महासुभाषितसंग्रह · श्लोक 8616-8635
कपाले यद्वदापः स्युः श्वदृतौ वा यथा पयः ।
आश्रयस्थानदोषेण वृत्तहीने तथा श्रुतम् ॥
कपालैर्यो बद्धः कथमखिलविश्वप्रभुरसाव् अनार्यैरस्माभिः परमियमपूर्वैव रचना ।
यदिन्दोः पीयूषद्रवमयमयूखोत्करकिरः कलङ्कोरत्नं तु प्रतिफणमनर्घं विषभृताम् ॥
कपिकच्छूमूलेन च निजचरणविलेपनाद् भवति ।
बीजस्तम्भः पुंसो बहुशो दृष्टः प्रयोगोऽयम् ॥
कपिकच्छूमूलेन च मदविह्रलछागमूत्रपिष्टेन ।
मिलनं स्तब्धीकरणं मूलेन दुरालभायाश्च ॥
कपिकुलनखमुखखण्डित- तरुतलफलभोजनो वरं पुरुषः ।
न पुनर्धनमदगर्वित- मुखभङ्गकदर्थिता वृत्तिः ॥
कपिरपि च कापिशायन- मदमत्तो वृश्चिकेन संदष्टः ।
अपि च पिशाचग्रस्तः किं ब्रूमो वैकृतं तस्य ॥
कपिलाक्षीरपानेन ब्राह्मणीगमनेन च ।
वेदाक्षरविचारेण स शूद्रो नरकं व्रजेत् ॥
कपिलानां सहस्राणि यो विप्रेभ्यः प्रयच्छति ।
एकस्य जीवितं दद्यान् न च तुल्यं युधिष्ठिर ॥
कपीनां वसयाश्वानां वह्निदाहसमुद्भवा ।
व्यथा विनाशमभ्येति तमः सूर्योदये यथा ॥
कपेर्मध्यं शिशुर्बद्ध्वा यथोन्नतपदं व्रजेत् ।
तद्वद्रक्षकमाश्रित्य पदमुन्नतमाश्रयेत् ॥
कपोलं पक्ष्मभ्यः कलयति कपोलात् कुचतटं कुचान्मध्यं मध्यान्नवमुदितनाभीसरसिजम् ।
न जानीमः किं नु क्व नु कियदनेन व्यवसितं यदस्याः प्रत्यङ्गं नयनजलबिन्दुर्विहरति ॥
कपोलकण्डूः करिभिर् विनेतुं विघट्टितानां सरलद्रुमाणाम् ।
यत्र स्रुतक्षीरतया प्रसूतः सानूनि गन्धः सुरभीकरोति ॥
कपोलपत्रान् मकरात् सकेतुर् भ्रूभ्यां जिगीषुर्धनुषां जगन्ति ।
इहावलभ्ब्यास्ति रतिं मनोभू रज्यद्वयस्यो मधुनाधरेण ॥
कपोलपालीं तव तन्वि मन्ये लावण्यधन्ये दिशमुत्तराख्याम् ।
विभाति यस्यां ललितालकायां मनोहरा वै श्रवणस्य लक्ष्मीः ॥
कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ ।
अपश्यन्ताविवान्योन्यमीदृक्षां क्षमतां गतौ ॥
कपोलयोरिन्दुञ्जितोरमुष्याः प्रसर्पतोरेव मिथो जयाय ।
स्वयं स्वयंभूः कृतरोधमन्तर् व्यधत्त नासामिह साम्यदण्डम् ॥
कपोलव्यालोलश्रवणनवमाकन्दकलिका- मरन्दव्यामिश्रास्तव वरतनु स्वेदपृषतः ।
रतिव्यत्यासस्य श्रममपलपेयुर्यदि भवेद् अभेदोपक्रान्तक्वणितरशनादाम जघनम् ॥
कपोलादुड्डीनैर्भयवशविलोलैर्मधुकरैर् मदाम्भःसंलोभादुपरि पतितुं बद्धपटलैः ।
चलद्बर्हच्छत्रश्रियमिव दधानोऽतिरुचिराम् अविघ्नं हेरम्बो भवदघविघातं घटयतु ॥
कपोलावुन्मीलत्पुलकनिकुरम्बौ मयि मनाङ् मृशत्यन्तःस्मेरस्तबकितमुखाम्भोरुहरुचः ।
कथंकारं शक्याः परिगदितुमिन्दीवरदृशो दलद्द्राक्षानिर्यद्रसभरसपक्षा भणितयः ॥
कपोले जानक्याः करिकलभदन्तद्युतिमुषि स्मरस्मेरं गण्डोड्डमरपुलकं वक्त्रकमलम् ।
मुहुः पश्यञ् शृण्वन् रजनिचरसेनाकलकलं जटाजूटग्रन्थिं द्रढयति रघूणां परिवृढः ॥
कपोले पत्रालीं पुलकिनि विधातुं व्यवसितः स्वयं श्रीराधायाः करकलितवर्तिर्मधुरिपुः ।
अभूद् वक्त्रेन्दौ यन् निहितनयनः कम्पितभुजस् तदेतत् सामर्थ्यं तदभिनवरूपस्य जयति ॥
कपोले पत्राली करतलनिरोधेन मृदिता निपीतो निःश्वासैरयममृतहृद्योऽधररसः ।
मुहुः कण्ठे लग्नस् तरलयति बाष्पः स्तनतटं प्रियो मन्युर्जातस् तव निरनुरोधे न तु वयम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0