महासुभाषितसंग्रह · श्लोक 8476-8495
कथमप्यधिगतरन्ध्रैर् अध्युषिता यदि गुहाखुभिः क्षुद्रैः ।
इयतैव किं मृगाधिप निजविक्रमनिर्विदं वहसि ॥
कथमर्थं निषेधन्तु श्रुतयः स्मृतयोऽपि वा ।
यासामेकं पदमपि न चलत्यर्थतो विना ॥
कथमवनिप दर्पो यन्निशातासिधारा- दलनगलितमूर्ध्ना विद्विषां स्वीकृता श्रीः ।
ननु तव निहतारेरप्यसौ किं न नीता त्रिदिवमपगताङ्गैर्वल्लभा कीर्तिरेभिः ॥
कथमसौ न भजत्यशरीरतां हतविवेकपदो हतमन्मथः ।
प्रहरतः कदलीदलकोमले भवति यस्य दया न वधूजने ॥
कथमसौ मदनो न नमस्यतां स्थितविवेकपदो मकरध्वजः ।
मृगदृशं कदलीललितं वपुर् यदभि हन्ति शरैः कुसुमोद्भवैः ॥
कथमियति वनान्ते कश्चिदेको न तादृग् वरवनतरुरुच्चैः पुष्पवल्लीफलाढ्यः ।
जगदसुखविधातुर्दग्धधातुर्नियोगा- द्धवखदिरपलाशाः केवलं वृद्धिभाजः ॥
कथमिव तव संमतिर्भवित्री सममृतुभिर्मुनिनावधीरितस्य ।
इति विरचितमल्लिकाविकासः स्मयत इव स्म मधुं निदाघकालः ॥
कथमिह मनुष्यजन्मा संप्रविशति सदसि विबुधगमितायाम् ।
येन न सुभाषितामृतम् आह्लादि निपीतमा तृप्तेः ॥
कथमुत्पद्यते धर्मः कथं धर्मः प्रवर्धते ।
कथं च स्थाप्यते धर्मः कथं धर्मो विनश्यति ॥
सत्येनोत्पद्यते धर्मो दयादानैर्विवर्धते ।
क्षमया स्थाप्यते धर्मः क्रोधलोभैर्विनश्यति ॥
कथमुपरि कलापिनः कलापो विलसति तस्य तलेऽष्टमीन्दुखण्डम् ।
कुवलययुगलं ततो विलोलं तिलकुसुमं तदधः प्रवालमस्मात् ॥
कथमेतत् कुचद्वन्द्वं पतितं तव सुन्दरि ।
पश्याधः खनने मूढ पतन्ति गिरयोऽपि च ॥
कथय कथमिवाशा जायतां जीविते मे मलयभुजगवान्ता वान्ति वाताः कृतान्ताः ।
अयमपि खलु गुञ्जन् मञ्जु माकन्दमौलौ चुलुकयति मदीयां चेतनां चञ्चरीकः ॥
कथय कथमुरोजदामहेतोर् यदुपतिरेष चिनोति चम्पकानि ।
भवति करतले यदस्य कम्पः प्रियसखि मत्स्मृतिरेव मत्सपत्नी ॥
कथय किमपि दृष्टं स्थानमस्ति श्रुतं वा व्रजति दिनकरोऽयं यत्र नास्तं कदाचित् ।
इति विहगसमूहान् नित्यमेवास्ति पृच्छन् रजनिविरहभीतश्चक्रवाकी वराकः ॥
कथय किमिदं जात्या ख्यातं किमस्य वराटकैः कतिभिरथवा लभ्यं चैतत् प्रयोजनमस्य किम् ।
प्रतिपदमिति ग्रामीणानां गणेन लघूकृतं बत करतले रत्नं कृत्वा विषीदति वाणिजः ॥
कथयत इव नेत्रे कर्णमूलं प्रयाते सुमुखि तव कुचाभ्यां वर्त्य पश्यावनीं वा ।
स्खलति यदि कथंचित् ते पदाम्भोजयुग्मं तव तनुतरमध्यं भज्यते नौ न दोषः ॥
कथयत कथमेषा मेनया विप्रदत्ता शिव शिव गिरिपुत्रो वृद्धकापालिकाय ।
इति वदति पुरंध्रीमण्डले सिद्धिलेश- व्ययकृतवरवेषः पातु वः श्रीमहेशः ॥
कथय निपुणे कस्मिन् दृष्टः कथं नु कियच्चिरं किमभिलिखितं किं तेनोक्तं कदा स इहैष्यति ।
इति बहुविधप्रेमोल्लासप्रकल्पितविस्तराः प्रियतमकथाः स्वल्पेऽप्यर्थे प्रयान्ति न नष्टताम् ॥
कथयानिमिषोऽस्म्यहं कथं ते वपुरालोकनमात्र एव जातः ।
अधरामृतपायिनां भवत्या सुरतावाप्तिररालकेशि युक्ता ॥
कथाभिर्देशानां कथमपि च कालेन बहुना समायाते कान्ते सखि रजनिरर्धं गतवती ।
ततो यावल्लीलाप्रणयकुपितास्मि प्रकुपिता सपत्नीव प्राची दिगियमभवत् तावदरुणा ॥
कथासु ये लब्धरसाः कवीनां ये नानुरज्यन्ति कथान्तरेषु ।
न ग्रन्थिपर्णप्रणयाश्चरन्ति कस्तूरिकागन्धमृगास् तृणेषु ॥
कथितावधिजीवितावधिर् गणयन्ती दिवसाननुक्षणम् ।
दयिताश्रुभरेण जीव्यते बत रेखा कतिचिद्विलुम्पता ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0