भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 8336-8355

8336

कज्जलतिलककलङ्कित- मुखचन्द्रे गलितसलिलकणकेशि ।
नवविरहदहनतूलो जीवयितव्यस्त्वया कतमः ॥

8337

कज भज विकासमभितस् त्यज संकोचं भ्रमत्ययं भ्रमरः ।
यद्यपि न भवति कार्यं तथापि तुष्टस् तनोत्ययं कीर्तिम् ॥

8338

कज्जलहिमकनकरुचः सुपर्णवृषहंसवाहनाः शं वः ।
जलनिधिगिरिकमलस्था हरिहरकमलासना ददतु ॥

8339

कटकत्वं पृथग्घेम्नस् तरंगत्वं पृथग् जलात् ।
यथा न संभवत्येवं न जगत् पृथगीश्वरात् ॥

8340

कटकानि भजन्ति चारुभिर् नवमुक्ताफलभूषणैर्भुजैः ।
नियतं दधते च चित्रकैर् अवियोगं पृथुगण्डशैलतः ॥

8341

कटकिनः कटुकरसान् करीरखदिरादिविटपतरुगुल्मान् ।
उपभुञ्जाना करभी दैवादाप्नोति मधुरमधुजालम् ॥

8342

कटाक्षेणापीषत् क्षणमयि निरीक्षेत यदि सा तदानन्दः सान्द्रः स्फुरति पिहिताशेषविषयः ।
सरोमाञ्चोदञ्चत्कुचकलशनिर्भिन्नवसनः परीरम्भारम्भः क इव भविताम्भोरुहदृशः ॥

8343

कटाक्षैराक्षिप्तः प्रियसखि रहः केलिभवने वने पुष्पव्याजात् कुचयुगमिदं चापि वलितम् ।
रतासक्तं दृष्ट्वा हरिनमिथुनं चाल्पहसितं तथापि प्रेयान् मे न किमपि जानाति किमिति ॥

8344

कटिर्मुष्टिग्राह्या द्विपुरुषभुजग्राह्यमुदरं स्तनौ घण्टालोलौ जघनमिव गन्तुं व्यवसितौ ।
स्मितं भेरीनादो मुखमपि च पत्युर्भयकरं तथाप्येषा रण्डा परिभवति संतापयति च ॥

8345

कटिर्विटशतैर्घूष्टा पान्थपीतोज्झितं मुखम् ।
स्तनौ सहस्रमृदितौ यस्याः कस्यास् तु सा निजा ॥
कटिस्थकरवैशाखस्थानकस्थनराकृतिम् ।
द्रव्यैः पूर्णं स्मरेल्लोकं स्थित्युत्पत्तिव्ययात्मकैः ॥

8346

कटीतटनिकुञ्जेषु संचरन् वातकुञ्जरः ।
एरण्डतैलसिंहस्य गन्धमाघ्राय धावति ॥

8347

कटु क्वणन्तो मलदायकाः खला- स्तुदन्त्यलं बन्धनशृङ्खला इव ।
मनस्तु साधुध्वनिभिः पदे पदे हरन्ति सन्तो मणिनूपुरा इव ॥

8348

कटुतिक्तकषायरसैः पवनः पित्तं कटूष्णलवणाम्लैः ।
स्निग्धमधुराम्ललवणैः श्लेष्मा कोपं प्रयाति तरोः ॥

8349

कटुतीक्ष्णोष्णलवणक्षाराम्लादिब् हिरुल्बणैः ।
मातृभुक्तैरुपस्पृष्टः सर्वाङ्गोत्थितवेदनः ॥

8350

कटुभिरपि कठोरचक्रवाकोत्- करविरहज्वरशान्तिशीतवीयैः ।
तिमिरहतमयं महोभिरञ्जञ् जयति जगन्नयनौघमुष्णभानुः ॥

8351

कटुमधुराण्यामोदैः पर्णैरुत्कीर्णपत्रभङ्गानि ।
दमनकवनानि संप्रति काण्डैरेकान्तपाण्डूनि ॥

8352

कटु रटसि किमेवं कर्णयोः कुञ्जरारेर् अविदितनिजबुद्धे किं न विज्ञातमस्ति ।
शिलतरकरदंष्ट्राटङ्कनिर्भिन्नकुम्भं मशक गलकरन्ध्रे हस्तियूथं ममज्ज ॥

8353

कटुविशिखशिखिप्रपञ्च पञ्चा- नन धनदप्रियमित्र मित्रनेत्र ।
धृतसकलविकल्प कल्पशेष- प्रकटमहानट नाटय प्रसादम् ॥

8354

कटूनामिह सार्थत्वात् कामं भवति संग्रहः ।
तथापि वृत्तिर्न तथा रसज्ञानुमतिक्षमा ॥

8355

कटौ न कलमेखला न कुचमण्डले मालिका दृशोरपि न चाञ्जनं न पुनरस्ति रागोऽधरे ।
प्रियेण सहचारिणा मदनतस्करस्योच्चकैस् ततस् त्वमसि लुण्ठिता निधुवने वने शोभने ॥
कटुस्वरस्त्वं पिकभूत् तथापि श्लाघ्योऽसि सम्यक् पिकपुत्रपालात् ।
आह्लादनाच्चन्द्र इवात्तलक्ष्मा कस्तूरिका गन्धभृतेव कृष्णा ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc