महासुभाषितसंग्रह · श्लोक 8576-8595
कन्दर्पैककृपाणवल्लरि वने कस्माद् अकस्यादियं हे कालागुरुबालमञ्जरि हहा मोहादिह प्रारुहः ।
सह्यन्तामुपजातसौरभपरिष्वङ्गैस् तदङ्गैरिमाः कान्तैः कान्तपुरंध्रिकुन्तलभरच्छायैः कुठारच्छिदः ॥
कन्दलयत्यानन्दं निन्दति मन्दानिलेन्दुचन्दनकम् ।
मन्दयति मन्दभावं संधत्ते संपदोऽपि सत्सङ्गः ॥
कन्दलीषु कुटजेषु मालती- जालकेषु नवकेतकीषु च ।
कन्थरासु मधुना सुकेकिनां संविभक्त इव वारिदोदयः ॥
कन्दाग्रात् प्रोत्थितः प्राणः सदा वहति देहिनाम् ।
हृद्गतं जीवमाश्वास्य बहिर्गत्वा निवर्तते ॥
कन्दुको भित्तिनिःक्षिप्त इव प्रतिफलन् मुहुः ।
आपतत्यात्मनः प्रायो दोषोऽन्यस्य चिकीर्षितः ॥
कन्दे सुन्दरता दले सरलता वर्णस्य संपूर्णता स्कन्धे बन्धुरता फले सरसता कस्यापरस्येदृशी ।
धन्यस्त्वं सहकार खिन्नपथिकाधार स्थितः सत्पथे दीर्घायुर्भव साधु साधु विधिना मेधाविना निर्मितः ॥
कन्दैः कन्दलितं वनैः किशलितं वल्लीभिरुज्जृम्भितं वृक्षैः पल्लवितं जनैः प्रमुदितं धाराधरे वर्षति ।
भ्रातश्चातक पातकं किमपि ते सम्यग् न जानीमहे येनास्मिन् न पतन्ति चञ्चुपुटके द्वित्राः पयोबिन्दवः ॥
कन्धरां समपहाय कं धरां प्राप्य संयति जहास कस्यचित् ।
मां किलानमयतः स्वपूर्तये दुर्भरात् किमुदराद्वियोगतः ॥
कन्धरावनतस्योर्वी गतस्याधोमुखस्य ते ।
लज्जा न नाम निर्लज्जा गर्वो न गलितः कथम् ॥
कन्यां कामप्युदूह्य प्रविजहदुदयद्यौवनामज्ञ एनां द्रव्याशापाशकृष्टो भ्रमति चिरतरं हन्त देशान्तरेषु ।
अन्योन्याश्लेषवाञ्छाविगलितवयसोरात्तमालिन्यम् अत्योर् दंपत्योर्व्याकृतैवं हतविधिरुभयोर्लोकयोः शोकयोगम् ॥
कन्यां छत्रं फलं पक्वं दीपमन्नं महाध्वजम् ।
मन्त्रं वा लभते यो हि तस्य चिन्तितसिद्धयः ॥
कन्यां भुङ्क्ते रजःकालेऽग्निः शशी लोमदर्शने ।
स्तनोद्भवेषु गन्धर्वास् तत् प्रागेव प्रदीयते ॥
कन्यां रूपवतीं दृष्ट्वा मोहं गच्छेन् महानपि ।
चण्डाल्यामप्यरुन्धत्यां वसिष्ठो मोहितोऽभवत् ॥
कन्याकर्तितसूत्रेण बद्धापामार्गमूलिका ।
ऐहाहिकज्वरं हन्ति शिखायामतिवेगतः ॥
कन्या काचिदिहापि कर्मणि पणः स्यादित्यसूयाचलत्- सीतापाङ्गमयूखमांसलमुखज्योत्स्नाविलुप्तीं दिवम् ।
कुर्वाणेन रघूद्वहेन चकृषे नारायणीयं धनुः संधायाथ शरश्च भार्गवगतिच्छेदादमोघीकृतः ॥
कन्या कौतुकमात्रकेण विधवा संमर्दमात्रार्थिनी वेश्या वित्तलवेच्छया स्वगृहिणी गत्यन्तरासंभवात् ।
वाञ्छन्तीत्थमनेककारणवशात् पुंभिः स्त्रियः संगमं शुद्धस्नेहनिबन्धना परवधूः पुण्यैः परैः प्राप्यते ॥
कन्यागते सवितरि तिष्ठन्ति पितरो गृहे ।
शून्यं प्रेतपुरं तत्र यावद् वृश्चिकदर्शनम् ॥
कन्या-गो-भूम्यलीकानि न्यासापहरणं तथा ।
कूटसाक्ष्यं च पञ्चेति स्थूलासत्यानि संत्यजेत् ॥
कन्यागोशङ्खभेरीदधिफलकुसुमं पावको दीप्यमानो नागेन्द्रोऽश्वो रथो वा नृपतिरभिमुखः पूर्णकुम्भो ध्वजो वा ।
उत्क्षिप्ता नैव भूमिर्खलचरयुगलं सिद्धमन्नं शतायुर् वेश्यास्त्री मद्यमांसो हितमपि गदितं मङ्गलं प्रस्थितानाम् ॥
कन्यादात्रे तु ह्यधनं दस्यवे सधनं नरम् ।
गुप्तं जिघांसवे नैव विज्ञातमपि दर्शयेत् ॥
कन्या निष्कासिता श्रेष्ठा वधूः श्रेष्ठा प्रवेशिता ।
अन्नं संकलितं श्रेष्ठं धर्मः श्रेष्ठो दिने दिने ॥
कन्याप्रसूतस्य धनुःप्रसङ्गाद् अङ्गाधिकासादितविक्रमस्य ।
धनंजयाधीनपराक्रमस्य हिमस्य कर्णस्य च को विशेषः ॥
कन्यायाः किल पूजयन्ति पितरो जामातुराप्तं जनं सम्बन्धे विपरीतमेव तदभूदाराधनं ते मयि ।
त्वं कामेन तथाविधोऽस्यपहृतः सम्बन्धबीजं च तद् घोरेऽस्मिन् मम जीवलोकनरके पापस्य धिग जीवितम् ॥
कन्या वरयते रूपं माता वित्तं पिता श्रुतम् ।
बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः ॥
कन्याविक्रयिणश्चैव रसविक्रयिणस्तथा ।
विषविक्रयिणश्चैव नरा निरयगामिनः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0