महासुभाषितसंग्रह · श्लोक 8236-8255
सौभाग्यरूपपरिहासगुणानुराग- संकीर्तनेन दयितस्य च लब्धसौख्यम् ।
संबन्धिमित्रमुखदर्शनदत्तदूर- तोषं परोक्षमपि कामगुणेङ्गितं स्यात् ॥
ओष्ठे बिम्बफलाशयालमलकेषूत्पाकजम्बूधिया कर्णालंकृतिभाजि दाडिमफलभ्रान्त्या च शोणे मणौ ।
निष्पत्त्या सकृदुत्पलच्छददृशामात्तक्लमानां मरौ राजन् गूर्जरराजपञ्जरशुकैः सद्यस्तृषा मूर्च्छितम् ॥
औचित्यं स्तुत्यानां गुणरागश् चन्दनादिलेपानाम् ।
कन्या शोककराणां बुद्धिविहीनोऽनुकम्प्यानाम् ॥
औचित्यप्रच्युताचारो युक्त्या स्वार्थं न साधयेत् ।
व्याजबालिवधेनैव रामकीर्तिः कलङ्किता ॥
औचित्यमेकमेकत्र गुणानां राशिरेकतः ।
विषायते गुणग्राम औचित्यपरिवर्जितः ॥
औज्झि प्रियाङ्गैर्घृणयैव रूक्षा न वारिदुर्गात् तु वराटकस्य ।
न कण्टकैरावरणाच् च कान्तिर् धूलीभृता काञ्चनकेतकस्य ॥
औत्सुक्यगर्भा भ्रमतीव दृष्टिः पर्याकुलं क्वापि मनः प्रयाति ।
वियुज्यमानस्य गुणान्वितेन निरन्तरप्रेमवता जनेन ॥
औत्सुक्यमात्रमवसादयति प्रतिष्ठा क्लिश्नाति लब्धपरिपालनवृत्तिरेव ।
नातिश्रमापनयनाय यथा श्रमाय राज्यं स्वहस्तधृतदण्डमिवातपत्रम् ॥
औत्सुक्यहेतुं विवृणोषि न त्वं तत्त्वावबोधैकरसो न तर्कः ।
तथापि रम्भोरु करोमि लक्ष्यम् आत्मानमेषां परिदेवितानाम् ॥
औत्सुक्यात् परिमिलतां त्रपया संकोचमञ्चतां च मुहुः ।
नवसंगमयोर्यूनोर् नयनानामुत्सवो जयति ॥
औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना ह्रिया तैस् तैर्बन्धुवधूजनस्य वचनैर्नीताभिमुख्यं पुनः ।
दृष्ट्वाग्रे वरमात्तसाध्वसरसा गौरी नवे सङ्गमे संरोहत्पुलका हरेण हसता श्लिष्टा शिवायास्तु वः ॥
औदार्यं दाक्षिण्यं पापजुगुप्सा च निर्मलो बोधः ।
लिङ्गानि धर्मसिद्धेः प्रायेण जनप्रियत्वं च ॥
औदार्यं भुवनत्रयेऽपि विदितं संभूतिरम्भोनिधेर् वासो नन्दनकानने परिमलो गीर्वाणचेतोहरः ।
एवं दातृगुरोर्गुणाः सुरतरोः सर्वेऽपि लोकोत्तराः स्यादर्थिप्रवरार्थितार्पणविधावेको विवेको यदि ॥
औदार्यं सधने नयो गुणिजने लज्जा कुलस्त्रीजने सत्काव्यं वदने मदो द्विरदने पुंस्कोकिलः कानने ।
रोलम्बः कमले नखाङ्करचना कान्ताकपोलस्थले तन्वी तल्पतले भवानपि विभो भूमण्डले मण्डनम् ॥
औदासीन्यं दयालूनाम् अर्थिनां भाग्यहीनता ।
नहि स्वमुखवैरूप्यं दर्पणस्यापराधतः ॥
औदुम्बराणि पुष्पाणि श्वेतवर्णं च वायसम् ।
मत्स्यपादं जले पश्येन् न नारीहृदयस्थितम् ॥
औन्नत्यं भवतः सुमेरुशिखरोच्छ्रायोपमां गाहते व्याप्तिस् ते गिरिराजमूलमहिमन्यायेन निर्णीयते ।
एकस्यापि न किंतु चातकशिशोः पूर्त्त्यै पयो वर्तते वन्ध्यापीनपयोधरोपमतया बुद्धोऽसि पाथोधर ॥
औरसं मैत्रसंबद्धं तथा वंशक्रमागतम् ।
रक्षितं व्यसनेभ्यश्च मित्रं ज्ञेयं चतुर्विधम् ॥
औरसानपि पुत्रान् हि त्यजन्त्यहितकारिणः ।
समर्थान् संप्रगृह्णन्ति जनानपि नराधिपाः ॥
औरसीं भगिनीं वापि भार्यां वाप्यनुजस्य यः ।
प्रचरेत नरः कामात् तस्य दण्डो वधः स्मृतः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0