महासुभाषितसंग्रह · श्लोक 8915-8934
कर्मणा मनसा वाचा यत्नाद्धर्मं समाचरेत् ।
अस्वर्ग्यं लोकविद्विष्टं धर्म्यमप्याचरेन् न तु ॥
कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते ।
तदेवापहरत्येनं तस्मात् कल्याणमाचरेत् ॥
कर्मणा मनसा वाचा सर्वभूतेषु सर्वदा ।
अक्लेशजननं प्रोक्तं त्वहिंसा परमर्षिभिः ॥
कर्मणामिष्टदुष्टानां जायते फलसंक्षयः ।
चेतसोऽर्थकषायत्वाद् यत्र सा घ्वस्तिरुच्यते ॥
कर्मणा मोहनीयेन मोहितं सकलं जगत् ।
धन्या मोहं समुत्सार्य तपस्यन्ति महाधियः ॥
कर्मणा येन तेनेह मृदुना दारुणेन वा ।
उद्धरेद् दीनमात्मानं समर्थो धर्ममाचरेत् ॥
कर्मणा रहितं ज्ञानं पङ्गुना सदृशं भवेत् ।
न तेन प्राप्यते किंचित् न च किंचित् प्रसाध्यते ॥
एवं ज्ञानेन हीनं यत् कर्मान्धेन समं स्मृतम् ।
मार्गो वा मार्गलक्ष्यं वा नैव तस्य प्रतीयते ॥
कर्मणा मनसा वाचा कर्तव्यं कर्म कुर्वतः ।
तस्मादेवेष्टसंसिद्धिश् चतुरस्रा प्रजायते ॥
कर्मणैव हि संसिद्धिम् आस्थिता जनकादयः ।
लोकसंग्रहमेवापि संपश्यन् कर्तुमर्हसि ॥
कर्मणोऽपि प्रधानत्वं किं कुर्वन्ति शुभा ग्रहाः ।
वसिष्ठदत्तलग्नेऽपि जानकी दुःखभागिनी ॥
कर्मणो यस्य यः कालः तत्कालव्यापिनी तिथिः ।
तया कर्माणि कुर्वीत ह्रासवृद्धिं न कारयेत् ॥
कर्मणो हि प्रधानेन बुद्धिना किं प्रयोजनम् ।
पाषाणस्य कुतो बुद्धिस् ततो देवो भविष्यति ॥
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥
कर्मण्यकर्म यः पश्येद् अकर्मणि च कर्म यः ।
स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥
कर्मण्यकर्मविधिरेष यदाचरन्ति कर्माणि तत्तदनुबन्धजिहासयेति ।
सत्यं तथाप्यभिनवो भविता न बन्धः प्राचीनबन्धहरणे क इवाभ्युपायः ॥
कर्मण्यकोविदाः स्तब्धा मूर्खाः पण्डितमानिनः ।
वदन्ति चाटुकान् मूढा यया माध्व्या गिरोत्सुकाः ॥
कर्मण्येवाधिकारस् ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूर् मा ते सङ्गोऽस्त्वकर्मणि ॥
कर्म त्यजेम यदि नूनमधः पतेम यद्याचरेम न कदापि भवं तरेम ।
कर्म त्यजेदिति चरेदिति च प्रवृत्ता भावेन केन निगमा इति न प्रतीमः ॥
कर्मदायादवल् लोकः कर्मसंबन्धलक्षणः ।
कर्माणि चोदयन्तीह यथान्योन्यं तथा वयम् ॥
कर्मब्रह्मविचारणां विजहतो भोगापवर्गप्रदां घोषं कंचन कण्ठशोषफलकं कुर्वन्त्यमी तार्किकाः ।
प्रत्यक्षं न पुनाति नापहरते पापानि पीलुच्छटा व्यप्तिर्नावति नैव पात्यनुमितिर्नो पक्षता रक्षति ॥
कर्मभिः स्वैरवाप्तस्य जन्मनः पितरौ यथा ।
राज्ञं तथान्ये राज्यस्य प्रवृत्तावेव कारणम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0