भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 8696-8715

8696

करकलितपिनाक नाकनाथ द्बिषदुरुमानसशूल शूलपाणे ।
भव वृषभविमान मानशौण्ड त्रिजगदकारणतारक प्रसीद ॥

8697

करकाकृतभीकभेकलोक- प्रतिपाल्याः किमु सागरेण कुल्याः ।
वलभित्कुलिशप्रहारभीरु- क्षितिभृद्रक्षणदक्षिणेन तुल्याः ॥
करकिशलयचाल्यमानसूर्प- क्रमनमदुन्नमदक्षिपक्ष्मपालि ।
करनिहितकनीनिकं स्मिताक्ष्याः क्षणमपि नोत्पवनं जहाति चेतः ॥

8698

करकिसलयं धूत्वा धूत्वा विलम्बितमेखला क्षिपति सुमनोमालाशेषं प्रदीपशिखां प्रति ।
स्थगयति मुहुः पत्युर्नेत्रे विहस्य समाकुला सुरतविरतौ रम्यं तन्वी पुनः पुनरीक्ष्यते ॥
करकिसलयमूलं धुन्वतीनां स धन्यः श्रवणपथमनल्पं यस्य पुंसः प्रविष्टाः ।
नवरतपरिरम्भे बालसीमन्तिनीनां अहह न न न मा मा मुञ्च मुञ्चेति वाचः ॥

8699

करचरणकाञ्चिहार- प्रहारमवचिन्त्य बलगृहीतकचः ।
प्रणयी चुम्बति दयिता- वदनं स्फुरदधरमरुणाक्षम् ॥

8700

करचरणकृतं वा कायजं कर्मजं वा श्रवणनयनजं वा मानसं वापराधम् ।
विहितमविहितं वा सर्वमेतत् क्षमस्व जय जय करुणाब्धे श्रीमहादेव शंभो ॥

8701

करचरणनासमादौ कर्णौ गृह्णाति रक्ततां गमयन् ।
शीतं गुरुकृतपीडं पश्चादङ्गानि कूर्म इव ॥

8702

करचरणेन प्रहरति यथा यथाङ्गेषु कोपतरलाक्षी ।
रोषयति परुषवचनैस् तथा तथा प्रेयसीं रसिकः ॥

8703

करचुलुकजलो महोदधिश् चरणनिबद्धमहो निजाङ्गणम् ।
निजसदनसमं रसातलं भवति नृणां व्यवसायशालिनाम् ॥

8704

करजदशनचिह्नं नैशमङ्गेऽन्यनारी- जनितमिति सरोषामीर्ष्यया शङ्कमानाम् ।
स्मरसि न खलु दत्तं मत्तयैतत्त्वयैव स्त्रियमनुनयतीत्थं व्रीडमानां विलासी ॥

8705

करजपदविभूषिता यथा त्वं सुदति दशनविक्षताधरा च ।
गतिरपि चरणावलग्नमन्दा त्वमसि मृगसमाक्षि कामदत्ता ॥

8706

करजालमपूर्वचेष्टितं वस् तदभीष्टप्रदमस्तु तिग्मभासः ।
क्रियते भवबन्धनाद् विमुक्तिः प्रणतानामुपसेवितेन येन ॥

8707

करञ्जारग्वधारिष्टसप्तपर्णत्वचाकृतः ।
उपचारः क्रिमिहरो मूत्रमुस्तविडङ्गवान् ॥

8708

करटिकरटे भ्रस्यद्दानप्रवाहपिपासया परिसरसरद्भृङ्गश्रेणी करोति यदा रवम् ।
वदति शिरसः कम्पैर्नास्मान्निवारय वारण वितर वितरामानं दानं चलाः किल संपदः ॥

8709

करणभगणदोषं वारसंक्रान्तिदोषं कुतिथिकुलिकदोषं यामयामार्धदोषम् ।
कुजशनिरविदोषं राहुकेत्वादिदोषं हरति सकलदोषं चन्द्रमाः संमुखस्थः ॥

8710

करतरलितबन्धं कञ्चुकं कुर्वतीनां प्रतिफलितमिदानीं दैपमाताम्रमर्चिः ।
स्तनतटपरिणाहे भामिनीनां भविष्यन् नखपदलिपिलीलासूत्रपातं करोति ॥

8711

करतलयुगपरिणद्धे कुचकलशे कुङ्कुमारुणे तस्याः ।
सिन्दूरिते करिपतेः कुम्भे नक्षत्रमालेव ॥

8712

करदीकरणं राज्ञां रिपूणां परिमर्दनम् ।
भूमेरुपार्जनं भूयो राजवृत्तं तु चाष्टधा ॥

8713

करनखरविदीर्णध्वान्तकुम्भीन्द्रकुम्भात् तुहिनकणमिषेण क्षिप्तमुक्ताप्ररोहः ।
अयमुदयधरित्रीधारिमूर्धाविरुढो नयनपथमुपेतो भानुमत्केसरीन्द्रः ॥

8714

करपदाननलोचननामभिः शतदलैः सुतनोर्विरहज्वरे ।
रविमहो बहुपीतचरं चिराद् अनिशतापमिषादुदसृज्यत ॥

8715

करपातैर्दुरालोकैस् तीक्ष्णः संतापयन् प्रजाः ।
भानुर्न भवता तुल्यः क्षणसंरक्तमण्डलः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc