महासुभाषितसंग्रह · श्लोक 8316-8335
ककुभि ककुभि ध्वान्तक्षुब्धं वितत्य विधाय च श्रुतिपुटभिदो गर्जाः श्रेयः कृतं परमम्बुदैः ।
कथमितरथा जातोद्वेगः समुज्झितपल्वलः कनककमलोत्तंसे हंसः स नन्दति मानसे ॥
ककुभि ककुभि भ्रान्त्वा भ्रान्त्वा विलोक्य विलोकितं मलयजसमो दृष्टोऽस्माभिर्न कोऽपि महीरुहः ।
उपचितरसो दाहे च्छेदे शिलातलघर्षणे- ऽप्यधिकमधिकं यत् सौरभ्यं तनोति मनोहरम् ॥
कक्षे किं मितपुस्तकं किमुदकं (किं) काव्यसारोदकं दीर्घं किं यदि ताडपत्रलिखितं किं चात्र गौडाक्षरम् ।
गन्धः किं यदि रामरावणकथासंग्रामगन्धो महत् किं वारं बहु जल्पसे शृणु सखे नाम्ना पुराणो झषः ॥
कङ्कगृध्रसृगालेषु दंशेषु मशकेषु च ।
पन्नगेषु च जायन्ते नराः क्रोधपरायणाः ॥
कङ्कहंसशशादानां मत्स्यादक्रौञ्चकेकिनाम् ।
गृध्राणां कुक्कुटानां च पक्षा एतेषु शोभनाः ॥
कङ्केलिरेष किमचेतन एव सत्यं नम्नः स्वयं न कुसुमानि ददाति यस् ते ।
धूर्तोऽथवा नमति नायमुदस्तबाहु- व्यक्तोन्नतस्तनतटान्तदिदृक्षयेव ॥
कचकुचचुबुकाग्रे पाणिषु व्यापृतेषु प्रथमजलधिपुत्रीसंगमेऽनङ्गधाम्नि ।
ग्रथितनिबिडनीवीबन्धनिर्मोचनार्थं चतुरधिककराशः पातु वश्चक्रपाणिः ॥
कचग्रहमनुग्रहं दशनखण्डनं मण्डनं दृगञ्जनमवञ्चनं मुखरसार्पणं तर्पणम् ।
नखार्दनमतर्दनं निबिडपीडनं क्रीडनं करोति रतिसङ्गमे मकरकेतनः कामिनाम् ॥
कचग्रहसमुल्लसत्कमलकोषपीडाजड- द्विरेफकलकूजितानुकृतसीत्कृतालंकृताः ।
जयन्ति सुरतोत्सवव्यतिकरे कुरङ्गीदृशां प्रमोदमदनिर्भरप्रणयचुम्बिनो विभ्रमाः ॥
कचग्रहोत्तानितमर्धकुड्मलं त्रपाचलत्तारकमन्दलोचनम् ।
बलाद्गृहीताधरवेदनाकुलं कदा पिबेयं ननु तत् प्रियामुखम् ॥
कचभारात् कुचभारः कुचभाराद् भीतिमेति कचभारः ।
कचकुचभाराज् जघनं कोऽयं चन्द्रानने चमत्कारः ॥
कचमूलबद्धपन्नग- निश्वासविषाग्निधूमहतमध्यम् ।
ऐशानमिव कपालं स्फुटलक्ष्मा स्फुरति शशिबिम्बम् ॥
कचा यूकावासा मुखमजिनबद्धास्थिनिचयम् कुचौ मांसग्रन्थी जठरमपि विष्ठादिधटिका ।
मलोत्सर्गे यन्त्रं जघनमबलायाः क्रमयुगं तदाधारस्थूणे तदिह किमु रागाय महताम् ॥
कचैरर्धच्छिन्नैः करनिहितरक्तैः कुचतटैर् नखोत्कृत्तैर्गण्डैरुपलहतिशीर्णैश्च निटिलैः ।
विदीर्णैराक्रन्दाद् विकलगदितैः कण्ठविवरैर् मनस्तक्ष्णोत्यन्तःपुरपरिजनानां स्थितिरियम् ॥
कच्चित् कान्तारभाजां भवति परिभवः कोऽपि शौवापदो वा प्रत्यूहेन क्रतूनां न खलु मखभुजो भुञ्जते वा हवींषि ।
कर्तुं वा कच्चिदन्तर्वसति वसुमतीदक्षिणः सप्ततन्तुर् यत्संप्राप्तोऽसि किं वा रघुकुलतपसामीदृशोऽयं विवर्तः ॥
कच्चित् पशव्यं निरुजं भूर्यम्बुतृणवीरुधम् ।
वृहद्वनं तदधुना यत्रास्से त्वं सुहृद्वृतः ॥
कच्चित् सहस्रान् मूर्खाणाम् एकमिच्छसि पण्डितम् ।
पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान् निःश्रेयसं महत् ॥
कच्चित् सौम्य प्रियसहचरी विद्युदालिङ्गति त्वाम् आविर्भूतप्रणयसुमुखाश्चातका वा भजन्ते ।
पौरस्त्यो वा सुखयति मरुत्साधुसंवाहनाभिर् विष्वग्बिभ्रत्सुरपतिधनुर्लक्ष्म लक्ष्मीं तनोति ॥
कच्चित् सौम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे प्रत्यादेशान्न खलु भवतो धीरतां तर्कयामि ।
निःशब्दोऽपि प्रदिशसि जलं याचितश् चातकेभ्यः प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ॥
कच्चिदर्थेन वा धर्मम् अर्थं धर्मेण वा पुनः ।
उभौ वा प्रीतिलोभेन कामेन न विबाधसे ॥
कच्चिदर्थं च धर्मं च कामं च जायतां वर ।
विभज्य काले कालज्ञ सर्वान् भरत सेवसे ॥
कच्छान्ववायजलधेरमृतांशुरन्यः प्रत्यर्थिवंशदहनः सुमना गुणज्ञः ।
विद्याप्रियो नयपरो मतिमान् वदान्यः मीवारभूपतिरुदेतु यशो वितन्वन् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0