भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 8276-8295

8276

कंसं ध्वंसयते मुरं तिरयते हंसं तथा हिंसते बाणं क्षीणयते बकं लघयते पौण्ड्रं तथा लुम्पते ।
भौमं क्षामयते बलाद् बलभिदो दर्पं पराकुर्वते क्लिष्टं शिष्टगणं प्रणम्रमवते कृष्णाय तुभ्यं नमः ॥

8277

कंसारातेर्वद गमनं केन स्यात् कस्मिन् दृष्टिं संलभते स्वल्पेच्छुः ।
कं सर्वेषां शुभकरमूचुर्धीराः किं कुर्यास् त्वं सुजन सशोकं लोकम् ॥

8278

कंसारिचरणोद्भूतसिन्धुकल्लोललालितम् ।
मन्ये हंस मनो नीरे कुल्यानां रमते कथम् ॥

8279

कंसो रावणो रामश्च राजा दुर्योधनस् तथा ।
चत्वारोऽपि महामूर्खाः पञ्चमः शालिवाहनः ॥

8280

कः कं शक्तो रक्षितुं मृत्युकाले रज्जुच्छेदे के घटं धारयन्ति ।
एवं लोकस् तुल्यधर्मो वनानां काले काले छिद्यते रुह्यते च ॥

8281

कः कः कुत्र न घुर्घुरायितघुरीघोरो घुरेत् सूकरः कः कः कं कमलाकरं विकमलं कर्तुं करी नोद्यतः ।
के के कानि वनान्यरण्यमहिषा नोन्मूलयेयुर्यतः सिंहीस्नेहविलासबद्धवसतिः पञ्चाननो वर्तते ॥

8282

कः कण्टकानां प्रकरोति तैक्ष्ण्यं विचित्रभावं मृगपक्षिणां च ।
माधुर्यमिक्षौ कटुतां च निम्बे स्वभावतः सर्वमिदं हि सिद्धम् ॥

8283

कः कर्णारिपिता गिरीन्द्रतनया कस्य प्रिया कस्य तुक् को जानाति परेङ्गितं विषमगुः कुत्रोदभूत् कामिनाम् ।
भार्या कस्य विदेहजा तुदति का भौमेऽह्नि निन्द्यश्च कस् तत्प्रत्युत्तरमध्यमाक्षरपदं सर्वार्थसंपत्करम् ॥

8284

कः कस्य पुरुषो बन्धुः किमाप्यं कस्य केनचित् ।
यदेको जायते जन्तुर् एक एव विनश्यति ॥

8285

तस्मान् माता पिता चेति राम सज्जेत यो नरः ।
उन्मत्त इव स ज्ञेयो नास्ति कश्चिद्धि कस्यचित् ॥

8286

कः कान्तारमगात् पितुर्वचनतः संश्लिष्य कण्ठस्थलीं कामी किं कुरुते च गृध्रहठतश्छिन्नं प्ररूढं च किम् ।
का रक्षः कुलकालरात्रिरभवच् चन्द्रातपं द्वेष्टि को रामश्चुम्बति रावणस्य वदनं सीतावियोगातुरः ॥

8287

कः कालः कानि मित्राणि को देशः कौ व्ययागमौ ।
कश्चाहं का च मे शक्तिर् इति चिन्त्यं मुहुर्मुहुः ॥

8288

कः कुर्याद् भुवनं सर्वं कः समुन्मूलयेद् द्रुमान् ।
किं प्रतीके भवेन् मुख्यं कः परत्रैति पुण्यताम् ॥

8289

कः कोपः कः प्रणयो नटविटहतमस्तकासु वेश्यासु ।
रजकशिलातलसदृशं यासां जघनं च वदनं च ॥

8290

कः कौ के कं कौ कान् हसति च हसतो हसन्ति हरिणाक्ष्या ।
अधरः पल्लवमङ्घ्री हंसौ कुन्दस्य कोरकान् दन्ताः ॥

8291

कः खे गच्छति का रम्या का जप्या किं विभूषणम् ।
को वन्द्यः कीदृशी लङ्का वीरमर्कटकम्पिता ॥

8292

कः खे चरति कः शब्दं चोरं दृष्ट्वा करोति च ।
कैरवाणामरिः को वा कोपानामालयश्च कः ॥

8293

कः खे भाति, हतो निशाचरपतिः केनाम्बुधौ मज्जति कः, कीदृक् तरुणीविलासगमनं, को नाम राज्ञां प्रियः ।
पत्रं किं नृपतेः, किमप्सु ललितं, को रामरामाहरो मत्प्रश्नोत्तरमध्यमाक्षरपदं यत् तत् तवाशीर्वचः ॥

8294

कः परेतनगरीपुरंदरः को भवेदथ तदीयकिंकरः ।
कृष्णनाम जगदेकमङ्गलं कण्ठपीठमुररीकरोति चेत् ॥

8295

कः पश्यति खुरमहसः संमुखमपि तेजसां सहस्रस्य ।
कलितं शशभृद्धाम्नो यो मण्डलखण्डनं सहते ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc