भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 8536-8555

8536

कदा शयानो मणिकर्णिकायां कर्णे जपाम्यक्षरमिन्दुमौलेः ।
अवाप्य मुद्रां गतमोहमुद्रां नालोकयिष्यामि पुनः प्रपञ्चम् ॥

8537

कदा श्रीमत्पङ्केरुहवनविकाशिप्रसृमर- प्रथापुञ्जं तेजः किमपि कलयन्नौपनिषदम् ।
ग्रहेश श्रीभानो मिहिर तरणे सूर्य सवितः प्रसीदेत्याक्रोशन् निमिषमिव नेष्यामि दिवसान् ॥

8538

कदा संसारजालान्तर् बद्धं त्रिगुणरज्जुभिः ।
आत्मानं मोचयिष्यामि शिवभक्तिशलाकया ॥

8539

कदा सम्यग् ध्यायन्ननुपमचरित्रं मणिगण- स्फुरद्भूषाचित्रं पुररिपुकलत्रं किमपि तत् ।
शिवे दुर्गे कात्यायनि जननि भक्तप्रणयिनि प्रसीदेत्याक्रोशन् निमिषमिव नेष्यामि दिवसान् ॥

8540

कदा हि मूर्खो वचनेषु भीतः खलो न कुत्रापि छलेष्वदक्षः ।
अन्धेन काचिद् युवती हि दृष्टा कस्यात्र कामेषु भवेच्च लज्जा ॥

8541

कदा ह्यहं समेष्यामि भरतेन महात्मना ।
शत्रुघ्नेन च वीरेण त्वया च रघुनन्दन ॥

8542

कनकं सुगन्धि तव तन्वि वपुर् मधुरो मणिश्च सखि तेऽप्यधरम् ।
निगडं सुखस्य करणं भवतीं सृजतो विधेर्निरवधिर्महिमा ॥

8543

कनककमलकान्तैः सद्य एवाम्बुधौतैः श्रवणतटनिषक्तैः पाटलोपान्तनेत्रैः ।
उषसि वदनबिम्बैरंससंसक्तकेशैः श्रिय इव गृहमध्ये संस्थिता योषितोऽद्य ॥

8544

कनककमलकान्तैराननैः पाण्डुगण्डैर् उपरिनिहितहारैश्चन्दनार्द्रैः स्तनान्तैः ।
मदजनितविलासैर्दूष्टिपातैर्मुनीन्द्रान् स्तनभरनतनार्यः कामयन्ति प्रशान्तान् ॥

8545

कनककलशश्रेणी यत्र प्रभाकरचुम्बनैर् अतिखरकराघातैर्मध्यन्दिने शिथिलीकृता ।
द्रवति भजते दार्ढ्यं सिक्ता समीरणकम्पित- ध्वजपटसमानीतस्वर्गापगाजलबिन्दुभिः ॥

8546

कनककुन्डलमण्डितभाषिणे शकरिपुर्विषयान् दश विद्विषः ।
मगधकेकयकेरलकोशलान् करिशतं च मदालसलोचनम् ॥

8547

कनकक्रमुकायितं पुरस्ताद् अथ पङ्गेरुहकोरकायमाणम् ।
क्रमशः कलशायमानमास्ते सुदृशो वक्षसि कस्य भागधेयम् ॥

8548

कनकच्छत्रमम्बायाः कुरुते कुतुकं महत् ।
विशदेव दृशोरन्तर् यन्निर्गच्छति मूधैनि ॥

8549

कनकद्रवकान्तिकान्तया मिलितं राममुदीक्ष्य कान्तया ।
चपलायुतवारिदभ्रमान् ननृते चातकपोतकैर्वने ॥
कनकद्रवगौरमम्बरं दधतोरुद्वितयेन सुन्दरम् ।
उदयन्मणिनूपुरप्रभा- सरणिश्रेणिजटालजानुकम् ॥

8550

कनकनिकषभासा सीतयालिङ्गिताङ्गो नवकुवलयदामश्यामवर्णाभिरामः ।
अभिनव इव विद्युन्मण्डितो मेधखण्डः शमयतु मम तापं सर्वतो रामचन्द्रः ॥

8551

कनकनिकषस्वच्छे राधापयोधरमण्डले नवजलधरश्यामामात्मद्युतिं प्रतिबिम्बिताम् ।
असितसिचयप्रान्तभ्रान्त्या मुहुर्मुहुरुत्क्षिपञ् जयति जनितव्रीडानम्रप्रियाहसितो हरिः ॥

8552

कनकभङ्गपिशङ्गदलैर्दधे सरजसारुणकेशरचारुभिः ।
प्रियविमानितमानवतीरुषां निरसनैरसनैरवृथार्थता ॥

8553

कनकभूषणसंग्रहणोचितो यदि मणिस् त्रपुणि प्रतिबध्यते ।
न स विरौति न चापि न शोभते भवति योजयितुर्वचनीयता ॥

8554

कनकमृगमुदस्य स्वां कुटीं संप्रविष्टः क्वचिदपि न वधूटीं नोददर्शाङ्गनादौ ।
तदपि स रघुवीरः पर्णशालागृहान्तर् न विशति हृदयाशातन्तुनाशातिभीरुः ॥

8555

कनकरसमसृणवर्तित- हयगन्धामूलमिश्रपर्युषितम् ।
माहिषमिह नवनीतं गतबीजे कनकफलमध्ये

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc