भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 8656-8675

8656

व्रजति मृदु सलीलं राजहंसीव तन्वी त्रिवलिवलितमघ्या हंसवाणी सुवेषा ।
मृदु शुचि लघु भुङ्क्ते मानिनी गाढलज्जा धवलकुसुमवासोवल्लभा पद्मिनी स्यात् ॥

8657

कमलमुखि सर्वतोमुख- निवारणं विदधदेव भूषयति ।
रोधोरुद्धस्वरसास् तरङ्गिणीस् तरलनयनाश्च ॥

8658

कमलवदना पीनोत्तुङ्गं घटाकृति विभ्रती स्तनयुगमियं तन्वी श्यामा विशालदृगञ्चला ।
विशददशना मध्यक्षामा वृथेति जनाः श्रमं विदधति मुधा रागादुच्चैरनीदृशवर्णने ॥

8659

कमलवनचिताम्बुः पाटलामोदरम्यः सुखसलिलनिषेकः सेव्यचन्द्रांशुहारः ।
व्रजतु तव निदाघः कामिनीभिः समेतो निशि सुललितगीते हर्म्यपृष्ठे सुखेन ॥

8660

कमलशरधिरम्भासैकतानुक्रमाढ्यं कनककलशभाराक्रान्तसौदामिनीकम् ।
किसलयितमृणालं हारगर्भप्रवालं कुवलयितशशाङ्कं कौशलं सा विधातुः ॥

8661

कमलाः पाकविनम्रा मूलतलाघ्रातसुरभिकह्लाराः ।
पवनाकम्पितशिरसः प्रायः कुर्वन्ति परिमलश्लाघाम् ॥
कमलाकुचकनकाचल- जलधरमाभीरसुन्दरीमदनम् ।
अधिततशेषफणावलि- कमलवनीभृङ्गमच्युतं वन्दे ॥

8662

कमलाक्षि विलम्ब्यतां क्षणं कमनीये कचभारबन्धने ।
दृढलग्नमिदं दृशोर्युगं शनकैरद्य समुद्धराम्यहम् ॥

8663

कमलाचिबुकोन्नायी कृष्णस्य करः करोतु कल्याणम् ।
मुकुर इव नीलवृन्तो भाति नितान्तं तदाननं येन ॥

8664

कमलानि पानमधुभाजनानि नः पिदधाति यः स विधुरेष गोचरः ।
इति रोषणैरिव मधुव्रतैर्धुतं दधती मुखं सुरभिचारुमारुतम् ॥

8665

कमलाभ्यां सुधासिन्धुवदनेक्षणयोस् तुलाम् ।
कलयन्तु परे किं तु क्वेमे पङ्केरुहे क्व ते ॥

8666

कमलासनकमलेक्षण- कमलारिकिरीटकमलभृद्वाहैः ।
नुतपदकमला कमला करधृतकमला करोतु मे कुशलम् ॥

8667

कमलिनि मलिनीकरोषि चेतः किमिति बकैरवहेलितानभिज्ञैः ।
परिणतमकरन्दमार्मिकास्ते जगति भवन्तु चिरायुषो मिलिन्दाः ॥

8668

कमलिनि विमले जले जनिस् ते तदुचितमाचरणं न संतनोषि ।
मलिनमलिकुलं यतस्त्वमन्तः शशिकिरणान् विमलान् बहिष्करोषि ॥

8669

कमलिनीमलिनी दयितं विना न सहते सह तेन निषेविताम् ।
तमधुना मधुना निहितं हृदि स्मरति सा रतिसारमहर्निशम् ॥

8670

कमलिनीवनकेलिकलारसी गुणवशीकृतकैरविणीगुणः ।
अलिरसौ तव सौरभलोभतः पतति केतकिकण्टकसंकटे ॥

8671

कमलेः समकेशं ते कमलेर्ष्याकरं मुखम् ।
कमलेख्यं करोषि त्वं कमलेवोन्मदिष्णुषु ॥

8672

कमले कमला शेते हरः शेते हिमालये ।
क्षीराब्धौ च हरिः शेते मन्ये मत्कुणशङ्कया ॥

8673

कमले कमले नित्यं मधूनि पिबतस् तव ।
भविष्यन्ति न सन्देहः कष्टं दोषाकरोदये ॥

8674

कमले कमलोत्पत्तिः श्रूयते न च दृश्यते ।
बाले तव मुखाम्भोजे दृष्टमिन्दीवरद्वयम् ॥

8675

कमले निधाय कमलं कलयन्ती कमलवासिनं कमले ।
कमलयुगादुद्भूतं कमलं कमलेन वारयति ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc