भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 8496-8515

8496

कदपत्यं वरं मन्ये सदपत्याच्छुचां पदात् ।
निर्विद्येत गृहान्मर्त्यो यत् क्लेशनिवहा गृहाः ॥

8497

कदम्बवृक्षसारस् तु विद्युत्पातनिवारणः ।
विद्युत्पातस्य नो भीतिर् देवराजेऽति कीर्तनात् ॥

8498

कदर्थितस्यापि हि धैर्यवृत्तेर् न शक्यते धैर्यगुणः प्रमार्ष्टुम् ।
अधोमुखस्यापि कृतस्य वह्नेर् नाधः शिखा यान्ति कदाचिदेव ॥

8499

कदर्यमाक्रोशकमश्रुतं च वराकसम्भूतममान्यमानिनम् ।
निष्ठूरिणं कृतवैरं कृतघ्नम् एतान् भृशार्तोऽपि न जातु याचेत् ॥

8500

कदर्योपार्जितं वित्तं भोग्यं भाग्यवतां भवेत् ।
दन्ता अदन्ति कष्टेन जिह्वा ग्रसति लीलया ॥

8501

कदली कदली करभः करभः करिराजकरः करिराजकरः ।
भुवनत्रितयेऽपि बिभर्ति तुलाम् इदमूरुयुगं न चमूरुदृशः ॥

8502

कदलीकन्दवद्धर्मो न रोहति बहिर्गतः ।
छादितस्तु फलं चारु सूते पनसमूलवत् ॥

8503

कदलीकरभसमानां कलयति यो रूपकॢप्तिम् अतिरुचिराम् ।
सोपायाद् दृढयोगं गमितोरसिकोपकरणविषयतया ॥

8504

कदलीप्रकाण्डरुचिरोरुतरौ जघनस्थलीपरिसरे महति ।
रशनाकलापकगुणेन वधूर् मकरध्वजद्विरदमाकलयत् ॥
कदली बत जङ्घायाः सादृश्यं लभते कथम् ।
शैत्यं हि सहजं तत्र तत्र कालानुरूपता ॥

8505

कदलीवनमध्यस्थो वह्निर्मन्दपराक्रमः ।
अविवेकिजनस्थाने गुणवान् किं करिष्यति ॥

8506

कदलीसारनिःसारे मृगतृष्णेव चञ्चले ।
स्थावरे जंगमे सर्वे भूतग्रामे चतुर्विधे ॥

8507

कदा कान्तागारे परिमलमिलत्पुष्पशयने शयानः कान्तायाः कुचयुगमहं वक्षसि वहन् ।
अये कान्ते मुग्धे कुटिलनयने चन्द्रवदने प्रसीदेत्याति क्रोशन् निमिषमिव नेष्यामि दिवसान् ॥

8508

कदा कार्योद्योगं सकलमपि संन्यस्य सहसा स्मरन् नित्यं शान्तं हृदयवचनागोचरमहः ।
विभो मायातीत प्रथम परमानन्दनिबिड प्रसीदेत्याक्रोशन् निमिषमिव नेष्यामि दिवसान् ॥

8509

कदा गण्डादञ्चन्मदलुलितसिन्दूरसुभगं नमस्कुर्वन् पद्मामलमधुरमूर्तिं गणपतिम् ।
गजास्य श्रीशम्भोःसुत सुमुख लम्बोदर विभो प्रसीदेत्याक्रोशन् निमिषमिव नेष्यामि दिवसान् ॥

8510

कदाचन महाकार्ये लघुरेवोपयुज्यते ।
किं दूरीकृत्य दीर्घादि दूर्वां क्षेमाय नादृतः ॥

8511

कदाचित् कवचं भेद्यं नाराचेन शरेण वा ।
अपि वर्षशताघाते ब्राह्मणाशीर्न भिद्यते ॥

8512

कदाचित् कष्टेन द्रविणमधमाराधनवशान् मया लब्धं स्तोकं निहितमवनौ तस्करभयात् ।
ततो नित्ये कश्चित् क्वचिदपि तदाखुर्बिलगृहे- ऽनयल्लब्धोऽप्यर्थोन भवति यदा कर्म विषमम् ॥

8513

कदाचित् कालिन्दीतटविपिनसङ्गीतकरवो मुदाभीरीनारीवदनकमलास्वादमधुपः ।
रमाशम्भुब्रह्मामरपतिगणेशर्चितपदो जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥

8514

कदाचित् पाञ्चाली विपिनभुवि भीमेन बहुशः कृशाङ्गि श्रान्तासि क्षणमिह निषीदेति गदिता ।
शनैः शीतच्छायं तटविटपिनं प्राप्य मुदिता पुरः पत्युः कामाच्छ्वशुरमियमालिङ्गति सती ॥

8515

कदाचित् साधुतामेति पुरः शिशुरसन्मतिः ।
प्राक् पाण्डुपत्राः कुत्रापि चोयन्ते चारुभूरुहाः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc