भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 8636-8655

8636

कपोले पाण्डुत्वं किमपि जलधारां नयनयोस् तनौ कार्श्यं दैन्यं वचसि हृदि दावानलशिखाम् ।
अवज्ञां प्राणेषु प्रकृतिषु विपर्यासमधुना किमन्यद् वैराग्यं सकलविषयेष्वाकलयते ॥

8637

कपोलेऽम्भोजाक्ष्याः प्रियदशनचिह्नं प्रियदृशोः सरोजाक्षी वक्त्रच्युतभुजगवल्लीरसलवम् ।
सपत्नी दृष्ट्वारादुरुतरविनिश्वासतरलो- न्नतोरोजद्वन्द्वं रहसि शनकै रोदिति मुहुः ॥

8638

कपोलौ लोलाक्ष्या मधुमुकुललीलाविजयिना- वुरोजौ रेजाते कनककलशाभोगसुभगौ ।
दृशौ वातोत्खेलत्तरलतरनीलोत्पलरुचौ वचो नो जानीमः किममृतमयं किं विषमयम् ॥
कफमूत्रमलप्रायं निर्जन्तुर्जगतीतले ।
यत्नाद्यदुत्सृजेत्साधुः सोत्सर्गसमितिर्भवेत् ॥

8639

कबन्धः परिघाभासो दृश्यते भास्करान्तिके ।
जग्रास सूर्यं स्वर्भानुर् अपर्वणि महाग्रहः ॥

8640

कमठपृष्ठकठोरमिदं धनुर् मधुरमूर्तिरसौ रघुनन्दनः ।
कथमधिज्यमनेन विधीयताम् अहह तात पणस् तव दारुणः ॥

8641

कमण्डलूपमोऽमात्यस् तनुत्यागी बहुग्रहः ।
नृपते किङ्क्षणो मूर्खो दरिद्रः किंवराटकः ॥

8642

कमनीयतानिवासः कर्णस् तस्या विचित्रमणिभूषः ।
सविधप्रसूतरत्नं शङ्खनिधिं दूरतरमकरोत् ॥
कमनीयतारहारा चन्दनपरिहसितचारुनीहारा ।
परिचितपाण्ड्यविहारा कमलमुखीयं कराञ्चदुपहारा ॥

8643

कमनेकतमादानं सुरतनरजतुच्छलं तदासीनम् ।
अप्यतिमानं खमते सोऽगनिकानं नरं जेतुम् ॥

8644

कमलं कवलीकृतं न वा सलिलं वा न सलीलमाहुतम् ।
करिणा परिणामदारुणो ददृशे विन्ध्यवने मृगाधिपः ॥

8645

कमलं तव पदकमले विमले मम देहि चञ्चरीकत्वम् ।
नान्यत् किमपि च काङ्क्षे पश्चाद् गानं किमस्ति भिक्षायाः ॥

8646

कमलं भवनं रजोऽङ्गरागो मधु पानं मधुराः प्रियाप्रलापाः ।
शयनं मृदु केसरोपधानं भ्रमरस्याम्भसि का न राजलीला ॥
कमलदृशोऽधिकपोलं दशनक्षतपङ्क्तिराभाति ।
यूनो वशयितुमिच्छोर् जपमालेवातनोः प्रवालमयी ॥

8647

कमलनयन युष्मद्विप्रयोगातुरा सा सरसि सरसिजान्तः स्नातुकामा ममज्ज ।
द्रुततरमनुयायाद् यावदूर्ध्वं कृशाङ्गी हरि हरि हरिणाक्षी पङ्कमग्ना बभूव ॥

8648

कमलनयनाकर्णाभूषे स्फुरन्मणिमञ्जुले त्रिभुवनतले दृष्ट्वामोदं प्रयाति न को युवा ।
शमभटशिरश्छेत्तुं सज्जीकृते बत वेधसा न किमु कुमते रज्जूत्क्षिप्ते विबोधसि चक्रके ॥

8649

कमलपल्लववारिकणोपमं किमिव पासि सदा निधनं धनम् ।
कलभकर्णचलाञ्चलचञ्चलं स्थिरतराणि यशांसि न जीवितम् ॥

8650

कमलभूतनया वदनाम्बुजे वसतु ते कमला करपल्लवे ।
वपुषि ते रमतां कमलाङ्गजः प्रतिदिनं हृदये कमलापतिः ॥

8651

कमलमधुनस् त्यक्त्वा पानं विहाय नवोत्पलं प्रकृतिसुभगां गन्धोद्दामामपास्य च मालतीम् ।
शठमधुकराः क्लिश्यन्तीमे कटाम्बुषु दन्तिनां सुलभमपहायैऽवं लोकः कटेषु हि रज्यते ॥

8652

कमलमनम्भसि कमले च कुवलये तानि कनकलतिकायाम् ।
सा च सुकुमारसुभगेत्य् उत्पातपरम्परा केयम् ॥

8653

कमलमिव चारु वदनं मृणालमिव कोमलं भुजायुगलम् ।
अलिमालेव च नीला तवैव मदिरेक्षणे कबरी ॥

8654

कमलमुकुलमृद्वी फुल्लराजीवगन्धः सुरतपयसि यस्याः सौरभं दिव्यमङ्गे ।
चकितमृगदृशाभे प्रान्तरक्ते च नेत्रे स्तनयुगलमनर्घ्यं श्रीफलश्रीविडम्बि ॥

8655

तिलकुसुमसमानां बिभ्रती नासिकां च द्विजगुरुसुरपूजां श्रद्दधाना सदैव ।
कुवलयदलकान्तिः कापि चाम्पेयगौरी विकचकमलकोशाकारकामातपत्रा ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc