महासुभाषितसंग्रह · श्लोक 8796-8815
करोमीशोऽपि नाक्रान्तिं परितापेन खेदवान् ।
दरिद्रोऽपि न वाञ्छामि तेन जीवाम्यनामयः ॥
करोम्यहमिदं तदा कृतमिदं करिष्याम्यदः पुमानिति सदा क्रियाकरणकारणव्यापृतः ।
विवेकरहिताशयो विगतसर्वधर्मक्षमो न वेत्ति गतमप्यहो जगति कालमत्याकुलः ॥
करोषि तास्त्वमुत्खातमोहस्थाने स्थिरा मतीः ।
पदं यतिः सुतपसा लभतेऽतः सशुक्लिम ॥
करोषि यत् प्रेत्यहिताय किंचित् कदाचिदल्पं सुकृतं कथंचित् ।
मा जीहरस्तन्मदमत्सराद्यैर् विना च तन्मा नरकातिथिर्भूः ॥
करौ धुनाना नवपल्लवाकृती पयस्यगाधे किल जातसंभ्रमा ।
सखीषु निर्वाच्यमधार्ष्ट्यदूषितं प्रियाङ्गसंश्लेषमवाप मानिनी ॥
करौ धुनाना नवपल्लवाकृती वृथा कृथा मानिनि मा परिश्रमम् ।
उपेयुषी कल्पलताभिशङ्कया कथं न्वितस्त्रस्यति षट्पदावलिः ॥
करौ शरदिजाम्बुजक्रमविलासशिक्षागुरू पदौ विबुधपादपप्रथमपल्लवोल्लङ्घिनौ ।
दृशौ दलितदुर्मदत्रिभुवनोपमानश्रियौ विलोकय विलोचनामृतमहो महः शैशवम् ॥
कर्कन्धूफलमुच्चिनोति शबरी मुक्ताफलाकाङ्क्षया गृध्रोलूककदम्बकस्य पुरतः काकोऽपि हंसायते ।
कीर्त्या ते धवलीऋक्ते त्रिभुवने क्ष्मापाल लक्ष्मीः पुनः कृष्णं वीक्ष्य बलोऽयमित्युपहितव्रीडं शनैर्जल्पति ॥
कर्कशं दुःसहवाक्यं जल्पन्ति वञ्चिताः परैः ।
कुर्वन्ति द्यूतकारस्य कर्णनासादिछेदनम् ॥
कर्कशतर्कविचार- व्यग्रः किं वेत्ति काव्यहृदयानि ।
ग्राम्य इव कृषिविलग्नश् चञ्चलनयनावचोरहस्यानि ॥
कर्कशेन तु चापेन यः कृष्टौ हीनमुष्टिना ।
मत्स्यपुच्छा गतिस् तस्य सायकस्य प्रकीर्तिता ॥
कर्कोटिकार्कयोर्मूलं चूर्णयित्वा च सर्षपान् ।
सर्पिषा पाययेन् मन्त्री स्थावरक्ष्वेडशान्तये ॥
कर्णं चक्षुरजीगणत्तव पितुस् तातः पिता ते पुनः शक्त्याधारकुमारमप्यजगणत्तं कातरत्वेन सः ।
देवोगान्महिषीति पश्यति जगत्त्वेवं विवेक्तुं पुनः प्रागल्भ्यं प्रथयन्ति वस्तदपि च प्रज्ञाधनाः साधवः ॥
कर्णः सर्वशिरोगतस्त्रिभुवने कर्णेन किं न श्रूतं विश्राम्यन्ति मृगीदृशामपि दृशः कर्णे न चित्रं क्वचित् ।
आश्चर्यं पुनरेतदेव यदयं निश्छिद्रसन्मण्डलः सप्ताम्भोनिधिमेखलां वसुमतीं धत्ते जगन्मण्डलः ॥
कर्णकल्पितरसालमञ्जरी- पिञ्जरीकृतकपोलमण्डलः ।
निष्पतन्नयनवारिधारया राधया मधुरिपुर्निरीक्ष्यते ॥
कर्णगतेयममोघा दृष्टिस् तव शक्तिरिन्द्रदत्ता च ।
सा नासादितविजया क्वचिदपि नापार्थपतितेयम् ॥
कर्णद्वयावनतकाञ्चनतालपत्रा वेण्यन्तलम्बिमणिमौक्तिकहेमगुच्छा ।
कूर्पासकोत्कवचितस्तनबाहुमूला लाटी नितम्बपरिवृत्तदशान्तनीवी ॥
कर्णलङ्घिगुणोत्कर्षा वदान्या धन्विनो यथा ।
निष्फलान् न विमुञ्चन्ति मार्गणान् समितौ स्थिता ॥
कर्णविषेण च भग्नः किं किं न करोति बालिशो लोकः ।
क्षपणकतामपि धत्ते पिबति सुरां नरकपालेन ॥
कर्णस् त्वचं शिबिर्मांसं जीवं जीमूतवाहनः ।
ददौ दधीचिरस्थीनि नास्त्यदेयं महात्मनाम् ॥
कर्णस्फुरत्कनककुण्डलकान्तिरम्यम् आदृष्टिगोचरकुचद्वयलोभनीयम् ।
कालेयबिन्दुकलिकायितकुङ्कुमाङ्कं कर्णाटयौवतमिदं कमनीयरूपम् ॥
कर्णस्य भूषणमिदं ममायतिविरोधिनः ।
इति कर्णोत्पलं प्रायस् तव दृष्ट्या विलङ्घ्यते ॥
कर्णाक्षिदन्तच्छदबाहुपाणि- पादादिनः स्वाखिलतुल्यजेतुः ।
उद्वेगभागद्वयताभिमानाद् इहैव वेधा व्यधित द्वितीयम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0