भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 8716-8735

8716

करप्रचेयामुत्तुङ्गप्रभुशक्तिं प्रथीयसीम् ।
प्रज्ञाबलबृहन्मूलः फलत्युत्साहपादपः ॥

8717

करबदरसदृशमखिलं भुवनतलं यत्प्रसादतः कवयः ।
पश्यन्ति सूक्ष्ममतयः सा जयति सरस्वती देवी ॥

8718

करभ किमिदं दीर्घोच्छ्वासैः क्षिणोषि शरीरकं विरम शठ हे कस्यात्यन्तं सखे सुखमागतम् ।
चर किसलयं स्वस्थः पीलोर्विमुञ्च मधुस्पृहां पुनरपि भवान् कल्याणानां भविष्यति भाजनम् ॥

8719

करभदयिते यत्तत् पीतं सुदुर्लभमेकदा मधु वनगतं तस्यालाभे विरौषि किमुत्सुका ।
कुरु परिचितैः पीलोः पत्रैर्धूतिं मरुगोचरैर् जगति सकले कस्यावाप्तिः सुखस्य निरन्तरा ॥

8720

करभदयिते योऽसौ पीलुस् त्वया मधुलुब्धया व्यपगतघनच्छायस् त्यक्तो न सादरमीक्षितः ।
चलकिसलयः सोऽपीदानीं प्ररूढनवाङ्कुरः करभदयितावृन्दैरन्यैः सुखं परिभुज्यते ॥

8721

करभ यदि कदाचित् प्रभ्रमन् दैवयोगान् मधुकरकुलतस्त्वं प्रापयेथा मधूनि ।
विरम विरम तेभ्यः सन्ति शष्पाण्यरण्ये प्रथममुखरसास्ते शोषयन्त्येव पश्चात् ॥

8722

करभ रभसात् क्रोष्टुं वाञ्छस्यहो श्रवणज्वरं शरणमथवानृज्वी दीर्घा तवैव शिरोधरा ।
बहुगलबिलावृत्तिश्रान्तोच्चलिष्यति वाङ् मुखात् कियति समये को जानीते भविष्यति कस्य किम् ॥

8723

करमुदयमहीधरस्तनाग्रे गलिततमःपटलांशुके निवेश्य ।
विकसितकुमुदेक्षणं विचुम्ब- त्ययममरेशदिशो मुखं सुधांशुः ॥

8724

करयुग्मपद्ममुकुलापवर्जितैः प्रतिवेश्म लाजकुसुमैरवाकिरन् ।
अवदीर्णशुक्तिपुटमुक्तमौक्तक- प्रकरैरिव प्रियरथाङ्गमङ्गनाः ॥

8725

करयोः कलहायमानयोर् उभयोरेव पयोधरोपरि ।
वलयावलयो बलाबलं बहुवेलं पतयालवो जगुः ॥

8726

कररुद्धनीवि दयितोपगतौ गलितं त्वराविरहितासनया ।
क्षणदृष्टहाटकशिलासदृश- स्फुरदूरुभित्ति वसनं ववसे ॥

8727

कररुहशिखानिखात भ्रान्त्वा विश्रान्त रजनिदुरवाप ।
रविरिव यन्त्रोल्लिखितः कृशोऽपि लोकस्य हरसि दृशम् ॥

8728

करलालितोऽपि दहति ज्वलति व्यजनेन वीज्यमानोऽपि ।
दहन इवानिर्वाणं न विमुञ्चत्युष्णतां पिशुनः ॥

8729

करवारिरुहेण संधुनाने तरवार्रि नृपतौ मुकुन्ददेवे ।
रचयन्त्यमरावतीतरुण्यः प्रथमं काञ्चनपारिजातमालाः ॥

8730

करवालकरालवारिधारा यमुना दिव्यतरङ्गिणी च कीर्तिः ।
तव कामद तीर्थराज दूराद् अनुबध्नाति सरस्वती कवीनाम् ॥

8731

करशीकरशीतलं वितन्वन् वनभूभागमुदग्रदावदग्धम् ।
पुरतोऽञ्चति चेन् न यूथनाथः कलभानां सुलभस् तदा न पन्थाः ॥

8732

करसादोऽम्बरत्यागस् तेजोहानिः सरागता ।
वारुणीसङ्गजावस्था भानुनाप्यनुभूयते ॥
करस्थमप्येवममी कृषीवलाः क्षिपन्ति बौजं पृथुपङ्कसङ्कटे ।
वयस्य केनापि कथं विलोकितः समस्ति नास्तीत्यथवा फलोदयः ॥

8733

करस्थमुदकं त्यक्त्वा घनस्थमभिवाञ्छति ।
सिद्धमन्नं परित्यज्य भिक्षामटति दुर्मतिः ॥

8734

करस्पर्शारम्भात् पुलकितपृथूरोजकलशो श्रमाम्भो वामार्धे वमति मदनाकूतिसुलभम् ।
विभोर्वारं वारं कृतसमधिकोद्धूलनविधेस् तनौ भस्मस्नानं कथमपि समाप्तं विजयते ॥

8735

कराग्रजाग्रच्छतकोटिरर्थी ययोरिमौ तौ तुलयेत् कुचौ चेत् ।
सर्वं तदा श्रीफलमुन्मदिष्णु जातं वटीमप्यधुना न लब्धुम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc