महासुभाषितसंग्रह · श्लोक 8116-8135
एष तूड्डमरवीचिडम्बरः क्षोभमात्रमगमत् पयोनिधिः ।
विभ्रमैस् तदुदयक्रमोचितैर् उल्ललास ललनासु मन्मथः ॥
एष दुर्नियतिदण्डचण्डिम- प्रेरितो बत रविर्गतच्छविः ।
स्थास्यति स्वयमधःपतन् कियत्- कालमम्बरविलम्बिभिः करैः ॥
एष धर्मस्तु सुश्रोणि पितुर्मातुश्च वश्यता ।
अतश्चाज्ञां व्यतिक्रम्य नाहं जीवितुमुत्सहे ॥
एष धर्मो मयाख्यातो नारीणां परमा गतिः ।
या नारी कुरुते चान्यत् सा याति नरकं ध्रुवम् ॥
एष बकः सहसैव विपन्नः शाठ्यमहो क्व नु तद् गतमस्य ।
साधु कृतान्तक कश्चिदपि त्वां वञ्चयितुं न कुतोऽपि समर्थः ॥
एष ब्रह्मा सरोजे रजनिकरकलाशेखरः शंकरोऽयं दोर्भिर्दैत्यान्तकोऽसौ सधनुरसिगदाचक्रचिह्नैश् चतुर्भिः ।
एषोऽप्यैरावतस्थस् त्रिदशपतिरमी देवि देवास् तथान्ये नृत्यन्ति व्योम्नि चैताश् चलचरणरणन्नूपुरा दिव्यनार्यः ॥
एष भो निर्मलज्योत्स्नो राहुणा ग्रस्यते शशी ।
जलं कूलावपातेन प्रसन्नं कलुषायते ॥
एष रविस् तेजस्वी खद्योतोऽप्येष हन्त तेजस्वी ।
एष रसालः शाखी शाखी शाखोटकोऽप्येषः ॥
एष राज्ञां परो धर्मो ह्यार्तानामार्तिनिग्रहः ।
... ... ... ... ... ... ॥
एष वन्ध्यासुतो याति खपुष्पकृतशेखरः ।
मृगतृष्णाम्भसि स्नातः शशशृङ्गधनुर्धरः ॥
एष विशेषः स्पष्टो वह्नेश्च त्वत्प्रतापवह्नेश्च ।
अङ्कुरति तेन दग्धं दग्धस्यानेन नोद्भवो भूयः ॥
एष वृक्षशिखरे कृतास्पदो जातरूपरसगौरमण्डलः ।
हीयमानमहरत्ययातपं पीवरोरु पिबतीव बर्हिणः ॥
एष षट्पदयुवा मदायतः कुन्द यापयति यामिनीस् त्वयि ।
दुर्वहा तदपि नापचीयते पद्मिनीविरहवेदना हृदि ॥
एष सान्द्रतिमिरे गगनान्ते वारिणीव मलिने यमुनायाः ।
भाति पक्षपुटगोपितचञ्चू राजहंस इव शीतमयूखः ॥
एष सूर्यांशुसंतप्तो मृगः कुतरुमाश्रितः ।
साधुर्भाग्यपरिक्षीणो नीचं प्राप्येव सीदति ॥
एष स्वभावो नारीणाम् अनुभूय पुरा सुखम् ।
अल्पामप्यापदं प्राप्य दुष्यन्ति प्रजहत्यपि ॥
एष स्वर्गतरङ्गिणीजलमिलद्दिग्दन्तिदन्तद्युतिर् भ्रश्यद्राजतकुम्भविभ्रमधरः शीतांशुरभ्युद्यतः ।
हंसीयत्यमलाम्बुजीयति लसड्डिण्डीरपिण्डीयति स्फारस्फाटिककुण्डलीयति दिशामानन्दकन्दीयति ॥
एष हि प्रथमो धर्मः क्षत्रियस्याभिषेचनम् ।
येन शक्यं महाप्राज्ञ प्रजानां परिपालनम् ॥
एषां गोपवधूविलाससुहृदां राधारहःसाक्षिणां भद्रं भद्र कलिन्दशैलतनयातीरे लताशाखिनाम् ।
विच्छिन्ने स्मरतल्पकल्पनविधिच्छेदाय योगेऽधुना ते जाने जरठीभवन्ति विलसन्नीलत्विषः पल्लवैः ॥
एषां पल्लवमंशुकानि कुसुमं मुक्ताः फलं विद्रुमं वैडूर्यं दलमङ्कुरो मरतकं हैमं च शाखाशतम् ।
एते के जगतीरुहो वनजुषाप्यज्ञातपूर्वा मया प्रायः सारममी दिवो विटपिनः किं तैर्ममान्यो भरः ॥
एषा का जघनस्थली सुललिता प्रोन्मत्तकामाधिका भ्रूभङ्गं कुटिलं त्वनङ्गधनुषः प्रख्यं प्रभाचन्द्रवत् ।
राकाचन्द्रकपोलपङ्कजमुखी क्षामोदरी सुन्दरी वेणीदण्डमिदं विभाति तुलितं वेल्लद्भुजं गच्छति ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0