महासुभाषितसंग्रह · श्लोक 8895-8914
कर्पूरीयन्ति भूमौ सरसि सरभसं कैरवीयन्ति गङ्गा- कल्लोलीयन्ति नाके दिशि दिशि परितः केतकीयन्ति किं च ।
हंसीयन्त्यन्तरिक्षे कमलदलदृशां मौक्तिकीयन्ति कण्ठे शुक्तीयन्यम्बुराशौ विशदविसरुचो रश्मयः शीतरश्मेः ॥
कर्पूरेण स्थलविरचना कुङ्कुमेनालवालं माध्वीकानि प्रतिदिनपयः पञ्चबाणः कृषाणः ।
तत्रोत्पन्ना यदि किल भवेत् काञ्चनी कापि वल्ली सा चेदस्याः किमपि लभते सुभ्रुवः सौकुमार्यम् ॥
कर्पूरैः किमपूरि किं मलयजैरालेपि किं पारदैर् अक्षालि स्फटिकोपलैः किमघटि द्यावापृथिव्योर्वपुः ।
एतत् तर्कय कैरवक्लमहरे शृङ्गारदीक्षागुरौ दिक्कान्तामुकुरे चकोरसुहृदि प्रौढे तुषारत्विषि ॥
कर्पूरैरिव पारदैरिव सुधास्यन्दैरिवाप्लाविते जाते हन्त दिवापि देव ककुभां गर्भे भवत्कीर्तिभिः ।
धृत्वाङ्गे कवचं निबध्य शरधिं कृत्वा पुरो माधवं कामः कैरवबान्धवोदयधिया धुन्वन् धनुर्धावति ॥
कर्म खल्विह कर्तव्यं जातेनामित्रकर्शन ।
अकर्माणो हि जीवन्ति स्थावरा नेतरे जनाः ॥
कर्म चात्महितं कार्यं तीक्ष्णं वा यदि वा मृदु ।
ग्रस्यतेऽकर्मशीलस् तु सदानर्थैरकिंचनः ॥
कर्म चैव हि सर्वेषां कारणानां प्रयोजकम् ।
श्रेयःपापीयसां चात्र फलं भवति कर्मणाम् ॥
कर्मजन्यशरीरेषु रोमाः शारीरमानसाः ।
शरा इव पतन्तीह विमुक्ता दृढधन्विभिः ॥
कर्मजाः प्रभवन्त्येव यथाकालमुपद्रवाः ।
एतत्तु कष्टं यच्छत्रुः कर्ताहमिति मन्यते ॥
कर्म जीवं च संश्लिष्टं परिज्ञातात्मनिश्चयः ।
विभिन्नीकुरुते साधुः सामायिकशलाकया ॥
कर्मज्ञानं च मोक्षाय कर्मण्यर्थोऽधिकारिता ।
अतोऽर्थेनैव कैवल्यं न कैवल्येन लभ्यते ॥
कर्मणः फलनिर्वृत्तिं स्वयमश्नाति कारकः ।
प्रत्यक्षं दृश्यते लोके कृतस्याप्यकृतस्य च ॥
कर्मणः संचयात् स्वर्गनरकौ मोक्षबन्धने ।
कर्मणो ज्ञायते जन्तुर् बीजादिव नवाङ्कुरः ॥
कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् ।
रजसस् तु फलं दुःखम् अज्ञानं तमसः फलम् ॥
सत्त्वात् संजायते ज्ञानं रजसो लोभ एव च ।
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥
कर्मणां तु प्रशस्तानाम् अनुष्ठानं सुखावहम् ।
तेषामेवाननुष्ठानं पश्चात् तापकरं महत् ॥
कर्मणाचरितं पूर्वं सद्भिराचरितं च यत् ।
तदेवास्थाय मोदन्ते दान्ताः शमपरायणाः ॥
कर्मणा जायते जन्तुः कर्मणैव विलीयते ।
सुखं दुःखं भयं क्षेमं कर्मणैवाभिपद्यते ॥
अस्ति चेदीश्वरः कश्चित् फलरूप्यन्यकर्मणाम् ।
कर्तारं भजते सोऽपि न ह्यकर्तुः प्रभुर्हि सः ॥
कर्मणा तक्षकारेण मनुष्यो यत्तु पुत्रिका ।
वासनारज्जुमाकृष्य सवंकर्मसु चोदितः ॥
कर्मणा बध्यते जन्तुर् विद्यया तु प्रमुच्यते ।
तस्मात् कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥
कर्मणा बाध्यते बुद्धिर् बुद्ध्या कर्म न बाध्यते ।
सुबुद्धिरपि यद् रामो हैमं हरिणमन्वगात् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0