भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 8676-8695

8676

कमलेव मतिर्मतिरिव कमला तनुरिव विभा विभेव तनुः ।
धरणीव धृतिर्धूतिरिव धरणी सततं विभाति बत यस्य ॥
कमलोदरकोमलपादतलं गणनापरिवर्जितबाहुबलम् ।
प्रणमामि जगत्त्रयबोधिकरं गिरनारविभूषणनेमिजिनम् ॥

8677

कमितुरभिसृत्वरीणां गौराङ्गीणामिहेन्दुधवलासु ।
उड्डयमानानामिव रजनिषु परमीक्ष्यते छाया ॥
कम्पः स्वेदः श्रमो मूर्च्छा भ्रमिर्ग्लानिर्बलक्षयः ।
राजयक्ष्मादिरोगाश्च भवेयुर्मैथुनोत्थिताः ॥
कम्पक्षितीशमनिशं कथयन्ति सन्तः सङ्गीतदुग्धजलधेरुदितं सुधांशुम् ।
साहित्यमानससरोवरराजहंसं सङ्ग्रामरङ्गनटनस्थितिसूत्रधारम् ॥

8678

कम्पते गुणमुष्टिस् तु मार्गणस्य हि पृष्ठतः ।
संमुखी स्याद् धनुर्मुष्टिस् तदा वामे गतिर्भवेत् ॥

8679

कम्पन्ते कपयो भृशं जडकृशं गोऽजाविकं ग्लायति श्वा चुल्लीकुहरोदरं क्षणमपि क्षिप्तोऽपि नैवोज्ज्ञति ।
शीतार्तिव्यसनातुरः पुनरयं दीनो जनः कूर्मवत् स्वान्यङ्गानि शरीर एव हि निजे निह्नोतुमाकाङ्क्षति ॥

8680

कम्पन्ते गिरयः पुरंदरभिया मैनाकमुख्याः पुनः क्रन्दन्त्यम्बुधराः स्फुरन्ति बडवावक्त्रोद्गता वह्नयः ।
भोः कुम्भोद्भव मुच्यतां जलनिधिः स्वस्त्यस्तु ते सांप्रतं निद्रालुः श्लथबाहुवल्लिकमलाश्लेषो हरिः सीदति ॥

8681

कम्पप्रदोऽसौ शिशिरर्तुचौरो मुष्णाति वृक्षान् हरते किमस्मान् ।
इतीव भीत्वा परिपाण्डुराणि जातानि शुष्काणि तृणानि भूमौ ॥

8682

कम्पितं भीतमुद्घृष्टम् अव्यक्तमनुनासिकम् ।
काकस्वरं शिरःस्थं च तथा स्थानविवर्जितम् ॥

8683

कम्पितः पतसि पादकयुग्मे नेत्रकोणनिहतोऽपि भयार्तः ।
युध्यसे किमिषुभिः प्रिय भीरुं भाषुकामिति हसंश्चलितोऽन्यः ॥

8684

कम्पी कोऽभिविधौ किमव्ययमिह क्वास्ते द्रवत्वं पुनः स्याद् रूपं प्रथमाद्वितीयवचने किं वेः खमद्याह्वय ।
को धातुर्गतिगन्धयोर्द्रविणिनां किं याचते भिक्षुकः प्रश्नानां द्रुतमुत्तराणि वद रे भय्या जलेबी खवा ॥

8685

कम्पोपरुद्धसर्वाङ्गैर् गलत्स्वेदोदबिन्दुभिः ।
त्वदारब्धैर्महीनाथ वैरिभिर्वनितायितम् ॥

8686

कम्बाघातैर्वपुषि निहतैरुच्छलच्छोणितौघैः कारागारैर्निबिडनिगडैर्लङ्घनं चुम्बनं च ।
एवं ज्ञात्वा विरम सुमते मा कुरु त्वं नियोगं कर्णोपान्ते मलिनवदना लेखिनी फूत्करोति ॥

8687

कम्बुकण्ठि चरणः शनैश्चरो राहुरेष तव केशकलापः ।
न च्युतं तदपि यौवनमेतत् सा पयोधरगुरोरनुकम्पा ॥

8688

कयापि क्रीडतु ब्रह्मा दिव्याः स्त्रीर्दीव्यत स्वयम् ।
कलिस्तु चरतु ब्रह्म प्रैत वातिप्रियाय वः ॥

8689

कयासि कामिन् सुरतापराधात् पादानतः कोपनयावधूतः ।
तस्याः करिष्यामि दृढानुतापं प्रवालशय्याशरणं शरीरम् ॥

8690

करं गृहीत्वा परिमृद्य मन्दं कटिं निपीड्यानुविमृज्य चोरुम् ।
नीवीमपाकृत्य विलक्षणायाः शठो मनोजोपनिषत् पपाठ ॥

8691

करं प्रसार्य सूर्येण दक्षिणाशावलम्बिना ।
न केवलमनेनात्मा दिवसोऽपि लघूकृतः ॥

8692

करकङ्कटकुट्यङ्कखङ्गसंघट्टटाङ्कृतैः ।
कालरात्र्या प्रनृत्यन्त्या रणवीणेव वाद्यते ॥

8693

करकजलपूतभूतल- निहितपदो विहितविकृतहुंकारः ।
अपि वितथमन्त्रगणना- व्यग्रसमग्राङ्गुलीपर्वा ॥

8694

करकम्पितखङ्गयष्टिभीमे रणसंनाहितरामनाथवीरे ।
अरिभूभृदमर्त्यसुन्दरीणाम् अचलन् दक्षिणवामलोचनानि ॥

8695

करकलितदारनरके शेरत इह ये सजन्ति भवसिन्धौ ।
रसिकास् त एव मान्या मन्यन्तां धन्यमात्मानम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc