
कर्मानुभावदुःखित एवं मोहान्धकारगहनवति ।
अन्ध इव दुर्गमार्गे भ्रमति हि संसारकान्तारे ॥

8944

कर्मानुमेयाः सर्वत्र परोक्षगुणवृत्तयः ।
तस्मात् परोक्षवृत्तीनां फलैः कर्म विभावयेत् ॥

8945

कर्मान्यजन्मनि कृतं सदसच्च दैवं तत् केवलं भवति जन्मनि सत्कुलाद्ये ।
बाल्यात् परं विनयसौष्ठवपात्रतापि पुंदैवजा कृषिवदित्यत उद्यमेत ॥

8946

कर्मापराधात् सत्त्वानां विनाशे समुपस्थिते ।
अनयो नयरूपेण बुद्धिमाक्रम्य तिष्ठति ॥

8947

कर्मायत्तं फलं पुंसां बुद्धिः कर्मानुसारिणी ।
तथापि सुधिया भाव्यं सुविचार्यैव कुर्वता ॥

8948

कर्मारण्यं दहति शिखिवन्मातृवत्पाति दुःखात् सम्यग्रीतिं वदति गुरुवत् स्वामिवद् यद् बिभर्ति ।
तत्त्वातत्त्वप्रकटनपटुः स्पष्टमाप्नोति पूतं तत् संज्ञानं विगलितमलं ज्ञानदानेन मर्त्यः ॥

8949

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
इन्द्रियार्थान् र्विमूढात्मा मिथ्याचारः स उच्यते ॥

8950

यस् त्व् इन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।
कर्मेन्द्रियैः कर्मयोगम् असक्तः स विशिष्यते ॥
कर्मेन्धनं यदज्ञानात् संचितं जन्मकानने ।
उपवासशिखी सर्वं तद्भस्मीकुरुते क्षणात् ॥
कर्मेन्धनं समाश्रित्य दृढा सद्भावनाहुतिः ।
धर्मध्यानाग्निना कार्या दीक्षितेनाग्निकारिका ॥

8951

कर्मैव कारणं चात्र सुगतिं दुर्गतिं प्रति ।
कर्मैव प्राक्तनमपि क्षणं किं कोऽस्ति चाक्रियः ॥

8952

कर्मोक्तिनर्मनिर्माणैः प्रातः प्रातः प्रधावताम् ।
धनं धनं प्रलपतां निधनं विस्मृतं नृणाम् ॥
कर्मोदयाद् भवगतिर् भवगतिमूला शरीरनिर्वृत्तिः ।
देहादिन्द्रियविषया विषयनिमित्ते च सुखदुःखे ॥

8953

कार्यस्य निःसंशयमात्महेतोः सरूपतां हेतुभिरभ्युपेत्य ।
दुःखस्य कार्यं सुखमामनन्तः स्वेनैव वाक्येन हता वराकाः ॥

8954

कर्षणान्वेषणे यातुः क्षुतं जलदवृष्टये ।
हेमादिभूषणे नव्ये विधृते भूषणाप्तये ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc