महासुभाषितसंग्रह · श्लोक 8516-8535
कदाचिदपि संजातम् अकार्यादिष्टसाधनम् ।
यदनिष्टं तु सत्कार्यान् नाकार्यप्रेरकं हि तत् ॥
कदाचिदारोहति सौधमुन्नतं कदाचिदायाति धरातलं पुनः ।
कदाचिदास्यं विनिवेश्य जालके प्रियं नवोढा तु सलज्जमीक्षते ॥
कदा ते सानन्दं विततनवदूर्वाञ्चिततटी- कुटीरे तीरे वा सवनमनु मन्वादिकथितैः ।
कथाबन्धैरन्धङ्करणकरणग्रामनियमाद् यमादुज्झन् भीतिं भगवति भवेयं प्रमुदितः ॥
कदा द्रक्ष्यामि नन्दस्य बालकं नीपमालकम् ।
पालकं सर्वसत्त्वानां लसत्तिलकभालकम् ॥
कदाधरदले बाले दन्तकेसरशोभिते ।
भवामि त्वन्मुखाम्भोजे रसिको मधुपो यथा ॥
कदा नु कन्यागमनप्रवादं प्रक्षालयेयं जगति प्ररूढम् ।
इतीव भास्वान् परिवृद्धतापस् तुलां विशुद्ध्यर्थमिवारुरोह ॥
कदा नु चारुबिम्बोष्ठं तस्याः पद्ममिवाननम् ।
ईषदुन्नम्य पास्यामि रसायनमिवातुरः ॥
कदा नौ संगमो भावीत्याकीर्णे वक्तुमक्षमम् ।
अवेत्य कान्तमबला लीलापद्मं न्यमीलयत् ॥
कदापि नाश्रयेत् प्राज्ञोऽकरुणं मिष्टभाषिणम् ।
प्रच्छन्नमसहिष्णुं वा गुडमिश्रं विषं यथा ॥
कदापि नोग्रदण्डः स्यात् कटुभाषणतत्परः ।
भार्या पुत्रोऽप्युद्विजते कटुवाक्यात् प्रदण्डतः ॥
पशवोऽपि वशं यान्ति दानैश्च मृदुभाषणैः ॥
कदापि वेश्या न गुणार्थिनी स्याद् रूपार्थिनी नैव हितार्थिनी च ।
विद्यार्थिनी नापि न मन्यसे चेद् वार्तां शृणु त्वं कयवन्नकस्य ॥
कदा पुण्यक्षेत्रे करकलितरुद्राक्षवलयो दधत् स्वान्ते शान्तेऽखिलशिवपदं श्रीशिवपदम् ।
महेश श्रीकण्ठ स्मरहर हर त्र्यम्बक शिव प्रसीदेत्याक्रोशान् निमिषमिव नेष्यामि दिवसान् ॥
कदा ब्रह्मेशानत्रिदशपतिमुख्यैः सुरगणैः स्तुतं विष्वक्सेनं जितदनुजसेनं हृदि भजन् ।
अये विष्णो जिष्णो गरुडरथ विश्वम्भर हरे प्रसीदेत्याक्रोशन् निमिषमिव नेष्यामि दिवसान् ॥
कदा भागीरथ्या भवजलधिसंतारतरणेः स्खलद्वीचीमालाचपलतलविस्तारितमुदः ।
तमःस्थाने कुञ्जे क्वचिदपि निविश्याहृतमना भविष्याम्येकाकी नरकमथने ध्यानरसिकः ॥
कदा भिक्षाभक्तैः करकलितगङ्गाम्बुतरलैः शरीरं मे स्थास्यत्युपरतसमस्तेन्द्रियसुखम् ।
कदा ब्रह्माभ्यासस्थिरतनुतयारण्यविहगाः पतिष्यन्ति स्थाणुभ्रमहतधियः स्कन्धशिरसि ॥
कदा मुखं वरतनु कारणादृते तवागतं क्षणमयि कोपपात्रताम् ।
अपर्वणि ग्रहकलुषेन्दुमण्डला विभावरी कथय कथं भविष्यति ॥
कदा वाराणस्याममरतटिनीरोधसि वसन् वसानः कौपीनं शिरसि निदधानोऽञ्जलिपुटम् ।
अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन प्रसीदेति क्रोशन् निमिषमिव नेष्यामि दिवसान् ॥
कदा वा साकेते विमलसरयूतीरपुलिने चरन्तं श्रीरामं जनकतनयालक्ष्मणयुतम् ।
अये राम स्वामिन् जनकतनयावल्लभ विभो प्रसीदेत्याक्रोशन् निमिषमिव नेष्यामि दिवसान् ॥
कदा वृन्दारण्ये नवघननिभं नन्दतनयं परीतं गोपीभिः क्षणरुचिमनोज्ञाभिरभितः ।
गमिष्यामस् तोषं नयनविषयीकृत्य कृतिनो वयं प्रेमोद्रेकस्खलितगतयो वेपथुभृतः ॥
कदा वृन्दारण्ये मिहिरदुहितुः सङ्गमहिते मुहुर्भ्रामं भ्रामं चरितलहरीं गोकुलपतेः ।
लपन्नुच्चैरुच्चैर्नयनपयसां वेणिभिरहं करिष्ये सोत्कण्ठो निविडमवसेकं विटपिनाम् ॥
कदा वृन्दारण्ये विमलयमुनातीरपुलिने चरन्तं गोविन्दं हलधरसुदामादिसहितम् ।
अये कृष्ण स्वामिन् मधुरमुरलीवादन विभो प्रसीदेत्याक्रोशन् निमिषमिव नेष्यामि दिवसान् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0