महासुभाषितसंग्रह · श्लोक 8596-8615
कन्ये समालोकय कान्यकुब्जम् अकुब्जकीर्तिं नरनाथमेनम् ।
ककुब्जये यस्य धरापरागैर् भवन्ति वारांनिधयः स्थलानि ॥
कपटं च बहुतरं न जानाति हि कश्चन ।
कौलिको विष्णुरूपेण भुञ्जति राजकन्यकाम् ॥
कपटकलितनिद्रं मन्दमालोकयन्ती प्रियमधरमधूनि स्वेच्छया पातुमैच्छत् ।
मदनमदमनोज्ञा लज्जयाकृष्टचित्ता मुकुलितमुखपद्मा चित्रसंस्थेव तस्थौ ॥
कपटनटनकोटेर्धूर्जटेः सन्नटस्योद्- भटविकटजटाभिस्ताडिताः शैलकूटात् ।
खरतरकरघातैरुत्थिता दिक्स्थितास्ते नभसि निरवलम्बं दन्तिनः संचरन्ति ॥
कपटपटुता द्रोहे चित्तं सतां च विमानने मतिरपनये शाठ्यं मित्रे सुतेष्वपि वञ्चना ।
कृतकमधुरा वाक् प्रत्यक्षं परोक्षविघातिनी कलियुगमहाराजस्यैताः स्वराज्यविभूतयः ॥
कपटवचनभाजा केनचिद् वारयोषा सकलरसिकगोष्ठीवञ्चिका वञ्चितासौ ।
इति विहसति रिङ्गद् भृङ्गविक्षिप्तचक्षुर् विकचकुसुमकान्तिच्छद्मना केलिकुञ्जः ॥
कपटशतनदीष्णैर्वैरिभिर्वञ्चितोऽपि निकृतिकरणदक्षोऽप्यत्र संसारभीरुः ।
तनुवचनमनोभिर्वक्रतां यो न याति गतमलमृजुमानं तस्य साधोर्वदन्ति ॥
कपटादपि रिपुहननं कुर्यादिति नीतिरौशनसी ।
हननमृते च गुरुमते बन्धादि विधीयते रिपोः कपटैः ॥
कपटेन पुनर्नैव व्यापारो यदि या कृतः ।
पुनर्न परिपाकार्हा हण्डिका काष्ठनिर्मिता ॥
कपर्दी भूतिसंपन्नो जगतीपतिरद्वयः ।
धिग्दैवमव्ययः सोऽपि भृङ्गी शुष्यत्यतो भृशम् ॥
कपाटमुद्धाटय चारुनेत्रे कामोऽस्ति शत्रुर्मम पृष्ठलग्नः ।
आपूरितं तस्य शरैः शरीरं चन्द्रानने त्वां शरणं प्रपन्नः ॥
कपाटमुद्धाटय लोललोचने कन्दर्पशत्रुर्मम पृष्ठलग्नः ।
आकृष्य बाणं शिथिलीकरोति चन्द्रानने त्वां शरणागतोऽस्मि ॥
कपाटविस्तीर्णमनोरमोरः- स्थलस्थितिश्रीललनस्य तस्य ।
आनन्दिताशेषजना बभूव सर्वाङ्गसङ्गिन्यपरैव लक्ष्मीः ॥
कपालं वृक्षमूलानि कुचेलससहायता ।
समता चैव सर्वस्मिन्न् एतन् मुक्तस्य लक्षणम् ॥
कपाल उपहारश्च संतानः संगतस् तथा ।
उपन्यासः प्रतीकारः संयोगः पुरुषान्तरः ॥
अदृष्टनर आदिष्ट आत्मामिष उपग्रहः ।
परिक्रयस् तथोच्छिन्नस् तथा च परदूषणः ॥
स्कन्धोपनेयः संधिश्च षोडशः परकीर्तितः ।
इति षोडशकं प्राहुः संधिं सन्धिविचक्षणाः ॥
कपालसंधिर्विज्ञेपः केवलं समसंधिकः ।
संप्रदानाद् भवति य उपहारः स उच्यते ॥
कपाले गम्भीरः कुहरिणि जटासंधिषु कृशः समुत्तालश्चूडाभुजगफणरत्नव्यतिकरे ।
मृदुर्लेखाकोणे रयवशविलोलस्य शशिनः पुनीयाद् दीर्घं वो हरशिरसि गङ्गाकलकलः ॥
कपाले मार्जारः पय इति करान् लेढि शशिनः तरुच्छिद्रप्रोतान् बिसमिति करी संकलयति ।
रतान्ते तल्पस्थान् हरति वनिताप्यंशुकमिति प्रभामत्तश् चन्द्रो जगदिदमहो विप्लवयति ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0