महासुभाषितसंग्रह · श्लोक 8216-8235
ऐश्वर्येऽपि क्षमा यस्य दारिद्र्येऽपि हितैषिता ।
आपत्तावपि धीरत्वं दधतो मर्त्यता कथम् ॥
ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे ।
रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति ॥
ऐहलौकिकपारत्र्यं कर्म पुंभिर्निषेव्यते ।
कर्माण्यपि तु कल्याणि लभते काममास्थितः ॥
ऐहलौकिकमीहन्ते मांसशोणितवर्धनम् ।
पारलौकिककार्येषु प्रसुप्ताभृशनास्तिकाः ॥
ऐहिकामुष्मिकान् कामांल् लोभमोहात्मकांश्च यान् ।
निरुध्यास् ते सदा योगी प्राप्तिः स्यात् सार्वकामिकी ॥
ओंकारः पुरुषः पूर्वः व्याहृतिः प्रकृतिः स्त्रियः ।
उभयोः करसंयोगे वस्त्रेणाच्छादयेन् नरः ॥
ओंकारशब्दो विप्राणां यस्य राष्ट्रे प्रवर्तते ।
स राजा हि भवेद् योगी व्याधिभिश्च न पीड्यते ॥
ओंकाराः कुसुमायुधोपनिषदां मन्त्रानुवादः स्मर- स्वाध्यायस्य रतेः पुनर्भवविधौ गन्धाभिरामश्रुतिः ।
चित्ताकर्षणसाध्यसिद्धिरसतीनेत्रस्य कर्णज्वरः पान्थानां सहकारकाननसुधासेकः पिकानां ध्वनिः ॥
ओंकारे सत्प्रदीपे मृगय गृहपतिं सूक्ष्ममेकान्तरस्थं संयम्य द्वारवाहं पवनमविरतं नायकं चेन्द्रियाणाम् ।
वाग्जालं कस्य हेतोर्वितरसि हि गिरां दृश्यते नैव किंचिद् देहस्थं पश्य नाथं भ्रमसि किमपरे शास्त्रमोहान्धकारे ॥
ओंकारो मदनद्विजस्य गगनक्रोडैकदंष्ट्राङ्कुरस् तारामौक्तिकशुक्तिरन्धतमसस्तम्बेरमस्याङ्कुशः ।
शृङ्गारार्गलकुञ्चिका विरहिणीमानच्छिदा कर्तरी संध्यावारवधूनखक्षतिरियं चान्द्री कला राजते ॥
ओंकारो यस्य कन्दः सलिलमुपनिषन् न्यायजालं मृणालं ब्रह्माण्डं यस्य काण्डं प्रसरति परितो यस्य यागः परागः ।
भृङ्गध्वानः पुराणं विजनसुरधुनीतीरवासोऽधिवासो यस्यानन्दो मरन्दः पुरहरचरणाम्भोरुहं तद् भजामः ॥
ओं नमः परमार्थैकरूपाय परमात्मने ।
स्वेच्छावभासितासत्यभेदभिन्नाय शंभवे ॥
ओं ह्रौं शिखास्थाने शंकराय नमः ।
ओं ह्रौं बाह्वोः केशवाय नमः ।
ओं ह्रौं नाभिमध्ये ब्रह्मणे नमः ।
ओं ह्रौं जङ्घयोर्गणपतये नमः ।
ओघवाताहृतं बीजं यस्य क्षेत्रे प्ररोहति ।
क्षेत्रिकस्यैव तद् बीजं न बीजी लभते फलम् ॥
ओजसापि खलु नूनमनूनं नासहायमुपयाति जयश्रीः ।
यद् विभुः शशिमयूखसखः सन्न् आददे विजयि चापमनङ्गः ॥
ओजोभाजां यद् रणे संस्थितानाम् आदत् तीव्रं सार्धमङ्गेन नूनम् ।
ज्वालाव्याजादुद्वमन्ती तदन्तस्- तेजस्तारं दीप्तजिह्वा ववाशे ॥
ओमित्येतत्परं ब्रह्म श्रुतीनां मुखमक्षरम् ।
प्रसीदतु सतां स्वान्तेष्व् एकं त्रिपुरुषीमयम् ॥
ओषामासे मत्सरोत्पातवाता- श्लिष्यद्दन्तक्ष्मारुहां घर्षणोत्थैः ।
यौगान्तैर्वा वह्निभिर्वारणानाम् उच्चैर्मूर्धव्योम्नि नक्षत्रमाला ॥
ओष्ठपल्लवविदंशरुचीनां हृद्यतामुपययौ रमणानाम् ।
फुल्ललोचनविनीलसरोजैर् अङ्गनास्यचषकैर्मधुवारः ॥
ओष्ठाग्रं स्फुरतीक्षणे विचलतः कूपोदरे मत्स्यवद् धम्मिल्लः कुसुमाञ्चितो विगलितः प्राप्नोति बन्धं पुनः ।
प्रच्छन्नौ व्रजतः स्तनौ प्रकटतां श्रोणीतटं दृश्यते नीवी च स्खलति स्थितापि सुदृढं कामेङ्गितं योषिताम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0