महासुभाषितसंग्रह · श्लोक 8196-8215
ऐरावणन्ति करिणः फणिनोऽप्यशेषाः शेषन्ति हन्त विहगा अपि हंसितारः ।
नीलोत्पलानि कुमुदन्ति च सर्वशैलाः कैलासितुं व्यवसिता भवतो यशोभिः ॥
ऐरावणाननमदाम्बुकणावपात- संसक्ततामरसरेणुपिशङ्गिताङ्गः ।
चण्डानिलाहततुषारविशीर्णपक्षः क्षीणः क्षितौ मधुकरो विवशोऽत्र शेते ॥
ऐरावणे सुरवधूपरिगीयमान- युष्मद्यशःश्रवणनिश्चलकर्णताले ।
निर्विघ्नमापिबति भृङ्गकुलं मदाम्भः कल्याणमावहति कस्य न चेष्टितं ते ॥
ऐशान्यां पतनं दुष्टं विदिशोऽन्याश्च शोभनाः ।
हर्षपुष्टिकराश्चैव सिद्धिदाः शस्त्रकर्मणि ॥
ऐशान्यां संप्राप्तिर् घृतपूर्णानां भवेदनडुहश्च ।
एवं फलं गृहपतेर् गृहपृष्ठसमाश्रिते भवति ॥
ऐश्वर्यं नहुषस्य शंभुविषयश्रद्धा दशास्यस्य सा शौर्यं श्रीरघुनायकस्य सहजं गाम्भीर्यमम्भोनिधेः ।
दातृत्वं बलिकर्णयोरिह जगत्येकत्र चेत् स्यात् तदा श्रीवीरक्षितिपालमौलिनृपतेः साम्यं कथंचिद् भवेत् ॥
ऐश्वर्यतिमिरं चक्षुः पश्यच्चापि न पश्यति ।
पश्चाद् विमलतां याति दारिद्र्यगुलिकाञ्जनैः ॥
ऐश्वर्यधनरत्नानां प्रत्यमित्रेऽपि तिष्ठताम् ।
दृष्टा हि पुनरावृत्तिर् जीवतामिति नः श्रुतम् ॥
ऐश्वर्यमत्तः पापिष्ठो मधुपानमदादपि ।
ऐश्वर्यमदमत्तानां गतिरूर्ध्वा न विद्यते ॥
ऐश्वर्यमदपापिष्ठा मदाः पानमदादयः ।
एश्वर्यमदमत्तो हि नापतित्वा विबुध्यते ॥
ऐश्वर्यमदमत्तांश्च मत्तान् मद्यमदेन च ।
अप्रमत्ताः शठाः शूरा विक्रान्ताः पर्युपासते ॥
ऐश्वर्यमदमत्तानां क्षुधितानां च कामिनाम् ।
अहंकारविमूढानां विवेको नैव जायते ॥
ऐश्वर्यमध्रुवं प्राप्य ध्रुवधर्मे मतिं कुरु ।
क्षणादेव विनाशिन्यः सम्पदोऽप्यात्मना सह ॥
ऐश्वर्यमल्पमेत्य प्रायेण हि दुर्जनो भवति मानी ।
सुमहत्प्राप्यैश्वर्यं प्रशमं प्रतिपद्यते सुजनः ॥
ऐश्वर्यमव्याहतमावहन्तु हेरम्बपादाम्बुजपांसवो नः ।
ये निर्वहन्ति श्रुतिसुन्दरीणां सीमन्तसिन्दूरपरागलक्ष्मीम् ॥
ऐश्वर्यमीर्ष्या नैर्घृण्यं क्षीबत्वं निर्विवेकता ।
एकैकं किं न यत् कुर्यात् पञ्चाङ्गित्वे तु का कथा ॥
ऐश्वर्यवन्तोऽपि हि निर्धनास् ते व्यर्थश्रमा जीवितमात्रसाराः ।
कृता न लोभोपहृतात्मभिर्यैः सुहृत्स्वयंग्राहविभूषणा श्रीः ॥
ऐश्वर्यस्य परा काष्ठा यत्र नित्यं विभाव्यते ।
धनदः स न केषां स्यात् स्पृहणीयगुणोदयः ॥
ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो ज्ञानस्योपशमः शमस्य विनयो वित्तस्य पात्रे व्ययः ।
अक्रोधस् तपसः क्षमा प्रभवितुर्धर्मस्य निर्व्याजता सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् ॥
ऐश्वर्यात् सह संबन्धं न कुर्याच् च कदाचन ।
गते च गौरवं नास्ति आगते च धनक्षयः ॥
ऐश्वर्यादनपेतमीश्वरमयं लोकोऽर्थतः सेवते तं गच्छन्त्यनु ये विपत्तिषु पुनस् ते तत्प्रतिष्ठाशया ।
भर्तुर्ये प्रलयेऽपि पूर्वसुकृतासङ्गेन निःसङ्गया भक्त्या कार्यधुरं वहन्ति कृतिनस् ते दुर्लभास्त्वादृशाः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0