भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 8256-8275

8256

और्वा इवातिलुब्धा भवन्ति धनलवणवारिबहुतृष्णाः ।
तृणलवमिव निजदेहं त्यजन्ति लेशं न वित्तस्य ॥

8257

औषधं मूढवैद्यानां त्यजन्तु ज्वरपीडिताः ।
परसंसर्गसंसक्तं कलत्रमिव साधवः ॥

8258

औषधानां च मन्त्राणां बुद्धेश्चैव महात्मनाम् ।
असाध्यं नास्ति लोकेऽत्र किंचिद् ब्रह्माण्डमध्यगम् ॥

8259

औषधानि च मन्त्राणि नक्षत्रं शकुनं ग्रहाः ।
भाग्यकाले प्रसन्नाः स्युर् अभाग्ये निष्फलाश् च ते ॥

8260

औषधान्यगदो विद्या दैवी च विविधा स्थितिः ।
तपसैव प्रसिध्यन्ति तपस् तेषां हि साधनम् ॥

8261

औषधायापि यो मर्त्यो मध्वस्यति विचेतनः ।
कुयोनौ जायते सोऽपि किं पुनस् तत्र लोलुपः ॥

8262

औषसातपभयादपलीनं वासरच्छविविरामपटीयः ।
संनिपत्य शनकैरथ निम्नाद् अन्धकारमुदवाप समानि ॥

8263

औष्ण्यं तथा विक्रमं च सौम्यं दण्डं प्रसन्नताम् ।
धारयन्ति महात्मानो राजानः प्रायशो भुवि ॥
तस्मात् सर्वास्ववस्थासु मान्याः पूज्याश् च पार्थिवाः ॥

8264

औष्मायमाणनवयौवनमुग्धभावाः शृङ्गारसागरमनोज्ञतरङ्गलेखाः ।
कन्दर्पकेलिरसलब्धयशःपताकाः पण्याङ्गनाः पुरमिमामधिवासयन्ति ॥

8265

कंचन वञ्चनचतुरे प्रपञ्चय त्वं मुरान्तके मानम् ।
बहुवल्लभे हि पुरुषे दाक्षिण्यं दुःखमुद्वहति ॥

8266

कंचित् कालं नय गिरिगुहागह्वरे रे मुधैव क्रीडन् हालाहलरसलसद्दर्प मा सर्प ! सर्प ।
माद्यन्नुद्यत्सजलजलदव्याकुले मेघकाले येन प्राप्तो वनविहरणोत्कण्ठया नीलकण्ठः ॥

8267

कंचित् क्षणं ननु सहस्व विमुञ्च वासो जागर्त्ययं परिजनो धिगपत्रपोऽसि ।
एषोऽञ्जलिः शमय दीपमिति प्रियाया वाचो रतादपि परां मुदमावहन्ति ॥

8268

कंचिदेव समयं समागतं त्वां न विस्मरति शश्वदम्बुजम् ।
मानसे विहर हंस मानसे मा विमुञ्च पुनरस्य सौहृदम् ॥

8269

कंजानना कम्जपरागपुञ्ज- गुञ्जन्मिलिन्दावलिकुन्तलश्रीः ।
विद्वद्द्विजाक्रान्तमुखान्तराला ज्योतिर्विदार्या तटिनीव भाति ॥

8270

कं न स्पृशन्ति पुरुषं व्यसनानि काले को वा निरन्तरसुखी य इहास्ति लोके ।
दुःखं सुखं च परिणामवशादुपैति नक्षत्रचक्रमिव खे परिवर्तमानम् ॥

8271

कं पृच्छामः सुराः स्वर्गे निवसामो वयं भुवि ।
किं वा काव्यरसः स्वादुः किं वा स्वादीयसी सुधा ॥

8272

कं प्रति कथयितुमीशे संप्रति को वा प्रतीतिमायातु ।
गोपतितनयाकुञ्जे गोपवधूटीविटं ब्रह्म ॥

8273

कं योजयन् मनुजोऽर्थं लभेत निपातयन् नष्टदृशं हि गर्ते ।
एवं नराणां विषयस्पृहा च निपातयन् निरये त्वन्धकूपे ॥

8274

कं विशेषमवलम्ब्य योषितः प्रेयसे भजसि वर्चसे भुवम् ।
त्यागहेतुरपि तुल्य एव ते सापि सापि मलमोचनस्थली ॥

8275

कं संजघान कृष्णः का शीतलवाहिनी गङ्गा ।
के दारपोषणरताः कं बलवन्तं न बाधते शीतम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc