भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 8296-8315

8296

कः पुष्पजातिं सुरभिं विधत्ते कश्चन्दनं वै शिशिरीकरोति ।
कः प्रार्थयेद् भानुमिह प्रकाशे साधुस् तथा स्वेन परोपकारी ॥

8297

कः पूज्यः सद्वृत्तः कमधममाचक्षते चलितवृत्तम् ।
केन जितं जगदेतत् सत्यतितिक्षावता पुंसा ॥

8298

कः पूज्यः, सुजनत्वमेति कतमः, क्व स्थीयते पण्डितैः श्रीमत्या शिवया च केन भुवने युद्धं कृतं दारुणम् ।
किं वाञ्छन्ति सदा जना, युवजना ध्यायन्ति किं मानसे मत्प्रश्नोत्तरमध्यमाक्षरपदं भूयात् तवाशीर्वचः ॥
कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम् ।
अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु ॥

8299

कः प्रसूते पूरोवातं कः प्रेरयति वारिदम् ।
प्राप्ते तु श्रावणे मासि भवत्येकार्णवं जगत् ॥

8300

कः प्राज्ञो वाञ्छति स्नेहं वेश्यासु सिकतासु च ।
विमुच्यते वा भवता वस्तुधर्मोऽयमीदृशः ॥

8301

कः प्रार्थितोऽपि दास्यति तृणतुषपरिमाणमात्रमप्यधिकम् ।
अन्तर्ललाटसंपुट- विकटाक्षरमालिकां मुक्त्वा ॥

8302

कः प्रार्थ्यते मदनविह्वलया युवत्या भाति क्व पुण्ड्रकमुपैति कथं बतायुः ।
क्वानादरो भवति, केन च राजतेऽब्जं बाह्यास्थि किं फलमुदाहर नालिकेरम् ॥

8303

कः शक्रः कतमः स्रष्टा वराकः कतमो यमः ।
सत्यव्रतानां भूपानां कर्तुं शासनलङ्घनम् ॥

8304

कः शमः क्रियतां प्राज्ञाः प्रियाप्रीतौ परिश्रमः ।
भस्मीभूतस्य भूतस्य पुनरागमनं कुतः ॥

8305

कः श्रद्धास्यति भूतार्थं सर्वो मां तुलयिष्यति ।
शङ्कनीया हि लोकेऽस्मिन् निष्प्रतापा दरिद्रता ॥

8306

कः श्लाघनीयजन्मा माघनिशीथेऽपि यस्य सौभाग्यम् ।
प्रालेयानिलदीर्घः कथयति काञ्चीनिनादोऽयम् ॥

8307

कः स्यादम्बुदयाचको, युवतयः कं कामयन्ते पतिं लज्जा केन निवार्यते, निकटके दासे कथं यावनी ।
भाषा दर्शयतेति वस्तुषु महाराष्ट्रे कदा वा भवेद् आद्यान्ताक्षरयोर्हि लोपरचनाचातुर्यतः पूर्यताम् ॥

8308

कः स्वभावगभीराणां लक्षयेद् बहिरापदम् ।
बालापत्येन भृत्येन यदि सा न प्रकाश्यते ॥

8309

क आत्मा कः परो वात्र स्वीयः पारक्य एव वा ।
स्वपराभिनिवेशेन विना ज्ञानेन देहिनाम् ॥

8310

क आलिप्तः प्रियः कोऽस्याः कं ध्यायति कमीक्षते ।
इति चिन्ता न यस्यासीत् स पूज्यः पण्ययोषिताम् ॥

8311

... ...
क ईप्सितार्थस्थिरनिश्चयं मनः
पयश्च निम्नाभिमुखं प्रतीपयेत् ॥

8312

क एकस्त्वं पुष्पायुध मम समाधिव्ययविधौ सुपर्वाणः सर्वे यदि कुसुमशस्त्रास् तदपि किम् ।
इतीवैनान् नूनं य इह सुमनोस्त्रत्वमनयत् स वः शास्ता शस्त्रं दिशतु दशदिङ्मारविजयी ॥

8313

ककुभकरीरावेक- त्र संयुतौ ककुभबिल्वौ वा ।
हस्तत्रयेऽम्बु पश्चान् नरैर्भवत्येकविंशत्या ॥

8314

ककुभस्य फलं पुष्पं लाक्षा श्रीवासगुग्गुलू ।
श्वेतापराजितामूलं विडङ्गान्वितसर्षपाः ॥

8315

ककुभां मुखानि सहसोज्ज्वलयन् दधदाकुलत्वमधिकं रतये ।
अदिदीपदिन्दुरपरो दहनः कुसुमेषुमत्रिनयनप्रभवः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc