भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 8556-8575

8556

गोमयगाढोद्वर्तित- पूर्वं पश्चादनेन संलिप्तम् ।
भवति हयलिङ्गसदृशं लिङ्गं कठिनाङ्गनादयितम् ॥

8557

कनकस्य तु पञ्चाङ्गं कर्पूरं केतकीरजः ।
आत्मशुक्रेण संयुक्तं वश्यकृद् भक्षितं स्त्रियाः ॥

8558

कनकहरिणं हत्वा रामो ययौ निजमाश्रमं जनकतनयां प्राणेभ्योऽपि प्रियामविलोकयन् ।
दृढमुपगतैर्बाष्पापूरैर्निमीलितलोचनो न विशति कुटीमाशातन्तुप्रणाशभयादसौ ॥

8559

कनकाचलकान्तिचौर्यभाजोः कुचयोः कुङ्कुमपङ्कपूजनानि ।
अनिबन्धनमेव बन्धनं ते कृशताभागिनि किं नु मध्यभागे ॥

8560

कनकाचलजित्वरस्तनीनां रमणीनां खलु यत्र सन्निवेशः ।
मनसः परमाणुतां वदन्तः कथमद्यापि न तार्किकास् त्रपन्ते ॥

8561

कनिष्ठाङ्गुलिवत् स्थूलं पूर्वार्धकृतकुञ्चितम् ।
अभावे दन्तकाष्ठस्य प्रतिषिद्धदिनेऽपि च ।
अपां द्वादशगण्डूषैर् मुखशुद्धिर्भविष्यति ॥

8562

कनिष्ठेषु च सर्वेषु समत्वेनानुवर्तते ।
समोपभोगजीवेषु यथैव तनयेषु च ॥
कनीनिकाकान्तिभिरञ्जनं दृशोः स्मितत्विषा चन्दनचर्च्चनं हृदः ।
कटाक्षभाभिर्नवमुत्पलं श्रुतेस् तदा वधूनामिति भूषणान्यभान् ॥
कनीनिकेव नेत्रस्य कुसुमस्येव सौरभम् ।
सम्यक्त्वमुच्यते सारं सर्वेषां धर्मकर्मणाम् ॥

8563

कन्थां वहसि दुर्बुद्धे गर्दभैरपि दुर्वहाम् ।
शिखायज्ञोपवीताभ्यां भारः कस्ते भविष्यति ॥
कन्दमूलानि ये मूढाः सूर्यदेवे जर्नादने ।
भक्षयन्ति नराः पार्थ ते वै नरक गामिनः ॥

8564

कन्दर्पकण्डूलकटाक्षबन्दीर् इन्दीवराक्षोरभिलष्यमाणान् ।
मन्दस्मिताधारमुखारविन्दान् वन्दामहे वल्लवधूर्तपादान् ॥

8565

कन्दर्पकन्दलि सलीलदृशा लुनीहि कोपाङ्कुरं चरणयोः शरणातिथिः स्याम् ।
पश्य प्रसीद चरमाचलचूलचुम्बि बिम्बं विधोर्लवलपाण्डुरमस्तमेति ॥

8566

कन्दर्पज्वरसंज्वराकुलतनोराश्चर्यमस्याश्चिरं चेतश्चन्दनचन्द्रमःकमलिनीचिन्तासु संताम्यति ।
किं तु क्लान्तिवशेन शीतलतरं त्वामेकमेव क्षणं ध्यायन्ती रहसि स्थिता कथमपि क्षीणा क्षणं प्राणिति ॥

8567

कन्दर्पदर्पकलिताङ्गमनोहराणां प्रेम्णा स्वयं सुरतमन्दिरमागतानाम् ।
अङ्गानि कोमलतराणि मनोरमाणां धन्या नराः सरभसं हि परिष्वजन्ते ॥

8568

कन्दर्पदेवस्य विमानसृष्टिः प्रासादमाला रसपार्थिवस्य ।
चैत्रस्य सर्वर्तुविशेषचिह्नं दोलाविलासः सुदृशां रराज ॥

8569

कन्दर्पप्रतिभूनिवेशितवलीरेखावलीशोभिते लीलोदञ्चितबाहुपाशयुगलापातैश्च भोः कामुकाः ।
वेश्यानां विपुले नितम्बफलके शारैः कटाक्षैरितो यद्वः क्रीडितमत्र दास्यति पुरो दारिद्र्यमेवोत्तरम् ॥

8570

कन्दर्पप्रतिमल्लकान्तिविभवं कादम्बिनीबान्धवं वृन्दारण्यविलासिनीव्यसनिनं वेषेण भूषामयम् ।
मन्दस्मेरमुखाम्बुजं मधुरिमव्यामृष्टबिम्बाधरं वन्दे कन्दलितार्द्रयौवनवनं कैशोरकं शार्ङ्गिणः ॥

8571

कन्दर्पश्च रतिश्च कुङ्कुममृदालेपेन मूषाद्वयं कुर्वाते रससाधनाय विधिवत् कस्तूरिकामुद्वया ।
अन्तर्दर्पकबाणतापितयुवप्रेमोष्मभूयस्तया निर्याता रसबिन्दवो बहिरितो हारस्य मुक्ताच्छलात् ॥

8572

कन्दर्पस्य जगत्त्रयीविजयिनः साम्राज्यदीक्षागुरुः कान्तामानशिलोञ्छवृत्तिरखिलध्वान्ताभिचा रे कृती ।
देवस्त्र्यम्बकमौलिमण्डनसरित्तीरस्थलीतापसः शृङ्गाराध्वरदीक्षितो विजयते राजा द्विजानामयम् ॥

8573

कन्दर्पादपि सुन्दराकृतिरिति प्रौढोत्सलद्रागया वृद्धत्वं वरयोषितोऽनयदिति त्रासाकुलस्वान्तया ।
मारस्यापि शरैरभेद्यहृदिति श्रद्धाभरप्रह्वया पायाद् वः स्फुटबाष्पकम्पपुलकं रत्या जिनो वन्दितः ॥

8574

कन्दर्पादपि सुन्दरो रविमहाः प्रत्यर्थिसीमन्तिनी- वक्त्राम्भोजसुधाकरोऽतिविभवो युद्धेषु पार्थोपमः ।
रक्षाकृज्जगतः स्वकीर्तिविदितो रामोऽस्तु युक्तो मुदा दानीं शङ्करसेवको वरगुणो नीत्युत्तमः सर्वदा ॥

8575

कन्दर्पे नलकूवरे कुमुदिनीकान्तेऽप्यवज्ञावतां त्वत्सौन्दर्यकथासु तासु मरुतां वृत्तासु कौतूहलात् ।
प्राप्ता तानवमुर्वशी रतिरतिक्लान्ता हता रोहिणी जाता किंच खरस्मरज्वरभरा रम्भापि रम्भातनुः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc